Page #1
--------------------------------------------------------------------------
________________
श्रीवृद्धिचंद्रगुरुभ्यो नमः कलिकालसर्वज्ञ श्रीहेमचंद्राचार्य प्रणीतम्
योगशास्त्रम् (स्वोपज्ञ विवरण सहितम् )
श्रीमद्विजयधर्मसूरीश्वर सुशिष्य पंन्यास भक्तिविजय सदुपदेशात्
विविध धनिकदत्तार्थिकसाहाय्येन मुद्रापितम्-श्रीभावनगरस्थ श्रीजैनधर्मप्रसारकसभा कार्यवाहकेन.
वीर संवत् २४५२ भावनगर-धी आनंद प्रिन्टींग प्रेसमां शाह गुलाबचंद लल्लुभाइए छाप्यु.
संवत् १९८२
इस्वीसन १९२६
in Education International
For Personal & Private Use Only
Page #2
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
॥ १ ॥
***
08-06)
। आर्थिक साहाय्यकनामानि ।
१२५) शा. हरिचंद मीटाभाइ १०१) शा. लल्लुभाइ पदमशी १०१) शा. कल्याणजी माणेकचंद १०१) शा. माणेकचंद जेचंद (१००) भावसार आणंदजी भाणाभाइ ७५) शा. ताराचंद कस्तुरचंद
ह. अमृतलाल खुशालचंद ५१) शा. मोतीलाल जूठाभाइ ५१) शा. हरगोविंददास डाह्याभाई
५१) शा. मूळजीभाइ हंसराज ५१) शा. वीरचंद करशन ५०) शा. उमेदभाइ भूराभाइ ५०) शा. मोहनलाल करमचंद
भावनगर वळा
तळाजा
भावनगर
29
पंचासर
भावनगर
22
22
कामलोल
अमदावाद
33
५०) बेन मोंघी - शा. अमृतलाल पुरुषोत्तमनी पुत्री
२५) बेन रामबेन - आनंदजी पुरुषोत्तमनी पुत्री
२५) त्रण श्राविका. ह. बेन हरकोर
२५) शा. तलकचंद नारणजीनी विधवा वाइ मोतीबा
२५) वडवानी श्राविका. ह. भावमार त्रिभोवन प्रागजी
१२|| बाइ सूरज - शा. लल्लुभाइ आणंदजीनी विधवा
१०) शा. वस्ताचंद प्रागजी. ह. झवेरी हीराचंद कस्तुरचंद
भावनगर
22
१०७६ ॥
For Personal & Private Use Only
समी.
21
23
11
29
0.08+++******+****164-19. K
आर्थिक
साहाय्यकनामानि ।
॥ १ ॥
Page #3
--------------------------------------------------------------------------
________________
॥ प्रस्तावना॥
अवधारयन्तु धारणानिपुणा भव्याः । इह किल जन्मजराव्याधिमरणादिदुःखबहुले चातुर्गतिकसंसारे परिभ्रमन्तः सर्वे जीवाः सुखाभिलाषिण एव । तच्च सर्वकर्मक्षयेणानन्तचतुष्टयप्राप्तावेव लभ्यतेऽनैकान्तिकमव्याबाधं च । तत्प्राप्तिश्च जीवात्मनः परमात्मतादशायामेव । तल्लाभे च कारणतया चत्वार एवानुयोगा अनुयुक्तास्तीर्थकरादिभिराप्तैः-कथानुयोगो गणितानुयोगो द्रव्यानुयोगश्चरणकरणानुयोगश्चेति । तत्रापि चरणकरणानुयोगोऽनान्तरीयकं कारणं स्पष्टमेव " ज्ञानदर्शनचारित्राणि मोक्षमार्गः" "ज्ञानक्रियाभ्यां मोक्षः" इत्यादिवचनप्रामाण्यादनुयोगस्यास्य तद्विषयकत्वात् , अन्येषामनुयोगानामेतदर्थत्वाच्च । अत्र चानुयोगे बहूनि शास्त्राण्यागमात्समुध्धृत्य रचितानि रचनाचतुरैराचार्यवर्यैः स्वपरोपकारकरणैककर्मठैः तत्तद्विषयविशेषपोषकाणि, न हि विना प्रपञ्चप्रपश्चनेनानादिमिथ्यात्वकुवासनावासितान्त:करणा ऐदंयुगीना जीवा अल्पमेधासत्त्वायुष्मन्तः संक्षिप्तगभीरार्थागमवचनमात्रेण शक्या बोधयितुं सुबुद्धेनापीति । तत्रेदं शास्त्रं चरणकरणानुयोगेऽवतरति योगशास्त्रं योगस्य शास्त्रमिति कृत्वा । किंस्वरूपो योगः ? इत्यपेक्षायाम्
" चतुर्वर्गेऽग्रणीर्मोक्षो, योगस्तस्य च कारणम् । ज्ञानश्रद्धानचारित्ररूपं रत्नत्रयं च सः ॥ १५ ॥ इति प्रथमप्रकाश एव ग्रन्थप्रथितृभी रत्नत्रयस्वरूपो योगो मुख्यतया विवक्षितः । “ योगश्चित्तवृत्तिनिरोधः" इति
Latin Education internation
For Personal & Private Use Only
Page #4
--------------------------------------------------------------------------
________________
याग.
प्रस्तावना।
शास्त्रम्
॥ २
॥
(पातञ्जलयोग० पाद १ सूत्र २)। "संयोगं योगमित्याहुर्जीवात्मपरमात्मनोः" इति चान्यैरुक्तं योगलक्षणमप्यविरोधि । तथा-" यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि " (पात. पाद २ सू० २६ ) इत्यस्यापि ज्ञानदर्शनचारित्रेषु यथासंभवमन्तर्भावात्केषांचिञ्च देहारोग्याद्यर्थत्वादुपयुक्तत्वादत्र शास्त्रे निरूपणं कृतमस्तीति मूलग्रन्थ एव स्फुटीभविष्यति । पुरा किलानेके महर्षयो योगबलेन त्रिकालदर्शिनः जीवादिसूक्ष्मार्थानश्रद्दधानान् साक्षादिव दर्शितवन्तः, स्वं परांश्चाध्यात्मविषयास्वादमन्नान् कुर्वाणाः पुनर्जन्मादिविषये श्रद्धालून कृतवन्तः, किं बहुना ? स्वयं जन्मोदधिं तरन्तः परांश्च तारयन्तः परोपकारकरणैकबद्धकक्षास्ते स्वं जन्म कृतार्थितवन्तः । अधुना तु तादृग्विद्याद्यभावाद् धनकलत्रपुत्रादिप्राप्तिसाधनग़वेषकाः पाश्चिमात्यानार्यजनसंसर्गेण सांसारिकक्षणिकतुच्छबीभत्सविषयलोलुपाः मधुबिन्दुदृष्टान्तदाान्तिककल्पा जडविद्योपासका ज्ञानचक्षुर्विकला बाह्यवस्तुबद्धममताश्च नराभासाः पशुतुल्या निरर्थकमेव जन्म गमयन्तो बहवो दरीदृश्यन्ते इति शोचनीयमेतत् । अतो भव्यप्राणिनां महोपकारायैवैतदादिशास्त्राणि शासितवन्तो हितशासनैकनिपुणाः
शास्त्रस्यास्य प्रणेतारः श्रीहेमचन्द्रसूरिपादाः सुप्रसिद्धाः। ते च धंधुकानगरं स्वजनुषा पावितवन्तः संवत् ११४५ वर्षे कार्तिक्यां पूर्णिमायां स्थिरवासरे चाचश्रेष्ठिनो मोढान्वयस्य पाहिनीनाम्न्या गेहिन्याः कुक्षिभुवः चिन्तामणिस्वप्नसूचिताः चंगदेवनामानः । पञ्चवर्षीयाश्च बाल्यवयस एव संवत् ११५० वर्षे माघसितचतुर्दश्यां स्थिरवासरे श्रीदेवचन्द्रसूरिपादानां श्रीप्रद्युम्नसूरिशिष्याणमन्तिके प्रव्रज्यां गृहीतवन्तो गुरुदत्तसोमचन्द्रनामधारकाः । ततः संवत् ११६६ वर्षे वैशाखशुक्लतृतीयादिने सूरिपदारूढाः श्रीहेमचन्द्रनाम्ना प्रसिद्धिमागताः । अन्ते च संवत् १२२९ वर्षे
For Personal Private Use Only
॥
२
॥
Education tema
Page #5
--------------------------------------------------------------------------
________________
स्वारमणीरमणा जाताः, तथा हि "शरवेदेश्वरे ११४५ वर्षे कार्तिक पूर्णिमानिशि । जन्माभवत्प्रभोर्योमबाणशंभौ ११५० व्रतं तथा ॥ ८४८॥ रसपश्वर ११६६ सूरिप्रतिष्ठा समजायत । नन्दद्वयरवौ वर्षे १२२६ बसानमभवत प्रभोः ॥ ८४६ ॥" __इति सर्व प्रभावकचरितादवसीयते । स्वपरसर्वशास्त्रनदीष्णातैरेभिः प्रभुभिः अनेकार्थकोषा-नेकार्थशेषा-भिधानाचन्तामणि-अलङ्कारचूडामणि-उणादिसूत्रवृत्ति-काव्यानुशासन-छन्दोऽनुशासनवृत्ति-सटीकदेशीयनाममाला-सटीकद्वथाश्रयकाव्य-सटीकधातुपाठ-सटीकधातुपारायण-धातुमाला-नाममालाशेष-निघण्टुशेष-सटीकप्रमाणमीमांसा-बलाबलसूत्रबृहद्वृत्ति-बालभाषाव्याकरणसूत्रवृत्ति-विभ्रमसूत्र-सटीकलिङ्गानुशासन-सटीकशब्दानुशासन--शेषसङ्ग्रह-शेषसङ्ग्रहसारोद्वार-त्रिषष्टिशलाकापुरुषचरित्र-परिशिष्टपर्व-नाभेयनेमिद्विसन्धानमहाकाव्य-अहन्नीति-अन्ययोगव्यवच्छेदद्वात्रिंशिकाअयोगव्यवच्छेदद्वात्रिंशिका-वीतरागस्तोत्राद्यनेकग्रन्थाः काव्यालङ्कारकोषव्याकरणतर्काध्यात्मदर्शनसंबन्धिनानाविषया निबद्धाः प्रसिद्धा अप्रसिद्धाश्च दृश्यन्ते ।
इदं च योगशास्रस्यास्य रचने ऐतिचं-किलैकदा भुञ्जानस्य श्रीकुमारपालनृपतेर्भोज्यवस्तुसादृश्येन धर्मप्राप्तः पूर्व भुक्तस्य मांसस्य स्मरणे खिन्नस्य प्रायश्चित्तपदेऽस्य शास्त्रस्य द्वादश प्रकाशा वीतरागस्तवस्य विंशतिः प्रकाशाश्च द्वात्रिंशद्दन्तशुद्धिकृते समर्पिताः, तांश्च राजा प्रत्यहं गुणयामास । अपि चास्य शास्त्रस्य प्रान्ते “ श्रीचौलुक्यकुमारपालनृपतेरत्यर्थमभ्यर्थना-दाचार्येण निवेशिता पथि गिरां श्रीहेमचन्द्रेण सा ॥” इति स्पष्टाक्षरेण रचनाहेतुः प्रकटितः प्राप्तसाक्षात्सरस्वतीप्रसादैरेभिः।
sain Education interna
For Personal & Private Use Only
Page #6
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥ ३ ॥
Jain Education Intern
108-08-10→
- 1)+*306
सिद्धसूरिमन्त्राः कलिकालसर्वज्ञबिरुद्धारकाचेमेऽध्यात्मरसास्वादमग्नास्तथा बभूवुर्यथाऽऽधुनिका विद्वांसोऽपि तद्दर्शितपथं ज्ञातुमप्यसमर्था इत्येतद्ग्रन्थविलोकने स्पष्टं ज्ञायते, ईदृग्विद्योपदेशकगुरुवर्गाभावेन च शोचनीयं विद्वद्भिरित्यपि । तथापि “ यथाशक्ति शुभे यतनीयम् ” इतिन्यायादस्य शास्त्रस्य पठनपाठनादिविषय आत्महितेप्सुभिरत्यादरः कर्तव्यः, येनास्य संस्कारो जन्मान्तरेऽपि श्रेयःसाधनतामधिगच्छेत् ।
शास्त्रकर्त्राऽस्मिन् प्रन्थे द्वादश प्रकाशाः प्रकाशिताः । तत्राद्ये प्रकाशचतुष्के सविस्तृता टीका स्वेनैव कृताऽस्ति, प्रासङ्गिककथानकान्यपि नातिविस्तृतानि आगमानुसारीणि दर्शितानि यथास्थाने । उपरितनप्रकाशाष्टकेऽतीव संक्षिप्ता वृत्तिरपि स्वेनैव रचितास्ति |
तत्र प्रथमे प्रकाशे - मङ्गलपूर्वकं स्तुतिगर्भितमहावीरचरितं योगस्य स्वरूपं फलं माहात्म्यं च सदृष्टान्तम्, सम्यगृज्ञानदर्शनचारित्रस्वरूपं, सर्वविरतीनां मूलोत्तरगुणस्वरूपं, मार्गानुसारिश्रावकस्वरूपं च विस्तरेण कथितम् ।। १ । द्वितीये प्रकाशे – सम्यक्त्वमिध्यात्वयोः स्वरूपं पश्चाणुव्रतस्वरूपं च सविस्तरं प्रासङ्गिककथासहितं दर्शितम् ॥ २ ॥
च
तृतीये प्रकाशे - त्रयाणां गुणव्रतानां चतुर्णां शिक्षाव्रतानां च स्वरूपं तत्र भोगोपभोगत्रते भक्ष्याभक्ष्यादिस्वरूपं सयुक्तिकं सशाखं च दर्शितम् । तथा द्वादशानां व्रतानामतिचाराः, तत्रापि भोगोपभोगत्रतातिचारप्रसङ्गे पञ्चदशकर्मादानस्वरूपम्, महाश्रावकत्वस्वरूपं, सप्तक्षेत्रस्वरूपं, श्रावकदिनचर्यादिस्वरूपं, ईर्यापथिकी-नमुत्थुणं - अरिहंतचेइयाणंप्रमु
For Personal & Private Use Only
प्रस्तावना ।
॥ ३ ॥
Page #7
--------------------------------------------------------------------------
________________
Jain Education Internat
खसूत्राणामर्थः, गुरुवन्दन - देववन्दन - गुर्वाशातना - कायोत्सर्ग - प्रत्याख्यान - श्राद्धप्रतिमा - समाधिमरणादीनां स्वरूपमि - त्याद्यनेकविषया विवेचिताः सविस्तरं यथावसरं कथासहिताः ॥
चतुर्थे प्रकाशे – आत्मनो रत्नत्रयेण सहैक्यं, कषाय - इन्द्रिय- तद्विषयस्वरूपं मनः शुद्धिस्वरूपं, रागद्वेषस्वरूपं, तज्जयोपायः, द्वादशभावनास्वरूपं, ध्यानस्वरूपं, मैत्र्यादिभावनास्वरूपं पर्यङ्काद्यासनस्वरूपं फलसहितं, कायोत्सर्गस्वरूपं चेत्यादि निरूपितम् ॥
पञ्चमे प्रकाशे – प्राणायामस्वरूपं तत्र रेचकादीनां फलसहितं स्वरूपं, ध्यान-धारणा - भौमादिमण्डल - वायुप्रभृतीनां स्वरूपं, विविधप्रकारैः कालज्ञानादिस्वरूपं, परकायप्रवेशविद्या चेत्यादि विस्तृतम् ॥
षष्ठे प्रकाशे – परपुरप्रवेशस्यापरमार्थत्वं, ध्यान सिद्धौ प्राणायामे चित्तव्याक्षेपः, चित्तस्थैर्योपायचेत्यादि प्रकाशितम् ॥ सप्तमे प्रकाशे – ध्यानध्येयस्वरूपं, आग्नेय्यादिधारणास्वरूपं पिण्डस्थध्येयमाहात्म्यं चेत्यादि दर्शितम् ।।
अष्टमे प्रकाशे – पदस्थ ध्येयस्य लक्षणफले, पदमय्या देवतायाः स्वरूपं, प्रकारान्तरेण तत्स्वरूपं, मन्त्रराजफलमित्यादि ख्यापितम् ॥
नवमे प्रकाशे - रूपस्थध्येयद्वैविध्यं, तत्फलं चेत्यादि ॥
दशमे प्रकाशे - रूपातीत ध्येयस्वरूपं, आज्ञाविचयादिधर्मध्यानस्वरूपं श्रात्मसंवेद्यसुखखरूपं चेत्यादि || एकादशे प्रकाशे - शुक्लध्यान - घातिकर्म - तीर्थंकरातिशयादिस्वरूपम् ॥
For Personal & Private Use Only
-0-80108400-40
Page #8
--------------------------------------------------------------------------
________________
प्रस्तावना।
योग
शास्त्रम्
॥४
॥
द्वादशे प्रकाशे-योगिस्वरूपकथनपूर्वकमेतद्ग्रन्थरचनहेतुरित्यादिप्रदर्शनपुरस्सरं ग्रन्थसमाप्तिः ॥ अधिकजिज्ञासुना सविस्तरानुक्रमणिका विलोक्या ग्रन्थश्चैष एकाग्रचित्तेन हृदि धार्य इति प्रार्थना ।
अस्य शास्त्रस्य मुद्रापसे श्रीमद्विजयधर्मसूरीश्वरसुशिष्यपंन्यासश्रीभक्तिविजयसदुपदेशेन श्रीपाटणनिवासि-शेठकरमचन्दात्मजनगीनदासस्य अन्येषां च धनिकानामार्थिकसाहाय्येन संजातमतो विनामूल्येनाल्पमूल्येनापि इदं लभ्यते ग्राहकैः । ततश्च सर्वेषां धनदातृणां प्रयासकारिणां च प्रयासोऽयं फलेपहिः स्तात् ।
कृतेऽपि यथाशक्ति प्रयत्ने बुद्धिमान्द्यादिना क्वचिदशुद्धत्वं दृश्येतास्मिन् , तत्कृपालुभिर्विद्वद्भिः शोध्यं वयं च बोध्या येन पुन: समये यत्यते । इति शम् । शुभं भूयात् । संवत् १९८२ माघ कृष्णचतुर्दशी.
श्रीजैनधर्मप्रसारक सभा
भावनगर.
-
cocco
in Education International
For Personal & Private Use Only
Page #9
--------------------------------------------------------------------------
________________
। अनुक्रमणिका।
३५ २
प्रथमः प्रकाश: . विषयः
“पत्रं पृष्ठ १ मङ्गलम् - २ योगगर्भितमहावीरस्तुतिः ३ महावीरस्य समदृष्टिगर्भितं चरितम् २ ४ योगशास्त्र प्रस्तावः ५ योगमाहात्म्यम् ६ योगफलप्राप्तौ सनत्कुमारचक्रिचरितम् १० ७ लब्धिखरूपम् ८ योगमाहात्म्योपरि भरतचक्रिकथाऽऽदि
नाथचरितगर्भा ६ योगप्रभावोपरि मरुदेवादृष्टान्तः
३०२ १० योगमाहात्म्योपरि दृढप्रहारिकथा . ३११
- ११ योगश्रद्धावर्धनोपरि चिलातिपुत्रकथा
१२ योगस्तुतिः तल्लक्षणं च रत्नत्रयम् १३ सम्यग्ज्ञानस्वरूपम् १४ जीवादिनवतत्त्वस्वरूपम् १५ सम्यद्गर्शनलक्षणं तत्खरूपं च १६ सम्यक्चारित्रस्वरूपम् १७ महाव्रतरूपमूलगुणस्वरूपम् १८ महाव्रतानां भावनाः १६ उत्तरगुणरूपचारित्रस्वरूपम् २० पञ्चसमितिस्वरूपम् द्विचत्वारिंशद्भिक्षा
दोषाश्च २१ गुप्तित्रयस्वरूपम् २२ धर्माधिकारिश्रावकलक्षणम
Jain Education intent
For Personal & Private Use only.
Page #10
--------------------------------------------------------------------------
________________
योग
शास्रम्
॥ ५ ॥
(--) ) 4-18-1-**********
Jain Education t
द्वितीयः प्रकाशः
२३ द्वादशत्रतनामानि
२४ सम्यक्त्वस्वरूपम् २५ मिथ्यात्वस्वरूपम्
२६ सुदेवलक्षणम्
२७ कुदेवलक्षणम्
२८ सुगुरुलक्षणम्
२६ कुगुरुलक्षणम्
३० सद्धर्मलक्षणम् ३१ असद्धर्मलक्षणम्
३२ कुदेवादीनां प्रतिक्षेपः
३३ सम्यक्त्वलिङ्गपञ्चकम्
३४ सम्यक्त्वभूषणपञ्चकम्
३५ सम्यक्त्वदूषणपञ्चकम्
५७ १
५७ १
१८ १
१६१
६० २
६१ २
६२ १
६२ १
६३ १
६३ २
६३ २
६५ १
६६ १
३६ अणुव्रत स्वरूपम्, तद्भङ्गाश्व ३७ हिंसात्यागोपदेशः
३८ हिंसाकर्तुर्निन्दा
३६ हिंसोपरि सुभूमब्रह्मदत्तयोः कथा ४० पुनर्हिसाकर्तुर्निन्दा
४१ कुलक्रमागतहिंसात्यागे कालसौकरिक
पुत्रकथा
४२ हिंसाकर्तुर्दमादयो निरर्थकाः
४३ हिंसकशास्त्रनिरूपणम्
४४ हिंसाशास्त्रोपदेशक निन्दा
४५ श्राद्धीयहिंसाप्ररूपणम्
४६ अहिंस्रस्य स्तुतिः फलं च
४७ अहिंसाफलम्
४८ सत्यव्रतस्वरूपम्
४६ असत्यफलम्
For Personal & Private Use Only
६८ १
६६ २
७२ २
७२ २
६१ १
९१ १
९९२
६६ १
६७ १
६८ १
९९ २
९९२ १००१
१००२
1*t.x**+******+++*//0/-) (+1)*
अनुक्र
मणिका ।
॥५॥
Page #11
--------------------------------------------------------------------------
________________
५. असत्यस्यैहिकामुष्मिकफलम् १०१ २ ५१ सत्यासत्यविषये कालिकार्यवसुराजकथा १०१२ । ५२ परपीडाकारि सत्यमपि त्याज्यम् : १०५ १ ५३ तदुपरि कौशिककथा
१०५१ ५४ असत्यवादिनिन्दा सत्यवादिस्तुतिश्च १०६ १ ५५ अचौर्यव्रतस्वरूपम्
१०७ १ ५६ हिंसातोऽपि चौर्यस्य बहुदोषत्वम् १०७ २ ५७ चौर्ये मण्डिकस्याचौर्ये च रौहिणेयस्य
६४ परस्त्रीरमणेच्छायामपि दोषास्तदुपरि
रावणकथा १२५ २ ६५ परस्त्रीविरतसुदर्शनकथा
१३४ १ ६६ मैथुनासक्तस्त्रीपुंसयोरुपदेशः फलं च १४०१ ६७ ब्रह्मचर्यस्योभयलोकफलम् १४०२ ६८ परिग्रहस्वरूपम्
१४२१ ६९ परिग्रहदोषाः ७० परिग्रहोपरि सगर-कुचिकर्ण-तिलक-नन्दकथामकानि
१४५ १ ७१ संतोषोपरि अभयकुमारकथा १४८२ ७२ संतोषस्तुतिः
तृतीयः प्रकाशः ७३ गुणव्रतविषये दिग्विरतिनामप्रथमगुणव्रतम् १५६ २ ७४ दिग्विरतेः फलम्
१५६ २ ७५ द्वितीयं भोगोपभोगगुणव्रतम् १५७ २
कथा
१२० २
१२१ १
५८ चौर्यनिवृत्तस्य फलम् ५९ ब्रह्मव्रतस्वरूपम् । ६. मैथुनदोषाः ६१ स्त्रियाः दोषाः ६२ वेश्यादोषाः ६३ परदारगमनदोषाः
१२३ २ १२४.२ ।
Latin Education inte
For Personal & Private Use Only
Page #12
--------------------------------------------------------------------------
________________
योगशास्त्रम्
अनुक्रमणिका।
७६ भोगे वय॑वस्तूनि १५८ १ ९१ प्रमादवर्जनोपदेशः
१७३२ ७७ मदिरादोषाः
६२ सामायिकं नाम प्रथमं शिक्षाव्रतम् १७५ १ ७८ मांसदोषाः
१५९ २
६३ सामायिकात्कर्मनिर्जरा चन्द्रावतंसकक७६ मांसभक्षणं न दोषायेति मतनिरासः १६११
थासहिता
१७७ १ ८० नवनीतभक्षणदोषाः
९४ देशावकाशिकं द्वितीयं शिक्षाव्रतम् १७७ २ ८१ मधुभक्षणदोषाः
१६४ २ १५ पौषधं तृतीयं शिक्षाव्रतम् १७८१ ८२ पञ्चोदुम्बरदोषाः
१६५ २ ९६ पौषधोपरि चुलनीपितुः कथा १७८२ ८३ अनन्तकायस्वरूपम्
९७ अतिथिसंविभागः चतुर्थ शिक्षाप्रतम् १८० २ ८४ अज्ञातफलवर्जनम्
१६६२ ९८ सुपात्रदानोपरि सङ्गमककथा १८५ १ ८५ रात्रिभोजननिषेधः
१६६ २ ६९ अतिचारस्वरूपम्
१८६१ ८६ आमगोरससंपृक्तद्विदलादिभोजननिषेधः १७११ । १०० प्रथमत्रतातिचाराः
१८९ २ ८७ जन्तुमिश्रफलपुष्पादिभक्षणनिषेधः १७१ २ १०१ द्वितीयव्रतातिचाराः
१९१ १ ८८ तृतीयं गुणव्रतमनर्थदण्डः
१७१ २ १०२ तृतीयव्रतातिचाराः
१९२१ ८९ दुनिवर्जनोपदेशः १७३१ १०३ चतुर्थव्रतातिचाराः
१९२ २ ६. पापोपदेशवनम् १७३ १ । १०४ पञ्चमव्रतातिचाराः
१९४२
॥६
in Education inte
For Personal & Private Use Only
Page #13
--------------------------------------------------------------------------
________________
२१६१ २१६ २
له
سه
م
१०५ प्रथमगुणव्रतस्यातिचाराः १०६ द्वितीयगुणव्रतस्यातिचाराः १०७ पञ्चदशकर्मादानस्वरूपम्
१६७ १ १०८ तृतीयगुणव्रतस्यातिचाराः २००२ १०६. प्रथमशिक्षाव्रतस्यातिचाराः २०१२ ११० द्वितीयशिक्षाव्रतस्यातिचाराः २०२२ १११ तृतीयशिक्षाव्रतस्यातिचाराः २०३ २ ११२ चतुर्थशिक्षाव्रतस्यातिचाराः ११३ महाश्रावकलक्षणम् सप्तक्षेत्रस्वरूपं च २०४ | ११४ महाश्रावकदिनचर्या
२१०१ ११५ चैत्यपूजाप्रवेशविधिः
२११ १ * ११६ जिनवन्दनविधिः ११७ ईर्यापथिकीसूत्रार्थः
२१३ १ ११८ तस्स उत्तरीकरणेणंसूत्रार्थः २१४ १ ११९ कायोत्सर्गसुत्रार्थः
२१४ २
१२. उत्कृष्टादित्रिबिधवन्दना १२१ नमोत्युणसूत्रार्थः १२२ अरिहंतचेइआणंसूत्रार्थः १२३ लोगस्ससूत्रार्थः
२२४ १२४ पुक्खरवरदीवड्ढे सूत्रार्थः २२८ १२५ सिद्धाणं बुद्धाणं सूत्रार्थः १२६ जयवीयरायसूत्रार्थः १२७ गुरुवन्दनविधिः १२८ मध्याह्नपूजा
२३४ १२६ सायंकालपूजा १३० पञ्चविंशतिरावश्यकानि
२३५ २ १३१ द्वात्रिंशद्दोषाः गुरुवन्दने २३५ २ १३२ गुरुवन्दने शिष्यस्य षडभिलापाः २३७ २ १३३ गुरुवन्दन (इच्छामि खमासमण-)
सूत्रार्थः
or morroronarror
له سه
२१२ २
]
२३७२
in Education International
For Personal & Private Use Only
Page #14
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
॥ ७ ॥
***..*.*.*+++
Jain Education Internation
१३४ गुरोस्त्रयस्त्रिंशदाशातनाः
१३५ प्रतिक्रमणशब्दार्थः
१३६ प्रतिक्रणमविधिः
१३७ कायोत्सर्गविधिः
१३८ कायोत्सर्गे एकविंशतिर्दोषाः
१३६ प्रत्याख्यानस्वरूपम्
१४० रात्रिकृत्यम्
१४१ योषिदङ्गविचारणे स्थूलभद्रकथा
१४२ स्त्रीशरीरस्वरूपम्
१४३ व्रतपालनोपरि कामदेवकथा
१४४ उच्च मनोरथचिन्तनम्
१४५ श्रावकस्यैकादश प्रतिमाः
१४६ समाधिमरणोपरि आनन्द श्रावककथा
१४७ श्रावकस्योतरा गतिः
२४२ २
२४७ १
२४७ २
२५० १
२५० २
२५१ १
२५८ १
२५८ २
२६६ १
२६७ २
२६६२
२७१ २
२७३ १
२७७ २
चतुर्थः प्रकाशः
१४८५ आत्मनो रत्नत्रयेण सहैकत्वम्
१४९ आत्मज्ञानस्तुतिः
१५० कषायस्वरूपम्
१५१ इन्द्रियस्वरूपम्
१५२ मनः शुद्धिस्वरूपम्
१५३ मनः शुद्धि विना तपसोऽफलत्वम्
१५४ लेश्या स्वरूपम्
१५५ रागद्वेषयोर्दुर्जयत्वम्
१९६ रागादिजयोपायः
१५७ समताप्रभावः
१५८ द्वादश भावनाः
१५६ साम्यफलम्
१६० ध्यानस्वरूपम्
१६१ मैत्र्यादिभावनाचतुष्टयम
For Personal & Private Use Only
२७८ २
२७६ १
२८० १
२८७ २
२००१
२६१२
२९२ २
२९४ १
२६४ २
२६६ १
२९७ १
出下
2-1-14-06
airle
अनु
क्रमणिका ।
३३४ १
३३५ १
३३५ २ ॥७॥
Page #15
--------------------------------------------------------------------------
________________
Jain Education Intera
१६२ ध्यानसाधनस्थानम १६३ पर्यङ्काद्यासनानि १६४ कायोत्सर्गः
पञ्चमः प्रकाशः
१६५ प्राणायामस्वरूपम्
१६६ रेचकादित्रैविध्यं प्राणायामस्य
१६७ प्रकारान्तरेण प्राणायामस्य सप्तधात्वम् १६८ रेचकादिविधिः
१६९ रेचकादीनां फलम्
१७० प्राणस्य स्थानादीनि
१७१ गमागमप्रयोगः धारणं च
१७२ अपान - समानो - दानवायुस्वरूपम्
१७३ व्यानस्य स्वरूपम्
१७४ ध्यातव्यबीजानि
१७५ प्राणादिजयस्य फलम्
२३७ २
३३८ १
३३९ १
३४१ १
३४१ २
३४२ १
३४२ १
३४२ २
३४३ १
३४३ १
३४३ १
३४३ २
३४४ १
३४४ १
१७६ धारणादिविधि:
१७७ धारणाफलम्
१७८ पवनचेष्टितम्
१७९ चारादिज्ञानफलम्
१८० भौमादिमण्डलचतुष्कम् १८१ वायोः पुरन्दरादिचातुर्विध्यम् १८२ वायुज्ञानोपयोगः
१८३ कार्यमुद्दिश्य वायुफलम्
१८४ नाडीस्वरूपं तत्फलं च
१८९ लक्षणान्तरेण कालज्ञानम्
१६० प्रकारान्तरेण कालज्ञानम्
३४४ २
३४५ १
३४५ १
३४५ २ ३४६ १
१८५ काल ( मरण ) ज्ञानम्
३४८ २
१८६ मृत्युकालनिश्चयाय नेत्रादिबाह्यलक्षणम् ३५४ १ १८७ प्रकारान्तरेण कालज्ञानम् १८८ स्वप्नेन कालज्ञानम्
For Personal & Private Use Only
३४६ २
३४७ १
३४७ १
३४७ २
३५५ २
३५७ २
३५७ २
३५८ २
प्रहर
Page #16
--------------------------------------------------------------------------
________________
यारा
अनु
३६४ २ ३६५ १
शास्त्रम्
॥८॥
१९१ शकुनद्वारेण कालज्ञानम् १९२ आतुरशकुनेन कालज्ञानम् १६३ उपश्रुत्वा कालज्ञानम् १९४ शनैश्वरपुरुषेण कालज्ञानम् १९५ प्रश्नलग्नानुसारेण कालज्ञानम् १९६ मेषादिराशिषु लग्नाधिपतयः १९७ यन्त्रद्वारेण कालज्ञानम् १९८ विद्यया कालज्ञानम् १९९ जयपराजयज्ञानोपायः २०० प्रकारान्तरेण कालज्ञानम् २०१ पवननिश्चयोपायः २०२ बिन्दुनिरीक्षणोपायः २०३ बिन्दुज्ञानात् पवननिश्चयः २०४ अनिष्टनाडीविपरीतकरणोपायः २०५ नाडीशुद्धिः
१९९१ । २०६ नाडीसंचारज्ञाने फलम्
२०७ वेधविधिः ( परकायप्रवेशविधिः) ३५९ २
षष्ठः प्रकाशः २०८ परकायप्रवेशस्यापारमार्थिक्यम् ३६० २
२०६ प्राणायामस्य मोक्षं प्रति अहेतुत्वम् ३६० २
२१. प्रत्याहारस्वरूपम्
२११ धारणास्थानानि ३६१ २
२१२ धारणाफलम् ३६२ २
सप्तमः प्रकाश २१३ ध्यानविधित्सोः क्रमः ३६४१ २१४ ध्यातृस्वरूपम् ३६४ १ २१५ ध्येयस्वरूपम्
.२१६ धारणापञ्चकम्-पृथिवीधारणा २१७ आग्नेयीधारणा
३६६ १ ३६६ १ ३६६ २ ३६६ २
३६७ १
३६७ १
॥
८॥
in Education International
For Personal & Private Use Only
Page #17
--------------------------------------------------------------------------
________________
33K+X.
*0--03:18-03-2
२१८ वायवीधारणा
२१९ वारुणीधारणा
२२० तत्रभूधारणा
२२१ पिण्डस्थध्येयमाहात्म्यम्
अष्टमः प्रकाशः
२२२ पदस्थध्येयलक्षणम् २२३ पदस्थध्येयफलम् २२४ पदमयी ध्येयदेबता २२५ प्रकारान्तरेण पदमयी देवता
२२६ मन्त्रराजस्य ध्यानफलम् २२७ परमेष्ठिवाचका पदमयी देवता २२८ विविधप्रकारेण पदमयी देवता २२९ व्युष्टिसहितं मन्त्रान्तरम् २३० अस्या ध्याने फलम् २३१ प्रकारान्तरेण ध्यानम्
३६८ १
३६८ १
३६८ २
३६८ २
३६६ १
३६६ १
३६६ १
३७० १
३७० १
३७० २
३७१ २
३७२ २
३७३ १
३७३ २
नवमः प्रकाशः
२३२ रूपस्थं ध्येयम्
२३३ असध्ध्याननिरासः
दशमः प्रकाशः
२३४ रूपातीतं ध्येयम्
२३५ आज्ञाविचयध्यानम्
२३६ अपायविचयध्यानम्
२३७ विपाकविचयध्यानम्
२३८ संस्थानविचयध्यानम्
२३९ लोकध्यानम्
२४० धर्मध्यानम्
For Personal & Private Use Only
एकादशः प्रकाशः
२४१ शुक्लध्यानम् २४२ शुक्लध्यानाधिकारी
३७५ २
३७६ १
३७६ २
३७७ १
३७७ २
३७८ १
३७१ १ ३७९ १ ३७९ १
३८० १
३८० २
****--*******************tom
Page #18
--------------------------------------------------------------------------
________________
योगशास्त्रम्
३६११
२४३ शुक्लध्यानस्य भेदाश्चत्वारः ३८१ १ । २५५ योगिनो ध्यानस्वरूपम्
३९१ २४४ अमनस्कत्वेऽपि केवलिनो ध्यानसिद्धिः ३८२२ । २५६ बाह्यात्मा-न्तरात्म-परमात्मनां स्वरूपम्३९० १शकमाणका। २४५ शुक्लध्यानचतुष्टयस्य विस्तारः । ३८३ १ २५७ आत्मपरमात्मनोरक्यम्
३६० २ २४६ घातिकर्माणि
३८३ २ २५८ गुरुपारतन्त्र्यस्य गुणवत्ता ३९.२ २४७ तीर्थङ्करस्यातिशयाः
३८३ २ २५६ गुरूपदेशेन योगिनः कृत्यम् ३९१ १ २४८ सामान्यकेवलिस्वरूपम्
३८५ २ २६० औदासीन्यं तत्फलं च २४६ केवलिसमुदघातः ३८६१ २६१ इन्द्रियरोधनिषेधः
३९१ २ २५० शैलेशीकरणम् ३८७ २ २६२ मनःस्थिरतोपायः
३६२१ २५१ सिद्धस्योर्ध्वगमने हेतुः ।
३८८१ २६३ मनोजयविधिः तत्फलं च ३९२ २ द्वादशः प्रकाश २६४ तत्त्वज्ञानस्य प्रत्ययः
३९३ १ २५२ अनुभवसिद्धतत्त्वकथनम् ३८६ १ २६५ अमनस्कत्वस्य फलम्
३९३१ २५३ विक्षिप्त-यातायात-श्लिष्ट-सुलीनभेदं चित्तम् ३८६१ | २६६ उपदेशसर्वस्वम्
३६४२ २५४ निरालम्बनध्यानम्
३८६ २ । २६७ एतच्छास्त्ररचने कारणम् ३९५
H
॥8॥
in Education intera
For Personal & Private Use Only
ला.
.
Page #19
--------------------------------------------------------------------------
________________
अहम् श्रीवृद्धिचन्द्रगुरुभ्यो नमः। कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं .. योगशास्त्रम्।
स्वोपज्ञविवरणसहितम्।
प्रणम्य सिद्धाद्धतयोगसम्पदे श्रीवीरनाथाय विमुक्तिशालिने । स्वयोगशास्त्रार्थविशेषनिर्णयो भव्यावबोधाय मया विधास्यते ॥१॥
तस्य चायमादिश्लोकःनमो दुर्वाररागादिवैरिवारनिवारिणे । अर्हते योगिनाथाय महावीराय तायिने ॥१॥ अत्र महावीरायेति विशेष्यपदम् । विशेषेण ईरयति क्षिपति काणीति वीरः। विदारयांते यत्कम्मे तपसा च विराजते । तपोवीर्येण युक्तच तस्माद्वीर इति स्मृतः॥१॥
Jain Education inter
For Personal & Private Use Only
Page #20
--------------------------------------------------------------------------
________________
योगशास्त्रम्।
प्रथमः प्रकाशः।
इति लक्षणानिरुक्ताद्वा वीर: महांश्वास वितरवीरापेक्षया वीरश्च महावीरः इदं च जन्ममहोत्सवसमये तनुशरीरोऽयं कथं जलप्राग्भारं सोढेति शक्रशङ्काशङ्कुस मुद्धरणाय भगवता वामचरणाङ्गुष्ठनिपीडितसुमेरुशिखरप्रकम्पमानमहीतलोल्लसितमरितपतिक्षोभशङ्कितब्रह्माण्डभाण्डोदरदशनप्रयुक्तावधिज्ञानज्ञातप्रभावातिशयविस्मितेन वास्तोपतिना नाम निर्ममे महावीरोऽयमिति । तत्पुनरनादिभवप्ररूढप्रौढकर्मसमुन्मूलनबलेन यथार्थीकृतं च भगबता । वर्द्धमान इति तु नाम मातरपितराभ्यां कृतम् । श्रमणो देवार्य इति च जनपदेन । तस्मै नम इति सम्बन्धः। शेषाणि विशेषणानि । तैस्तु सद्भूतार्थप्रतिपादनपरैश्चत्वारो भगवदतिशयाः प्रकाश्यन्ते, तत्र पूर्वार्द्धनापायापगमातिशयः। अपायभूता हि रागादयस्तदपगमेन भगवतः स्वरूपलाभः १। अर्हते इत्यनेन च सकलसुरासुरमनुजजनितपूजाप्रकर्षवाचिना पूजातिशयः २ । योगिनाथायेत्यनेन तु ज्ञानातिशयः, योगिनोऽवधिजिनादयस्तेषां नाथो विमल केवलबलावलोकितलोकालोकस्वभावो भगवानेव ३। तायिने इत्यनेन तु वचनातिशयः४। तायी सकलसुरासुरमनुजतिरश्चां पालकः । पालकत्वं च सकलभुवनाभयदानसमर्थसमग्रभाषापरिणामिधर्मदेशनाद्वारेण भगवत एव । पालकत्वमात्रं तु स्वापत्यादेर्व्याघ्रादीनामपि सम्भवति । तदेवं चतुरतिशयप्रतिपादनद्वारेण भगवतो महावीरस्य पारमार्थिकी स्तुतिरभिहितेति ॥१॥
पुनर्योगगां स्तुतिमाह| पन्नगे च सुरेन्द्रे च कौशिके पादसंस्पृशि । निर्विशेषमनस्काय श्रीवीरस्वामिने नमः ॥२॥
पन्नगस्य कौशिकत्वं पूर्वभवस्थितकौशिकगोत्रत्वेन बुध्यस्व कौशिकेति भगवता तथैव भाषितत्वेन च ।
in Education international
For Personal & Private Use Only
Page #21
--------------------------------------------------------------------------
________________
***
सुरेन्द्रस्य तु कौशिक कोशिकाभिधानात् पादस्पर्शथ पन्नगरण दर्शनाद्रस्य च भक्यतिशयेन । निर्विशेषमन च भगवती द्वेषरागविशेषरहितत्वेन माध्यस्थ्यात् ॥
सम्प्रदाय गम्य श्रायमर्थस्तथाहि-
श्रीवीरः प्राणतस्वर्गपुष्पोत्तर विमानतः । पूर्वजन्मार्जिताजस्थितीर्थकुन्नामकर्मकः ॥ १ ॥ ज्ञानत्रयपवित्रात्मा सिद्धार्थनृपवेश्मनि । त्रिशलाकुक्षौ सरस्यां राजहंस इवागमत् || २ || ( युग्म ) सिंहो गजो वृपः साभिषेकश्रीः स्व शशी रविः । महाध्वजः पूर्णकुम्भः पद्मसरः सरित्पतिः || ३ || विमानं रत्नपुञ्ज निर्धूमाग्निरिति क्रमात् । देवी चतुर्द्दश स्वमः न पश्यत्तत्र गर्भगे || ४ || त्रैलोक्योद्योतकदेवदानवासनकम्पकृत् । अपि नारकजन्तूनां क्षणदमुखामकम् ॥ ५ ॥ प्रभुः सुखसुखेनैव जन्म प्राप शुभे दिने । तत्कालं दिकुमार्यश्च सूतिकर्माणि चक्रिरे ( युग्मम्) || ६ | जन्माभिषेकाय कृत्वोत्सङ्गे जगत्प्रभुम् । मेरुमूर्ध्नि सुधर्मेन्द्रः सिंहासनमशिश्रियत् ॥ ७ ॥ इयन्तं वारिसम्भारं कथं स्वामी सहिष्यते ? । इत्याशशङ्के शक्रेण भक्तिकोमलचेतसा ॥ ८ ॥ तदाशङ्कानिरासाय लीलया परमेश्वरः | मेरुशैलं वामपादाङ्गुष्ठाग्रेण न्यपीडयत् ॥ ६ ॥ शिरांसि मेरोरनमन्नमस्कर्तुमिव प्रभुम् । तदन्तिकमिवायातुमवलंच कुलाचलाः ॥ १० ॥ अतुच्छमुच्छलन्ति स्म स्नानं कर्त्तुमिवार्णवाः । विवेपे सत्वरं तत्र नर्त्तनाभिमुखेव भूः ॥ ११ ॥ किमेतदिति सञ्चिन्त्यावधिज्ञानप्रयोगतः । लीलायितं भगवतो विदाञ्चक्रे विडौजसा || १२ || स्वामिनन्यसामान्यं सामान्यो मादृशो जनः । विदाङ्करोतु माहात्म्यं कथङ्कारं तवेदृशम् ।। १३ ।। तन्मिथ्यादुष्कृतं भूयान्चिन्तितं यन्मयाऽन्यथा । इतीन्द्रेण ब्रुवाणेन प्रणेमे परमेश्वरः ॥ २४ ॥ सानन्दं वादि
For Personal & Private Use Only
****
Page #22
--------------------------------------------------------------------------
________________
योगशास्त्रम् । ॥ २ ॥
*
Jain Education Internat all
तातोद्यं चक्रे शत्रैर्जगद्गुरोः । तीर्थगन्धोदकैः पुण्यैरभिषेकमहोत्सवः ।। १५ ।। अभिषेकजलं तत्तु सुरासुरनरोरगाः । ववन्दिरे मुहुः सर्वाङ्गीणं च परिचिचिपुः ।। १६ ।। प्रभुखावजलालीढा वन्दनीया मृदप्यभूत् । गुरूणां किल संसर्गाद्गौरवं स्याल्लघोरपि ॥ १७ ॥ निवेश्येशानशक्राङ्के सौधर्मेन्द्रोऽप्यथ प्रभुम् । स्त्रपयित्वाऽर्च्चयित्वारो - त्रिकं कृत्वेति तुष्टुवे ॥ १८ ॥ नमोऽर्हते भगवते स्वयम्बुद्धाय वेधसे । तीर्थङ्करायादिकृते पुरुषेषूत्तमाय ते ॥ १६ ॥ नमो लोकप्रदीपाय लोकप्रद्योतकारिणे । लोकोत्तमाय लोकाधीशाय लोकहिताय ते ॥ २० ॥ नमस्ते पुरुषवपुण्डरीकाय शम्भवे । पुरुषसिंहाय पुरुषैकगन्धद्विपाय ते ।। २१ ।। चक्षुर्दायाभयदाय बोधिदायाध्वदायिने । धर्मदाय धर्मदेष्ट्रे नमः शरणदाय ते ॥ २२ ॥ धर्म्मसारथ धर्म्मनेत्रे धर्मैकचक्रिणे । व्यावृत्तच्छद्मने सम्यग्ज्ञानदर्शनधारिणे ॥ २३ ॥ जिनाय ते जापकाय तीर्णाय तारकाय च । विमुक्ताय मोचकाय नमो बुद्धाय बोधिने || २४ || सर्व्वज्ञाय नमस्तुभ्यं स्वामिने सर्वदर्शिने । सर्व्वातिशयपात्राय कर्म्माष्टकनिदिने ।। २५ ।। तुभ्यं क्षेत्राय पात्राय तीर्थाय परमात्मने । स्याद्वादवादिने वीतरागाय मुनये नमः || २६ | पूज्यानामपि पूज्याय महद्भ्योऽपि महीयसे । श्राचार्याणामाचार्याय ज्येष्ठानां ज्यायसे नमः ॥ २७ ॥ नमो विश्वभ्रुवे तुभ्यं योगिनाथाय योगिने । पावनाय पवित्रायानुत्तरायोत्तराय च ॥ २८ ॥ योगाचार्याय सम्प्रक्षालनाय प्रवराय च । श्रग्र्याय वाचस्पतये मङ्गन्याय नमोऽस्तु ते ।। २९ ॥ नमः पुरस्तादुदितायैकवीराय भास्वते । ॐ भूर्भुवः स्वरिति॒वास्तवनीयाय ते नमः || ३० ॥ नमः सर्व्वजनीनाय सर्व्वार्थायामृताय च । उदितब्रह्मचर्यायाप्ताय पारगताय ते ॥ ३१ ॥
( १ ) अर्चयित्वाथ कृत्वा रात्रिकमस्तवीत् ।
For Personal & Private Use Only
8-10K+******+-+10+++
→→
प्रथमः प्रकाशः ।
॥ २ ॥
www.jainvelibrary.org
Page #23
--------------------------------------------------------------------------
________________
नमस्ते दक्षिणीयाय निर्विकाराय तायिने । वज्रऋषभनाराचवपुषे तत्त्वदृश्वने ॥ ३२॥ नमः कालत्रयज्ञाय जिनेन्द्राय स्वयम्भुवे । ज्ञानबलवीर्यतेजःशक्त्यैश्वर्य्यमयाय ते ॥ ३३ ॥ आदिपुंसे नमस्तुभ्यं नमस्ते परमेष्ठिने । | नमस्तुभ्यं महेशाय ज्योतिस्तवाय ते नमः ॥ ३४ ।। तुभ्यं सिद्धार्थराजेन्द्रकुलक्षीरोदधीन्दवे । महावीराय धीराय त्रिजगत्स्वामिने नमः ॥ ३५ ॥ इति स्तुत्वा नमस्कृत्य गृहीत्वा परमेश्वरम् । आनीय तत्क्षणं मातुरपेयामास वासवः ।। ३६ ॥ स्ववंशवृद्धिकरणाद्यथार्थ पितरौ तदा । नामधेयं विदधतुर्वर्द्धमान इति प्रभोः ॥ ३७॥ सोऽहंपू. बिकया भक्तः सेव्यमानः सुरासुरैः। दृशा पीयूषवर्षिण्या सिञ्चन्निव वसुन्धराम् ॥ ३८ ॥ अष्टोत्तरसहस्रेण लक्षणे रुपलक्षितः । निसर्गेण गुणैर्वृद्धो वयसा ववृधे क्रमात् ॥ ३९ ॥ राजपुत्रैः सवयोभिः समं निःसीमविक्रमः । वयोऽनुरूपक्रीडाभिः कदाचित्क्रीडितुं ययौ ॥ ४० ॥ तदा ज्ञात्वावधिज्ञानान्मध्येसुरसभं हरिः । धीरां अनुमहावीरमिति वीरमवर्णयत ॥४१॥ क्षोभयिष्यामि तं धारमेषोऽहमिति मत्सरी। भाजगामामरः कोऽपि यत्र क्रीडन्नभूद्विभुः ॥ ४२ ॥ कुर्वत्यामलकीक्रीडां राजपुत्रैः सह प्रभौ । सोऽविवेष्टविटपिनं भुजगीभूय मायया ॥ ४३ ॥ तत्कालं राजपुत्रेषु वित्रस्तेषु दिशोदिशि । स्मित्वा रज्जुमिवोत्क्षिप्य तं चिक्षेप क्षितौ विभुः ॥ ४४ ॥ सव्रीडाः क्रीडितुं तत्र कुमाराः पुनराययुः । कुमारीभूय सोऽप्यागात्सर्वेऽप्यारुरुहुस्तरुम् ॥ ४५ ॥ पादपाग्रं कुमारेभ्यः प्राप प्रथमतः प्रभुः । यद्वा कियदमुष्येदं यो लोकाग्रं गमिष्यति ।। ४६ ।। शुशुभे भगवांस्तत्र मेरुशृङ्ग इवायेमा । लम्बमाना बभुः शाखास्वन्ये शाखामृगा इव ॥४७॥ जिग्ये भगवता तत्र कृतश्वासीदयं पणः । जयेद्य इह स (१) वीरा
(२) वीरम् ।
Jain Education int
For Personal & Private Use Only
Page #24
--------------------------------------------------------------------------
________________
योग
शास्त्रम
॥ ३ ॥
+11+**++++
धन्यान पृष्ठमारुह्य वाहयेत् ॥ ४८ ॥ श्ररुह्यावाहद्वाहानिव वीरः कुमारकान् । आरुरोह सुरस्यापि पृष्ठ प्रष्ठो महौजसाम् ।। ४६ ।। ततः करालं वेतालरूपमाधाय दुष्टधीः । भूधरानप्यधरयन् प्रारब्धो वर्धितुं सुरः || ५० || वक्त्रे पातालकल्पस्य जिह्वया तचकायितम् । पिङ्गैस्तुङ्गे शिशैले केशैर्दावानलायितम् ॥ १ ॥ तस्यातिदारुणे भूतां कचाकृती । जाज्वल्यमाने अङ्गारशकटयावित्र लोचने ॥५२॥ घोणारन्धे महाघोर महीधरगुहे इव । भृकुटीरे भीमे महोरग्याविव भ्रुवौ ।। ५३ ॥ व्यरंसद्विर्धनानास यावत्तावन्महौजसा । आहत्य मुष्टिना पृष्ठ स्वामिना बामनीकृतः ॥ ५४ ॥ एवं च भगवद्वेय साचात्कृत्येन्द्रवर्णितम् । प्रभुं नत्वात्मरूपेण निजं धाम जगाम सः ।। ५५ ।। मातापितृभ्यामन्येद्युः प्रारब्धे ऽध्यापनोत्सवे । आः सर्व्वज्ञस्य शिष्यत्वमितीन्द्रस्तमुपास्थित ॥ ५६ ॥ उपाध्यायासने तस्मिन्वासवेनोपवेशितः । प्रणम्य प्रार्थितः स्वामी शब्दपारायणं जगौ ॥ ५७ ॥ इदं भगवतेन्द्राय प्रोक्तं शब्दानुशासनम् । उपाध्यायेन तच्छ्रुत्वा लोकेष्वैन्द्रमितीरितम् ॥ ५८ ॥ मातापित्रोरनुरोधादष्टाविंशतिवत्रीम् । कथञ्चिद्गृहवासेऽस्थात्प्रव्रज्योत्कण्ठितः प्रभुः ।। ५९ ।। अथ पूर्णायुषः पित्रोर्देव भूयमुपेयुषाः । ईहाव परिवज्यां निरीहो राज्यसम्पदः ॥ ६० ॥ भगवन्मा चते चारं क्षैप्सीरिति सगद्गदम् । भ्रात्रोक्त्वा ज्यायसा नन्दिवर्द्धनेनोपरोधितः ।। ६१ ।। भावतो यतिरेवाथ नानाभरणभूषितः । कायोत्सर्ग श्रयंश्चित्रशालिकायामवस्थितः ।। ६२ ।। एपणीयप्रासुकान्नपानवृत्तिर्महामनाः । वर्षमेकं कथमपि भगवानत्यवायत् ॥ ६३ ॥ तीर्थं प्रवर्त्तये त्यभ्यर्थितो लोकान्तिकामरैः । यथाकामीनमर्थिभ्यो दानं दातुं प्रचक्रमे ।। ६४ ।। द्वैतीयीकेन वर्षेण विनिर्मायानृणां भुवम् । श्रज्झद्राज्यश्रियं स्वामी मन्यमानस्तृणाय ताम् ॥ ६५ ॥ सव्वैर्देवनिकायैश्च कृतनिष्क्रमणोत्सवः ।
For Personal & Private Use Only
-*-*-*****
प्रथम:
प्रकाश
॥ ३ ॥
Page #25
--------------------------------------------------------------------------
________________
Jain Education Inter
•-•*@*-**-*-**-**
Xe d
सहस्रवाह्यामारुह्य शिबीं चन्द्रप्रभाभिधाम् || ६६ ॥ ज्ञातखण्डवने गत्वा सर्वसावद्यवर्जनात् । प्रव्रज्यामग्रहीद
तुर्थहरे प्रभुः || ६७ ॥ जगन्मनोगतान् भावान् प्रकाशयदथ प्रभोः । ज्ञानं तुरीयं संजज्ञे मन:पर्ययसंज्ञकम् || ६८ || ततश्च गत्वा सन्ध्यायां कुर्म्मारग्रामसन्निधौ । गिरीन्द्र इव निष्कम्पः कायोत्सर्गं व्यधाद्विभुः ॥ ६६ ॥ गोपालनाथ यामिन्यां निष्कारण कृतक्रुधा । उपद्रोतुं समारेभे भगवानात्मवैरिणा ॥ ७० ॥ अथेन्द्रेणावधिज्ञानाजज्ञे प्रभुमुपद्रवन् । स दुःशीलो महाशैलमाखुश्चिखनिषन्निव ॥ ७१ ॥ कल्याणीभक्तिरागाच्च शक्रः प्रभुपदान्तिकम् । नष्टो मत्कुणनाशं च स गोपहतकः क्वचित् ।। ७२ ।। ततः प्रदक्षिणीकृत्य त्रिर्मूर्ध्ना प्रणिपत्य च । इति विज्ञपयाञ्चक्रे प्रभुः प्राचीनवर्हिषा ॥ ७३ ॥ भविष्यति द्वादशाब्दान्युपसर्गपरम्परा । तां निषेधितुमिच्छामि भगवन् पारिपार्शिवकः ॥ ७४ ॥ समाधिं पारयित्वेन्द्रं भगवान् चिवानिति । नापेक्षाञ्चक्रिरेऽर्हन्तः परसाहाय्यकं कचित् ॥ ७५ ॥ ततो जगद्गुरुः शीतलेश्यः शीतमयूखवत् । तपस्तेजोदुरालोकोऽधिपतिस्तेजसामिव ॥ ७६ ॥ शौण्डीर्यवान् गज इव सुमेरुरिव निश्चलः । सर्व्वस्पर्शान् सहिष्णुश्च यथैव हि वसुन्धरा ॥ ७७ ॥ अम्भोधिरिव गम्भीरो मृगेन्द्र इव निर्भयः । मिथ्यादृशां दुरालोकः सुहुतो हव्यवाडिव ॥ ७८ ॥ खङ्गिशृङ्गमिवैकाकी जातस्थामा महोक्षवत् । गुप्तेन्द्रियः कूर्म्म इवाहिरिवैकान्तदत्तदृक् ॥ ७६ ॥ निरञ्जनः शङ्ख इव जातरूपः सुवर्णवत् । विप्रमुक्तः खग इव जीव इवास्खलद्गतिः ॥ ८० ॥ व्योमेवानाश्रयो भारुण्डपक्षीवाप्रमद्वरः । अम्भोजिनीदलमिवोपलेपपरिवर्जितः ॥ ८१ ॥ शत्रौ मित्रे तृणे स्त्रैणे स्वर्णेऽश्मनि मणौ मृदि । इहामुत्र सुखे दुःखे भवे मोक्षे समाशयः ॥ ८२ ॥ निष्कारणैककारुण्यपरायणमनस्तया । मञ्जद्भवोदधौ मुग्धमुद्दिधीर्षुरिदं जगत् ॥ ८३ ॥ प्रभुः प्रभञ्जन
For Personal & Private Use Only
**-••K• →→**
Page #26
--------------------------------------------------------------------------
________________
प्रथमः
योगशास्त्रम्
प्रकाशः।
॥४
॥
इसाप्रतिबद्धोऽब्धिमेखलाम् । नानाग्रामपुरारण्यां विजहार वसुन्धराम् ॥८४ ॥ देशं दक्षिण चावालमवाप्य प्रभुरन्यदा । श्वेतम्बी नगरी गच्छन्नित्यूचे गोपदारकैः ॥॥ देवार्यायमजः पन्थाः श्वेतम्बीमुपतिष्ठते । किन्त्वन्तरेऽस्य कनकखलाख्यस्तापसाश्रमः ॥८६॥ स हि दृग्विषसर्पणाधिष्ठितो वर्त्ततेऽधुना । वायुमात्रैकसञ्चारोऽप्रचारः पक्षिणामपि ॥ ८७॥ विहाय तदमुं मार्ग वक्रेणाप्यमुना ब्रज। सुवर्णेनापि किं तेन कर्णच्छेदो भवेद्यतः ॥८॥ तं चाहिं प्रभुरज्ञासीद्यदसौ पूर्वजन्मनि । क्षपकः पारणकार्थ विहत वसतेरगात ॥ ६॥ गच्छता तेन मण्डूकी पादपाताद्विराधिता । आलोचनार्थमेतस्य दर्शिता क्षुल्लकन सा ॥ 8 ॥ सोऽथ प्रत्युत मण्डूकीदर्शयन् लोकमारिताः । ऊचे क्षुल्लं मया क्षुद्र किमेता अपि मारिताः ॥ १॥ तूष्णीकोऽभूत्ततः क्षुल्लोऽमस्त चैवं विशुद्धधीः । महानुभावो यदसौ सायमालोचयिष्यति ॥ १२ ॥ आवश्यकेऽप्यनालोच्य यावदेष निषेदिवान् । क्षुल्लकोऽचिन्तयत्तावद्विस्मृतास्य विराधना ।। ६३ । अस्मारयच्च तां भेकीमालोचयसि किं नहि । क्षपकोऽपि क्रुधोत्थाय क्षुल्लं हन्मीति धावितः ।। ६४ ॥ कोपान्धश्च ततः स्तम्भे प्रतिफल्य व्यपद्यत । विराधितश्रामण्योऽसौ ज्योतिष्केष| दपद्यत ।। ६५ ॥ स च्युत्वा कनकखले सहस्रार्द्धतपस्विनाम् । पत्युः कुलपतेः पल्याः पुत्रोऽभूत्कोशिकाहयः | ॥६६॥ तत्र कौशिकगोत्रत्वादासन्नन्येऽपि कौशिकाः । अत्यन्तकोपनत्वाच्च स ख्यातश्चण्डकौशिकः ॥ १७ ॥ श्राद्धदेवातिथित्वं च तस्मिन् कुलपतौ गते । असौ कुलपतिस्तत्र तापसानामजायत ।। ६८ ॥ मूच्छया बनखण्डस्य सोऽन्ताम्यन्त्रहर्निशम् । अदात्कस्यापि नादातुं पुष्पं मूलं फलं दलम् ॥ ६६ || विशीर्णमपि योऽगृहाद्वने तत्र फलादिकम् । उत्पाख्य परशुं यष्टिं लोष्टं वा तं जघान सः॥१०॥ फलाद्यलभमानास्तु सीदन्तस्ते तपस्विनः।
॥४॥
Jaun Education intema
l
l
For Personal & Private Use Only
Page #27
--------------------------------------------------------------------------
________________
पतिते लगुडे काका इव जग्मुर्दिशादिशम् ॥१॥ अन्येयुः कण्टिकाहेतोः कौशिके बहिरीयुषि । अभाइभुमेहक्षु राजन्याः श्वेतम्ब्या एत्य तद्वनम् ॥२।। अथ व्यावर्त्तमानस्य गोपास्तस्य न्यवीविदन् । पश्य पश्य वनं कैश्चिद्भज्यते भज्यते तव ॥ ३ ॥ जाज्वन्यमानः क्रोधेन हविषेव हुताशनः । अकुण्ठधारमुद्यम्य कुठारं सोऽभ्यधावत ॥४॥ राजपुत्रास्ततो नेशुः श्येनादिव शकुन्तयः । स्खलित्वा च पपातायं यमवक्त्र इवावटे ॥ ५॥ पततः पतितस्तस्य सम्मुखः परशुः शितः। शिरो द्विधा कृतं तेन ही विपाकः कुकर्मणाम ॥ ६ ॥ स विपद्य वनेऽत्रैव चण्डोहिदविषोऽभवत् । क्रोधस्तीबानुबन्धो हि सह याति भवान्तरे ।। ७॥ अवश्यं चैष बोधार्ह इति बुद्धथा जगद्गुरुः ।
आत्मपीडामगणयन्नृजनैव पथा ययौ ॥ ॥ अभवत्पद सञ्चारसुखमीभूतवालुकम् । उदपानावहत्कुन्यं शुष्कजजेरपादपम् ।। ६ ।। जीर्मपर्णचयास्तीर्ण कीर्ण बन्मीकपर्वतैः । स्थलीभतोटजं जीर्णारण्यं न्यविशत प्रभुः ॥ १० ॥ तत्र चाथ जगन्नाथो यक्षमण्डपिकान्तरे । तस्थौ प्रतिमया नासाप्रान्तविश्रान्तलोचनः ॥ ११ ॥ ततो दृष्टिविष: सप्पः सदो भ्रमितुं बहिः । बिलान्निरसरजिह्वा कालरात्रिमुखादिव ॥ १२ ॥ भ्रमन् सोऽनुवनं रेणुसंक्रामद्भोगलेखया । स्वाज्ञालेखामिव लिखन्नीचाञ्चके जगद्गुरुम् ॥१३॥अत्र मां किमविज्ञाय किमवज्ञाय कोऽप्यसो । आः प्रविष्टो निराशङ्कं निष्कम्पः शङ्कवत् स्थितः॥१४॥ तदेनं भस्मसादद्य करोमीति विचिन्तयन् । आध्मागमानं कोपेन फटाटोपं चकार सः॥ १५ ॥ ज्वालामालामुद्वमन्त्या निर्दहन्त्या लताद्रुमान् । भगवन्तं दृशापश्यत्स्फारफूत्कारदारुणः॥१६।। दृष्टिज्वालास्ततस्तस्य ज्वलन्त्यो भगवत्तनौ । विनिपेतुर्दुरालोका उन्का इव दिवो गिरौ ॥१७॥ प्रभोर्महाप्रभावस्य प्रभवन्ति स्म नैव ताः । महानपि मरुन्मेरुं कि कम्पयितुमीश्वरः ॥ १८॥ दारुदाहं न दग्धोऽ
Jain Education in
For Personal & Private Use Only
Page #28
--------------------------------------------------------------------------
________________
प्रथमः प्रकाशः।
शास्त्रम्
मावद्यापीति कधा ज्वलन् । दश दश दिनकर गज्वाला: मोऽमुचपुनः ।१६।। सम्पन्नासु प्रभा वारिधागप्रायासु ताम्बपि । ददंश दन्दशुकोऽसौ निःशूकः पादपङ्कजे ।। २० । दया दष्टापचक्राम म्ववियोंद्रकम्मदः । यपतन्मद्विपाक्रान्तो मृदुनीयादप मामपि ।। २१ ।। दशतोऽग्यसकृत्तस्य न विष प्राभवत्प्रभौ । मोक्षीरधाराभवलं केवल रक्तमक्षरत् ।। २२ ।। ततश्च पुरतः स्थित्वा किमेतदिति चिन्तयन् । बीक्षानके जगन्नाथं वीक्षापन्नः स पन्नगः । ३ ।। ततो निरूप्य रूपं तदनुरूपं जगद्गुरोः । कान्तिसाम्यतया मक्षु विध्याते तद्विलोचने ॥२५॥ उपसन्नं च तं ज्ञात्वा बभाषे भगवानिति । चण्डकोशिक बुध्यम्ब बुध्यस्व ननुमा मुहः॥२५॥ श्रुत्वा तद्भगवद्वाक्यम् हापोहं वितन्वतः । पन्नगम्य समुत्पेदे स्मरणं पूर्वजन्मनाम् ।। २६ ॥ स त्रिः प्रदक्षिणीकृन्य ततश्च परमेश्वरम् । निष्कपायः समनसाऽनशनं प्रत्यपद्यत ।। २७ ।। कृतानशनकम्मोणं निष्काणं महारगम् । प्रशमापनमजासीदन्व जासीच तं प्रभुः ।। २८ ।। कुत्राप्यन्यत्र मा यासीद्दाष्टमं विपभीपणा । इति तुण्डं बिले क्षिप्त्वा पपी स ममतामतम ॥ २६ ॥ तस्थी तथैव तत्रेव स्वामी तदनुकम्पया । परेपामुपकाराय महतां हि प्रवृत्तयः ।। ३० ।। भगवन्तं तथा दृष्ट्या विस्मयम्मेरलोचनाः । गोपाला वन्मपालाश्च तत्रोपसम्पुर्दुतम् ॥ ३१ ॥ वृक्षान्तरे तिरोभूय यथेष्टं यावलोष्टुभिः । प्रतिजघ्नुरनिनास्ते पन्नगम्य महात्मनः ॥ ३२॥ तथाप्यविचलन्तं तं वीच्य विश्रम्भभाजिनः । यष्टिभिट्टयामासुर्निकटीभूय तत्तनुम् ।। ३३ ।। आख्यन जनानां ते गोपास्ततस्तत्रागमन् जनाः । ववन्दिर महावीरममहंश्च महोरगम् ॥ ३४॥ घृतविक्रयकारिण्यो गच्छन्त्यस्तेन वर्त्मना । नागं हैयङ्गयीनेनाम्रक्षयन् पस्पृशुश्च तम् ।। ३५ ॥ आगन्य घृतगन्धेन तीक्ष्णतुण्डाः पिपीलिकाः। चक्रिरे तितउप्रायमहेस्तस्य कलेवरम् ॥ ३६॥
For Personal & Prive
Only
JanEducation internations
Page #29
--------------------------------------------------------------------------
________________
मत्कर्मणां कियदेतदित्यात्मानं विबोधयन् । वेदनामधिसेहे तां दुःसहां सोहि पुङ्गवः ॥ ३७ । बराक्यो मा स्म पीन्यन्त स्वल्पसाराः पिपीलिकाः । इत्यचीचलदङ्गं न मनागपि महोरगः ॥ ३८ ॥ सिक्तः कृपासुधावृष्ट्या दृष्ट्या भगवतोरगः । पक्षान्ते पश्चतां प्राप्य सहस्रारदिवं ययौ ॥ ३९ ॥ विदधति विविधोपसर्गबाधां फणिभृति दृष्टिविषे हरौ तु भक्तिम् । इति तुल्यमनस्कता शशंसे चरमजिनस्य जगत्रयैकबन्धोः ।। १४० ।। २ ।।
प्रकारान्तरेण पुनर्योगगर्भामेव स्तुतिमाहकृतापराधेऽपि जने कृपामन्थरतारयोः । ईषद्दाष्पाईयोर्भद्रं श्रीवीरजिननेत्रयोः ॥ ३ ॥
विहितविप्रियेऽपि जने सङ्गमकादौ कृपया मन्थरे ईषन्नते तारे कनीनिके ययोः ईषद्वाष्पश्चक्षुर्जलं स च करुणाकत एव तेन आट्टै क्लिने भगवतो नेत्रे तयोभद्रमिति सामर्थ्यान्नमस्कारप्रतीतिः।
तथाहि
अनुग्राममनुपुरं विहरन् विभुरन्यदा । दृढभूमिमनुप्राप बहुम्लेच्छकुलाकुलाम् ॥ १॥ पेढालग्रामं निकषा पेढालाराममन्तरा । कृताष्टमतपःकर्मा पोलासं चैत्यमाविशत् ॥ २॥ जन्तूपरोधरहितमधिष्ठाय शिलातलम् । आजानुलम्बितभुजो दरावनतविग्रहः ।। ३ ।। स्थिरीकृतान्तःकरणो निर्निमेषविलोचनः । तस्थौ तत्रैकरात्रिक्या महाप्रतिमया प्रभुः ॥ ४ ॥ तदा शक्रः सुधर्मायां सभायां परिवारितः। सहस्रश्चतुरशीत्या सामानिकदिवौकसाम् ॥५॥ त्रयस्त्रिंशत्रायस्त्रिंशैः पर्षद्भिस्तिमृभिस्तथा । चतुर्मिलॊकपालैश्च संख्यातीतैः प्रकीर्णकैः ॥ ६॥ प्रत्येक चतुरशीत्या सहस्रैरङ्गरक्षकैः । दृढाबद्धपरिकरैः ककुप्सु चतसृष्वपि ॥ ७॥ सेनाधिपतिभिः सेनापरिवीतैश्च
Main Education in
For Personal Private Use Only
Page #30
--------------------------------------------------------------------------
________________
योग
प्रथम:
शास्त्रम्
प्रकाशः।
सप्तभिः । देवदेवीगणैराभियोग्यः किन्विषिकादिभिः॥८॥ तूर्यत्रयादिभिः कालं विनोदैरतिवाहयन् । गोप्ता दक्षिणलोकाई शक्रः सिंहासने स्थितः ॥ ॥ अवधिज्ञानतो ज्ञात्वा भगवन्तं तथास्थितम् । उत्थाय पादुके त्यक्त्वोत्तरासङ्गं विधाय च ॥ १० ॥ जान्वसव्यं भुवि न्यस्य सव्यं च न्यञ्च्य किञ्चन । शकस्तवेनावन्दिष्ट भूतलन्यस्तमस्तकः ॥ ११ ॥ समुत्थाय च सर्वाङ्गोदश्चद्रोमाञ्चकक्षुकः । शचीपतिरुवाचेदमुद्दिश्य सकलां सभाम ॥ १२ ॥ भो भोः सर्वेऽपि सौधर्मवासिनस्त्रिदशोत्तमाः । शृणुत श्रीमहावीरस्वामिनो महिमाद्भतम् ॥ १३ ।। दधानः पञ्च समितीर्गुप्तित्रयपवित्रितः । क्रोधमानमायालोभानभिभूतो निराश्रवः ॥१४ ।। द्रव्ये क्षेत्रे च काले च भावे चाप्रतिबद्धधीः । रुक्षकपदालन्यस्तनयनो ध्यानमास्थितः ॥ १५ ॥ अमरैरसुरैर्य रखोभिरुरगैर्नरः । त्रैलोक्येनापि शक्येत ध्यानाच्चालयितुं न हि ॥ १६ ॥ इत्याकर्ण्य वचः शाकं शकसामानिकः सुरः । ललाटपट्टयटितभृकुटीभङ्गभीषणः ॥ १७॥ कम्पमानाधरः कोपालोहितायितलोचनः । अभव्यो गाढमिथ्यात्वसङ्गः सङ्गमकोऽवदत् ॥ १८॥ मर्त्यः श्रमणमात्रोऽयं यदेव देव वर्ण्यते । स्वच्छन्दं सदसद्वादे प्रभुत्वं तत्र कारणम् ॥ १६ ॥ देवैरपि न चान्योऽयं ध्यानादित्युद्भर्ट प्रभोः । कथं धार्येत हृदये धृते वा प्रोच्यते कथम् ॥ २०॥ रुद्धान्तरिक्षः शिखरैमूल रुद्धरसातलः । यः किलोदस्यते दोष्णा सुमेरुर्लोप्टलीलया ॥ २१ ॥ सकुलाचलमेदिन्याः सावनव्यक्तवैभवः । येषामेषोऽपि गण्डूषसुकरो मकराकरः ॥ २२ ॥ अप्येकभुजदण्डेन प्रचण्डां छत्रलीलया । उद्धरन्ति महानेकभूधरी ये वसुन्धराम ॥ २३॥ तेषामसमऋद्धीनां सुराणाममितौजसाम् । इच्छासम्पन्नसिद्धीनां मर्त्यमात्रः कियानयम् ॥ २४ ॥ एषोऽहं चालयिष्यामि तं ध्यानादित्युदीर्य सः । करेण भूमिमाह
For Personal & Private Use Only
in Education inten
Page #31
--------------------------------------------------------------------------
________________
त्योदस्थादास्थानमण्डपात् ॥ २५ ॥ अर्हन्तः परसाहाय्यात्तपः कुर्वन्त्यखण्डितम् । मा ज्ञासीदिति दुर्बुद्धिः शक्रेण स उपेक्षितः ॥ २६ ॥ ततो वेगानिलोत्पातपतापतघनाघनः । रौद्राकृतिदुरालोको भयापसरदप्सराः ॥ २७ ॥ | विकटोरःस्थलाघातपुञ्जितग्रहमण्डलः। स पापस्तत्र गतवान् यत्रासीत्परमेश्वरः ॥ २८॥ निष्कारणजगद्वन्धुं
निराबाधं तथास्थितम् । श्रीवीरं पश्यतस्तस्य मत्सरो ववृधेऽधिकम् ॥ २६ ॥ गीर्वाणपांसनः पांशुवृष्टिं दुष्टोs| तनिष्ट सः । अकाण्डघटितारिष्टामुपरिष्ठाजगत्प्रभोः ॥ ३० ॥ विधुर्विधुन्तुदेनेव दुर्दिनेनेव भास्करः । पिदधे पांशुपूरेण सर्लाङ्गीणं जगत्प्रभुः॥३१॥ समन्ततोऽपि पूर्णानि तथा श्रोतांसि पांशुभिः । यथा समभवत्स्वामी निश्वासोच्छ्वासवर्जितः ॥ ३२ ॥ तिलमात्रमपि ध्यानान्न चचाल जगद्गुरुः । कुलाचलश्चलति किं गजैः परिणतैरपि ॥ ३३ ॥ अपनीय ततः पांशुं वज्रतुण्डाः पिपीलिकाः । स समुत्पादयामास प्रभोः सर्लाङ्गपीलिकाः ॥३४॥ प्राविशन्नेकतोऽङ्गेषु स्वैरं निर्ययुरन्यतः। विध्यन्त्यस्तीक्ष्णतुण्डायैः सूच्यो निवसनेष्विव ॥ ३५ ॥ निर्भाग्यस्येव वाञ्छासु मोधीभूतासु तास्वपि । स दंशान् रचयामास नाकृत्यान्तो दुरात्मनाम् ॥ ३६॥ तेषामेकप्रहारेण रक्तैर्गोक्षीरसोदरैः । क्षरद्भिरभवन्नाथः सनिर्झर इवाद्रिराट् ॥ ३७॥ तैरप्यक्षोभ्यमाणेऽथ जगन्नाथे स दुर्मतिः । चक्रे प्रचण्डतुण्डाग्रा दुर्निवारा घृतेलिकाः ॥ ३८ ॥ शरीरे परमेशस्य निमनमुखमण्डलाः । ततस्ता: समलक्ष्यन्त रोमाणीव सहोत्थिताः ॥ ३९ ॥ ततोऽप्यविचलच्चिचे योगचित्ते जगद्गुरौ । स महावृश्चिकांश्चक्रे ध्यानव्रश्चननिश्चयी ॥४०॥ प्रलयाग्निस्फुलिङ्गाभास्तप्ततोमरदारुणैः। तेभिन्दन भगवद्देहं लाङ्गलाकुटकण्टकैः ॥४१॥ तैरप्यनाकुले नाथे कूटसङ्कल्पसङ्कुलः । सोऽनल्पान् कल्पयामास नकुलान् |
For Personal & Private Use Only
Jain Education intens
Page #32
--------------------------------------------------------------------------
________________
योग
प्रथमः प्रकाशः।
शास्त्रम्
दशनाकुलान् ॥४२॥ खिखीति रसमानास्ते दंष्ट्राभिर्भगवत्तनुम् । रूण्ड खप्डैस्त्रोटयन्तो मांसखण्डान्यपातयन् ।।४३॥ तैरप्यकृतकृत्योऽसौ यमदोईण्डदारुणान् । अत्युत्कटफटाटोप.न् कोपात्प्रायुक्त पन्नगान् ॥४४॥ आशिरःपादमापीड्य महावीरं महोरगाः । अवेष्टयन्महावृक्ष कपिकच्छुलता इव ॥४५॥ प्रजनुस्त तथा तत्र स्फुटन्ति स्म फटा यथा। तथा दशन्ति स यथाऽभज्यन्त दशना अपि ।। ४६ ॥ उद्वान्तगरले बंषु लम्बमानेषु रज्जुबत् । स वज्रदशनानाशु मूषकानुदपीपदत् ॥ ४७ ॥ स्वाम्यङ्गं खनकावरख्नु खैर्दन्तमुखैः खरैः । मोमूत्र्यमाणास्तत्रैव क्षते चारं निचिक्षिपुः ॥४८॥ तेष्वप्यकिश्चिद्भूतेषु भूतीभूत इव क्रुधा । उद्दण्डदन्तमुसलं हस्तिरूपं ससर्ज सः ॥ ४ ॥ सोऽधावत्पादपातेन मेदिनी नमयन्निव । उडून्युदरसहस्तेन नभस्तस्त्रोटयन्निव ॥ ५० ॥ कर'ग्रेण गृहीत्वा च | दुवोरेण स वारणः। दरमुल्लालयामास भगवन्तं नमस्तले ॥५१॥ विशीर्य कणशो गच्छत्वसाविति दुराशयः। दन्तावुन्नम्य स व्योम्नः पतन्तं म प्रतीच्छति ॥ ५२ ॥ पतितं दन्तघातेन विध्यति स्म मुहुर्मुहुः । वक्षसो वज्रकठिनात् समुत्तस्थुः स्फुलिङ्गकाः ॥ ५३ ॥ न शशाक वराकोऽसौ कत्तुं किश्चिदपि द्विपः। यावत्तावत्सुरश्चके | करिणी वैरिणीमिव ॥ ५४ ॥ अखण्डशुण्डदन्ताभ्यां भगवन्तं विभेद सा । स्वैरं शरीरनीरेण विषेणेव सिषेच च ।। ५५ ॥ करेणो रेणुसाभृते तस्याः सारे सुराधमः । पिशाचरूपमकरोन्मकरोत्कटदंष्ट्रकम् ॥ ५६ ॥ ज्वालाजालाकुलं व्या व्यायतं वक्त्रकोटरम् । अभवद्भीपणं तस्य वह्निकुण्डमिव ज्वलत् ॥ ५७ ॥ यमौकस्तोरणस्तम्भाविव प्रोत्तम्भितौ भुजौ । अभूच तस्य वोरु तुझं तालट्ठमोपमम् ॥ ५८ ॥ स साट्टहासः फेत्कुर्वन् स्फूर्जत्किलकिलारवः । कृत्तिवासाः कत्रिकाभृद्भगवन्तमुपाद्रवत् ।। ५६ || तस्मिन्नपि हि विध्याते क्षीणलप्रदीप
For Personal Private Use Only
Page #33
--------------------------------------------------------------------------
________________
1-1-1
चत् । व्याघ्ररूपं क्रुधाघ्रातः शीघ्रं चक्रे स निर्घृणः ॥ ६० ॥ अथ पुच्छच्छाच्छोटे पाटयन्निव मेदिनीम् । वृत्कारप्रतिद्वै रोदसी रोदयन्निव ।। ३१ ।। दंष्ट्राभिर्वचाराभिर्नखरैः शूलगोदरैः । अव्ययं व्यापिपर्त्तिस्म व्याघ्रो भुवनभर्त्तरि ।। ६२ ॥ तत्र विरुद्धायां प्राप्ते दवदग्ध व दुभे । सिद्धार्थराजत्रिशलादेव्यो रूपं व्यधत्त सः ॥। ६३ ।। किमेतद्भवता तात प्रक्रान्तमतिदुष्करम् । प्रवज्यां मुञ्च मास्माकं प्रार्थनामवजीगणः ॥ ६४ ॥ वृद्धावशरणावा त्यक्तवानन्दिवर्द्धनः । त्रायस्वेति स्वरेह नदीनव्यलपतां च ती ||३५|| ( युग्मं ) ततस्तयोर्विला पैरप्यलिप्तमनसि प्रभो । आवासितं दुराचारः स्कन्धावारमकल्पयत् ।। ६६ ।। तत्रानासाद्य पदं मूदः सादर श्रदने । चुल्लीपदे प्रभोः पादी कृत्वा स्थालीमकल्पयत् ॥ ६७ ॥ तत्कालं ज्वालितस्तेन जज्वाल ज्वलनोऽधिकम् । पादमूले जगद्भर्चुगिरेरिव दवानलः ॥ ६८ ॥ तप्तस्यापि प्रभाः स्वर्णस्येव न श्रीरहीयत । ततः सुराधमश्चक्रे पक्कणं दारुणकणम् ।। ६६ ॥ पक्कणोऽपि प्रभोः कण्ठे कर्णयोर्भुजदण्डयोः । जङ्घयोश्च क्षुद्रपचिपञ्जराणि व्यलम्बयत् ॥ ७० ॥ खगैश्चञ्चनखाघातैस्तथा दद्रे प्रभोस्तनुः । यथा च्छिद्रशताकीर्णा तत्पञ्जरनिभाभवत् ॥ ७१ ॥ तत्राप्यसारतां प्राप्ते पकणे पक्कपत्रवत् । उत्पादित महोत्पातं खरवादमजीजनत् ॥ ७२ ॥ अन्तरिक्षे महावृक्षांस्तुणोत्क्षेपं समुत्क्षिपन् । विचिपन् पांशुविक्षेपं दिक्षु च ग्रावकर्करान् । ७३ ।। सर्व्वतो रोदसीगर्भ भस्त्रापूरं च पूरयन् । उत्पाट्योत्पाट्य वातोऽसौ भगवन्तमपातयद् ॥ ७४ ॥ ( युग्मं ) तेनापि खरवातेनापूर्णकामो विनिर्ममे । घुसत्कुल कलङ्कोऽसौ द्राकुलं कलिकानिलम् ॥ ७५ ॥ भूभृतोऽपि भ्रनयितुमलङ्कर्भीयविक्रमः । भ्रनयामास चक्र स्मृत्पिण्डमिव स प्रभुम् ।। ७६ ।। भ्रम्यमाणोऽवावर्त्तेनेव तेन नभस्वता । तदेकतानो न ध्यानं मनागपि
For Personal & Private Use Only
>*<*>*
Page #34
--------------------------------------------------------------------------
________________
प्रथमः प्रकाशा।
॥
८
॥
योग
जही प्रभुः ॥ ७७ ।। वज्रसारमनस्कोऽयं बहुधापि कदर्थितः । न क्षोभ्यते कथमहं भग्नागामि तां सभाम् | धास्त्रम्।
ना ॥ ७८ ॥ तदस्य प्राणनाशेन ध्यान नश्यति नान्यथा । चिन्तयित्वेति चक्रे स कालचक्र सुराधमः ।। ७६ ।। ग्रहाय तदयोभारसहसघटितं ततः । उद्दधार सुरः शैलं कैलासमिव रावणः ॥ ॥ पृथिवी सम्पुटीकतुं कृतं मन्ये पुटान्तरम् । उत्पत्य कालचक्र स प्रचिक्षपोपरि प्रभोः॥८१॥ ज्वालाजालैरुच्छलद्भिर्दिशः सर्वाः करालयन् । उत्पपात जगद्भर्त्तयोनल इवार्णवे ।।८२॥ कुलक्षितिधरक्षोद क्षमस्यास्य प्रभावतः । नमजाजानु भग वानन्तसुमतीतलम् ।। ८३॥ एवम्भूतोऽपि भगवानशोचदिदमस्य यत् । तिवारयिषवो विश्व वयं संसारकारणम् ।। ८४ ॥ कालचक्रहतोऽप्येष प्रपेदे पश्चतां न यत् । अगोचरस्तवस्त्राणामुपायः क इहापरः ॥ ८५ ।। अनुकूलैरुपसः तुभ्येद्यदि कथञ्चन । इति बुद्ध्या विमानस्थः स पुरोऽस्थादुवाच च ॥८६॥ महर्षे तव तुष्टोऽ. मि सवेन तपसोजमा । प्राणानपेक्षभावनारब्धनिवहणेन च । ..७ ।। पर्याप्तं तपसानेन शरीरलेशकारिणा । ब्रूहि याचस्व मा कार्षीः शङ्कां यच्छामि कि तब ॥१८॥ इच्छामात्रेण पूयन्ते यत्र नित्यं मनारथाः । किमनेनैव देहन त्वां स्वर्ग प्रापयामि तम् । अनादिभवसंरूढकर्मनिक्षलक्षणम् । एकान्तपरमानन्दं मोक्षं वा वां नयामि किम् ।।१०।। अशेषमण्डलाधीशमालिजालितशासनम् । अथवा चैव बच्छामि माम्राज्यं प्राज्यमृद्धिभिः । । इत्थं प्रलोभनावाक्यैरक्षोभ्यमनसि प्रभो। प्राप्तप्रविवारूपापः पुनरेवमचिन्तयत् ।।१२।। मोघीकृत
भनेनैतन्मम शक्तिविजृम्भितम् । तदिदानीममोघं स्याद्यद्य कामशासनम् ।।१३॥ यतः कामास्त्रभूताभिः TI कामिनीभिः कटाक्षिताः । दृष्टा महापुमांसोऽपि लुम्मन्तः पुरुषत्रतम् ।। ६४॥ इति निश्चित्य चिनन निदिदश
in Education International
For Personal & Private Use Only
Page #35
--------------------------------------------------------------------------
________________
सुराङ्गनाः। तद्विभ्रमसहायान् पट् प्रायुड़ स ऋतूनपि ॥५॥ कृतप्रस्तावना मत्तकोकिलाकलकूजिते । कन्दप्पेनाटकनटी वसन्तश्रीरशोभत ||ह। मुखवासं सञ्जयन्ती विकसनीपरेणुभिः। सेरन्ध्रीव दिग्वधूना ग्रीष्मलक्ष्मीरजृम्भत ॥ १७ ॥ राज्याभिषेके कामस्य मङ्गल्यतिलकानिव । गर्वाङ्ग केतकव्याजात्कुती प्रावृडाबभौ ॥ १८ ॥ सहस्रनयनीभूय नवनीलोत्पलच्छलात् । स्वसम्पदमिवोदामां पश्यन्ती शुशुभे शरत् ॥ १६ ॥ जयप्रशस्ति कामस्य श्वेताक्षरसहोदरैः । हेमन्तश्रीलिलेखेव प्रत्यग्रैः कुन्दकुड्मलैः ॥ १०॥ गणि केवोपजीवन्ती हेमन्तसुरभीसमम् । कुन्दैश्च सिन्दुवारैश्च शिशिरश्रीरचीयत ॥१॥ एवमुज़म्भमाणेषु सर्वर्तुषु समन्ततः । मीनध्वजपताकिन्यः प्रादुरासन् सुराङ्गनाः ॥ २॥ सङ्गीतमविगीताङ्गयः पुरी भगवतस्ततः । ताः प्रचक्रमिरे जैत्र मन्त्रास्त्रमिव मान्मथम् ॥ ३ ॥ तेत्राधिसूत्रितलयं गान्धारग्रामबन्धुरम् । काभिश्चिदुदगीयन्ते जातयः शुद्धवेसराः ॥ ४ ॥ क्रमव्युत्क्रमगैस्तानैर्व्यक्तैर्व्यञ्जनधातुभिः । प्रवीणावादयद्वीणां काचित्सकलनिष्कलाम् ।। ५॥ स्फुटत्तकारधोङ्कारप्रकारैर्मेघनिस्वनानश्चिच्च वादयामासुर्मुदङ्गास्त्रिविधानपि ॥ ६॥ नभोभूगतचारीकं विचि
त्रकरणोद्भटम् । दृष्टिभावैर्नवनवैः काश्चिदप्यनरीनृतुः ॥७॥ दृढाङ्गहाराभिनयैः सद्यस्खटितकञ्चका । बनती Hश्लथधम्मिल्लं दोर्मूलं काप्यदीदृशत् ॥ ८॥ दण्डपादाभिनयनच्छलात्कापि मुहुर्मुहुः । चारुगोरोचनागौरमूरूमूलITI मदर्शयत् ॥ ६ ॥ श्लथचण्डातकग्रन्थिदृढीकरणलीलया। कापि प्राकाशयद्वापीसनाभिं नाभिमण्डलम् ॥ १०॥ व्यपदिश्येभदन्ताख्यहस्तकाभिनयं मुहुः। गाढमङ्गपरिष्वङ्गसंज्ञा काचिच्च निर्ममे ॥ ११ ॥ सञ्चारयन्त्यन्तरीयं
(१) तत्रातिसूत्रितलयम् । (२) सुन्दरम् । (३) स्फुटत्त्वपर० प्रत्यन्तरे.
in Education inter
n
For Personal & Private Use Only
Page #36
--------------------------------------------------------------------------
________________
योगशास्त्रम्
नीवीनिविडनच्छलात् । नितम्बविम्बफलकं काचिदाविरमावयत् ॥१२॥ अङ्गभङ्गापदेशेन वचः पीनोन्नतस्तनम् ।
प्रथम: सुचिरं रोचयामास काचिद् रुचिरलोचना ॥ १३॥ यदि त्वं वीतरागोऽसि रागं तन्नस्तनोषि किम् । शरीरनिर
प्रकाशः पेक्षश्चेद्दत्से वक्षोऽपि किन नः ॥ १४ ॥ दयालुर्यदि वासि त्वं तदानीं विषमायुधात् । अकाण्डाकृष्टकोदण्डादस्मान्न त्रायसे कथम् ॥१५॥ उपेक्षसे कौतुकेन यदि नः प्रेमलालसाः । किश्चिन्मात्रं हि तयुक्तं मरणान्तं न युज्यते ॥ १६ ॥ स्वामिन् कठिनतां मुश्च पूरयासन्मनोरथान् । प्रार्थनाविमुखो मा भूः काश्चिदित्युचिरे चिरम् | ॥ १७ ॥ एवं गीतातोद्यनृत्तैर्विकारैराणिकैरपि । चाटुभिश्च सुरखीणां न चुक्षोभ जगत्प्रभुः॥१८॥ एवं राबोर व्यतीतायां ततो विहरतः प्रभोः। निराहारस्य पण्मासान् सुराधम उपाद्रवत् ॥ १६ ॥ भट्टारक सुखं तिष्ठ स्वैरं भ्रम गतोऽस्म्यहम् । षण्मासान्ते वन्नेवं खिनः सङ्गमकोऽगमत् ।। २०॥ कर्मणैवंविधनायं क वराको व्रजिष्यति। [] न शक्यते तारयितुमसाभिरपि तारकैः ॥२१॥ एवं भगवतश्चिन्तां तन्वतस्तत्र गच्छति । दृशावभूतां कृपयोद्वाप्पे मन्थरतारके ॥ १२२ ॥३॥
एवं देवतां नमस्कृत्य मुक्तिमार्ग योगमभिधित्सुस्तच्छास्त्रं प्रस्तौति। श्रुताम्भोधेरधिगम्य सम्प्रदायाच्च सद्गुरोः । स्वसम्वेदनतश्चापि योगशास्त्रं विरच्यते ॥४॥ ___ इह नानिणीतस्य योगस्य पदवाक्यप्रबन्धेन शास्त्रविरचना कर्तुमुचितेति योगस्य विहेतुको निर्णयः ख्याप्यते।शास्त्रतो गुरुपारम्पा खानुभवाच्च । तं त्रिविधमपि क्रमेणाह । श्रुताम्भोधेः सकाशादधिगम्य निर्णीय
॥8 ॥
Jain Education.inter-TI
For Personal & Private Use Only
Page #37
--------------------------------------------------------------------------
________________
* योगमिति शेपः । तथा गुरुपारम्पर्य्यात् तथा स्वसम्बेदनादेवं विधा योगं निश्चित्य तच्छास्त्रं विरच्यते । एतदेव | निर्वहणे वक्ष्यति । ___या शास्त्रात्स्वगुरोर्मुखादनुभवाचाज्ञायि किश्चित् कचित् योगस्पोपनिषद्विवेकिपरिपञ्चेतश्चमत्कारिणी। श्रीचौरे लुक्यकुमापालनृपतेरत्यर्थमभ्यर्थनादाचार्येण निवेशिता पथि गिरा श्रीहेमचन्द्रेण सा ॥ १ ॥ ४:।
योगस्यैव माहात्म्यमाहयोगः सर्वविपदल्लीविताने परशुः शितः। अमूलमन्त्रतन्त्रं च कामणं नितिश्रियः ॥५॥
सर्वा विपद आध्यात्मिक-नाधिभौतिक-आधिदैविकलक्षणाः ताश्चातिविततत्वाद्वल्लीरूपास्तासां वितानः | समूहस्तत्र तीक्ष्णः परशुर्योग इत्यनर्थपरिहारो योगस्य फलम् । उत्तरार्द्धनार्थप्राप्तिमोक्ष लक्ष्म्याः परमपुरुषार्थरूपाया | मूलमन्त्रतन्त्र परिहारेण कार्मणं संवननं योगः । कार्मणं हि मूलमन्त्र तन्त्रैर्विधीयते । योगस्तु मूलादिरहित एव मोक्षलक्ष्मीवशीकरण हेतुरिति ।। ५॥ कारणोच्छेदमन्तरेण न विपल्लक्षणस्य कार्यस्योच्छेदःशक्यक्रिय इति विपत्कारणपापनिर्घातहेतुत्वं योगस्याहभूयांसोऽपि हि पाप्मानः प्रलयं यान्ति योगतः । चण्डवाताद्घनघना घनाघनघटा इव ॥६॥
बहून्यपि पापानि योगात्प्रलयमुपयान्ति प्रचण्डवातोध्धृता अतिघना मेघघटा इव ॥ ६ ॥ स्यादेतदेकजन्मोपार्जितं पापं योगःक्षिणुयादपि अनेकभवपरम्परोपात्तपापस्य तु निमूलनं योगादसम्भावनीयमित्याह
Education International
For Personal Private Use Only
Page #38
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥ १० ॥
Jain Education Inter
0310/07/04,10
+10+9
क्षिणोति योगः पापानि चिरकालार्जितान्यपि । प्रचितानि यथैधांसि क्षणादेवाशुशुक्षणिः ॥७॥ यथा चिरकाल मीलितान्यपीन्धनानि चणमात्रप्रचितोऽप्यकृशः कृशानुर्भस्मसात्करोति । एवं योगः क्षणमा - त्रेणैव चिरसञ्चितपापसंचयक्षमो भवतीति ॥ ७ ॥
योगस्य फलान्तरमाह -
कफविमलामर्शसर्व्वैषधिमहर्द्धयः । सम्भिन्नश्रोतोलब्धिश्च योगं ताण्डवडम्बरम् ॥ ८ ॥ महर्द्धिशब्दः प्रत्येकमपि सम्बध्यते । कफः श्लेष्मा विप्रुडुच्चारः पुरीषमिति यावत् । मलः कर्णदन्तनासिका - नयन जिद्दोद्भवः शरीरसम्भवश्च । श्रमर्शो हस्तादिना स्पर्शः सर्व्वे विण्मूत्रकेशनखादय उक्ता अनुक्ताच औषधयो योगप्रभावान्महर्द्धयो भवन्ति । अथवा महर्द्धयो विभिन्ना एवाणुत्वादयः तथा श्रोतांसीन्द्रियाणि संभिन्नानि सङ्गतानि एकैकशः सर्व्वविषयैस्तेषां लब्धिर्योगस्येदं यौगं ताण्डवडम्बरं दर्शितम् ।
तथाहि योगमाहात्म्याद्योगिनां कफबिन्दवः । सनत्कुमारादेखि जायन्ते सर्व्वरुदिः ॥ १ ॥ सनत्कुमारो हि पुरा चतुर्थचक्रवर्च्य भूत् । पदखण्डपृथिवीभोक्ता नगरे हस्तिनापुरे ॥ २ ॥ कदाचिच सुधर्मायां सभायां जातविस्मयः । रूपं तस्याप्रतिरूपं वर्णयामास वासवः ॥ ३ ॥ राज्ञः सनत्कुमारस्य कुरुवंशशिरोमणेः । यद्रूपं न तदन्यत्र देवेषु मनुजेषु वा ॥ ४ ॥ इति प्रशंसां रूपस्याश्रद्दधानावुभौ सुरौ । विजयो वैजयन्तश्च पृथिव्यामव( १ ) पि कृशः प्रत्यन्तरे । ( २ ) विलसितम् ।
For Personal & Private Use Only
103-08-1.0008084+08+0
प्रथमः
प्रकाशः ।
॥ १० ॥
Page #39
--------------------------------------------------------------------------
________________
तेरतुः ॥५॥ ततस्तौ विप्ररूपेण रूपान्वेषणहेतवे । प्रासादद्वारि नृपतेस्तस्थतुर्कीःस्थसन्निधौ ॥ ६॥ आसीत् सनत्कुमारोऽपि तदा प्रारब्धमज्जनः । मुक्तनिःशेषनेपथ्यः सर्वाङ्गाभ्यङ्गमुद्वहन् ।.७॥ द्वारस्थौ द्वारपालेन द्विजाती तो निवेदितौ । न्यायवर्ती चक्रवर्ती तदानीमप्यवीविशत् ॥८॥ सनत्कुमारमालोक्य विस्मयस्मेरमानसौ। धूनयामासतुर्मीलिं चिन्तयामासतुश्च तौ ॥ ६ ॥ ललाटपट्टः पर्यस्ताष्टमीरजनिजानिकः । नेत्रे कर्णान्तविश्रान्ते जितनीलोत्पलत्विषी ।। १० । दन्तच्छदौ पराभूतपकविम्बीफलच्छवी । निरस्तशुक्तिको कर्णो कण्ठोऽयं पाञ्चजन्यजित् ॥ ११ ॥ करिराजकराकारतिरस्कारकरौ भुजौ । स्वर्णशैलशिलालक्ष्मीविलुण्टाकमुरःस्थलम् ॥१२॥ मध्यभागो मृगारातिकिशोरोदरसोदरः। किमन्यदस्य सर्वाङ्गलक्ष्मीर्वाचां न गोचरः ॥ १३ ॥ अहो कोऽप्यस्य लावण्यसरित्पूरो निरर्गलः । येनाभ्यङ्गं न जानीमो ज्योत्स्नयोडुप्रभामिव ॥ १४॥ यथेन्द्रो वर्णयामास तथेदं भाति नान्यथा । मिथ्या न खलु भाषन्ते महात्मानः कदाचन ॥ १५॥ किं निमित्तमिहायातौ भवन्तौ द्विजस|त्तमौ । इत्थं सनत्कुमारेण पृष्टौ तावेवरचतुः॥ १६ ॥ लोकोत्तरचमत्कारकारकं सचराचरे । भुवने भवतो रूपं नरशार्दूल गीयते ॥ १७ ॥ दूरतोऽपि तदाकर्ण्य तरङ्गितकुतूहलौ । विलोकयितुमायातावावामवनिवासव ॥१८॥ वर्ण्यमानं यथा लोके शुश्रुवेऽस्माभिरद्भुतम् । रूपं नृप ततोऽप्येतत्सविशेष निरीक्ष्यते ॥१६॥ ऊचे सनत्कुमारोऽपि सितविस्फुरिताधरः । इयं हि कियती कान्तिरङ्गेऽभ्यङ्गतरङ्गिते ॥ २०॥ इतो भूत्वा प्रतीक्षेथां क्षणमात्रं द्विजोत्तमौ । यावनिवर्त्यतेऽस्माभिरेष मज्जनकक्षणः ॥२१॥ विचित्ररचिताकल्पं भूरिभूषणभूषितम् । रूपं पुनर्निरीक्षेथां सरत्नमिव काञ्चनम् ॥ २२ ॥ ततोऽवनिपतिः स्नात्वा कल्पिताकम्पभूषणः । साडम्बरः सदोऽध्यास्ताम्बररत्नमि
Iain Education intera
For Personal & Private Use Only
Page #40
--------------------------------------------------------------------------
________________
प्रथमः
प्रकाश
वाम्बरम् ।। २३ ।। अनुज्ञातो ततो विप्रो पुरोभूय महीपतेः । निदध्यतुश्च तां विषणी दध्यतुश्च तो।।२४॥ बोग
व तद्रूपं क्व मा कान्तिः क्व तल्लावण्यमप्यगात् । क्षणेनाप्यस्य मानां क्षणिकं सर्वमेव हि ॥ २५ । नृपः शास्त्रम्।
प्रोवाच तो कस्मादृष्ट्वा मां मुदितौ पुरा । कस्मादकस्मादधुना विषादमलिनानना ॥ २६॥ ततस्तावूचतुरिदं: ॥११॥
सुधामधुरया गिरा । महाभाग सुरावावां सौधर्मस्वर्गवासिनौ ।। २७ ।। मधे सुरसभं शक्रश्चक्रे त्वद्रुपवर्णनम् । अश्रद्दधानौ तद्रष्टुं मर्त्यमांगताविह !! २८ ॥ शक्रेण वर्णितं यादृक् तादृशं वपुरीक्षितम् । रूपं नृप तवेदानीमन्यादृशमजायत ॥ २६ ॥ अधुना व्याधिभिरयं कान्तिसर्वस्वतस्करैः। देहः समन्तादाक्रान्तो निःश्वासैरिव दर्पणः ।। ३० । यथार्थमभिधायति दाक्तिरोहितयोस्तयोः । विच्छायं वं नृपोऽपश्यद्धिमग्रस्तमिव दुमम् ।। ३१॥ | अचिन्तयच धिगिदं सदा गदपदं वपुः । मुधैव मुग्धाः कुर्वन्ति तन्मूच्छा तुच्छबुडयः ॥ ३२ ।। शरीरमन्तरुत्प| नैयाधिभिर्विविधैरिदम् । दीर्यते दारुणेर्दारु दारुकीटगणैरिव ।। ३३ ।। बहिः कथश्चिद्यद्यतत्प्ररोच्येत तथापि | हि । नैयग्रोधं फलमिव मध्ये कृमिकुलाकुलम् ।। ३४ ।। रुजा लुम्पति कायस्य तत्कालं रूपसम्पदम् । महासरो
वरस्येव वारिसेवालवल्लरी ॥ ३५ ॥ शरीरं श्लथते नाशा रूपं याति न पापधीः। जरा स्फुरति न ज्ञान धिग् * स्वरूपं शरीरिणाम् । ३६ ।। रूपं लवणिमा कान्तिः शरीरं द्रीणान्यपि । संसारे तरलं सर्व कुशाग्रजलबिन्दुवत्
॥ २७ ॥ अद्यमीनविनाशस्य शरीरस्य शरीरिणाम् । सकामनिर्जरासारं तप एव महत्फलम् ॥३८।। इति | सञ्जातवैराग्यभावनः पृथिवीपतिः । प्रवज्यां स्वयमादित्सुः सुतं राज्ये न्यबीविशत् ।। ३६ ॥ गत्वोद्याने सविनयं
(१) ख. ग. ताहगेव पुरेक्षितम् ।
For Personal & Private Use Only
Page #41
--------------------------------------------------------------------------
________________
विनयन्धरसूरितः । सर्वसावद्यविरतिप्रधानं सोऽग्रहीत्तपः ॥ ४०॥ महावतधरस्यास्य दधानस्योत्तरान् गुणान् । ग्रामाद्यामं विहरतः समतैकाग्रचेतसः ॥ ४१ ॥ गाढानुरागबन्धेन सर्व प्रकृतिमण्डलम् । पृष्ठतोऽगाकरिकुलं महायूथपतेरिव ॥ ४२ ॥ (युग्मं ) निष्कषायमुदासीनं निर्ममें निष्परिग्रहम् । तं पर्युपास्य पण्मासान् कथश्चि. त्तन्न्यवर्त्तत ।। ४३ ।। यथाविध्यात्तभिक्षाभिरकालापथ्यभोजनैः । व्याधयोऽस्य ववृधिरे सम्पूर्णैर्दोहदैरिव ।। ४४ ॥ कच्छ्रशोषज्वरश्वासारुचिकुक्ष्यक्षिवेदनाः । सप्ताधिसेहे पुण्यात्मा सप्तवर्षशतानि सः॥४५॥ दुःसहान् सहमानस्य | तस्याशेषपरीपहान् । उपायनिरपेक्षस्य समपद्यन्त लब्धयः ॥ ६ ॥ अत्रान्तरे सुरपतिः समुद्दिश्य दिवौकसः । हृदि जातचमत्कारश्चकारेत्यस्य वर्णनम् ॥ ४७ । चक्रवर्तिश्रियं त्यक्त्वा प्रचलत्तृणपूलवत् । अहो सनत्कुमारोऽयं तप्यते दुस्तपं तपः ॥ ४ ॥ तपोमाहात्म्यलब्धासु सास्मपि हि लब्धिषु । शरीरनिरपक्षोऽयं स्वरोगान्न चिकित्सति ।। ४६ ।। अश्रद्दधानौ तद्वाक्यं वैद्यरूपधरौ सुरौ । विजयो वैजयन्तश्च तत्समीपमुपेयतुः ॥ ५० ॥ ऊचतुश्च महाभाग किं रोगैः परिताम्यसि । वैद्यावावां चिकित्सायो विश्व स्वैरेव भेषजैः ॥ ५१ ॥ यदि त्वमनुजानासि रोगग्रस्तशरीरकः । तदहाय निगृह्णीवो रोगानुपचितांस्तव ॥ १२॥ ततः सनत्कुमारोऽपि प्रत्यूचे भोचिकित्सको द्विविधा देहिनां रोगा द्रव्यतो भावतोऽपि च ॥ ५३ ॥ क्रोधमानमायालोभा भावरोगाः शरीरिणाम् । जन्मान्तरसहस्रानुगामिनोऽनन्तदुःखदाः ।। ५४॥ तांश्चिकित्सितुमीशी चेयुवा त है चित्सितम् । अथो चिकित्सथो द्रव्य गेगांस्तगत पश्यतम् ॥ ५५ ॥ ततोऽङ्गुली गलत्पामा शीणां स्वकफविपुषा । लिमा शुन्यं रसेनेव द्राक् सुवर्णी
(१) तौ।
in Education International
For Personal & Private Use Only
Page #42
--------------------------------------------------------------------------
________________
प्रथमः
योग
प्रकाशः।
शास्त्रम्
॥ १२ ॥1
चकार सः॥ ५६ ॥ ततस्तामङ्गली स्वर्णशलाकामिव भास्वतीम् । आलोक्य पादयोस्तस्य पेततुः पोचतुश्च तौ ।। ५७ ॥ निरुरूपयिष रूपं यौ त्वामायातपूविणौ । तावेव त्रिदशावावां सम्प्रत्यपि समागतौ ।। ५८ ॥ सिद्धलब्धिरपि व्याधिवाधां सोढा तपस्यति । सनत्कुमारो भगवानितीन्द्रस्त्वामवर्णयत् ॥ १६॥ आवाभ्यां तदिहागत्य प्रत्यक्षेण परीक्षितम् । इत्युदित्वा च नत्वा च त्रिदशौ तौ तिरोहितौ ॥६० ॥ एतनिदर्शनमात्रं कफलब्धेः प्रदर्शितम् । लब्ध्यन्तरकथा नोक्ता ग्रन्थगौरवभीरुभिः । ६१॥ योगिनां योगमाहात्म्यात्पुरीषमपि कल्पते । रोगिणां रोगनाशाय कुमुदामोदशालि च ॥ ६२॥ मलः किल समाम्नातो द्विविधः सर्वदेहिनाम् । कर्णनेत्रादिजन्मको द्वितीयस्तु वपुर्भवः ॥६॥ योगिनां योगसम्पत्तिमाहात्म्याद्विविधोऽपि सः । कस्तू रिकापरिमलो रोगहा सर्वरोगिणाम् ।। ६४ ॥ योगिनां कायसंस्पर्शः सिञ्चन्निव सुधारसैः । क्षिणोति तत्क्षणं सर्वानामयानामयाविनाम् । ॥६५॥ नखाः केशा रदाश्चान्यदपि योगिशरीरगम् । भजते भेषजीभावमिति सवौषधिः स्मृता ॥ ६६ ॥ तथाहि तीर्थनाथानां योगभृच्चक्रवर्तिनाम् । देहास्थिसकलस्तोमः सर्वस्वर्गेषु पूज्यते ॥ ६७ ॥
किञ्च
मंघमुक्तमपि वारि यदङ्गसङ्गमात्रानदीवाप्यादिगतमपि सर्वरोगहरं भवति । तथा विषमूञ्छिता अपि यदीयाङ्गसङ्गिवातस्पर्शादेव निर्विषा भवन्ति । विषसंपृक्तमप्यन्नं यन्मुखप्रविष्टमविषं भवति । महाविषव्याधिवाधिता अपि यद्वचःश्रवणमात्राद्यदर्शनाच्च वीतविकारा भवन्ति । एष सर्वोऽपि सर्वोपधिप्रकारः। एते कफादयो महर्द्धिरूपाः । अथवा महर्द्धयो विभिन्ना एव । वैक्रियलब्धयोऽनेकधा अणुत्व-महत्व-लघुत्व-गुरुत्व-प्राप्ति-प्राका
॥१२॥
Jan Education
For Personal & Private Use Only
Page #43
--------------------------------------------------------------------------
________________
03-04 +0.0
Jain Education Intera
•→→30+++*+->
म्य - ईशित्व - वशित्व - प्रतिघातित्व - अन्तर्द्धान- कामरूपित्वादिभेदात् ।
अणुत्वमणुशरीरविकरणम् । येन बिसच्छिद्रमपि प्रविशति तत्र च चक्रवर्त्तिभोगानपि भुङ्क्ते । महत्त्वं मेरोरपि महत्तरशरीरकरणसामर्थ्यम् । लघुत्वं वायोरपि लघुतरशरीरता । गुरुत्वं वज्रादपि गुरुतरशरीरतया इन्द्रादिभिरपि प्रकृष्टबलैर्दुःसहता । प्राप्तिर्भूमिस्थस्य अङ्गुल्यग्रेण मेरुपर्व्वताग्रप्रभाकरादिस्पर्शसामर्थ्यम् । प्राकाम्यम भूमाविव प्रविशतो गमनशक्तिः तथा अस्विव भूमावुन्मज्जननिमज्जने । ईशित्वं त्रैलोक्यस्य प्रभुता तीर्थकरत्रिदशेश्वरऋद्धिविकरणम् । वशित्वं सर्व्वजीववशीकरणलब्धिः । अप्रतिघातित्वं अद्रिमध्येऽपि निःसङ्गगमनम् । अन्तर्द्धानमदृश्यरूपता । कामरूपित्वं युगपदेव नानाकाररूपविकरणशक्तिः । इत्येवमादयो महर्द्धयः । अथवा प्रकृष्टश्रुतावरणवीर्यान्तराय क्षयोपशमाविर्भूता साधारण महाप्रज्ञर्द्धिलाभा श्रनधीतद्वादशाङ्गचतुर्द्दशपूर्वा पि सन्तो यमर्थ चतुर्द्दशपूर्वी निरूपयति तस्मिन् विचारकृच्छ्रेऽप्यर्थेऽतिनिपुणप्रज्ञाः प्राज्ञश्रमणाः । श्रन्येऽधीतदशपूर्वा रोहिणीप्रज्ञत्यादिमहाविद्यादिभिरङ्गुष्ठप्रसेनिकाभिरल्पविद्यादिभिचोपनतानां भूयसीनामृद्धीनां अवशगा विद्यावेगधारणात् विद्याधर श्रमणाः । केचिद्वीजकोष्ठपदानुसारिबुद्धिविशेषर्द्धियुक्ताः । सुकृष्टवसुमतीकृते क्षेत्रे क्षित्युदकाद्यनेककारणविशेषापेक्षं बीजमनुपहतं यथानेकबीजकोटीप्रदं भवति तथैव ज्ञानावरणादिक्षयोपशमातिशयप्रतिलम्भादेकार्थबीजश्रवणे सति अनेकार्थबीजानां प्रतिपत्तारो बीजबुद्धयः । कोष्ठागारिकस्थापितानामसङ्कीर्णानामविनष्टानां भूयसां धान्यबीजानां यथा कोष्ठेऽवस्थानं तथा परोपदेशादवधारितानां श्रौतानामर्थग्रन्थबजानां भूयसामनुस्मरणमन्तरेणाविनष्टानामवस्थानात्कोष्ठबुद्धयः । पदानुसारिणोऽनुश्रोतः पदानुसारिणः प्रतिश्रोतः पदा
३
For Personal & Private Use Only
,K•-208-10.0+008-03-200
Page #44
--------------------------------------------------------------------------
________________
योग
शाखम्
॥ १३ ॥
R-0906
K+106,0.0208.19.+1084-193
नुसारिण उभयपदानुसारिणश्च । तत्रादिपदस्यार्थं ग्रन्थं च परत उपश्रुत्य पटुतरमतयोऽनुश्रोतः पदानुसारिबुद्धयः । अन्त्यपदस्यार्थं ग्रन्थं च परत उपश्रुत्य ततः प्रातिकूल्येनादिपदादाअर्थग्रन्थ विचार पटवः प्रतिश्रोतः पदानुमारिबुद्धयः । मध्यपदस्यार्थं ग्रन्थं च परकीयोपदेशादधिगम्याद्यन्तावघिपरिच्छन्नपद समूहप्रतिनियतार्थग्रन्थोदधिसमुत्तरण समर्थासाधारणातिशयपटुविज्ञाननियता उभयपदानुसारिबुद्धयः । बीजबुद्धिरेक पदार्थावगमादनेकार्थानामवगन्ता पदानुसारी स्वेकपदावगमात्पदान्तराणामवगन्तेति विशेषः । तथा मनोवाक्कायलिनः । तत्र प्रकृष्टज्ञानावरण वीर्यान्तरायक्षयोपशमविशेषेण वस्तुद्धत्यान्तर्मुहूर्त्तेन सकलश्रुनोदध्यवगाहनावदातमनसो मनोबलिनः । अन्तर्मुहूर्त्तेन सकलश्रुतवस्तूच्चारणसमर्थ वाग्बलिनः । अथवा पदवाक्यालङ्कारोपेतां वाचमुच्चैरुच्चारयन्तो ऽविरहितवाक्क्रमाहीन कण्ठा वाग्बलिनः । वीर्यान्तरायक्षयोपशमाविर्भूता साधारण कायबलत्वात्प्रतिमयावतिष्ठमानाः श्रमक्रमविरहिता वर्षमात्रप्रतिमाधरा बाहुबलिप्रभृतयः कायबलिनः । तथा चीरमधुसर्पिरमृतास्रविणो येषां पात्रपतितं कदन्नमपि क्षीरमधुमरिमृतरसवीर्यविपाकं जायते वचनं वा शरीरमानस दुःखप्राप्तानां देहिनां क्षीरादिवत्सन्तर्पकं भवति ते क्षीरास्रविणो मध्वास्रविणः सशस्रविणोऽमृतास्रविणश्च । केचिदक्षीणर्द्वियुक्तास्ते च द्विविधा अक्षीणमहानसा अक्षीण महालयाश्च । येषामसाधारणान्तरायचयेोपशमादल्पमात्रमपि पात्रपतितमन्नं गौतमादीनामिव बहुभ्यो दीयमानमपि न क्षीयते ते क्षीण महानसाः । अक्षीण महालयद्विप्राप्ताश्च यत्र परिमितभूप्रदेशेऽवतिष्ठन्ते तत्रासंख्याता अपि देवास्तिर्यञ्चो मनुष्याश्च सपरिवाराः परस्परबाधारहिता स्तीर्थ करपर्षदी व सुखमासते । इति प्रज्ञाश्रमणादिषु महाप्रज्ञादयो महर्द्धयो दर्शिताः ।
For Personal & Private Use Only
अन्त्यपदादर्थग्रन्थविचारणासमर्थ
**10/8000-670%
प्रथम
प्रकाशः ।
॥ १३ ॥
Page #45
--------------------------------------------------------------------------
________________
सर्वेन्द्रियाणां विषयान् गृहात्येकमपीन्द्रियम् । यत्प्रभावेन सम्मिन्नश्रोतोलन्धिस्तु सा मता ॥१॥८॥ तथाचारणाशीविषावधिमनःपर्यायसम्पदः । योगकल्पद्रुमस्यैता विकासिकुसुमश्रियः ॥ ९ ॥
अतिशयचरणाच्चारणा अतिशयगमनादित्यर्थः । तत्सम्पनलब्धिरित्यर्थः । आशीविषलब्धिनिग्रहानुग्रहसामर्थ्यम् । अवधिज्ञानलब्धिमूर्त्तद्रव्यविषयं ज्ञानम् । मनःपर्यायज्ञानलन्धिर्मनोद्रव्यप्रत्यक्षीकरणशक्तिः। एता लन्धयो योगकल्पवृक्षस्य कुसुमभूताः। फलं तु केवलज्ञानं मोक्षो वा । भरतमरुदेव्युदाहरणाभ्यां वक्ष्यते ।
तथाहि
द्विविधाश्चारणा ज्ञेया जङ्घाविद्योत्थशक्तितः । तत्राद्या रुचकद्वीपं यान्त्येकोत्पातलीलया ॥१॥ वलन्तो रुचकद्वीपादेकेनोत्पतनेन ते । नन्दीश्वरे समायान्ति दितीयेन यतो गताः ॥२॥ ते चोर्ध्वगत्यामेकेन समुत्पतनकर्मणा । गच्छन्ति पाण्डुकवनं मेरुशैलशिरःस्थितम् ॥ ३॥ ततोऽपि वलिता एकोत्पातेनायान्ति नन्दनम् । उत्पातेन द्वितीयेन प्रथमोत्पातभूमिकाम् ॥४॥ विद्याचारणास्तु गच्छन्त्येकनोत्पातकर्मणा । मानुषोत्तरमन्येन द्वीपं नन्दीश्वराहयम् ॥॥ तस्मादायान्ति चैकेनोत्पातेनोत्पतिता यतः। यान्त्यायान्त्यर्द्धमार्गेऽपि तिर्यग्यानक्रमण ते ॥६॥ __अन्येऽपि बहुभेदाश्चारणा भवन्ति । तद्यथा आकाशगामिनः पर्यावस्थानिषण्णाः कायोत्सर्गशरीरा वा पादोत्पनिक्षेपक्रमाद्विना व्योमचारिणः । केचित्तु जलजङ्घाफलपुष्पपत्रश्रेण्याग्निशिखाधूमनाहारावश्यायमघवारिधारामर्कटकतन्तुज्योतीरश्मिपवनाद्यालम्बनगतिपरिणामकुशलाः । जलमुपेत्य वापीनिम्नगासमुद्रादिप्वकायिक
in duinema
For Personal & Private Use Only
Page #46
--------------------------------------------------------------------------
________________
योगशास्त्रम्
प्रथम प्रकाशा
जीवानविराधयन्तो जले भूमाविव पादोत्क्षेपनिक्षेपकुशला जलचारणाः । भुव उपरि चतुरङ्गलप्रमिते आकाशे जङ्घानिक्षेपोत्क्षेपनिपुणा जङ्घाचारणाः। नानाद्रुमफलान्युपादाय फलाश्रयप्राण्यविरोधेन फलतले पादोत्क्षेपनिक्षेपकुशलाः फलचारणाः नानाद्रुमलतागुल्मपुष्पान्युपादाय पुष्पसूक्ष्मजीवानविराधयन्तः कुसुमतलदलावलम्बनसङ्गगतयः पुष्पचारणाः । नानावृक्षगुल्मवीरुल्लताविताननानाप्रवालतरुणपल्लवालम्बनेन पर्णसूक्ष्मजीवानविराधयन्तश्चरणोत्क्षेपनिक्षेपपटवः पत्रचारणाः । चतुर्योजनशतोच्छितस्य निषधस्य नीलस्य चाद्रेष्टङ्कच्छिन्नां श्रेणिमुपादायोपवेंधो वा पादपूर्वकमुत्तरणावतरणनिपुणाः श्रेणिचारणाः । अग्निशिखामुपादाय तेजःकायिकानविराधयन्तः स्वयमदह्यमानाः पादविहारनिपुणा अग्निशिखाचारणाः । धूमवर्ति तिरश्चीनामूर्द्धगां वा आलम्ब्यास्खलितगमनास्कन्दिनो धूमचारणाः। नीहारमवष्टभ्याप्कायिकपीडामजनयन्तो गतिमसङ्गामश्नुवाना नीहारचारणाः । अवश्यायमाश्रित्य तदाश्रयजीवानुपरोधेन यान्तोऽवश्यायचारणाः । नभोवम॑नि प्रविततजलधरपटलपटास्तरणे जीवानुपघातिचक्रमणप्रभवो मेघचारणाः ।प्रावृषेण्यादिजलधरादेर्विनिर्गतवारिधारावलम्बनेन प्राणिपीडामन्तरेण यान्तो वारिधाराचारणाः। कुब्जवृक्षान्तरालभाविनभःप्रदेशेषु कुब्जवृक्षादिसम्बद्धमर्कटकतन्त्वालम्बनपादोद्धरणनिक्षेपावदाता मर्कटकतन्तूनच्छिन्दन्तो यान्तो मर्कटकतन्तुचारणाः । चन्द्रार्कग्रहनक्षत्राद्यन्यतमज्योतीरश्मिसम्बन्धेन भुवीव पादविहारकुशलाः ज्योतीरश्मिचारणाः । पवनेष्वनेकदिग्मुखोन्मुखषु प्रतिलोमानुलोमवर्तिषु तत्प्रदेशावलीमुपादाय गतिमस्खलितचरणविन्यासामास्कन्दन्तो वायुचारणाः ।
तपश्चरणमाहात्म्यागुणादितरतोऽपि वा । आशीविषाः समर्थाः स्युनिग्रहेऽनुग्रहेऽपि च ॥१॥ द्रव्याणि मूर्ति
॥१४॥
Lain Education inte
For Personal & Private Use Only
Page #47
--------------------------------------------------------------------------
________________
मन्त्येव विषयो यस्य सर्व्वतः । नैयत्यरहितं ज्ञानं तत्स्यादवधिलक्षणम् ||२|| स्यान्मनः पर्य्ययो ज्ञानं मनुष्य क्षेत्रवर्त्तिनाम् । प्राणिनां समनस्कानां मनोद्रव्यप्रकाशकम् ||३|| ऋजुश्च विपुलश्चेति स्यान्मनः पर्य्ययो द्विधा । विशुद्ध्यप्रतिपाताभ्यां विपुलस्तु विशिष्यते ॥ ४ ॥ ६ ॥
केवलज्ञानलचणफलोपदर्शनेन योगमेव स्तौति -
हो योगस्य माहात्म्यं प्राज्यं साम्राज्यमुद्वहन् । श्रवाप केवलज्ञानं भरतो भरताधिपः ॥ १०॥ अहो इत्याश्चर्ये प्राज्यं पुष्कलं साम्राज्यं चक्रवर्त्तित्वमुद्वहनेव न पुनस्त्यक्तराज्यसम्पत् । भरताधिपः षट्खण्ड भरत क्षेत्रस्वामी । तथाहि
एतस्यामवसर्पिण्यामेकान्तसुषमारके । सागरोपमकोटीनां चतुष्कोटिमिते गते ॥ १ ॥ सागरोपमकोटीनां तिसृभिः कोटिभिर्मिते । अरके सुषमानाम्नि द्वितीयेऽपि गते सति ॥ २ ॥ तद्विकोटाकोटिमिते ग्रुपमदुःपमारके । पल्ल्याष्टमांशशेषे च दक्षिणार्द्धस्य भारते || ३ || सप्ताभूवन् कुलकरा इमे विमलवाहनः । चक्षुष्मांश्च यशस्वी चाभिचन्द्रोऽथ प्रसेनजित् । || ४ || मरुदेवश्च नाभिश्च तत्र नाभेर्गृहिण्यभूत् । मरुदेवेति सच्छील पवित्रितजगत्रया ॥ ५ ॥ तृतीयारस्य शेषेषु पूर्वलक्षेषु संख्यया । चतुरशीतौ सार्द्धाष्टमासे वर्षत्रयेऽपि च ।। ६ ।। तस्याश्च कुक्षौ सर्वार्थविमानादवतीर्णवान् । चतुर्दशमहास्वमसूचितः प्रथमो जिनः ||७|| नाभेश्व मरुदेव्याश्च तदा सम्यगजानतोः । स्वनार्थमिन्द्राः सर्वेऽपि व्याचक्रुः प्रमदोन्मदाः ॥ ८ ॥ ततः सुखेन जातस्य शुभे परमेशितुः । षट्पञ्चाशत्
For Personal & Private Use Only
P-1.03+1064000
www.jainvelibrary.org
Page #48
--------------------------------------------------------------------------
________________
बोग
प्रथम प्रकाशः।
बास्त्रम्
*ORARYAY
॥१५॥
दिकुमार्यः सूतिकर्म प्रचक्रिरे ॥ ९॥ मेरुमूर्ध्नि विभुं नीत्वा कृत्वोत्सङ्गे दिवस्पतिः। तीर्थोदकैरभ्यषिञ्चत्स्वं च हर्षावारिभिः ॥१०॥ वासवेन ततो मातुरर्पितस्य जगद्गुरोः। धात्रीकर्माणि सर्वाणि विदधुर्विबुधस्त्रियः ॥११॥ निरीक्ष्य ऋषभाकारं लक्ष्मोरौ दक्षिणे प्रभोः । चक्रतुः पितरौ नाम ऋषभेति प्रमोदतः ॥ १२ ॥ अमन्दं दददानन्दं सुधारश्मिरिद प्रभुः। त्रिदशाहारयोगेन पोषितो ववृधे क्रमात् ॥ १३ ॥ अन्येधुर्युसदामीश उपासितुमुपागतः । अचिन्तयद्भगवतो वंशः क इह कल्प्यताम् ॥ १४ ॥ अवगत्य तदाकूतमवधिज्ञानतो विभुः। तत्करेक्षुलता लातुं करीव करमक्षिपत् ॥१५॥ तां समर्प्य जगद्भर्तुः प्रणम्य च बिडौजसा । इक्ष्वाकुरिति वंशस्य तदा नाम प्रतिष्ठितम् ॥ १६ ॥ बाल्यं कन्यमिवोल्लङ्घय मध्यन्दिनमिवार्यमा । विभुर्विभक्तावयवं द्वितीयं शिश्रिये | वयः ॥ १७ ॥ यौवनेऽपि मृद् रक्तौ कमलोदरसोदरौ । उष्णावकम्प्रावस्वेदौ पादौ समतलौ प्रभोः ॥ १८ ॥ नतार्तिच्छेदनायेव प्रपेदे चक्रमीशितुः । सदास्थित श्रीकरणोरिव दामाङ्कुशध्वजाः ॥ १६ ॥ स्वामिनः पादयोलेक्ष्मीलीलासदनयोरिव । शवकुम्भौ तले पाणौँ स्वस्तिकश्च विरेजिरे ॥ २०॥ मांसलो वर्तुलस्तुङ्गो भुजङ्गमफणोपमः । अङ्गुष्ठः स्वामिनो वत्स इव श्रीवत्सलाञ्छितः ॥ २१ ॥ प्रभोर्निर्वातनिष्कम्पाः स्निग्धदीपशिखोपमाः। नीरन्ध्रा ऋजवोऽङ्गुन्यो दलानीव पदाब्जयोः ॥ २२ ॥ नन्दावर्ता जगद्भर्तुः पादाङ्गुलितलेष्वभान् । यद्विम्बानि क्षितौ धर्मप्रतिष्ठाहेतुतां ययुः ।। २३ ॥ यवाः पर्वस्वजलीनामधोवापीभिरावभुः । उप्ता इव जगल्लक्ष्मीविवाहाय जगत्प्रभोः ॥ २४ ॥ कन्दः पादाम्बुजस्येव पाणिवृत्तायतः पृथुः । अङ्गुष्ठाङ्गुलिफणिनां फणामणिनिभा नखाः ॥२५॥ हेमारविन्दमुकुलकर्णिकागोलकश्रियम् । गूढौ गुन्फो वितेनाते नितान्तं स्वामिपादयोः ॥ २६ ॥ प्रभोः
वयः ॥ १७ ॥ यौवनेऽपि म बाल्यं कन्यमिवोल्लयामनन्तः प्रणम्य च बिडीज
in Education interna
For Personal & Private Use Only
Page #49
--------------------------------------------------------------------------
________________
0.08-03-20800/
Jain Education Internatio
+10+10+
पादावुपर्यानुपूर्व्या कूर्म्मवदुन्नतौ । श्रप्रकाश सिरौ स्निग्धच्छवी लोमविवर्जितौ || २७ ॥ अन्तर्मग्नास्थिपिशितपुष्कले क्रमवर्त्तुले । एणीजङ्घा विडम्बिन्यौ जसे गौर्यौ जगत्पतेः ॥ २८ ॥ जानुनी स्वामिनोऽघातां वर्चुले मांसपूरिते । तूलपूर्णपिघानान्तःक्षिप्तदर्पणरूपताम् ॥ २६ ॥ ऊरू च मृदुलौ स्निग्धावानुपूर्व्येण पीवरौ । बिभराश्चक्रतुः प्रौढकदलीस्तम्भमिभ्रमम् || ३० || स्वामिनः कुञ्जरस्येव मुष्कौ गूढौ समस्थिती । श्रतिगूढं च पुंचिह्नं कुलीनस्येव वाजिनः || ३१ ॥ तच्चासिरम निनोच्च मइस्वादीर्घमश्लथम् । सरलं मृदु निर्लोम वर्त्तुलं सुरभीन्द्रियम् ॥ ३२ ॥ शीतप्रदक्षिणावर्त्तशब्दयुक्तैकधारकम् । श्रबीभत्सावर्त्ताकारकोशस्थं पिञ्जरं तथा ॥ ३३ ॥ आयता मांसला स्थूला विशाला कठिना कटिः । मध्यभागस्तनुत्वेन कुलिशोदरसोदरः ॥ ३४ ॥ नाभिर्वभार गम्भीरा सरिदावर्त्तविभ्रमम् । कुक्षी स्निग्धौ मांसवन्तौ कोमलौ सरलौ समौ ||२५|| अधाद्वक्षःस्थलं स्वर्णशिला पृथुलमुन्नतम् | श्रीवत्सरल पीठाई श्री लीलावेदिकाश्रियम् || ३६ || दृढपीनोन्नतौ स्कन्धौ ककुद्मत्ककुदोपमौ । अल्परोमोन्नते कक्षे गन्धस्वेदमलो - ज्झिते ॥ ३७ ॥ पीनौ पाणिफणिच्छत्रौ भुजावाजानुलम्बितौ । चञ्चलाया नियमने नागपाशाविव श्रियः ||३८|| नवाम्रपल्लवाताम्रलौ निष्कर्म कर्कशौ । श्रस्वेदनावपच्छिद्रावुष्णौ पाणी जगत्पतेः ॥ ३६ ॥ दण्डचक्रधनुर्मत्स्यश्रीवत्सकुलिशाङ्कुशैः । ध्वजाब्जचामरच्छत्रशङ्खकुम्भाब्धिमन्दरैः ॥ ४० ॥ मकरर्षभसिंहाश्वरथस्वस्तिकदिग्गजैः । प्रासादतोरणद्वीपैः पाणी पादाविवाङ्कितौ ॥ ४१ ॥ अङ्गुष्ठाङ्गुलयः शोणाः सरलाः शोणपाणिजाः । प्ररोहा इव कल्पद्रोः प्रान्तमाणिक्य पुष्पिताः ॥ ४२ ॥ यवाः स्पष्टमशोभन्त स्वामिनोऽङ्गुष्ठपर्व्वसु । यशोवरतुरङ्गस्य पुष्टिवैशिष्ट्यहेतवः ॥ ४३ ॥ अङ्गुलीमूर्द्धसु विभोः सर्वसम्पत्तिशंसिनः । दधुः प्रदक्षिणावर्त्ता
For Personal & Private Use Only
70+10++++++OK+2018+++-08-10.K
Page #50
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
॥ १६ ॥
Jain Education Internal
ek
दक्षिणावर्त्तशङ्खताम् || ४४ ॥ कृच्छ्रादुद्धरणीयानि जगन्ति त्रीण्यपीत्यभान् । संख्यालेखा इव तिस्रो लेखा मूले कराब्जयोः || ४५|| तुलोऽनतिदीर्घश्च लेखात्रयपवित्रितः । गम्भीरध्वनिराधत्ते कण्ठः कम्बुविडम्बनाम् ॥ ४६ ॥ विमलं लं कान्तितरङ्गि वदनं विभोः । पीयूषदीधितिरिवापरो लाञ्छनवर्जितः ॥ ४७ ॥ मसृणौ मांसलौ स्निग्धौ कपोलफलकौ प्रभोः । दर्पणाविव सौवर्णो वाग्लक्ष्म्योः सहवासयोः ॥ ४८ अन्तरावर्त्तसुभगौ कर्णौ स्कन्धान्तलम्बितौ । प्रभोर्मुखप्रभासिन्धुतीरस्थे शुक्ति के इव ॥ ४९ ॥ ओष्ठौ बिम्बोपमौ दन्ता द्वात्रिंशत्कुन्दसोदराः । क्रमस्फारा क्रमोत्तुङ्गवंशा नासा महेशितुः ॥ ५० ॥ अहस्वदीर्घं चिबुकं मांसल वर्तुलं मृदु । मेचकं बहुलं स्निग्धं कोमलं श्मश्रु तायिनः ।। ५१ ।। प्रत्यग्रकल्पविटपिप्रवालारुण कोमला । प्रभोर्जिह्वानतिस्थूला द्वादशाङ्गागमार्थसूः || ५२|| अन्तरा कृष्णधवले प्रान्तरक्ते विलोचने । नीलस्फटिकशोणाश्म मणिन्यासमये इव ॥ ५३ ॥ | ते च कर्णान्तविश्रान्ते कञ्जलश्यामपक्ष्मणी । विकस्वरे तामरसे निलीनालिकुले इव ॥ ५४ ॥ विभराञ्चक्रतुर्भर्तुः श्यामले कुटिले भ्रुवौ । दृष्टिपुष्करिणीतीर समुद्भिन्नलताश्रियम् ।। ५५ || विशालं मांसल वृत्तं मसृणं कठिनं समम् । भालस्थलं जगद्भर्त्तुरष्टमीसोमसोदरम् ॥ ५६ ॥ भुवनस्वामिनो मौलिरानुपूर्व्या समुन्नतः । दधावधोमुखीभूतच्छत्रसब्रह्मचारिताम् ।। ५७ ।। मौलिच्छत्रे महेशस्य जगदीशत्वशंसिनि । वृत्तमुत्तुङ्गमुष्णीषं शिश्रिये कलशश्रियम् ॥ ५८ ॥ केशाश्चकाशिरे मूर्ध्नि प्रभोर्भ्रमरमेचकाः । कुञ्चिताः कोमला : स्निग्धा: कालिन्द्या इव वीचयः ॥ ५६ ॥ गोरोचनागर्भगौरी स्निग्धस्वच्छा त्वगाबभौ । स्वर्णद्रवविलिप्तेव तनौ त्रिजगदीशितुः ॥ ६० ॥ मृदूनि भ्रमरश्यामान्यद्वितीयोगमानि च । बिसतन्तुतनीयांसि लोमानि स्वामिनस्तनौ ॥ ६१ ॥ उत्फुल्लकुमुदामोदः
For Personal & Private Use Only
1030908-08-0
ER-Y0
प्रथम प्रकाशः।
।। १६ ।।
Page #51
--------------------------------------------------------------------------
________________
श्वासो विस्रतरत्पलम् । गोक्षीरधार धवल रुधिरं च जगत्पतेः ।। ६२ ॥ इत्यसाधारणैन नालक्षणैलेक्षितः प्रभुः।। रत्नै रत्नाकर इव सेव्यः कस्येह नाभवत् ॥ ६३ ॥ अन्येयुः क्रीडया क्रीडद्धालभावानुरूपया । मिथो मिथुन किश्चित्तले तालतरोरगात् ।। ६४ ॥ तदैव दैवदुर्योगात्तन्मध्यान्नरमूर्द्धनि । तडिद्दण्ड इवैरण्डेऽपतत्तालफलं महत् ॥६५॥ प्रहतः काकतालीयन्यायेनाश्वेव ममणि । विपन्नो दारकस्तत्र प्रथमेनापमृत्युना ।। ६६ ।। कालधम्मै गते तस्मिंस्तद्वितीया नितम्बिनी । यूथभ्रष्टा कुरङ्गीव किंकर्तव्यजडाभवत् ॥ ६७ ॥ अकाण्डमुद्राघातेनेव तेनापमृत्युना । बभूवुर्मूञ्छितानीव मिथुनान्यपराण्यपि ॥ ६॥ तानि तामग्रतः कृत्वा नारी पुरुषवर्जिताम् । किंकर्तव्य
विमूढानि श्रीनाभेरुपनिन्यिरे ॥ ६६ ।। एषा वृषभनाथस्य धर्मपत्नी भवत्विति । प्रतिजग्राह तो नाभिर्नेन कैरवTI कौमुदीम् ॥ ७० ॥ अन्यदा तु 'विभोरुद्यत्प्राग्भोगफलकर्मणः । आगादिन्द्रो विवाहार्थ वृन्दारकगणान्वितः
॥७१ ॥ ततः स्वर्णमयस्तम्भभ्राजिष्णुमणिपुत्रिकम् । अनेकनिर्गमद्वारमकार्षमण्डपं सुराः ।। ७२ ।। श्वेतदिव्यांशुकोल्लोचच्छलेन गगनस्थया । गङ्गयेवाश्रितः सोऽभूद्भरिशोभादिदृक्षया ॥ ७३ ॥ तोरणानि चतुर्दिक्षु सन्तानतरुपल्लवैः । तत्राभूवन् धनूंषीव सजितानि मनोभुवा ॥ ७४ ॥ चतस्रो रत्नकलशश्रेणयोऽभ्रंलिहानगाः । पर्यस्थाप्यन्त देवीभिर्निधानानि रतेरिव ।। ७५ । ववृषुर्मण्डपद्वारे चेलोत्क्षेपं पयोमुचः । चक्रे मध्ये सुरीभिर्भूः पङ्किला यक्षकर्दमैः ॥७६ ॥ वाद्यमानेषु तूर्येषु गीयमाने च मङ्गले । अवादयन्नगायश्च प्रतिशद्वैदिगङ्गनाः ॥ ७७॥ सुमङ्गलासुनन्दाभ्यां कुमारीभ्यामकारयत् । वासवः परमेशस्य पाणिग्रहमहोत्सवम् ॥ ७ ॥ ततः
( १ ) विभोरभ्युद्यदभोगफलकर्मणः । (२) अभ्रंलिहायकाः ।
!! वाद्यमानेषु तर वर्मण्डपद्वारे चलानालशश्रेणयोऽअंलिहानगा
in Education Internati
For Personal & Private Use Only
Page #52
--------------------------------------------------------------------------
________________
बोग
प्रथम प्रकाशः।
॥१७॥
सुमङ्गलादेवी देवैः प्रकृतमङ्गला । अपत्ये भरतबाहयौ युग्मरूपे अजीजनत् ॥७६ ॥ त्रैलोक्यजनितानन्दा सुनन्दा सुषुवे युगम् । सुबाहुं बाहुबलिनं सुन्दरीं चातिसुन्दरीम् ॥८०॥ पुनरेकोनपञ्चाशत्पुंयुगानि सुमङ्गला । असूत बलिनो मूर्तीन् द्वैरूप्येणेव मारुतान् ॥८१॥ अन्येयुरन्याय इति पूत्कारोधृतबाहुभिः । नाभिर्व्यज्ञपि सम्भूय सर्वैमिथुनकैरिदम् ॥८२ ॥ तिस्रो हकारमकारधिक्काराख्याः सुनीतयः । न गण्यन्तेऽधुना पुम्भिः कुर्वद्भिरसमञ्जसम् ॥ ८३ ॥ ततः कुलकरोऽप्यूचे त्रातासादसमञ्जसात् । एष वो वृषभः स्वामी तद्वध्वं तदाज्ञया ॥८४ ॥ तदा कुलकराज्ञातः कर्नु राज्यस्थितिं स्फुटाम् । प्रभु नत्रयमयो मिथुनान्येवमन्वशात् ॥८५॥ राजा भवति मर्यादाव्यतिक्रमनिरोधकः । तस्योच्चासनदानेनाभिषेकः क्रियते जलैः ॥८६॥ आकर्ण्य वचनं भर्तुस्ते सर्वे युग्मधर्मिणः । तच्छिक्षया ययुः पत्रपुटैजेलजिघृक्षया ॥ ८७॥ तदा चासनकम्पेनावधिज्ञानप्रयोगतः । विज्ञातभगवद्राज्यसमयः शक्र आययौ ॥८८ ॥ रत्नसिंहासनेऽध्यास्य वासवः परमेश्वरम् । साम्राज्येऽभिषिषेचालश्चके च मुकुटादिभिः ॥ ८8 ।। इतश्चाम्भोजिनीपत्रपुटैरञ्जलिधारितैः । निजं मन इव स्वच्छमानिन्ये मिथुनै लम् ॥४०॥ उदयाद्रिमिवार्केण मुकुटेनोपशोभितम् । अत्यन्तविमलैर्वस्त्रव्योमेव शरदम्बुदैः ॥ ११ ॥ हंसैरिव शरत्कालं सश्चरच्चारुचामरैः । कृताभिषेकं नाभेयं ददृशुस्तानि विस्मयात् ॥ १२॥ (युग्मं) नैतद्युक्तं प्रभोर्मूनि क्षेप्तुमेवं विमर्शिभिः। विनीतैमिथुनैर्वारि निदधे पादपद्मयोः॥ १३ ॥ योजनान्यथ विस्तीणों नव द्वादश चायताम् । विनीताख्यां पुरी कर्नु श्रीदमुक्या हरिययौ ॥ १४॥ सोऽपि रत्नमयीं भूमर्माणिक्यमुकुटोपमाम् । व्यधात् द्विषामयोध्येति तामयोध्यापराभिधाम् ॥६५॥ तां च निर्माय निर्मायः पूरयामास यक्षराट् । अक्षय्य
Inin Education intem
For Personal & Private Use Only
Page #53
--------------------------------------------------------------------------
________________
0/0/+K+0-03
13-08-001
Jain Education Internation
रत्नवसनधनधान्यैर्निरन्तरम् ॥ ६६ ॥ वजेन्द्रनीलवैर्यहर्म्य किम्मररश्मिभिः । भित्तिं विनापि खे तत्र चित्रक विरच्यते ॥ ६७ ॥ तद्वप्रे दीप्रमाणिक्य कपिशीर्षपरम्पराः । श्रयत्नादर्शतां यान्ति चिरं खेचरयोषिताम् ॥ ६८ ॥ तस्यां गृहाङ्गणभुवि स्वस्तिकन्यस्तमौक्तिकैः । स्वैरं कर्करकक्रीडां कुरुते बालिकाजनः ॥ ६६ ॥ तत्रोद्यानोच्चवृक्षाग्रस्खल्यमानान्यहर्निशम् । खेचरीणां विमानानि क्षणं यान्ति कुलायताम् ॥ १०० ॥
तत्र दृष्ट्रार्येषु रत्नराशीन् समुच्छ्रितान् । तदवकरकूटोऽयं तर्क्यते रोहणाचलः ॥ १॥ जलकेलिरतस्त्रीणां त्रुटितैरमौक्तिकैः । ताम्रपर्णीश्रियं तत्र दधते गृहदीर्घिकाः ॥ २ ॥ तत्रेभ्याः सन्ति ते येषां कस्याप्येकतमस्य सः । व्यवहर्त्तुं गतो मन्ये वणिक्पुत्रो धनाधिपः ॥ ३ ॥ नक्तमिन्दुदृषद्भित्तिमन्दिरस्यन्दिवारिभिः । प्रशान्तपशवो रथ्याः क्रियन्ते तत्र सर्व्वतः ॥ ४ ॥ वापीकूपसरोल क्षैः सुधासोदरवारिभिः । नागलोकं नवसुधाकुण्डं परिबभूव सा || ५ || नगरीं तामलङ्कुर्व्वन्नरेन्द्रो वृषभध्वजः । श्रपत्यानि निजानीव प्रजाश्विरमात् ॥ ६ ॥ तत उत्पादयामास लोकानुग्रहकाम्यया । एकैकशो विंशतिधा पञ्च शिल्पानि नाभिभूः ॥ ७ ॥ राज्यस्थितिनिमित्तं चाऽग्रहीद्गास्तुरगान् गजान् । सामाद्युपायसारां च नीतिरीतिमदर्शयत् ॥ ८ ॥ द्वासप्ततिकला काण्ड भरतं चाध्यजीगपत् । भरतोऽपि निजान् भ्रातॄंस्तनयानितरानपि ॥ ६ ॥ नाभेयो बाहुबलिनं भिद्यमानान्यनेकशः । लक्षणानि च हस्त्यश्वस्त्रीपुंसानामजिज्ञपत् ॥ १० ॥ श्रष्टादशलिपीब्रहया अपसव्येन पाणिना । दर्शयामास सव्येन सुन्दर्या गणितं पुनः ॥ ११ ॥ वर्णव्यवस्थां रचयन् न्यायमार्ग प्रवर्त्तयन् । त्र्यशीर्ति पूर्वलक्षाणि नाभिभूरत्वात् ॥ १२ ॥ प्रभुः स्मरकृतावासे मधुमासे समेयुषि । अगादन्ये
For Personal & Private Use Only
B-40390843+013
Page #54
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
॥ १८ ॥
*0
**
← 1.0.0.06-0
ने परिवारानुरोधतः ॥ १३ ॥ गुञ्जद्भिः फुल्ल माकन्द मकरन्दोन्मदालिभिः । मधुलक्ष्मीर्बभूव स्वागतिकीव जगत्प्रभोः ||१४|| पूर्व्वरङ्ग इवारब्धे पञ्चमोचारिभिः पिकैः । श्रदर्शयल्लतालास्यं मलयानिललासकः ।। १५ ।। प्रतिशाखं विलग्नाभिः पुष्पोच्चयकुतूहलात् । स्त्रीभिस्तत्राभवन् वृक्षाः सञ्जातस्त्रीफला इव ॥ १६ ॥ पुष्पवासगृहासीनः पुष्पाभरणभूषितः । पुष्पगेन्दु कहस्तोऽभान्मधुर्मूर्त्त इव प्रभुः ॥ १७ ॥ तत्र खेलायमानेषु निर्भरं भरतादिषु । दध्यौ स्वामी किमीदृक्षा क्रीडा दोगुन्दगेष्वपि || १८ || जज्ञेऽथावधिना स्वामी स्वःसुखान्युत्तरोत्तरम् । अनुत्तरस्वर्गसुखं भुक्तपूर्व्वं स्वयं च तत् ॥ १६ ॥ भूयोऽप्यचिन्तयदिदं विगलन्मोहबन्धनः । धिगेष विषयाक्रान्तो वेतनात्महितं नः ॥ २० ॥ अहो संसारकूपेऽस्मिन् जीवाः कुर्वन्ति कर्म्मभिः । अरघट्टघटीन्यायेनैहिरेयाहिरां क्रियाम् ॥ २१ ॥ इत्यासीन्मनसा यावद्विभुर्भवपराङ्मुखः । तावल्लोकान्तिका देवा एयुः सारस्वतादयः ॥ २२ ॥ बद्धैरञ्जलिभिर्मूर्ध्नि कृतान्यमुकुटा इव । प्रणम्य ते व्यज्ञपयन् स्वामिंस्तीर्थं प्रवर्त्तय ॥ २३ ॥ गतेषु तेषु भगवानुद्यानान्नन्दनाभिधात् | व्यावृत्य गत्वा नगरीमा जुहावावनीपतीन् ॥ २४ ॥ राज्येऽभ्यषिञ्चद्भरतं ज्येष्ठपुत्रं ततो विभुः । बाहुबल्यादिपुत्राणां विभज्य विषयान् ।। २५ ।। सांवत्सरिकदानेन ततोऽतपत्तथा भुवम् । देहीति दीनवाक्यश्च कश्चिदासीद्यथा नहि ॥ २६ ॥ अथासनप्रकम्पेन सर्वेऽप्यभ्येत्य वासवाः । अभिषेकं प्रभोचक्रुर्गिरेरिव पयोमुचः || २७ || मान्याङ्गरागैर्देवेशन्यस्तैर्वासितविष्टपैः । स्वयशोभिरिवाशोभि परितः परमेश्वरः ॥ २८ ॥ विचित्रैरर्चितो वस्त्रै रत्नल्कृप्तैश्च भूषणैः । विभुर्वभासे सन्ध्या अधिष्णैरिव मरुत्पथः || २६ || दिवि दुन्दुभिनादं च ( १ ) दोलायमानेषु ।
For Personal & Private Use Only
3-08-10-2
प्रथम प्रकाशः ।
॥ १८ ॥
Page #55
--------------------------------------------------------------------------
________________
कारयामास वासवः । जगतो दददानन्दमसन्मान्तमिवात्मनि ॥ ३० ॥ सुरासुरनरोद्वाह्यामारोहच्छिविको विभुः । ऊर्द्धलोकगतेर्मार्ग जगतो दर्शयन्निव ॥३१॥ एवं सदेवैर्देवेशैश्चक्रे निष्क्रमणोत्सवः। यं पश्यद्भिर्निजदृशां नैनिमेष्यं कृतार्थितम् ॥ ३२ ।। गत्वा सिद्धार्थकोद्याने मुमोच परमेश्वरः । कुसुमाभरणादीनि कषायानिव सर्वतः ॥ ३३॥ चतुर्भिर्मुष्टिभिः केशानुद्दधार जगद्गुरुः । जिघृक्षुः पञ्चमी मुष्टिं वासवेनेति याचितः॥ ३४॥ देवांसयोः स्वर्णरुचोर्वाचातीतातिशोभते । केशवलय्येसावास्तामिति तां स्वाम्यधारयत ॥ ३५ ॥ प्रतीच्छतश्च सौधर्माधिपतेः सिचयाश्चले । स्वामिकेशा दधुदत्तवर्णान्तरगुणश्रियम् ॥ ३६ ॥ क्षीरोदधौ सुधर्मेशः केशान् क्षिप्वाभ्युपेत्य च । रङ्गाचार्य इवारक्षत्तुमुलं मुष्टिसंज्ञया ॥ ३७ ॥ सर्व सावा प्रत्याख्यामीति चारित्रमुच्चकैः । मोक्षाध्वनो रथमिवाध्यारुरोह जगत्पतिः ॥३८॥ सर्वतः सर्वजन्तूनां मनोद्रव्याणि दर्शयत् । जज्ञे ज्ञानं प्रमोस्तुयें मनःपय्येयसंज्ञकम् ॥ ३९ ॥ राज्ञां सहस्राश्चत्वारोऽनुयान्तस्तं निजप्रभुम् । व्रतमाददिरे भक्या कुलीनानां क्रमो ह्यसौ ॥४०॥ ततः सर्वेष्वपीन्द्रेषु गतेषु स्वं स्वमालयम् । व्यहरत्तैर्वृतः स्वामी युथनाथ इव द्विपैः ॥४१॥ लोकैमिक्षास्वरूपाझमिक्षार्थ भ्रमतः प्रभोः । अढौकि कन्येभाश्वादि धिगार्जवमपि कचित् ॥४२॥न्याय्यामप्राप्नुवन् भिक्षां सहमानः परीषहान् । अदीनमानसःस्वामी मौनव्रतमुपाश्रितः॥४३॥ श्रमणानां सहस्रेस्तैश्चतुर्भिरपि नाभिभूः। क्षुधातैर्मुमुचे को वा संसच्चो भगवानिव ॥४४॥वने मूलफलाहारा जज्ञिरे ते तु तापसाः । भवाटवीपथजुषो धिक्तान्मोक्षपथच्युतान् ॥४५॥ अथ कच्छमहाकच्छपुत्रावाज्ञागतौ कचित् । ईयतुर्नमिविनमी स्वामिनं प्रतिमास्थितम् ॥४६॥ प्रणम्य तौ विज्ञपयाम्बभूव
(१) सत्त्ववान् ।
in Education Interna
For Personal & Private Use Only
Page #56
--------------------------------------------------------------------------
________________
योग-
ANI
शास्त्रम्।।
॥१०॥
R
+
+
तुरिति प्रभुम् । आवयो परः स्वामी स्वामिन् राज्यप्रदो भव ॥४७॥ न किश्चिचे भगवांस्तदा तौ सेवकावपि । प्रथनः निर्ममा हि न लिप्यन्ते कस्याप्यहिकचिन्तया ॥४८॥ तौ कृष्टासी सिषेवाते स्वामिनं पारिपाश्चिकौ । अहर्निशं प्रकार: मेरुगिरिं सुर्याचन्द्रमसाविव ।। ४६ ॥ अथ तौ धरणेन्द्रेण प्रभुं वन्दितुमेयुषा । कौ युवामिह को हेतुरित्युक्तावेवमृचतुः॥ ५० ॥ भृत्यावावामसी भर्ती क्वचिदप्यादिदेश च । राज्यं विभज्य सर्वेषां स्वपुत्राणामदत्त च ॥५१॥ अपि प्रदत्तसर्वस्वो दातासो राज्यमावयोः। अस्ति नास्तीति का चिन्ता कार्या सेवैव सेवकैः ।। ५२ ॥ याचेयां भरतं स्वामी निर्ममो निष्परिग्रहः । किमद्य दद्यादिति तो तेनोक्तावित्यवोचताम् ॥ ५३ ॥ विश्वस्वामिनमाप्या कुर्वः स्वाम्यन्तरं नहि । कल्पपादपमासाद्य कः करीरं निषेवते ॥ ५४॥ आवां याचावहे नान्यं विहाय परमेश्वरम् । पयोमुचं विमुच्यान्यं याचते चातकोऽपि किम् ॥ ५५ ॥ स्वस्त्यस्तु भरतादिभ्यः किं तवास्मद्विचिन्तया । स्वामिनोऽस्माद्यद्भवति तद्भवत्वपरेण किम् ॥ ५६।। तदुक्तिमुदितोऽवादीदथेदं पन्नगेश्वरः । पातालपतिरेषोऽस्मि स्वामिनोऽस्यैव किङ्करः ॥ ५७ ॥ सेव्यः स्वाम्ययमेवेति प्रतिज्ञा साधु माधु वः । स्वामिसेवाफलं विद्याधरैश्वयं ददामि तत् ॥ ५८ ॥ स्वामिसेवाप्तमेवैतदुध्येथां हन्त नान्यथा । सम्बोध्येति ददौ विद्याः प्रज्ञप्तीप्रमुखास्तयोः ॥५१॥ ईयतुस्तदनुज्ञातौ पञ्चाशद्योजनीपृथुम् । तो वैताढ्याद्रियुत्सेधं पञ्चविंशतियोजनम् ।। ६० ॥ दशयोजनविस्तारदक्षिणश्रेणिभव्य गाः । तत्र विद्यायलाञ्चके नमिः पञ्चाशतं पुरीः ॥ ६१ ।। दशयोजनविस्तारोत्तरश्रेण्यां न्यवीविशत् । विद्याधरपतिः षष्टिं पुराणि विनमिः पुनः ।। ६२ ।। चक्राते चक्रवर्तित्वं चिराद् विद्याधरेषु तौ।।
1..
JainEducation international
For Personal & Private Use Only
Page #57
--------------------------------------------------------------------------
________________
तादृशः स्वामिसेवायाः किं नाम स्यादुरासदम् ।। ६३ ॥ वर्ष मौनी निराहारो विहरन् भगवानपि । पुरं गजपुरं नाम प्रययौ पारणेच्छया ॥ ६ ॥ तदा च सोमयशसः श्रेयांसः स्वममैक्षत । मेरुं श्यामं सुधाकुम्भैः क्षालयि| त्वोज्ज्वलं व्यधात् ॥ ६५ ॥ सुबुद्धिश्रेष्ठिनाप्यैक्षि गोसहस्रं रवेच्युतम् । श्रेयांसेनाहितं तत्र ततोऽसौ भासुरोऽभवत् ॥६६॥ अदार्श सोमयशसा राजैको बहुभिः परैः। रुद्धः समन्ताच्छ्रेयांससाहाय्याज्जयमीयिवान् ।। ६७॥ त्रयस्ते सदसि स्वप्नानन्योऽन्यस्य न्यवीविदन् । ते निर्णयमजानन्तः स्वं स्वं स्थानं पुनर्ययुः ॥ ६८ ॥ प्रादुर्भावयितमिव तदा तत्स्वमनिर्णयम् । श्रेयांसस्य ययौ वेश्म भिक्षार्थी भगवानपि ॥ ६६ ॥ भगवन्तं समायान्तं शशाङ्कमिव सागरः । आलोक्य श्रेयसां पात्रं श्रेयांसः शिश्रिये मुदम् ॥ ७० ॥ ऊहापोहं वितन्वानः श्रेयांसः स्वामिदर्शनात।
अवाप जातिस्मरणं पूर्वनष्टनिधानवत् ॥ ७१॥ चक्रभृद्वज्रनाभोऽसौ प्राग्भवेऽस्यास्मि सारथिः । अनुप्रवजितश्चा में । तदेत्यादि विवेद सः ।। ७२ ॥ ततो विज्ञातनिर्दोषभिक्षादानविधिः सुधीः । स्वामिने प्रासुकायातेचुरसं मुदितो
ददौ ॥ ७३ ॥ भूयानपि रसः पाणिपात्रे भगवतो ममौ । श्रेयांसस्य तु हृदये ममुर्नहि मुदस्तदा ॥७४॥ स्त्यानोऽनुस्तम्भितोऽन्वासीद् व्योग्नि लग्नशिखो रसः । अञ्जली स्वामिनोऽचिन्त्यप्रभावाः प्रभवः खलु ॥ ७५॥
ततो भगवता तेन रसेनाकारि पारणम् । सुरासुरनृणां नेत्रैः पुनस्तदर्शनामृतैः ॥ ७६ ॥ कुर्वद्भिर्दुन्दुभिध्वानं | देवैर्दिवि घनैरिव । वृष्टयो रत्नपुष्पाणां चक्रिरे वारिवृष्टिवत् ।। ७७ ॥ अथ तक्षशिला स्वामी ययौ बाहुबले पुरीम् । बाह्योद्याने प्रपेदे च प्रतिमामेकरात्रिकीम् ।। ७८ ॥ प्रभाते पावयिष्यामि स्वं लोकं स्वामिदर्शनात । इतीच्छतो बाहुबलेः साभून्मासोपमा निशा ॥७॥ स प्रातः प्रययौ यावत्तावत्स्वाम्यन्यतोऽगमत् । तच्चास्वामि
in Education Internat
For Personal & Private Use Only
Page #58
--------------------------------------------------------------------------
________________
योगशास्त्रम्
प्रथमः प्रकाशः।
कमुद्यानं व्योमेवाचन्द्रमैक्षत ॥ ८॥ मनोरथो विलीनो मे हृदि बीजमिवोपरे । हा धिक् प्रमद्वरोऽस्मीति बह्वास्मानं निनिन्द सः॥१॥ यत्रास्थातां प्रभोः पादौ रत्नस्तत्राभिर्व्यधात । धर्मचक्रं सहस्रारं सहस्रांशुमिवा- IT परम् ।। ८२ ॥ विवधाभिग्रहः स्वामी म्लेच्छदेशेष्वधर्मसु । विजहार यथार्येषु समभावा हि योगिनः ।। ८३ ॥ तदा प्रभृत्यनार्याणामपि पापैककर्मणाम् । धर्मास्तिक्यधिया जज्ञे दृढानुष्ठानचेष्टितम् ।।८४ ॥ एवं विहरमाणस्तु सहस्र शरदां गते । पुरं पुरिमतालाख्यमाजगाम जगद्गुरुः ॥ ८५ ।। तत्पूर्वोत्तरदिग्भागे कानने शकटानने । वटस्याधोऽष्टमभक्तेनास्थात्प्रतिमया प्रभुः ॥८॥ आरुह्य क्षपकश्रेणिमपूर्वकरणक्रमात् । शुक्रध्यानान्तरं शुद्धमध्यासीच जगत्पतिः ।। ८७ ॥ ततश्च घातिकर्माणि व्यलीयन्त घना इव । स्वामिनः केवलज्ञानरविराविबभूव च ॥ ८८ ।। विमानान्यतिसम्मदोद् घट्टयन्तः परस्परम् । एयुरिन्द्राश्चतुःषष्टिः समं देवगणैस्तदा ॥ ८६ ॥ त्रैलोक्यभर्तुः समवसरणस्थानभूतलम् । अमृजन्वायुकुमाराः स्वयं मार्जितमानिनः ॥६॥ गन्धाम्बुवृष्टिभिर्मेधकुमाराः। सिषिचुः चितिम् । सुगन्धिबाष्पैः सोत्क्षिप्तधृपावैष्यतः प्रभोः ॥ ११॥ पुष्पोपहारमृतवो जानुदघ्नं व्यधुर्भुवि । अप्येषत्पूज्यसंसर्गः पूजायै खलु जायते ॥ १२॥ स्निग्धधमशिखास्तोमवासितव्योममण्डलाः । चक्रुधूपघटीस्तत्र तत्र वह्निकुमारकाः॥६३ ॥ इन्द्रचापशतालीढमिव नानामणित्विषा । ततः समवसरणं चके शक्रादिभिः सुरैः ॥६४ ॥ रजतस्वर्णमाणिक्यवप्रास्तत्र त्रयो बभुः। भुवनाधिपतिज्योतिर्वैमानिकसुरैः कृताः ।। ६५ । असौ | स्वर्गमसौ मोक्षं गच्छत्यध्वेति देहिनाम् । शंसन्त्य इव वल्गन्त्यः पताकास्तेषु रेजिरे ।।१६।। विद्याधर्यो रत्नमय्यो वनोपरि चकाशिरे । कृतप्रवेशनिष्काशा विमानाशङ्कया सुरैः ॥१७॥ माणिक्यकपिशीर्षाणि मुग्धामरवधूजनैः।
॥२०॥
in Education Internationel
For Personal Private Use Only
Page #59
--------------------------------------------------------------------------
________________
आलोक्यन्त चिरं हर्षाद्रत्नताडङ्कशङ्कया ।। 8८॥ प्रतिवनं च चत्वारि गोपुराणि बभासिरे । चतुर्विधस्य धर्मस्य क्रीडावातायना इव || 88 ॥ चक्रे समवसरणान्तरेऽशोकतरुः सुरैः। क्रोशत्रयोदयो रत्नत्रयोदयमिवोद्दिशन् M॥ २०॥ तस्याधःपूर्वदिग्भागे रत्नसिंहासनं सुराः । सपादपीठं विदधुः सारं स्वर्गश्रियामिव ॥ १॥ प्रविश्य - पूर्वद्वारेण नत्वा तीर्थ तमश्छिदे । स्वामी सिंहासनं भेजे पूर्वाचलमिवार्यमा ॥२॥ रत्नसिंहासनस्थानि दिक्ष्व
न्यास्वपि तत्क्षणम् । भगवत्प्रतिबिम्बानि त्रीणि देवा विचक्रिरे ॥३॥ वराकीकृतराकेन्दुमण्डलं परमेशितुः । त्रैलोक्यस्वामिताचिह्नमिव च्छत्रत्रयं बभौ ॥ ४॥ भगवानेक एवायं स्वामीत्यूवीकृतो भुजः । इन्द्रेणेव प्रभोरग्रे रेजे रत्नमयो ध्वजः॥५॥ चकाशे केवलज्ञानिचक्रवर्तित्वसूचकम् । अत्यद्भूतप्रभाचक्रं धर्मचक्रं प्रभोः पुरः ॥६॥ रेजतुर्जाह्ववीवीचिसोदरे चारुचामरे । हंसाविवानुधावन्तौ स्वामिनो मुखपङ्कजम् ॥७॥ आविबंभूवानुवपुस्तदा भामण्डलं विभोः । खद्योतपोतवद्यस्य पुरो मार्तण्डमण्डलम् ॥८॥ प्रतिध्वानश्चतस्रोऽपि दिशो मुखरयन् भृशम् । अम्भोद इव गम्भीरो दिवि दध्वान दुन्दुभिः ॥ ६ ॥ अधोवृन्ताः सुमनसो विष्वग्ववृषिरे सुरैः। शान्तीभूते जने त्यक्तान्यस्त्राणीव मनोभुवा ॥ १०॥ पञ्चत्रिंशदतिशयान्वितया भगवान् गिरा । त्रैलोक्यानुग्रहायाथ पारेभे धर्मदेशनाम् ॥ ११ ॥ भगवत्केवलज्ञानोत्सवं चारा अचीकथन् । भरतस्य तदा चक्ररत्नमप्युदपद्यत ॥१२॥ उत्पन्न केवलस्तात इतश्चक्रमितोऽभ्यगात् । आदौ करोमि कस्याचामिति दध्यो क्षणं नृपः ॥१३॥ क विश्वाभयदस्तातः क चक्र प्राणिघातकम् । विमृश्येति स्वामिपूजाहेतोः स्वानादिदेश सः॥१४॥ सूनोः परीषहोदन्तदुःखाश्रुत्पन्नग्रुजम् । मरुदेवामथोपेत्य नत्वा चासौ व्यजिज्ञपत् ॥१५॥ आदिशः
in Education Interne
For Personal & Private Use Only
Page #60
--------------------------------------------------------------------------
________________
योग
प्रथमः प्रकाशः
शास्त्रम्।
॥२१॥
| सर्वदापीदं यन्मे सूनुस्तपात्यये । पद्मखण्ड इव मृदुः सहते वारिविद्रवम् ॥१६॥ हिमत्तौ हिमसम्पातपरिक्लेशवशां दशाम् । अरण्ये मालतीस्तम्ब इव याति निरन्तरम् ।। १७॥ उष्ण वुष्णकिरणकिरणैरतिदारुणैः । सन्तापं चानुभवति स्तम्बरम इवाधिकम् ॥ १८॥ तदेवं सर्वकालेषु वनवासी निराश्रयः। पृथग्जन इवैकाकी वत्सो मे दुःखभाजनम् ॥१६॥ त्रैलोक्यस्वामिताभाजः स्वमूनोस्तस्य सम्प्रति । पश्य सम्पदमित्युक्त्वारोहयामास तां गजे ॥ २०॥ सुवर्णवज्रमाणिक्यभूषणैस्तुरगर्गजैः। पतिभिः स्यन्दनैमनश्रीमयैः सोऽचलत्ततः ॥२१॥ सैन्यैर्भूषणभाःपुञ्जकृतजङ्गमतोरणैः। गच्छन् दूरादपि नृपोऽपश्यद्रत्नध्वजं पुरः॥ २२ ॥ मरुदेवामथावादीद्भरतः पुरतो ह्यदः । प्रभोः समवसरणं देवि देवैर्विनिर्मितम् ॥ २३ ॥ अयं जपजयारावतुमुलस्त्रिदिवौकसाम् । श्रूयते तातपादान्ते सेवोत्सवमुपेयुषाम् ॥ २४ ॥ मालवकैशिकीमुख्यग्रामरागपवित्रिता। कर्णामृतमियं वाणी स्वामिनो देशनाकृतिः॥ २५॥ मयूरसारसक्रौञ्चहंसाद्यैः स्वस्वराधिका । आकर्ण्यते दत्तकणैः स्वामिनो गीः सविस्मयम ॥ २६ ॥ तातस्य तोयदस्येव ध्वनावायोजनादिह । श्रुते मनो बलाकेव बलवद्देवि धावति ॥ २७ ॥ त्रैलोक्यभर्तर्गम्भीरां वाणी संसारतारिणीम् । निर्वातदीपनिस्पन्दा मरुदेवा मुदाऽशृणोत् ।। २८ ॥ शृण्वन्त्यास्तां गिरं देव्या मरुदेव्या व्यलीयत । आनन्दाश्रुपयःपूरैः पङ्कवत्पटलं दृशोः ॥ २६ ॥ साऽपश्यत्तीर्थकुल्लक्ष्मी तस्याऽतिशयशालिनीम् । तस्यास्तदर्शनानन्दस्थैर्याकर्म व्यशीर्यत ॥ ३० ॥ भगवदर्शनानन्दयोगस्थैर्यमुपेयुषी । केवलज्ञानमम्लानमाससाद तदैव सा ॥३१॥ करिस्कन्धाधिरूढैव प्राप्तायुःकर्मसङ्ख्या । अन्तकृत्केवलित्वेन निर्वाणं मरुदेव्यगात ॥ ३२ ॥ एतस्यामवसपिण्यां सिद्धोऽसौ प्रथमस्ततः । क्षीराब्धौ तद्वपुः क्षिप्त्वा चक्रे मोक्षोत्सवः सुरैः॥ ३३॥
॥२१॥
Jain Education internal
For Personal & Private Use Only
___
Page #61
--------------------------------------------------------------------------
________________
ततो विज्ञाततन्मोक्षो हर्षशुग्भ्यां समं नृपः । अभ्रच्छायातापाभ्यां शरत्काल इवानशे ॥ ३४ ॥ सन्त्यज्य राज्यचिह्नानि पदातिः सपरिच्छदः । ततः समवसरणं प्रविवेश विशाम्पतिः ॥ ३५ ॥ चतुर्भिर्देवनिकायैः स्वामी परिवृतस्तदा । ददृशे भरतेशेन दृक्चकोरनिशाकरः ।। ३६ ॥ त्रिश्च प्रदक्षिणीकृत्य भगवन्तं प्रणम्य च । मूर्ध्नि बद्धाञ्जलिः स्तोतुमिति चक्री प्रचक्रमे ॥ ३७॥ जयाखिलजगन्नाथ जय विश्वाभयप्रद । जय प्रथमतीर्थेश जय संसारतारण ।। ३८ ॥ अद्यावसर्पिणीलोकपद्माकरदिवाकर । त्वयि दृष्टे प्रभातं मे प्रनष्टतमसोऽभवत् ॥ ३९ ॥ भव्यजीवमनोवारिनिर्मलीकारकर्मणि । वाणी जयति ते नाथ कतकक्षोदसोदरा ॥ ४० ॥ तेषां दूरे न लोकाग्रं कारुण्यक्षीरसागर । समारोहन्ति ये नाथ त्वच्छासनमहारथम् ।। ४१॥ लोकाग्रतोऽपि संसारमग्रिम देव मन्महे । निष्कारणजगद्वन्धुर्यत्र साक्षाचमीक्ष्यसे ॥ ४२ ॥ त्वदर्शनमहानन्दस्यन्दनिष्यन्दलोचनैः । स्वामिन मोक्षसुखास्वादः संसारेऽप्यनुभूयते ।। ४३ ॥ रागद्वेषकपायाद्यैरुद्धं जगदरातिभिः । इद द्वेश्यते नाथ स्वयैवाभयसत्रिणा ॥४४ ।। स्वयं ज्ञापयसे तन्वं मार्ग दर्शयसि स्वयम् । स्वयं च त्रायसे विश्वं त्वत्तो नाथामि नाथ किम् ।। ४५ ।। इति स्तुत्वा जगन्नाथं महीनाथशिरोमणिः । देशनावाक् सुषां पूर्ण कर्णाञ्जलिपुटं पपों ॥ ४६ ।। तदा ऋषभसेनादीन भगवान्वृषभध्वजः । दीक्षयामास चतुरशीति गणधरान स्वयम् ।। ४७॥ अदीक्षयसतो त्राही भरतस्य च नन्दनान् । शतानि पञ्च नातूंश्च शतानि सप्त नाभिभूः ॥४८॥ साधवः पुण्युरीकाद्याः साच्यो ब्राह्मयादयोऽभवन् । श्रेयांसाद्याः श्रावकाच श्राविकाः सुन्दरीमुखाः ।। ४६ ।। एवं चतुर्विधः स नः स्थापितः स्वामिना तदा। नत:प्रभृति सङ्घस्य तथैवेयं व्यवस्थितिः !! ५० ।। स्वाम्ययो भव्यबोधायावतोड
in Education International
For Personal & Private Use Only
Page #62
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
॥ २२॥
गात्सपरिच्छदः । तं नत्वा भरताधीशोऽप्ययोध्यां नगरी ययौ ॥५१॥ तत्र नाभ्यङ्गभूवंशरत्नाकरनिशाकरः।। | प्रथम: यथाविधि जुगोपोवी न्यायो विग्रहवानिव ।। ५२ ॥ चतुःषष्टिः सहस्राणि बभूवुस्तस्य वल्लभाः । अनुचयः श्रियो
प्रकाश यासां जज्ञिरे रूपसम्पदा ॥ ५३॥ तस्मिन्बर्द्धासनासीने वासवस्य दिवोकसः। द्वयोर्भेदमजानन्त: पेतुः प्रणतिसंशये ॥ ५४॥ प्रारब्धदिग्जयः पूर्व पूर्वस्यां भानुमानिव । सोऽगाजितान्यतेजोभिस्तेजोभिद्योतयन् जगत् ॥५५॥ | उत्क्षिप्तामिवोद्वीचिहस्तविन्यस्तविद्रुमैः । गङ्गासम्भेदसुभगं स प्रापत् पूर्वसागरम् ॥ ५६ ॥ मागधतीर्थकुमारं देवं मनसिकृत्य च । प्रपेदेऽष्टमभक्तं सोऽर्थसिद्धेरिमादिमम् ॥ ५७ ॥ यादांसि त्रासयन्नाशु रथेनारुह्य रंहसा । जलधिं मन्दरेणेव जगाहे स महाभुजः ॥ ५८ ॥ रथनाभ्युदये तोये स्थित्वा द्वादशयोजनीम् । बाणं दूतमिव प्रेषीनामा मागधाय सः॥ ५६ ।। अथ मागधतीर्थस्य पतिर्निपतिते शरे । चुकोप विकटाटोपभृकुटीमङ्गभीषणम् ॥ ६॥ शरे मन्त्राक्षराणीव तस्य नामाक्षराण्यसौ । दृष्ट्वा नागकुमारोऽभूनितान्तं शान्तमानसः ॥ ६१ ॥ प्रथमश्चक्रवत्यैष उत्पन्न इति चिन्तयन् । उपतस्थे स भरतं विजयो मूर्त्तिमानिव ॥ ६२ ॥ नरचूडामणेरने निजं चूडामाणिं फणी । चिरार्जितं तेज इवोपानयत्तच्छरं च सः ॥ ६३ ॥ तवाहं पूर्वदिक्पालः किङ्करः करवाणि किम् । इति विज्ञपयन् राज्ञा सोऽनुजज्ञे भहौजसा ॥ ६४॥ जयस्तम्भामिवारोप्य तत्र तं मागधाधिपम् । पूर्वनीरनिधेस्तीरान्नरदेवो न्यवर्त्तत ॥ ६५ ॥ उवामनुवी कुर्वाणश्चलयनचलानपि । चतुरङ्गबलेनाथ | प्रपेदे दक्षिणोदधिम् ।। ६६ ॥ एलालवङ्गलवलीककोलबहले तटे । सैन्यान्यावासयामास स दो-यपुरन्दर: ॥६७ ॥ तेजसा स दुरालोको द्वितीय इव भास्करः । महावाहं महाबाहुरारुरोह महारथम् ॥ ८॥ तरङ्गैरिव ॥२२॥
Lain Education Internal
For Personal & Private Use Only
Page #63
--------------------------------------------------------------------------
________________
KUK+
रङ्गद्भिस्ततस्तुङ्गैस्तुरङ्गगैः । रथनाभ्युदयं तयं ललई स महोदधिम् ॥ ६६ ॥ वरदामाभिमुखं च सञ्जीकृतशरासनः । धनुर्वेदोङ्कारमिव ज्यानि दान सः ॥ ७० ॥ सौवर्णकर्णताडकपालास्पृशम् । काञ्चनं सन्दधे वार्याकार्मुके ॥ ७१ ॥ व्यतीर्देशन श्रीभरतस्ततः । मुमोच नमुचिद्वेपिस्थामा नामाङ्कितं शरम् ॥ ७२ ॥ वरदामपरन्यच प्रतिगृझ च । भरतं प्रत्युपाय उपायनमुपानयत् ॥ ७३ ॥ ऊचे च भावी धन्योऽस्मि यािः । न भवता नाथ सनाथोऽहमतः परम् ॥ ७४ ॥ ततस्तमात्मसात्कृत्वा कृत्यविद्भरतेश्वरः । प्रतियां पलैः ॥ ७५ ॥ अपराविपासाद्य प्रभासाभिमुखं शरम् । जाज्वल्यमानं भरतस्तडिदण्डमिवाक्षिपत् ।। ७६ । दण्डं प्रयच्छ कुर्वाज्ञां जिजीविषसि चेदम् । इत्यक्षराणि तद्वाणे प्रभासपतिरैचत ॥ ७७ ॥ यानि प्रगुणीकृत्य प्राभृतान्यद्भुतानि सः । चचाल शरमादाय प्रसादयितुमाभिम् ॥ ७८ ॥ हारानीहारहस्थिता जहारातिहारियः । चिरकालार्जितानात्मयशोराशीनिवाखिलान् ॥७६॥ पामग्रे पकल्पो रमारमहुन्नथिः । वांस्तान्निश्रावयामास मणीन्नरशिरोमणेः ॥ ८० ॥ कटकानि कटीसूत्रं चूडामणिरोमणिम् । निष्कादि चाया सूर्त तेज इव स्वकम् ॥ ८१ ॥ इति प्रसादितस्तेनाच्छद्मना मक्तिसद्मना । भरतोऽगानदीं सिन्धुगुरद्वार देहलीम् ॥ ८२ ॥ निकपा सिन्धुभवनं निदधे शिविरं नृपः । सिन्धुदेवीं समुद्दिश्य विदधे चाष्टमं तपः ॥ ८३ ॥ सिन्धुवासन कम्पेन ज्ञात्वा चक्रिणमागतम् । उपेत्योपायनैर्दिव्यैरानर्च पृथिवीपतिम् ॥ ८४ ॥ तामुरीकृत सेवां च विसृज्य कृतदारणः । अष्टाडिकोत्सवं तस्य विदधे 'वसुधाधवः ॥ ८५ ॥ सोऽथ चक्रानुगो ( १ ) वसुधाधिपः ।
For Personal & Private Use Only
-9/0/4-11-17+****
-+10+-*-*-*
Page #64
--------------------------------------------------------------------------
________________
का
योगशास्त्रम्
॥२३॥
गच्छन् ककुभोत्तरपूर्वया । भरतार्द्धद्वयाघाट वैताढ्याद्रिमवाप च ॥८६॥ नितम्बे दक्षिणे तस्य विन्य- प्रथमः स्तशिविरस्ततः । अधिवैताढयकुमारं नृपतिर्विदधेष्टमम् ॥८७॥ विज्ञायावधिना सोऽपि दिव्यस्तैस्तैरुपायनैः । प्रकाश उपतस्थे महीपालं सेवां च प्रत्यपद्यत ॥८॥ तं विसृज्य नृपश्चक्रेऽष्टमभक्तान्तपारणम् । अष्टाह्निकोत्सवं तस्य विदधे च यथाविधि ॥८६॥ गुहां तमिस्रामभितस्तमिस्रारिरिव त्विषा । जगाम तददूरे च स्कन्धावारं न्यधान्नृपः ॥ ३० ॥ कृतमालामरं तत्र स उद्दिश्याष्टमं व्यधात् । सोऽपि ज्ञात्वासनकम्पादान!पेत्य भूपतिम् ॥ ११॥ विसृज्य तमपि मापः कृत्वा चाष्टमपारणम् । विदधेऽष्टाह्निका तस्य महोत्सवपुरःसरम् ॥ १२ ॥ सुपेणो भरतादेशात्सिन्धुमुत्तीर्य चर्मणा । तरसा साधयामास दक्षिणं सिन्धुनिष्कुटम् ॥ १३ ॥ करं ततस्त्यम्लेच्छानामादाय स्वेच्छयाथ सः । उत्तीर्य चर्मणा सिन्धुमाययौ भरतेश्वरम् ॥ १४ ॥ वैताढथे तमिस्री वज्रकपाटपिहितां गुहाम् । उद्घाटयितुमादिक्षत् सुपेणमृषभात्मजः ॥६५॥ सुषेणोऽपि प्रभोराज्ञां शेषावन्मूनि धारयन् । प्रदेशेऽगात्तमिमाया गुहाया अदवीयसि ।। ६६ ॥ तदधिष्ठातृदेवं च कृतमालमनुस्मरन् । तस्थौ पौषधशालायामष्टमेन विशुद्भधीः ॥ १७॥ स्नात्वा चाष्टमभक्तान्ते बाह्याभ्यन्तरशौचभृत् । पर्यधाच्छुचिवस्त्राणि विविधाभरणानि च ॥९८॥ होमकुण्डोपमे धूपदहने ज्वलदग्निके। धूपमुष्टीः क्षिपन् स्वार्थसाधनीराहुतीरिव ॥ ६६ ॥ ततः स्थानादसौ तस्या गुहाया द्वारमभ्यगात् । कोशद्वारं तदायुक्त इवोद्घाटयितुं त्वरी ॥ ३०० ।। दृष्टमात्रं तत्कपाटयुगलं प्रणनाम च । नेतारमिव तदन्तःप्रवेशः स्यात्कुतोऽन्यथा ॥ १॥ गुहाद्वारे ततोऽष्टाष्टमङ्गलालेखपूर्वकम् । [1] (१) ततस्तमृषभात्मजः ।
॥२३॥
Education internacional
For Personal Private Use Only
Page #65
--------------------------------------------------------------------------
________________
Jain Education Internat
**<***@**•~~>*<-03-***@****OKK
सोऽष्टाह्निकामहिमानं चक्रे स्वमहिमोचितम् ॥ २ ॥ दण्डरत्नं वज्रसारं सर्वशत्रुविनाशनम् । अथ सेनापतिर्वज्रं वज्रपाणिरिवाददे || ३ || पदानि कतिचित्सोऽपसृत्य वक्र इव ग्रहः । दण्डरलेन झटिति कपाटौ त्रिरताडयत् ||४|| पचाविवाद्रेर्वत्रेण दण्डरत्नेन ताडितौ । तडत्तडिति कुर्वाणौ विश्लिष्टौ तौ बभूवतुः ||५|| तद्गुहाद्वारवत्सद्यः सविकाशमुखो भृशम् । सुषेणो भरतायेदं गत्वा नत्वा व्यजिज्ञपत् ॥ ६ ॥ अद्या भूत्वत्प्रभावेण गुहाद्वारमपार्गलम् । यतेर्निःश्रेयसद्वारं तपसेवाविभूयसा ॥ ७ ॥ मघवैरावणमिवाधिरूढो गन्धवारणम् । तत्कालं भरताधीशो गुहाद्वामुपायौ ॥ ८ ॥ अन्धकारापहाराय मणिरत्नं न्यधान्नृपः । दक्षिणे कुम्भिनः कुम्भे पूर्वाद्राविव भास्करम् ॥६॥ ततोऽनुगचमूचक्रश्चक्रमार्गानुगो गुहाम् । प्रविवेश विशामीशो मेघमध्यमिवार्यमा ॥ १० ॥ गोमूत्रिकाक्रमेणानुयोजनान्तं तम । पार्श्वयोः काकिणीरत्नेनालिखन्मण्डलानि सः ॥ ११ ॥ दीमैरेकोनपञ्चाशन्मण्डलैः काकिणीकृतैः । मार्त्तण्डमण्डलोद्योतैस्तद्वाहिन्यो ऽवहन्सुखम् ॥ १२ ॥ भूपोऽथापश्यदुन्मग्ननिमग्ने निम्नगे ययोः । एकत्रोन्मञ्जति ग्रावान्यस्यां मज्जत्यलाब्वपि ॥ १३ ॥ श्रतिदुस्तरताभाजोरपि सारणिलीलया । तयोर्न - द्योरनवद्यां पद्यां व्यधित वर्द्धकिः ॥ १४ ॥ पद्यया ते समुत्तीर्य तद्गुहा कुहरान्नृपः । निरगच्छन्महामेघमण्डलादिव भास्करः ।। १५ ।। भरतो भरतक्षेत्रोत्तरखण्डं प्रविष्टवान् । अयुध्यत ततो म्लेच्छैर्दानवैरिव वासवः ॥ १६ ॥ जिता राज्ञा महेशेन म्लेच्छाः प्रतिजयेच्छवः । उपासाञ्चक्रिरे मेघमुखान् स्वकुलदेवताः ।। १७ ।। मुसलाकारधाराभिरारादासारदारुणम् । ते प्रावर्त्तन्त संवर्त्त इव विष्वक् प्रवर्षितुम् ॥ १८ ॥ चर्मरत्नमधस्तेने राज्ञा द्वादशयोज - ( १ ) महेच्छेन ।
For Personal & Private Use Only:
•-*--10+ 0.001.08-*
Page #66
--------------------------------------------------------------------------
________________
योगशास्त्रम्
प्रथमः प्रकाशः।
॥२४
वर्ष च निविगैरूचे मेघकुमारयः । अग्निना किल द
योगवित् ॥
नीम् । तद्ववं छत्ररत्नं मध्ये च निदधे चमूः ॥ १६ ॥ मणिरत्नमुरुध्वान्तध्वंसाय वसुधाधिपः । पूर्वाचल | इवादित्यं छत्रदण्डे न्ययोजयत् ॥ २०॥ तरदण्ड इवाराजत्तद्रत्नद्वयसम्पुटम् । ततस्तदादिलोकेऽद्ब्रह्माण्डमिति कल्पना ॥२१ । पूर्वाहे वापितान् शालीनपराहे च पक्तिमान् । प्रत्यावासं गृहपतिर्भोजनार्थमपूरयत् ॥ २२ ॥ वर्ष वर्ष च निविष्मरूचे मेघकुमारकैः । किराताश्चक्रवत्र्येष न साध्योऽस्मादृशामपि ॥ २३ ॥ भनेच्छास्तद्राि म्लेच्छाः शरणं भरतं ययुः। अग्निना किल दग्धानामग्निरेव महौषधम् ॥ २४ ॥। ततश्चाजय्यमजयसिन्धोरुत्तरनिष्कुटम् । स्वाम्यादेशेन सेनानीः संसारामिव योगवित् ॥ २५ ॥ कैश्चित्प्रयाणकैर्गच्छन् गजेन्द्र इव लीलया। नितम्ब दक्षिणं क्षुद्रहिमाद्रेः प्राप भूपतिः ॥ २६ ॥ उद्दिश्य क्षुद्रहिमवत्कुमारं तत्र चार्षभिः । चक्रेऽष्टमं कार्यसिद्धेस्तपो मङ्गलमादिमम् ॥ २७॥ गत्वाष्टमान्ते हिमवत्पर्वतं त्रिरताडयत् । साटोपो रथशीर्षेण शीर्षण्यः पृथिवीभुजाम् ॥२८॥ भरतेशस्ततः क्षुद्रहिमवद्भिरिमूर्द्धनि । द्वासप्ततिं । योजनानि नामाकं बाणमक्षिपत् ॥ २६ ॥ बाणमालोक्य हिमवत्कुमारो ऽप्येत्य सत्वरम् । भरताज्ञां स्वशिरसा शिरस्त्राणमिवाग्रहीत ॥ ३० ॥ गत्वा ऋषभकूटाद्रिमृषभस्वामिभूस्ततः । जघान रथशीर्षण त्रिदन्तेनेव दन्तिराट् । ॥ ३१ ॥ अवसर्पिण्यां तृतीयारप्रान्ते भरतेऽस्म्यहम् । चक्रीति वर्णान् काकिण्या तत्पूर्वकटकेऽलिखत् ॥३२॥ ततो व्यावृत्त्य सद्वत्तः स्कन्धावारं निजं ययौ । चकाराष्टमभक्तान्तपारणं च महीपतिः ॥ ३३ ॥ ततश्च क्षुद्राहिमवत्कुमारस्य नरेश्वरः । अष्टाहिकोत्सवं चक्रेऽनुरूपं चक्रिसम्पदः॥ ३४ ॥ ततो निववृते चक्रवर्ती चक्रपथानुगः।
P (१) अभ्येत्य ।
॥२४॥
in Education international
For Personal & Private Use Only
Page #67
--------------------------------------------------------------------------
________________
सिन्धुगङ्गान्तरं कुर्वन् सङ्कटं विपुलैबलैः ॥३५॥ नितम्बमत्तरमथ वैताढयाद्रेवाप सः। तत्र स्वस्थपरीवारं स्कन्धावारं न्यधत्त च ॥ ३६॥ ततो नमिविनम्याख्यौ विद्याधरपती प्रति । आदिदेश विशामाशा मागण दण्डमार्गणम् ॥३७॥ वैताढयशृङ्गादुत्तीर्य कुपितौ दण्डयाचनात । आजग्मतुर्युयुत्सू तौ विद्याधरबलावृतौ ॥३८॥ कुवेन्मणिविमानो वहुसूर्यमयीमिव । प्रज्वलद्भिः प्रहरणैस्तडिन्मालामयीमिव ॥ ३९ ॥ उद्दामदुन्दुभिध्वानमेघघोषमयीमिव । विद्याधरवलं व्योमन्यपश्यद्भरतस्ततः॥४०॥ दण्डार्थिन दण्डमस्मत्तस्त्वं गृह्णासीति भाषिणी । आहवायाहयेतां तौ विद्यादृप्तौ महीपतिम् ॥४१॥ अथ ताभ्यां ससैन्याभ्यां प्रत्येक युगपच्च सः । युयुधे विविधेयुद्धयुद्धाज्यों यजयश्रियः ॥ ४२ ॥ युधा द्वादशवार्षिक्या विद्याधरपती जितौ । प्राञ्जली प्रणिपत्यैवं भरताधीशमूचतुः॥४३॥ रवेरुपरि किं तेजो वायोरुपरि को जवी । मोक्षस्योपरि कि सौख्यं कश्च शूरस्तवोपरि ॥४४॥ ऋषभो भगवान् साक्षादद्य दृष्टस्त्वमार्षभे । अज्ञानाद्योधितोऽस्माभिः कुलस्वामिन् सहस्व तत् ॥ ४५ ॥ किरीट इव नो मूनि मण्डनं तव शासनम् । कोशो वपुरपत्यानि सर्वमन्यच्च तावकम् ॥ ४६ ॥ भक्तिगर्भमिति प्रोच्य भरतेशाय दत्तवान् । विनम्रो बिनमिर्नारीरत्नं रत्नोच्चयं नमिः ॥ ४७ ॥ ततो राज्ञा विसृष्टी तौ राज्यान्यारोप्य सूनुषु । विरक्तावृषभेशाहिमले जगृहतुव्रतम् ॥ ४॥ ततोऽपि चलितवतश्चक्ररत्नस्य पृष्ठतः। गच्छन्नासादयामास राजा मन्दाकिनीतटम् ॥ ४६॥ उत्तरं निष्कुटं गाङ्गं सुषेणोऽप्यभिषेणयन् । तरसा साधयामास किमसाध्यं महात्मनाम् ॥५०॥ राजाप्यष्टमभक्तेन गङ्गादेवीमसाधयत् । आनर्च भरतं सापि देवताहरुपायनैः ॥५१ ।। ततो गङ्गानदीकूले कमलामोदमालिनि । वासागार इवोवास वसुमत्येकवासवः ।। ५२ ॥ भरतं रूपला
in Education international
For Personal & Private Use Only
Page #68
--------------------------------------------------------------------------
________________
++
योग
प्रकारा
+
।
-+.
-*
वण्यकिङ्करीकृतमन्मथम् । तत्रावलोक्य गङ्गापि प्राप क्षोभमयी दशाम् ।। ५३ ।। विराजमाना सर्वाङ्ग मुक्तामयविभूषणः । वदनेन्दोरनुगतैस्तारैस्तारागणैरिव ।। ५४ ॥ वस्त्राणि कदलीगर्भत्वक्सगर्भाणि विभ्रती । स्वप्रवाहपयांसीव तपपरिणामतः ॥५५|| रोमाञ्चकचकोदश्चन्कुचम्फुटितकचुका । सद्यस्तरङ्गितापाङ्गा गङ्गा भरतमभ्यगात् ॥५६|| (त्रिभिर्विशेषकम) प्रेमगद्गदवादिन्या गाढमभ्यय पार्थिवः। रिरंसमानया निन्ये तया निजनिकेतनम् ॥५७॥ भुजानो विविधान् भोगांस्तया सह महीपतिः । एकाहमिव वाणां सहसं सोऽत्यवायद ।। ५८ ।। गुहां खण्डप्रपाताख्यामखण्डितपराक्रमः । ततः स्थानान्नृपः पाप करटीव बनानम् ॥५६॥ कृतमालकवत्तत्र नाट्यमालमसाधयत् । अष्टमेन नृपस्तद्वत्तस्य चाष्टाह्निका व्यधात् ॥६०॥ सुरेणोद्घाटितद्वारकपाटां तां गुहां नृपः। प्राविशदक्षिणं तस्या द्वारमुजघटे स्वयम् ।। ६१।। निर्ययौ तद्गुहामध्यात्केशरीव नरेश्वरः । स्कन्धावारं च निदधे गाजे रोधसि पश्चिमे ।। ६२॥ नवापि निधयो नागकुमाराधिष्ठितास्तदा। गङ्गाकूलमनुप्राप्तं राजानमुपतस्थिरे ॥६३ ।। इत्युचुस्ते वयं गङ्गामुखमागधवासिनः । आगतास्त्वां महाभाग भवद्भाग्यवंशीकृताः॥ ६४ ॥ यथाकाममविश्रान्तमुपभुच्च प्रयच्छ च । अपि क्षीयेत पायोधौ न तु क्षीयामहे वयम् ॥ ६५॥ सहस्रैर्नवभिर्यक्षः किङ्करैरिव तावकैः । आपूर्यमाणाः सततं चक्राष्टकप्रतिष्टिताः ।। ६६ ।। द्वादशयोजनायामा नवयोजनविस्तृताः । भूमध्ये सञ्चरिष्यामो देव त्वत्पारिपार्श्विकाः ॥ ६७ ।। ( युग्मम् ) सेनापतिः | सुषेणोऽपि गङ्गादक्षिणनिष्कुटम् । महावनं महावायुरिवोन्मूल्य समाययौ ॥ ६८ ॥ समासहस्रः पष्टयैवं जित्वा पट्खण्डमेदिनीम् । चक्रमार्गानुगोऽयोध्यां जगाम जगतीपतिः ॥ ६६ ॥ ततो हादशभिर्वर्षे
Education internations
For Personal & Private Use Only
Page #69
--------------------------------------------------------------------------
________________
64
रागत्यागत्य पार्थिवः । प्रचक्र चक्रवर्तित्वाभिषेको भरतेशितः ॥७० ।। कुर्वता स्वकुटुम्बस्य सारां च दशे कृशाम् । सुन्दरी चास्थिभतां च चुकोप भरतेश्वरः ।। ७१ ॥ ऊचे प्राहरिकान् किं रे मद्गहे नास्ति भोजनम् । यदेवमीशी जाता अस्थि चर्ममयी कथम् ॥ ७२ ॥ स्वामिन विजययात्राभूत्तय तावत्प्रभृत्यपि । आचामाम्लान्यविश्रान्तमकापीत्सुन्दरी यतः ।। ७३ ॥ अत्रान्तरे च भगवान विहत्य वसुधातले । भगवान् समवासापदिष्टापदगिरौ ततः ॥ ७४ । श्रुत्वा च भरताधीशः स्वामिवन्दनहेतवे । आगाचदेशनां श्रुत्वा व्रतं जग्राह सुन्दरी ।।। ७५ ।। भ्रातृननागतान् ज्ञात्वा तम्मिन्नपि महोत्सवे । तेषामेकैकशो दृतान् प्राहिणोद्भरतेश्वरः ॥ ७६ ॥ राज्यानि चेत्समीहवे सेवध्वं भरतं ततः। दूतैरित्युदिताः सर्वेऽप्यालोच्येवावदन्निदम् ।। ७७ ॥ विभज्य राज्यं दत्तं नस्तातेन भरतस्य च । संसेव्यमानो भरतोऽधिकं किं नः करिष्यति ।। ७८ ॥ समापतन्तं किं काले कालं प्रस्खलयिष्यति । किं जराराक्षसी देहग्राहिणी निग्रहीष्यति ॥ ७९ ॥ बाधाविधायिनः किं वा व्याधिव्याधान्
हनिष्यति । यथोत्तरं बर्द्धमानां तृष्णां वा दलयिष्यति ।। ८०॥ ईक्सेवाफलं दातुं न चेद्भरत ईश्वरः । मनुष्य11. भावे सामान्ये तर्हि कः केन सेव्यताम् ।। ८१॥ प्राज्यराज्योऽप्यसन्तोषादस्मद्राज्यं जिघृक्षति । स्थाना चेत्तद्वय
मपि तस्य तातस्य सूनवः ॥ ८२ ॥ अविज्ञपय्य तातं तु सोदर्येणाग्रजन्मना । दृत त्वत्स्वामिना योधुं न वयं प्रोत्सहामहे ।। ८३ ॥ ते दूतानभिधायैवमृषभस्वामिनं ययुः । नत्वा भरतसन्दिष्टं तच्च सर्च व्यजिज्ञपन् ।। ८४ ॥ अम्लान केवलादर्शसंक्रान्ताशेपविष्टपः । कृपावान भगवानादिनाथोऽपीत्यादिदेश तान् ।। ८५ ॥ अनेकयोनिस-1
(१) तत्स्वरूपं व्यजिज्ञपन् ।
Jain Education international
For Personal & Private Use Only
Page #70
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥ २६॥
म्पातानन्तबाधानिवन्धनम् । अभिमानफलैवेयं राज्यश्रीः सापि नश्वरी ॥ ८६ ॥ किश्च या स्वःसुखैस्तृष्णा
प्रथम: नात्रुट्यत्याग्भवेषु वः । साङ्गारकारकस्येव मर्यभोगैः कथं त्रुटेत् ॥८७॥ अङ्गारकारकः कश्चिदादाय पयसो प्रकाशः। दृतिम् । जगाम कर्तुमङ्गारानरण्ये रीणवारिणि ॥८८ ॥ सोऽङ्गारानलसन्तापान्मध्याहातपपोषितात् । उद्भूतया तृषाक्रान्तः सर्व दृतिपयः पपौ ॥८६॥ तेनाप्यच्छिन्नतृष्णः सन् सुप्तः स्वप्ने गृहं गतः। आलूकलशनन्दानामुदकान्यभितोऽप्यपात् ॥ ९॥ तज्जलरप्यशान्तायां तृष्णायामग्नितैलवत् । वापीकूपतडागानि पायंपायमशोषयत् ॥ ६१॥ तथैव तृषितोऽथापात्सरितः सरितां पतीन् । न तु तस्य तृषात्रुट्यनारकस्येव वेदना ॥१२॥ मरुकूपे ततो यातः कुशपूलं स रज्जुभिः । बध्ध्वा चिक्षेप पयसे किमातः कुरुते न हि ॥ १३ ॥ दूराम्बुत्वेन कूपस्य मध्येऽपि गलिताम्बुकम् । निश्चोत्य पूलं द्रमका स्नेहप्रोतमिवापिवत् ॥१४॥ न च्छिन्ना यार्णवाद्यैस्तुद् छेद्या पूलाम्भसा न सा । तद्वद्वः स्वःसुखाच्छिन्ना छेद्या राज्यश्रिया किमु ॥६॥ अमन्दानन्दनिःस्यन्दिनिर्वाणप्राप्तिकारणम् । वत्साः संयमराज्यं तद्युज्यते वो विवेकिनाम् ॥६६॥ तत्कालोत्पन्नवैराग्यवेगा भगवदन्तिके । तेऽष्टानवतिरप्याशु प्रव्रज्यां जगृहुस्ततः॥१७॥ अहो धैर्यमहो सत्त्वमहो वैराग्यधीरिति । चिन्तयन्तस्तत्स्वरूपं दूता राज्ञे व्यजिज्ञपन् ।।९८॥ तत् श्रुत्वा भरतस्तेषां राज्यानि जगृहे स्वयम् । लाभाद्विवर्द्धितो लोभो राजधर्मो ह्यसौ सदा ॥१६॥ अथ विज्ञपयामास सेनानीभरतेश्वरम् । न चक्र चक्रशालायां विशत्यद्यापि नः प्रभो ॥४०॥ स्वामिन् दिग्विलये कश्चिदाज्ञाबाह्यो नृपः क्वचित् । विवर्तते डोल इव घरट्टे भ्रमति प्रभो ॥१॥ आ ज्ञातं भरतोऽवादील्लोकोत्तरपराक्रमः। अस्मद्धन्धुर्महाबाहुरेको बाहुबलिबली ॥२॥ एकतो गरुडश्चैकोऽन्यतोऽप्यहिकुलानि च । मृगारिको यत्कुऱ्यान्मृगकुलाः
PE२६॥
। प्रव्रज्या जगृहुतिया राज्यानि जगृहे स्वयम् । लाभ
तत् श्रुत्वा भरवस्व ॥ न चक्रं चत्रशाला भ्रमति प्रभो ॥ यतोऽप्यहिकुलानि
S|| अहो धैर्यमहो मनाम् ॥६६॥ तत्काला५॥ अमन्दानन्दाना पार्णवाद्यैस्त
प्रभो ॥ ४०० ॥ स्वामि
in Education
I
For Personal & Private Use Only
Page #71
--------------------------------------------------------------------------
________________
'....॥३॥ एकतः संहताः सर्वे देवदानवमानवाः। तथान्यतो बाहुबलिः प्रतिमल्लो न विद्यते ॥ ४॥ एकतश्चक्रशालायां चक्रं न प्रविशत्यदः। नेच्छत्याज्ञामन्यतो (मितो) बाहुः सङ्कटे पतितोऽस्म्यहम् ॥शा किंवा बाहुबलिः सोऽयमाज्ञां कस्यापि मन्यते । सहते नाम पर्याणं केसरी किं कदाचन ॥ ६ ॥ एवं विमृशतस्तस्य सेनानीजगदे ह्यदः । स्वामिस्त्वद्ध (स्तव ब) लस्याने त्रैलोक्यं च तृणायते ॥ ७॥ वैमात्रेयं कनीयांसमथ बाहुबलि प्रति । दूतं तक्षशिलापुऱ्या प्रेषयामास पार्थिवः ॥८॥ शैलशृङ्गे सिंहमिवोत्तुङ्गसिंहासने स्थितम् । नत्वा बाहुबलिं दूतो युक्तिस्यूतमवोचत ॥६॥ त्वमेकः श्लाघ्यसे यस्य ज्येष्ठो भ्राता जगजयी । षदखण्डभरताधीशो लोकोत्तरपराक्रमः ॥१०॥ त्वद्भातुश्चक्रवर्तित्वाभिषेके के महीभुजः। मङ्गल्योपायनकराः करदीभूय नाययुः ॥ ११ ॥ सूर्योदय इवाम्भोजखण्डस्य भरतोदयः । श्रिये तवैव किन्त्वस्याभिषेके न त्वमागमः ॥१२॥ ततः कुमार भवतोऽसमागमनकारणम् । ज्ञातुं राज्ञा नयज्ञेनाज्ञापितोऽहमिहागमम् ॥ १३ ॥ नागा यद्यार्जवेनापि तत्र कोऽपि जनः पुनः । तवाविनीततां ब्रूते यच्छिद्रान्वेषिणः खलाः ॥ १४ ॥ पिशुनानां प्रवेशं तद्यनाद्वोपयितुं तव । आगन्तुं युज्यते तत्र कात्रपा | स्वाम्युपासने ॥ १५ ॥ भ्रातेति यदि निर्भीको नागास्तदपि नोचितम् । आज्ञासारा न गृह्यन्ते ज्ञातेयेन महीभुजः | ॥ १६ ॥ अयस्कान्तैरिवायांसि देवदानवमानवाः । कृष्टास्तेजोभिरधुना ह्येकं भरतमन्वगुः ॥ १७ ॥ यम - सनदानेन वासवोऽपि सखीयति । सेवामात्रेण तं हन्तानुकूलयसि कि नहि ॥ १८॥ वीरमानितया यद्वा राजानमवमन्यसे । त्वं हि तस्मिन् ससैन्योऽपि समुद्रे सक्तमुष्टिवत ॥ १६॥ लक्षाश्चतुरशीतिस्तद्गजाः शक्रेभसन्निभाः।
१ मृगारिरेको यत्कुर्यात्कुर्यान्मृगकुलं न तत् ॥ इति संभवति.
Jan Education internal
For Personal Private Use Only
Page #72
--------------------------------------------------------------------------
________________
योगशास्त्रम् ॥ २७॥
प्रथमः प्रकाशः।
- सह्याः केनाभिसर्पन्तः पर्वता इव जङ्गमाः ॥२०॥ तावतोऽश्वान् रथांश्चास्य विष्वक् प्लावयतो महीम् । कल्लो
लानिव कल्पान्तोदधेः कः स्खलयिष्यति ॥ २१ ॥ तस्य षष्मवतिग्रामकोटिभर्तुः पदातयः । कोट्यः पनवतिः सिंहा इव त्रासाय कस्य न ॥ २२ ॥ एकः सुषेणसेनानीर्दण्डपाणिः समापतन् । कृतान्त इव किं शक्यः सोडं देवासुरैरपि ॥ २३ ॥ अमोघं बिभ्रतश्चक्रं चक्रिणो भरतस्य तु । सूर्यस्यैव तमस्तोमः स्तोकिकैव त्रिलोक्यपि ॥ २४ ॥ तेजसा वयसा ज्येष्ठो नृपश्रेष्ठः स सर्वथा । राज्यजीवितकामेन सेव्यो बाहुबले त्वया ॥२५ ॥ अथ बाहुबलिर्बाहुबलापास्तजगदलः। ऊचे भ्रूभङ्गभृद्वीरध्वानोऽर्णव इवापरः ॥ २६ ॥ युक्तं यदुक्तं भवता लोभेन क्षोभणं वचः । दूताः खलु यथावस्थस्वामिवाचिकवाचिनः ॥ २७॥ सुरासुरनरेन्द्रार्यो ने तातोत्तमविक्रमः। श्लाघाहेतुर्मे भरतः कीर्तितो दूत नूतनः ॥ २८ ॥ करदीभूय भूपाला नागच्छन्तु कथं नु तम् । दृश्यते न त्वसौ यस्य भ्राता बाहुबलिबेली ।। २६ ॥ आवयोनेनु मार्तण्डपङ्करुट्खण्डयोरिव । किं न स्याद्व्यवहितयोरपि प्रीतिः परस्परम् ॥ ३० ॥ सदा मनसि तिष्ठामस्तस्य भ्रातुरहो वयम् । गत्वा किमतिरिच्येत प्रीतिनैसर्गिकी हिनः
॥ ३१ ॥ आर्जवानागताः सत्यं कौटिल्यं भरतेन किम् । विमृश्यकारिणः सन्तो दूयन्ते किं खलोक्तिभिः॥३२॥ | एक एवावयोः स्वामी भगवानादितीर्थकृत् । तस्मिन्विजयिनि स्वामी कथङ्कारं ममापरः ॥३३॥ भ्रातास्म्यभीः स चाज्ञेश प्राज्ञापयतु यद्यलम् । ज्ञातिस्नेहेन किं वज्र वज्रेण न विदार्यते ॥ ३४ ॥ सुरासुरनरोपास्त्या प्रीतोऽस्त्वेष मयास्य किम् । मागे एव क्षमः स्तम्बे रथः सजोऽपि भज्यते ॥ ३५ ॥ तातभक्तो महेन्द्रश्चेज्येष्ठं तं तातनन्दनम् । प्रासयत्यासनस्यार्द्ध स किं तेनापि दृप्यति ।। ३६ ॥ तेऽन्ये तस्मिन् समुद्रे ये ससैन्याः सक्तुमुष्टिवत ।
१ न तातो न च विक्रमः ।
|| २७॥
in Education International
For Personal & Private Use Only
Page #73
--------------------------------------------------------------------------
________________
तेजोभिर्दुःसहोऽहं तु हन्तस्यां वडवानलः ॥ ३७ ॥ पत्तयोध्या रथा नागाः सेनानीर्भरतोऽपि च । मयि सर्व्वे प्रीयन्तां तेजांसीवार्क तेजसि ॥ ३८८ ॥ याहि त स एवैतु राज्यजीवितकाम्यया । तातदत्तांशतुष्टेन मयैवापक्षितस्य भूः || ३६ || दूतेनागत्य विज्ञप्ते यथार्थे तेन तत्क्षणम् | युयुत्सुर्बाहुबलिना भरतोञ्थाभ्यपेणयत् ॥ ४० ॥ छादयन्मेदिनी सैन्येन धनैरिव महाबाहुस्ततो बाहुबलिर्भरतमभ्यगात् ॥ ४१ ॥ उभयोरपि वाहिन्योर्महासुभयादसोः । अन्योऽन्यास्फालिताखोमिः सम्फेटोऽभूद्भयानकः ॥ ४२ ॥ तत्सैनिकानामन्योऽन्यं कुन्ताकुन्ति शराशरि । श्रामन्त्रितश्राद्धदेवः प्रावर्त्तत रणक्षणः || ४३ || पर्यस्याशेपसैन्यानि तूलानीव महाबलः । श्रभ्येत्य भरतं बाहुबलिरेवमवोचत || ४४ ॥ हस्त्यश्वपत्तिघातेन किं सुधा पापदायिना । यद्यलं तत्त्वमेकाकी युद्धयस्वैकाकिना मया ।। ४५ ।। एकाङ्गाजिं प्रतिज्ञाय द्वाभ्यामपि निवारिताः । सैनिका उभयेऽप्यस्थुः पश्यन्तः साक्षिणो यथा ।। ४६ ।। ततो दृग्युद्ध आरब्धे निर्निमेषविलोचनौ । देवैरपि नृदेवो तो देवाविति वितर्कितौ ॥ ४७ ॥ भरते निर्जिते तत्र साक्षीभूतामरं तयोः । वाग्युद्धमभवत्पक्षप्रतिपक्षपरिग्रहात् ।। ४८ ।। तत्रापि हीनवादित्वं भरते समुपेयुपि । भूभुजौ भुजयुद्धेन युयुधाते महाभुजौ ।। ४९ ।। भरतो लम्बमानोऽथ बाहौ बाहुबलेः स्थिरे । शाखामृगो महाशाखिशाखायामित्र वीक्षितः ॥ ५० ॥ भरतस्य महाबाहोरपि बाहुबलिली । एकेन बाहुना बाहुं लतानालमनामयत् ।। ५१ ।। प्रारब्धे मुष्टियुद्धेऽथ पेतुर्भरतमुष्टयः । बाहुबली समुद्रोम्मिघाता इव तटाचले ॥ ५२ ॥ श्रहतो बाहुबलिना वज्रकल्पेन मुष्टिना । पपात भरतः पृथ्व्यां स्वसैन्याऽश्रुजलैः सह ॥ ५३ ॥ (१) सम्यीभूतामरं तयोः ।
For Personal & Private Use Only:
-10
184-04,101 +
Page #74
--------------------------------------------------------------------------
________________
प्रथम: प्रकाशः।
॥२८॥
योग- मूर्छान्ते भरतो बाहुबलिं दण्डेन दर्पतः । ताडयामास दन्तीव तिर्यग्दन्तेन पर्वतम् ॥ ५४ ॥ दण्डेन बाहुबलिना शास्त्रम् P निहतो भरतस्ततः। भूम्यामाजानुमग्नोऽस्थानिखात इव कीलकः॥५५॥ किमेष चक्रवर्तीति भरतः कृतसंशयः।
यावत्संस्मृतवांश्चक्रं तावदागास्करेऽस्य तत् ॥ ५६ ॥ भूमेनिःसृत्य कोपेन महता भरतेश्वरः । चिक्षेप प्रज्वलच्चक्रं कृतहाहारवं बलैः ॥ ५७ ॥ तच्चक्रं पार्श्वतो बाहुबलेन्वा न्यवर्त्तत । दैवतानि हि शस्त्राणि स्वगोत्रे प्रभवन्ति न ॥ ५८॥ अक्षत्रं प्रेक्ष्य तद्वाहुबलिः कोपारुणेक्षणः । सचक्रं चूर्णयाम्येनमिति मुष्टिमुदक्षिपत् ॥५६॥ असाविव कषायैर्धिगहं भ्रातृवधोद्यतः । विजित्य करणग्राम कषायानेव हन्मि तान् ॥ ६० ।। इति सञ्जातसंवेगस्तदा तेनैव मुष्टिना । केशानुत्पाटयामास सामायिकमथाददे ॥ ६१ ॥ साधु साध्विति सानन्दं व्याहरन्तः सुरासुराः । उपरिष्टाद्वाहुबलेः पुष्पवृष्टिं वितेनिरे ॥ ६२॥ गत्वा भगवतः पार्श्वे ज्ञानातिशयशालिनाम् । कनीयसा सोदराणां विधास्ये वन्दनां कथम् ॥ ६३॥ उत्पन्न केवलज्ञानस्तत्तां यास्यामि पर्षदम् । इति तत्रैव मौनेन सोऽस्थात्पतिमया कृती ॥ ६४ ॥ (युग्मम् ) भरतस्तं तथा दृष्ट्वा विचार्य स्वं कुकर्म च । बभूव न्यश्चितग्रीवो विविचुरिव मेदिनीम् ।। ६५ ॥ शान्तरसं मूर्तमिव भ्रातरं प्रणनाम च । नेत्रयोरश्रुभिः कोष्णैः कोपशेषमिवोत्सृजन् ॥६६॥ प्रणमन् भरतस्तस्याधिकोपास्तिविधित्सया । नखादशेषु संक्रान्त्या नानारूप इवाभवत् ।। ६७ ॥ सुनन्दानन्दनमुनेगुणस्तवनपूर्विकाम् । स्वनिन्दिामित्यथाकार्षीत्स्वापवादगदौषधीम् ।। ६८॥ धन्यस्त्वं तत्यजे येन राज्यं मदनुकम्पया। पापोऽहं यदसन्तुष्टो दुर्मदस्त्वामुपाद्रवम् ॥६६॥ स्वशक्तिं ये न जानन्ति ये चान्यायं प्रकुर्वते । जीयन्ते ये च लोभन तेषामस्मि धुरन्धरः ॥ ७० ॥ राज्यं भवतरोबीजं येन जानन्ति तेऽधमाः। तेभ्योऽप्यह
॥२८॥
Jan Education internal
For Personal Private Use Only
Page #75
--------------------------------------------------------------------------
________________
[CR03+-**---40.K+
स्त्र
विशिष्ये यत्तदमुञ्चन् विदन्नपि ॥ ७१ ॥ त्वमेव पुत्रस्तातस्य यस्तातपथमन्वगः । पुत्रोऽहमपि तस्य स्यां चेद्भवामि भवादृशः ॥ ७२ ॥ विषादपङ्कमुत्सार्य पश्चात्तापजलैरिति । तत्पुत्रं सोमयशसं तद्राज्ये स न्यवीविशत् ।। ७३ ।। तदादिसोमवंशोऽभूच्छाखाशतसमाकुलः । तत्तत्पुरुषरत्नानामेकमुत्पत्तिकारणम् ॥ ७४ ॥ ततो बाहुबलि नत्वा भरतः सपरिच्छदः । पुरीमयोध्यामगमत्स्वराज्यश्रीसहोदराम् ॥ ७५ ।। दुस्तपं तप्यमानोऽथ तपो बाहुबलिर्मुनिः । वर्षमेकं व्यतीयाय सह प्राग्जन्मकर्म्मभिः ॥ ७६ ॥ ततश्चामूढलक्ष्येण स्वामिना नाभिसूनुना । ब्राह्मी च सुन्दरी चानुज्ञाते तत्पार्श्वमीयतुः ॥ ७७ ॥ ऊचतुश्च महासत्व समस्वर्णाश्मनस्तव । न युक्तं त्यक्तसङ्गस्य करिस्कन्धाधिरोहणम् ॥ ७८ ॥ एवम्भूतस्य ते हन्त कथं ज्ञानं प्ररोहति । अधःस्थितकरीषाग्नेः पादपस्येव पल्लवः ॥ ७६ ॥ आत्मनैव विचार्य त्वमुत्तितीर्षुर्भवोदधिम् । हस्तिनोऽस्मादवतर तरण्डादायसादिव ॥ ८० ॥ ततोऽसौ चिन्तयामास कुतस्त्यो हस्तिसङ्गमः । पादपारोहमा रूढवल्लीकवपुषो मम ॥ ८१ ॥ त्यजेन्मुद्रां समुद्रोऽपि चलेयुरचला श्रपि । इमे तु भगवच्छिष्ये भाषेते न मृषा कचित् ॥ ८२ ॥ श्राः ज्ञातमथवास्त्येष मान एव मतङ्गजः । स एव मे ज्ञानफलं बभञ्ज विनयद्रुमम् ॥ ८३ ॥ कथं कनीयसो धिगिति चिन्तितम् । तपसा ज्यायसां तेषां मिथ्यादुष्कृतमस्तु मे ॥ ८४ ॥ सुरासुरनमस्यस्य गत्वा भगवतोऽन्तिके । वन्दे कनिष्ठापितांस्तच्छिष्यपरमाणुवत् ॥ ८५ ॥ अचलत्पादमुत्पाट्य यावत्तावदसौ मुनिः । श्रवाप केवलज्ञानं द्वारं निर्वाणवेश्मनः ॥ ८६ ॥ करामलकवद्विश्वं कलयन् केवलश्रिया । समीपे स्वामिनोऽध्यास्त सदः केवलभाखताम् ॥ ८७ ॥ भरतोऽपि महारत्नैश्चतुर्द्दशभिराश्रितः । चतुःषष्टिसहस्रान्तःपुरो नवनिधीश्वरः ॥ ८८ ॥ धर्म्मार्थ
वन्दे
For Personal & Private Use Only
Page #76
--------------------------------------------------------------------------
________________
योग
प्रथमः प्रकाशः।
तिम् । स त्रिः प्रदक्षिणा
॥२४॥
॥२॥ ज्ञानराशिमिवाध्यक्ष पुण्यस्क
मामिव वपुष्म
कामान् साम्राज्यसम्पले फलोपमान् । परस्पराविरोधेन यथाकालमसेवत ॥ ६ ॥ अन्यदा विहरन स्वामी जगामाष्टापदाचलम् । भरतोऽपि ययौ तत्र स्वामिपादान्विवन्दिषुः॥६० ॥ सुरासुराच्य समवसरणस्थं जगत्पतिम् । स त्रिः प्रदक्षिणीकृत्य नमस्कृत्येति तुष्टुवे ॥६१॥ विश्वासमिव मूर्तिस्थं सवृत्तमिव पिण्डितम् । प्रसादमिव निःशेषजगतामेकतः स्थितम् ॥ १२ ॥ ज्ञानराशिमिवाध्यक्षं पुण्यस्येव समुच्चयम् । सर्वलोकस्य सर्वस्वमिवैकत्र समाहतम् ॥ ३॥ वपुःस्थं संयममिवोपकारमिव रूपिणम् । शीलमिव पादचारि क्षमामिव वपुष्मतीम् ॥ १४ ॥ रहस्यमिव योगस्य विश्ववीर्यमिवैकगम् । सिद्धथुपायमिवावन्ध्यं कौशल्यमिव केवलम् ॥६५॥ मैत्रीमिव मतिमती सदेहां करुणामिव । मुदितामिव पिण्डस्थामुपेक्षामिव रूपिणीम् ॥ १६ ॥ तपःप्रशमसजज्ञानयोगमेकमिवाहतम् । साक्षाद्वैनयिकमिव सिद्धिं साधारणीमिव ॥६७ ॥ व्यापकं हृदयमिव सासां श्रुतसम्पदाम । नमःस्वस्तिस्वधास्वाहावषडमिवापृथक् ॥ ६८॥ विशुद्धधम्मनिम्मोणप्रकमिव केवलम् । समस्ततपसा पिण्डीभूतं फलमिवाखिलम ॥8॥ परभागमिवाशेषगुणराशेरनश्वरम् । उपनमिव निर्विघ्नं श्रेयो निःश्रेयसश्रियः ॥ ५००॥ प्रभावस्यैकधामेव मोक्षस्य प्रतिमामिव । कुलवेश्मेव विद्यानां फलं सर्वाशिषामिव ॥१॥ आर्यवर्यचरित्राणामात्मदर्शमिवामलम् । कूटस्थं प्रशममिव जगतो दत्तदर्शनम् ॥ २॥ दुःखशान्तेरिव द्वारं ब्रह्मचर्यमिवोज्वलम् । पुण्यैरुपनतं जीवलोकस्येवैकजीवितम् ॥ ३ ॥ मृत्युव्याघ्रमुखादेतदाक्रष्टुमखिलं जगत् । बाहुं प्रसारितमिव निर्वाणेन कृपालुना ॥ ४ ॥ ज्ञानमन्दरसंक्षुब्धज्ञेयाम्भोधेः समुत्थितम् । अपरं पीयूषमिव देहभाजाममृत्यवे ॥५॥ विश्वाभयप्रदानेन समाश्वासितविष्टपम् । शरणं त्वां प्रपन्नोस्मि प्रसीद परमेश्वर ॥६॥ तत्र च त्रिज
H
॥२8 ।।
in Education International
For Personal & Private Use Only
Page #77
--------------------------------------------------------------------------
________________
Jain Education Internat
8-93-8-K++*0+90808080
गन्नाथमृषभस्वामिनं ततः। एकाग्रमनसोपासाञ्चक्रे चक्रधरश्चिरम् ॥ ७ ॥ अथाद्रौ तत्र साधूनां सहस्रैर्दशभिर्वृतः । दीक्षाकालागते पूर्वलचे मोक्षं ययौ प्रभुः ॥ ८ ॥ तदा निर्वाणमहिमा चक्रे शक्रादिभिः सुरैः । अस्तोकशोकः शक्रेण भरतेशोऽप्यबोध्यत ॥ ६ ॥ चक्रेऽथ भरतो' रत्नमयमष्टापदोपरि । सिंहनिषद्याप्रासादमष्टापदमिवापरम् ॥ १० ॥ तत्र च स्वामिनो मानवर्णसंस्थानशोभितम् । रत्नोपलमयं विम्बं स्थापयामास चक्रभृत् ॥ ११ ॥ स्वामिशिष्टत्रयोविंशभावितीर्थकृतामपि । यथावन्मानसंस्थानवर्णैर्विम्बान्यसूत्रयत् ॥ १२ ॥ आतॄणां नवनवतेरपि तत्र महात्मनाम् । रचयामास रत्नाश्मस्तूपाननुपमान्नृपः ॥ १३ ॥ पुनरेत्य निजां राजधानीं राजशिरोमणिः । यथावद्राज्यमशिषत्प्रज।रक्षणदीक्षितः ॥ १४ ॥ स कर्मभिर्भोगफलैः प्रेर्य्यमाणो निरन्तरम् । बुभुजे विविधान्भोगान् साचादिव दिवस्पतिः || १५ || नेपथ्यकर्म्म निर्मातुमपरेद्युरगादसौ । मध्ये शुद्धान्तनारीणां ताराणामिव चन्द्रमाः ॥ १६ ॥ तत्र सर्व्वाङ्गविन्यस्तरत्नाभरणविम्बितैः । स्त्रीजनैर्युगपत्प्रेम्णा परिरब्ध इवाभवत् ॥ १७ ॥ पश्यन्नसौ स्वमादर्शेऽपश्यत्स्रस्ताङ्गुलीयकाम् । अङ्गुलिं गलितज्योत्स्नां दिवा शशिकलामिव ॥ १८ ॥ ततः प्रोद्भिन्ननिर्वेदात्प्रत्यङ्गोज्झित भूषणम् । स्वमपश्यद्गतश्रीकं शीर्षपर्यमिव द्रुमम् ॥ १६ ॥ अचिन्तयच्च धिगहो वपुषो भूषणादिभिः । श्रीराहार्येव कुड्यस्य पुस्ताद्यैरिव कर्म्मभिः ॥ २० ॥ अन्तःक्लिन्नस्य विष्टाद्यैर्मलैः स्रोतोभवैर्बहिः । चिन्त्यमानं किमप्यस्य शरीरस्य न शोभनम् ॥ २१ ॥ इदं शरीरं कर्पूरकस्तूरीप्रभृतीन्यपि । दूषयत्येव पाथोदपयस्यूपरभूरिव || २२ || विरज्य विषयेभ्यो यैस्तेपे मोक्षफलं तपः । तैरेव फलमेतस्य जगृहे तच्च( १ ) प्रभोश्चक्रे सुरासुरैः । (२) ततोऽसौ विदधे ।
For Personal & Private Use Only
1.04.0+90/+१+१
**+cle
春季
Page #78
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
॥३०॥
वेदिभिः॥ २३ ।। इति चिन्तयतस्तस्य शुक्लध्यानमुपेयुषः । उत्पेदे केवलज्ञानमहो योगस्य जृम्भितम् ।। २४॥ प्रथम: रजोहरणमुख्यानि मुनिचिह्नानि तत्क्षणात । विनीत उपनीयास्मै नमश्चक्रे दिवस्पतिः ॥ २५॥ तद्राज्येऽकृत
5-प्रकाश तत्पुत्रमादित्ययशसं तदा । यदाद्यादित्यवंशोऽयमद्याप्यस्ति महीभुजाम् ॥ ५२६ ॥ १०॥ __स्यान्मतं युक्तं भरतस्य पूर्वजन्मार्जितयोगसमृद्धिबलचपिताशुभकर्मणः कर्मलेशक्षपणाय योगप्रभाववर्णनम् । यस्तु जन्मान्तरेषु अलब्धरत्नत्रयोऽत एवाचपितकर्मा मानुषत्वमात्रमप्यप्राप्तवान् , स कथमनन्तकालप्रचितशुभाशुभकर्मनिर्मूलनमनुभवेत् । . तत्राहपूर्वमप्राप्तधर्मापि परमानन्दनन्दिता । योगप्रभावतः प्राप मरुदेवा परं पदम् ॥ ११ ॥
मरुदेवा हि स्वामिनी आसंसारं त्रसत्वमात्रमपि नानुभूतवती किं पुनर्मानुषत्वं तथापि योगबलसमृद्धेन शुक्नध्यानाग्निना चिरसञ्चितानि कर्मेन्धनानि भस्मसात्कृतवती।
यदाह--"जह एगा मरुदेवा अच्चंत थावरा सिद्धा"। मरुदेवाचरितं चोक्तप्रायम् ॥११॥
ननु जन्मान्तरेऽपि अकृतक्रूरकर्मणां मरुदेवादीनां योगवलेन युक्तः कर्मक्षयः ये त्वत्यन्तक्रूरकर्माणस्तेषु योगः कुण्ठतामप्यासादयेत् । इत्याह
॥३०॥ १ यथा एका मरुदेवाऽत्यन्तं स्थावरा सिद्धा.
