SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८० सिद्धान्तकौमुदी [स्त्रीप्रत्यय - य उपधायाः ६४।१४६॥ अङ्गस्योपधायाः यस्य लोपः स्यात्स चेद्यः सूर्याद्यवयवः । 'मत्स्यस्य याम्' (वा ४१९८)। सूर्यागस्त्ययोश्छे च यो च' (वा ४१९९) । तिष्यपुष्ययोर्नक्षत्राणि यलोप इति वाच्यम्' (वा ४२००) । मत्सी । 'मातरि षिच्च' (वा २७१०) इति षित्त्वादेव सिद्धे गौरादिषु मातामहीशब्दपाठा. दनित्यः पिता की । दंष्ट्रा । (५००) जानपदकुण्डगोणस्थलभाजनाग. कालनीलकुशकामुककबरावृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु४।१।४२॥ एभ्य एकादशभ्यः प्राति. रादिरित्यर्थः । 'पिप्पल्यादेरवान्तरगणत्वे प्रयोजनं चिन्त्यम् । __ मत्स्यशब्दात् गौरादित्वात् डीपि विशेष दर्शयितुमाह-सूर्यतिष्यागस्त्य । हे लोपोऽकद्र वाः' इत्यतो लोप इत्यनुवर्तते । य इति षष्ठी अङ्गस्येत्यधिकृतमवयवषष्ट्यन्तम् , तच्च उपधायामन्वेति । अङ्गस्य उपधाभूतो यो यकारः तस्य लोपः स्यादिति लभ्यते । सूर्यतिष्यागस्त्यमत्स्यानामित्यप्यवयवषष्टयन्तं यकारेऽन्वेति, न त्वङ्गविशेषणम् । तदाह -अङ्गस्येत्यादिना । मत्स्यस्य ड्यामिति । तेनेह न, मत्स्यस्येदं मात्स्यम् ।। सूर्यागस्त्ययोश्छे च ङयां चेति सूरीयः । सूरी । अगस्तीयः । अगस्ती । नेह, सौर्यम् । आगस्त्यम् । तिष्येति । 'नक्षत्रेण युक्तः काल:', 'सन्धिवेलायतुनक्षत्रेऽभ्योऽण' इति च विहिते नक्षत्रसम्बन्धिनि अणि परतः तिष्यपुष्ययोर्यलोप इत्यर्थः। तत्र तिष्यस्य यलोपो नियम्यते । पुष्यस्य त्वप्राप्तो विधीयते । तिष्येण युक्तः पूर्णमासः, तिष्ये भवो वा तैषः । एवं पोषः । नेह-तिष्यस्य पुष्यस्य वाऽयं तैष्यः, । पौष्यः। मत्सीति । मस्यशब्दात् गारादिङीषि यलोपः, 'यस्येति च' इत्यकारलोपः। मनु 'पितृव्यमातु. लमातामहपितामहाः' इति सूत्रे मातुः पिता पितुः पितेति विग्रहे मातृपितभ्यां डामहचि टिलोपे मातामहपितामहशब्दौ निपातितौ। तत्र मातुर्माता पितुर्मातेति विग्रहे डामहचः पित्वं विहितम्-'मातरि षिच्च' इति । ततश्च षित्त्वविधानादेव डीसिद्धेः गौरादिषु मातामहीशब्दपाठो न कर्तव्यः । नच 'मातरि षिच्च' इति न क्रियतामिति वाच्यम् , पितामहीत्यत्र डीषर्थ तस्यावश्यकत्वादित्यत आह-मातरीति । दं ट्रेति । दंशेः 'दाम्नीशस' इति करणे ष्ट्रन् । अत्र षित्त्वे सत्यपि न छीषिति भावः । सूर्यादीनामङ्गानामुपधाभूतस्य यकारस्य लोप इति तु न व्याख्यातम् । तथा सति सौरी बलाकेति न सिध्येत् । सूर्येणैकदिक् इत्यर्थे 'तेनैकदिक्' इत्यणि तदन्तात् हीपि अणन्तमङ्गम् , नतु सूर्यशब्द इति तदसिद्धिः । वचनं तु सूरी कुन्तीत्यत्र चरितार्थमित्यन्यत्र विस्तरः।। जानपद । जानपदेत्यादि कबरादित्यन्तमेकं पदम् । समाहारद्वन्द्वात् पश्चमी । For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy