________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८ ]
बालमनोरमासहिता ।
५३३
अजात्या किम् । भोज्य ओदनः । प्रतिषेधसामर्थ्याद्विशेषणसमासोऽपि न । (७५०) वर्णो वर्णेन २|१|६६ ॥ समानाधिकरणेन सह प्राग्वत् । कृष्णसारङ्गः ( ७५१) कडाराः कर्मधारये २|२|३८|| कडारादयः शब्दाः कर्मधारये वा पूर्वं प्रयोज्याः । कडारजैमिनिः । जैमिनिकडारः । ( ७५२) कुमारः श्रमणादिभिः २|१|७० ॥ कुमारी श्रमणा कुमारश्रमणा । इह गणे श्रमणा प्रत्रजिता गर्भिणीत्यादयः स्त्रीलिङ्गाः पठ्यन्ते । लिङ्गविशिष्टपरिभाषाया एतदेव ज्ञापकं बोध्यम् । ( ७५३) चतुष्पादो गर्भिण्या २२११७१ ॥ चतुष्पाजातिवाचिनो गर्मिणीशब्देन सह प्राग्वत् । गोगर्भिणी । ' चतुष्पाज्जातिरिति वक्तव्यम्'
स्वादिति भावः । भोज्य श्रोदन इति । अत्र ओदनशब्दस्य जातिवाचित्वात्तेनायं समासो न भवतीत्यर्थः । नन्वेतत्समासाभावेऽपि विशेषणसमासो दुर्वार इत्यत आहप्रतिषेधेति । भोज्यशब्दपूर्वनिपातस्योभयत्राप्यविशिष्टतया 'अजात्या' इति पर्युदासवैयर्थ्यादिति भावः ।
वर्णो । शेषपूरणेन सूत्रं व्याचष्टे - समानाधिकरणेनेति । वर्णवाचिना समानाधिकरणेन वर्णवाची समस्यते स तत्पुरुष इत्यर्थः । कृष्णसारङ्ग इति । सारङ्गश्चित्रवर्णवान् । कृष्णशब्दः कृष्णावयवके लाक्षणिक इति सामानाधिकरण्यम् । कृष्णश्चासौ सारङ्गश्चेति विग्रहः । विशेषणसमासेन सिद्धे इदं प्रपञ्चार्थमेव । यत्तु 'वर्णो वर्णेष्वनेते इति स्वरविधौ प्रतिपदोक्तत्वादस्यैव ग्रहणार्थमिदम् । तेन सारङ्गस्यावयवः कृष्णः सारङ्गकृष्ण इत्यत्र 'वर्णो वर्णेषु' इति स्वरो नेति, तञ्चिन्त्यम्, कर्मधारयस्वर प्रकरणे 'वर्णो वर्णेष्वनेते' इति सूत्रस्य पाठेनैव सिद्धेरिति दिक् । कडाराः कर्मधारये । 'उपसजैनं पूर्वम्' इत्यतः पूर्वमित्यनुवर्तते । कढाराः इति बहुवचननिर्देशात्तदादिग्रहणम् । तदाह - कडारादय इति । ' उपसर्जनं पूर्वम्" इति नित्ये प्राप्ते विकल्पोऽयम् । कडार. जैमिनिरिति । कडारश्चासौ जैमिनिश्चेति विग्रहः । कुमारः श्रमणादिभिः । कुमारशब्दश्रमणादिभिः समानाधिकरणैः समस्यते स तत्पुरुष इत्यर्थः । कुमारी श्रमणा कुमार• श्रमणेति । 'पुंवत्कर्मधारय' इति पुंवस्वम् । श्रमणा परित्यक्तसर्वसङ्गा । ननु सूत्रे कुमारशब्दस्य पुंलिङ्गस्यैव पाठात् कथमिह स्त्रीलिङ्गस्योदाहरणमित्यत आह - इहेति । ननु गणे स्त्रीलिङ्गानामेव पाठे सूत्रस्य कथं तेषु प्रवृत्तिः । नच लिङ्गविशिष्टपरिभाषयेति वाच्यम्, तत्सद्भावे प्रमाणाभावादित्यत आह-लिङ्गेति । एतदेवेति । एतदपीत्यर्थः, 'युवा खलति' इति सूत्रे जरतीग्रहणस्यापि तज्ज्ञापकत्वात् । न हि युवन्शब्दस्य जरतीसामानाधिकरण्यमस्ति । चतुष्पादो गर्भिण्या | 'आतिग्रहणं कर्तव्यम्' इति वार्तिकमभिप्रेत्याह- चतुष्पाज्जातीति । गोगर्भिणीति । गर्भिणी चासौ गौश्चेति विग्रहः ।
For Private and Personal Use Only