SearchBrowseAboutContactDonate
Page Preview
Page 915
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६०६ सिद्धान्तकौमुदी [तद्धिते स्वार्थिक (२०५६) बस्ते ५।३।१०१॥ इवे इत्यनुवर्तत एव । 'प्रतिकृती' इति निवृत्तम् । वस्तिरिव बास्तेयम् - बास्तेयो। (२०:७) शिलायाः ढः ५।३।०२॥ शिलेव शिलेयम् । योगविभागात् ढअपीत्येके । शैलेयम् । (२०१८) शाखा. दिभ्यो यः ५।३।१०३॥ शाखेव शाख्यः। मुख्यः। जघनमिव जघन्यः । अप्रयः । शरण्यः । (२०५४) द्रव्यं च भव्ये ५।३।१०४॥ द्रव्यम् अयं ब्राह्मणः । (२०६०) कुशाग्राच्छः ५३।१०५॥ कुशाग्रमिव कुशाग्रीया बुद्धिः । ( २०६ ) समासाच्च तद्विषयात् ५।३।१०६। इवार्थविषयात्स. त्यर्थः । 'इवे प्रतिकृतौ' इति कनो लुप् । एवं हंसपथः । अत्र वृत्तौ पठितम् 'अर्चासु पूजनार्थासु चित्रकर्मध्वजेषु च। . इवे प्रतिकृती लोपः कनो देवपथादिषुः ॥ इति । अर्चाः प्रतिमाः । पूजार्थासु तासु चित्रकर्मसु ध्वजेषु देवपथादिगणपठितेषु इवे प्रतिकृतौ इति विहितस्य कनो लुबित्यर्थः । तद्राजस्यः इति सूत्रे कैयटोऽप्येतं श्लोक पपाठ। अर्चासु यथा-शिवो विष्णुर्गणपतिरित्यादि । चित्रकर्मसु यथारावणः कुम्भकर्णः इन्द्रजिदित्यादि । ध्वजेषु यथा-कपिः गरुडः वृषभ इत्यादि । वस्तेढ । निवृत्तमिति । अस्वरितत्वादिति भावः । 'सज्ञायां च' इत्यादिपूर्वसूत्रेषु कापि प्रतिकृतावित्यस्यानिवृत्तेः न लुम्विधिषु तेषु तदनुवृत्तिरपेक्षिता। बस्तिरिवेति । 'वस्ति भेरधो द्वयोः' इत्यमरः। शिलाया ढः। इवे इत्येव । शिलेव शिलैयमिति । दध्यादोति शेषः । योगेति । शिलाया इत्येको योगः । ढजित्यनुवर्तते, इवे इति च । शैलेयमिति । मित्वादादिवृद्धिः, स्त्रियां, डीप च फलम् । ढः इति द्वितीयो योगः। शिलाया इत्यनुवर्तते । उक्तोऽर्थः । शाखादिभ्यो यः । यत् इति त्वपपाठः । तैत्तिरीये 'मुख्यो भवति' इत्यादौ मुख्यशब्दस्य। आधुदात्तत्वदर्शनात् , उगवादिसूत्रमा. ज्यविरुद्धत्वाच्च । द्रव्यं च भव्ये । द्रुशब्दादिवार्थवृत्तेः । यप्रत्ययो निपात्यते भव्ये उपमेये गम्ये । 'भव्य आत्मवान् । अभिप्रेतानामर्थानां पात्रभूतः, इति वृत्तिः। द्रव्यम् । अयमिति । द्रः वृक्षः, सः यथा पुष्पफलादिभाक् एवमभिमतफलपात्रभूत इत्यर्थः । यद्वा तुः कल्प. वृक्षोऽन्न विवक्षितः, स इव अभिमताथभागित्यर्थः । यप्रत्यये ओर्गुणः अवादेशः । कुशाग्राछः । इवे इत्येव । कुशाग्रमिवेति । सूक्ष्मत्वेन सादृश्यम्। कुशाग्रवत् सूक्ष्मेत्यर्थः। समासाच्च । तच्छब्देन प्रकृतः इवार्थः परामृश्यते । तदाह-इवार्थविषयादिति । इवार्थः सादृश्यमुपमानापमेयभावात्मकम् , तद्विषयकादित्यर्थः । सादृश्यवदर्थबोध. कात् समासादिति यावत् । यद्यपि घनश्याम इति समासोऽपि सादृश्यवदथबोधकः, For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy