________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २७ ]
बालमनोरमासहिता ।
यकारादेरियादेशः स्यात् ञिति णिति किति च तद्धिते परे । इति इयादेशे प्राप्ते । (१२४५) दाण्डिनायन हास्तिनायनाथर्वणिकजैह्माशिनेयवाशिनायनिभ्रौणहत्यधैवत्यसारवैश्वाकमैत्रेयहिरण्मयानि ६ |४| १७४ ॥ एतानि निपाश्यन्ते । इति युलोपः । मैत्रेयः । मैत्रेयी ( ११४६ ) यस्कादिभ्यो गोत्रे २ |४| ६३ ॥ एभ्योऽपत्य प्रत्ययस्य लुक्स्यात्तत्कृते बहुत्वे, न तु स्त्रियाम् । मित्रयवः ।
७०१
मित्रयोर्भाव इत्यर्थे 'गोत्रचरणात्' इति वुञ् । प्रलयादागतं प्रालेयम् । अणू । अत्र सर्वत्र यादेरियादेशः इत्युदाहरणानि । प्राप्ते इति । मित्रयोरपत्ये ढनि एयादेशे मिश्रयु एय इति स्थिते ओर्गुणं बाधित्वा यु इत्यस्य इयादेशे सति आद्गुणे मैत्रेयेय इति . प्राप्ते सतीत्यर्थः ।
दांण्डिनायन । एतानि निपात्यन्ते इति । दण्डिनो हस्तिनश्चापत्यं दाण्डिनायनः हास्तिनायनः । नडादित्वात्फक् । निपातनाट्टिलोपो न । अथर्वणा प्रोक्तो ग्रन्थः उपचारादथव । तमधीते आधर्वणिकः । वसन्तादित्वात् ठक् । निपातनान्न टिलोपः । जिह्मा शिनोऽपत्यं जैह्माशिनेयः । शुभ्रादित्वाड्ढक् । निपातनान्न टिलोपः । वाशिनोऽपत्यं वाशिनायनिः । 'उदीचां वृद्धात्' इति फिञ् । निपातनान्न टिलोपः । भ्रूणहन्,
वन् एतयोर्भावे ष्यञ् । नकारस्य तकारश्च निपात्यते । नच 'हनस्तोऽचिण्णलो " -इत्यनेनैव तकारः सिद्ध इति शङ्खयम् धातोः कार्यमुच्यमानं तस्प्रत्यये भवति' इति परिभाषया 'हस्तः' इति तत्वस्य धातुविहितप्रत्यये पर एव प्रवृत्तेः । इदमेव तकारनिपातनमस्य परिभाषायां ज्ञापकमिति 'मृजेर्वृद्धि:' इत्यत्र भाष्ये स्पष्टम् । तेन वार्त्रघ्नमित्यत्र तत्वं न । सरय्वां भवं सारवम् उदकम् । अणि यू इत्यस्य व इत्यादेशो निपात्यते । इक्ष्वाकोरपत्यमैक्ष्वाकः । जनपदशब्दात्क्षत्रियादन् । उकारलोपो निपात्यते । बहुत्वे तु तद्राजत्वाल्लुक् । इक्ष्वाकवः । इक्ष्वाकुषु जनपदेषु भवोऽप्यैक्ष्वाकः । कोपधादण् । उकारलोपश्च । सूत्रे ऐक्ष्वाकेत्यत्र अणन्तयोर्ग्रहणम् । बहुत्वे तद्राजत्वादो लुक् । अणस्तु नेति विशेषः । हिरण्यस्य विकारो हिरण्मयः । मयटि णकाराद्यकाराकारयोर्लोपः । इति युलोप इति । मित्रयु एय । इति स्थिते यु इत्यस्य लोपो निपातनादिति भावः । मैत्रेयीति 'टिड्ढाणञ्' इति ङीप् ।
1
यस्कादिभ्यो गोत्रे । नेदं सूत्रमपत्याधिकारस्थम्, किन्तु द्वैतीयीकम् । अतो गोत्रशब्देन प्रवराध्यायप्रसिद्धमेव गोत्रमिह विवक्षितम्, 'अपत्याधिकादारादन्यत्र लौकिकमेव गोत्रं गृह्यते' इति 'यूनि लुक्' 'स्त्रीपुंसाभ्याम् इत्यादिसूत्रभाष्ये सिद्धान्तितत्वात् । 'व्यक्षस्त्रियार्ष' इत्यतो लुगित्यनुवर्तते । 'तद्राजस्य बहुषु तेनैवास्त्रियाम्' इति सूत्रं तद्राजवर्जमनुवर्तते । तदाह - एम्योऽवश्य प्रत्ययस्येति । मित्रयव इति ।
For Private and Personal Use Only