Jain Education ind inal
For Personal & Private Use Only
Page #79
--------------------------------------------------------------------------
________________
ब्रह्मस्त्रीभ्रूणगोघातपातकान्नरकातिथेः । दृढप्रहारिप्रभृतेर्योगो हस्तावलम्बनम् ॥१२॥
ब्रह्मणो ब्राह्मणस्य स्त्रिया वनिताया भ्रूणस्य गर्भस्य गर्भिण्याश्च गोर्धेनोस्तेषां घातः स एव पातकं तसात् । यद्यपि समदर्शिनां ब्राह्मणाब्राह्मणयोः स्त्रीपुरुषयोद्धृणाभ्रणयोर्गवागवो_तेविशेषेण पापबन्धः। यदाहसन्चो न हिंसियब्वो जह महिपालो तहा उदयपालो।न य अभयदाणवणा जणोवमाणेण होयव्वं ॥१॥
तथापि लोकप्रसिद्ध्यनुरोधेन ब्रह्मेत्यायुक्तम् । ये हि लौकिकाः सर्वस्या हिंसायाः पापफलं न मन्यन्ते । तेऽपि ब्रह्मादिघातकस्य महापापीयस्तां मन्यन्त एवेति । नरकातिथेदृढप्रहारिप्रभृतेर्योगो हस्तावलम्बनम् , तेनैव भवेन मोक्षगमनात् । प्रभृतिग्रहणादन्येऽपि पापकारिणो विदितजिनवचनास्तत एव प्राप्तयोगसम्पदो नरकप्राप्तियोग्यानि कर्माणि निर्मुल्य परमसम्पदमासादितवन्तो द्रष्टव्याः । यदाहकूरा वि सहावेणं विसयविसवसाणुगा वि होऊणं । भावियजिणवयणमणा तेलुक्कसुहावहा होति ॥१॥
तथाहि
कस्मिंश्चिन्नगरे कश्चिदासीद्विजातिरुद्भटः । प्रजासु कर्तुमन्यायान् प्रावर्त्तत स पापधीः॥१॥ आरक्षपुरुषैरेष ततो निर्वासितः पुरात् । व्याधहस्तमिव श्येनश्चौरपल्ली जगाम च ॥२॥ नृशंसचरितैस्तैस्तैरात्मनस्तुल्य इत्यसौ।
(१) सर्वो न हिंसितव्यो यथा महीपालस्तथा उदयपालः । न च अभयदानव्रतिना जनोपमानेन भवितव्यम् ॥ १॥ (२) क्रूरा अपि स्वभावेन विषयविषवशानुगा अपि भूत्वा । भावितजिनवचनमनसः त्रैलोक्यसुखावहा भवन्ति ॥१॥
Education inte
For Personal Private Use Only
Page #80
--------------------------------------------------------------------------
________________
योगशाखम्
॥ ३१ ॥
Jain Education Internat
90840809013
क्रूरतस्कराः
चौरसेनाधिपतिना पुत्रत्वेनान्वमन्यत ॥ ३ ॥ चौरसेनापतौ तस्मिन्नवसानमुपेयुषि । तत्पुत्र इति तत्स्थाने स बभूव महाभुजः || ४ || निष्कृपं प्रहरत्येष सर्वेषां प्राणिनां यतः । ततो दृढप्रहारीति नाम्ना निजगदे जनैः ॥ ५ ॥ अन्येद्युर्विश्वकुट्टाक लुण्टाक भटपेटकैः । स कुशस्थलनामानं ग्रामं लुण्टयितुं ययौ ॥ ६ ॥ ब्राह्मणो देवशर्मेति तत्र दारिद्र्यविद्रुतः । अवकेशीफल मित्र क्षीरानं याचितो धर्मकैः || ७ || पर्यटय सकले ग्रामे क्वापि कापि स तन्दुलान् । कापि कापि पयोsभ्यर्थ्य परमान्नमपीपचत् ॥ ८ ॥ नद्यां स्त्रातुं ययावेष यावत्तावत् तदोकसि । ते पेतुर्दैवं दुर्बल घातकम् ॥ ६ ॥ तेषामेकतमो दस्युरपश्यत्तस्य पायमम् । क्षुधातुरः प्रेत इव तदादाय पलायितः ॥ १० ॥ श्रच्छिद्यमाने तस्मिंस्तु पायसे जीवितव्यवत् । क्रन्दन्ति डिम्भरूपाणि गत्वा पितरमूचिरे ॥ ११ ॥ व्यात्ताननानामस्माकं दस्युवृन्देन पायसम् । जहे प्रसारितदृशामनिलेनेव कज्जलम् ॥ १२ ॥ तदाकर्ण्य वचो विप्रः क्षिप्रं दीप्रः क्रुदग्निना । यमदूत इवादाय परिघं पर्यधावत ।। १३ ॥ सरोषराक्षसावेशात्समुत्पादितदोर्बलः । हन्तुं प्रववृते दस्यून् परिघेण पशूनिव ॥ १४ ॥ तेनावकरवत्साक्षात्क्षिप्यमाणानवेदय तान् । वित्रस्य तस्तिरस्कुर्व्वन् दधावे तस्करेश्वरः ।। १५ ।। तस्यापि धावतो दैवाद्गतिविघ्नविधायिनी । निरोध्धुं दुर्गतिमिव मार्गे गौरन्तरेऽभवत् ॥ १६ ॥ करालकरवा लैकप्रहारेण वराकिकाम् । जघान नृजघन्यस्तां चण्डाल इव निर्घृणः ॥ १७ ॥ तस्याभ्यापततो रोरद्विजातेः स शिरो भुवि । पनसद्रोः फलमिवापातयत्खगयष्टिना ॥ १८ ॥ श्राः पाप निष्कृप कृतं किमेतदिति वादिनी । बाला मासवती तं चाभ्यगात् द्विजकुटुम्बिनी || १९|| तस्या वृक इव च्छाग्या गुर्विण्याः सोऽतिदारुणः । कुष्माण्डदारमुदरं दारयित्वा द्विधाकरोत् ॥ २० ॥ ततो जरायुमध्यस्थं तस्या गर्भ द्विधाकृतम् । स स्फुरन्तं
For Personal & Private Use Only
40.003-10-10
प्रथमः प्रकाशः ।
॥ ३१ ॥
Page #81
--------------------------------------------------------------------------
________________
गदागदकारान्त
॥ २८॥
निरैक्षिष्ट लताया इव पल्लवम् ॥ २१ ॥ तथा सम्पश्यमानस्य तस्य विह्वलचेतसः। कृपा गतकृपस्यापि जज्ञे वन्कमिवाश्मनः ॥ २२ ॥ ततो हा तात तातेति हा मातर्मातरित्यपि । विलपन्तः समाजामुस्तत्कालं द्विजबालकाः ॥ २३ ॥ नग्नान् भुग्नानतिक्षामान् श्यामानतिमलेन च । दृष्ट्वा दृढप्रहारी तान् सानुतापमचिन्तयत् ॥२४ ॥ हहा नता निघृणेन दरिद्रौ दम्पती मया । अमी बाला हतास्तोयशोषे जीवन्ति किं झपाः ॥२५॥ क्ररेण कर्मणानेन नेष्यमाणस्य दुर्गतिम् । अघभीतस्य मे कः स्यादुपायः शरणं च कः ॥ २६ ॥ इति सञ्चिन्तयन्नेव वैराग्यावेगभागसौ । एनोगदागदकारान्साधूनुद्यान ऐक्षत ॥ २७ ॥ नत्वोवाचेत्यहं पाप्मा भाष्यमाणोऽपि पाप्मने । पछिलः स्पृश्यमानोऽपि पङ्किलीकुरुते परम् ॥ २८॥ येषामेकतरमपि नरकायैव तान्यहम् । ब्रह्मस्त्रीभ्रूणगोघातपातकान्यकृपो व्यधात(म्)॥२६॥ मामीशमपि त्रातुं साधवो यूयमहंथ । मेघानां वर्षतां स्थानमस्थानं वा न किश्चन
॥३०॥ अथ ते साधवस्तस्मै यतिधर्ममुपादिशन् । सोऽथ च्छत्रमिवोष्णालुः पापभीरुस्तमाददे ॥ ३१ ।। il न भोक्ष्ये तत्र यत्राहि स्मरिष्याम्यस्य पाप्मनः । करिष्ये सर्वथा शान्ति सोऽग्रहीदित्यभिग्रहौ ॥ ३२ ॥ # पूर्वावस्कन्दिते तस्मिन्नेव ग्रामे कुशस्थले । कर्मक्षयं चिकीर्षुः स विजहार महामनाः ॥ ३३ ॥
स एवायं कृतच्छया पापः पापीयसामहो । इत्यतज्येत लोकेन स महात्मा दिवानिशम् ॥ ३४ ॥ गोभ्रूणद्विजघात्येष इति लोकेन जल्पता । विशन् गृहेषु भिक्षार्थ श्वेव लोष्टैरकुय्यत ।। ३५ ॥ स्मार्यमाणः स तत्पापं प्रतिवासरमप्यसौ । शान्तस्वान्तो न भुङ्क्ते स्म किंवा सत्त्वस्य दुष्करम् ॥३६॥ क्वचित्प्रातः कचिन्मध्यंदिने
(१) दिग्धानतिमलेन च।
ईथ । मेघाना या
in Education Internatio
For Personal & Private Use Only
Page #82
--------------------------------------------------------------------------
________________
योग
प्रथम: प्रकाशः।
शास्रम्
॥३२॥
सायमपि कचित् । स्मार्यमाणः स तत्पापं कुत्राप्यहि न भुक्तवान् ॥ ३७॥ लोष्टुमिष्टिभिः पांशुवृष्टिभिर्मुष्टि। भिजेनाः । यजम्मुः सोऽधिसेहे तत्सम्यक् चैवमभावयत ॥ ३८॥ प्रात्मन् यादृकृतं कर्म तादृशं फलमामुहि । | यादृक्षमुप्यते बीजं फलं तादृक्षमाप्यते ॥ ३९ ॥ यदमी निरनुक्रोशमाक्रोशान्मयि तन्वते । अयत्नेनैव सिद्धा | तन्ममेयं कम्मनिर्जरा ॥४०॥ मय्याक्रोशाः प्रमोदाय यथैषां मे तथैव हि । यत्प्रीत्या सहमानस्य कम्भेक्षयविधायिनः॥४१॥ यन्मां भर्त्सयतामेषां सुखमुत्पद्यतेऽद्य तत् । उत्पद्यतां भवे हन्त दुर्लभः सुखसङ्गमः॥४२॥ |
अमी मदीयं दुष्कर्मग्रन्थि परुषभाषितैः । चारैरिव चिकित्सन्तो नितान्तं सुहृदो मम ॥ ४३ ॥ कुर्वन्तु ताडनं | हन्त ममैते यदिदं किल । स्वर्णस्येवाग्निसन्तापो मलिनत्वमपोहति ॥ ४४ ॥ कर्षन् दुर्गतिगुप्तेमा स्वं प्रक्षिपति
तत्र यः। कथं कुप्याम्यहं तस्मै प्रहारानपि कुर्वते ॥ ४५ ॥ मत्पापानि व्यपोहन्ति निजपुण्यव्ययेन ये । कथङ्कार| मिवैतेभ्योऽपरः परमबान्धवः ॥ ४६॥ वधबन्धादि हर्षाय यन्मे संसारमोचनम् । तदेवानन्तसंसारहेतुरेषां दुनोति माम् ॥ ४७ ॥ केचित्परेषां तोषाय त्यजन्त्यर्थान्वपूंष्यपि । एषां प्रीतिदमाक्रोशहननादि कियन् मम ॥ ४८॥ तर्जितोऽहं हतो नाऽस्मि इतो वा नास्मि मारितः । मारितो वा न मे धर्मोऽपहृतो बान्धवैरिव ।। ४६ ॥ आक्रोशवागविक्षेपो बन्धनं हननं मृतिः। सह्यं श्रेयोऽर्थिना सर्व श्रेयो हि बहुविघ्नकम् ॥ ५० ॥ एवं भावयता तेन गर्हता स्वं च दुष्कृतम् । निर्दग्धः सर्वतः कर्मराशिः कक्ष इवाग्निना ॥ ५१ ॥ अम्लानं केवलज्ञानमथ लेभे सुदुर्लभम् । अयोगिकेवलिगुणस्थानस्थो मोक्षमाप च ॥ ५२ ॥ योगप्रभावेण दृढप्रहारी यथेष मुक्त्वा नरकातिथि
(१) स दुर्लभम् ।
॥३२॥
in Education internat
For Personal & Private Use Only
Page #83
--------------------------------------------------------------------------
________________
त्वम् । पदं प्रपेदे परमं तथान्योऽप्यसंशयानः प्रयतेत योगे ॥ ५३ ॥ १२ ॥
पुनरुदाहरणान्तरेण योगश्रद्धामेव वर्धयति । तत्कालकृतदुष्कर्मकर्मठस्य दुरात्मनः । गोप्ने चिलातीपुत्रस्य योगाय स्पृहयेन्न कः ॥१३॥ ___तत्कालं तत्क्षणं कृतं यहुष्कर्म स्त्रीवधलक्षणं तेन कर्मठः कर्मशूरस्तस्य दुरात्मन इति पापकरणकालापेषं चिलातीपुत्राभिधानस्य गोत्रे दुर्गतिपातरक्षकाय योगाय को न स्पृहयेत् सर्व एव स्पृहयेदित्यर्थः ।
तथाहिक्षितिप्रतिष्ठे नगरे यज्ञदेवोऽभवद्विजः। निनिन्द पण्डितम्मन्यः स सदा जिनशासनम् ॥१॥ असहिष्णुश्च तां निन्दा जिगीषुः कोऽपि चेल्लकः । गुरुणा वार्यमाणोऽपि तं वादार्थमवीवदत ॥२॥ ईदृशी च प्रतिज्ञाभूद्वादाधिष्ठितयोस्तयोः । येन यो जेष्यते तस्य शिष्यत्वं स करिष्यति ॥३॥ पानीतो निग्रहस्थानं बुद्धिकौशलशालिना । विवदन्वादिना तेन यज्ञदेवः पराजितः ॥४॥ चेलको जितकाशी तु यज्ञदेवद्विजन्मना । तदा पूर्वप्रतिज्ञातां परिव्रज्यामजिग्रहत् ॥ ५॥ ततः शासनदेव्यैवं यज्ञदेवो व्यबोध्यत । चारित्रं प्रतिपन्नोऽसि ज्ञानश्रद्धानवान्भव ॥ ६॥ व्रतं ततःप्रभृत्येष यथावत्पालयनपि । निनिन्द वस्त्राङ्गमलं प्रासंस्कारो हि दुस्त्यजः ॥७॥ प्रशाम्यन् ज्ञातयोऽप्यस्य संसर्गेण महात्मनः । प्रावृषेण्याभ्रसम्पर्केणाहिमांशोरिवांशवः ॥८॥ अस्य पाणिगृहीती तु नितान्तमनुरागिणी । उज्झाञ्चकार नो रागं नीलीरक्तेव शाटिका ॥ ॥ वश्यो मेस्त्विति सा तसै पारणे
in Education Inter
For Personal & Private Use Only
Page #84
--------------------------------------------------------------------------
________________
योग
शास्रम्
॥ ३३ ॥
Jain Education Inter
कार्म्मणं ददौ । सत्यं रक्ता विरक्ताश्च मारयन्त्येव योषितः || १० || चीयमाणः कृष्णपक्षेणेव कार्म्मणकर्म्मणा । समुनीन्दुर्ययौ स्वर्ग मण्डलं तरणेरिव ॥ ११ ॥ तस्यावसानात् सञ्जातनिर्वेदा सापि गेहिनी । प्रव्रज्यामग्रहीदेकं मानुष्यकतरोः फलम् ॥ १२ ॥ अनालोच्यैव सा पापं पतिव्यसनसम्भवम् । कालं कृत्वा दिवं प्राप दुष्प्रापं तपसा हि किम् ॥ १३ ॥ यज्ञदेवस्य जीवोsथ च्युत्वा राजगृहे पुरे । धनसार्थपतेश्श्रेय्याश्चिलात्यास्तनयोऽभवत् ॥ १४ ॥ चिलात्याः पुत्र इत्येष चिलातीपुत्रसंज्ञया । आहूयते स्म लोकेन नाम नान्यत्प्रकल्पि - तम् ॥ १५ ॥ यज्ञदेवप्रियाजीवच्युत्वाऽनुसुतपञ्चकम् । भद्राया धनभार्यायाः सुसुमेति सुताऽभवत् ॥ १६ ॥ धनो नियोजयामास चिलातीतनयं च तम् । सुसुमायाः स्वदुहितुः बालग्राहककर्म्मणि ॥ १७ ॥ लोकेष्वागांसि चक्रेऽसौ श्रेष्ठ्य भैषीच्च राजतः । स्वामी भृत्यापराधेन यतः स्याद्दण्डभाजनम् ॥ १८ ॥ मन्त्रवित्तं धनश्रेष्ठी सदोपद्रवकारिणम् । गृहाभिर्वासयामास दासेरं दन्दशूकवत् ॥ १६ ॥ सोऽथ सिंहगुहां चौरपल्लीं वल्लीं महागसाम् । ययौ प्रियागाः प्रीतिर्हि तुल्यव्यसनशीलयोः ॥ २० ॥ स नृशंसो नृशंसेन दस्युवृन्देन सङ्गतः । वायुनेवाग्निरभवदारुणोऽप्यतिदारुणः ॥ २१ ॥ ततः सिंहगुहाधीशे चौरसेनापतौ मृते । चौरसेनापतिः सोऽभूत्तदर्थमिव निर्मितः || २२ || यौवनं सुसुमाप्याप्ता रूपादिगुणशालिनी । कलाकलापपूर्णाभूत् खेचरीव महीचरी ॥ ॥ २३ ॥ चैलातेयोऽन्यदोचे खानस्ति राजगृहे पुरे । श्रेष्ठी धनो ऽनन्तधनो दुहिता चास्य सुसुमा ॥ २४ ॥ तस्करास्तत्र गच्छामो धनं वः सुसुमा तु मे । इति व्यवस्थामास्थाय सोऽगाद्धनगृहं निशि ॥ २५ ॥ प्रयोज्य स्वापनीं विद्यां कीर्त्तयित्वा स्वमागतम् । स धनं ग्राहयामास सुसुमां स्वयमग्रहीत् ॥ २६ ॥ सुप्ताशेषपरीवारः सूनुभिः
1
For Personal & Private Use Only
+03+08-03-03-08-0
प्रथमः
प्रकाशः ।
॥ ३३ ॥
Page #85
--------------------------------------------------------------------------
________________
पञ्चभिः समम् । अपमृत्य धनस्तस्थौ नयो नयवता बसी ।। २७ ।। जीवग्राह गृहीत्वा च हृदयन स सुममाम् । चैलातेयः पलायिष्ट सलोपर्दम्युभिः सह ।।२८ ॥ पाहूयारक्षपुरुषान् धनश्रेष्ठीत्यभाषत । चौरापहतवित्तं च प्रन्यानयत सुमुमाम् ।। २६ ।। ततो धनः सहारक्षः पुत्रैश्वायुधपाणिभिः । पुरोगस्वमन:स्पर्द्धयेव त्वरितमन्वगात । ।।३०।। जलं स्थलं लता वृक्षानन्यदप्यखिलं पथि । पीतोन्मतो हेममिव गोऽपश्यत्सुसुमामयम् ।। ३१ ।। इतः पीतमितो भुक्तमितः स्थितपितो गतम् । एवं वदद्भिः पदिकैः स दस्यूनिकपा ययौ ॥ ३२ ॥ हत हतेति गृहीत गृहीतेति च भाषिणः । मलिन्लुचानाममिलनारक्षपुरुषाम्ततः ॥ ३३ ।। दिशो दिशि प्रणेशुस्ते वित्तं त्यक्त्वान्यतस्कराः । सुसुमां स तु नामुश्चचौरो व्याघ्रो मृगीमिव ॥ ३१ ॥ आरक्षपुरुषास्ते तु तद्वित्तं प्राप्य पुष्कलम् । व्यावर्तन्त कृतार्थो हि मर्वः स्यादन्यथामतिः ॥ ३५ ।। उद्वहन् सुसुमामंसे लतामिव मतङ्गजः। प्रविवेश महारण्यं चिलातीतनयस्ततः ॥३६ ॥ सूनुभिः पञ्चभिः पञ्चाननैरिव धनोऽन्वगात् । कष्टुं पुत्री मुखादस्यो राहोरिन्दुकलामिव ।।३७॥ धने स सविधीभूते मा भवत्वस्य सा मम । सुसुमेति धिया तस्याः शिरकमलमच्छिनत् ॥३८।। आकृष्टकरवालोऽसौ हस्तविन्यस्तमस्तकः । तदा यमपुरीद्वारक्षेत्रपाल इबाबभौ । ३६।। सुसुमायाः कवन्धस्यान्तिके स्थित्वा रुदन धनः । वारीच बाष्पपूरेण नयनाञ्जलिभिर्ददौ ॥ ४० ॥ तस्याः कवन्धमुत्सृज्य व्यावृत्तः ससुतो धनः । शल्यितः शोकशल्येन महाटव्यामथापतत् ॥४१॥ ललाटन्तपतपनतेजस्तापभयादिव । विष्वक् सङ्कुचितच्छायो मध्याह्नश्च ततोऽभवत् ।। ४२॥ शोकश्रमक्षुधातृष्णामध्याह्नातपवह्निभिः। धनः सुताश्च पश्चाग्निसाधका
(१) वः । (२) सुंसुमेति पाठः सर्वत्र साधुः । (३) मा ।
in Education International
For Personal & Private Use Only
Page #86
--------------------------------------------------------------------------
________________
प्रथम: प्रकाशः।
योग- इव तेपिरे ॥४३॥ न जलं न फलं नान्यद्ददृशुर्जीवनौषधम् । मृत्यवे प्रत्युतापश्यंस्ते हिंस्रश्वापदान् पथि ॥ शास्त्रम् ॥४४ ॥ प्रात्मनस्तनयानां च तां पश्यन्विषमां दशाम् । धनश्रेष्ठी पथ्यतुच्छे गच्छन्नेवमचिन्तयत् ॥ ४५ ॥ मम
सर्वखनाशोऽभूत्पुत्री प्राणप्रिया मृता। मृत्युकोटिं वयं प्राप्ता धिगहो दैवजृम्भितम् ॥४६॥ न यत्पुरुषकारेण ॥३४॥
साध्यं धीसम्पदा न च । तदेकं दैवमेवेह बलिम्यो बलवत्तरम् ॥४७॥ प्रसाधते न दानेन विनयेन न गृह्यते । A सेवयावय॑ते नैव केयं दुःसाध्यता विधेः ॥४८॥ विबुधैर्योध्यते नैव बलवद्भिर्न रुध्यते । न साध्यते तपस्यद्भिः
प्रतिमल्लोऽस्तु को विधेः ॥४६॥ अहो दैवं मित्रमिव कदाचिदनुकम्पते । कदाचित्परिपन्थीव निःशकं प्रणिहन्ति च॥ ५० ॥ विधिः पितेव सर्वत्र कदाचित्परिरक्षति । कदाचित्पीडयत्येव दायाद इव 'दुर्दमः॥५१॥ विधिनयति मार्गेणामार्गस्थमपि कहिंचित् । कदाचिन्मार्गगमपि विमार्गेण प्रवर्तयेत् ॥ ५२॥ आनयेदपि दूरस्थं करस्थमपि नाशयेत् । मायेन्द्रजालतुल्यस्य विचित्रा गतयो विधेः॥ ५३॥ अनुकूले विधौ पुंसां विषमप्यमृतायते ।
विपरीते पुनस्तत्रामृतमेव विषायते ॥ ५४ ॥ स एवं चिन्तयमेव प्राप राजगृहं पुरम् । सशोकः सुसुमापुत्र्या * विदधे चौर्ध्वदेहिकम् ॥५५॥ वैराग्याव्रतमादाय श्रीवीरस्वामिनोऽन्तिके । दुस्तपं स तपस्तेपे पूर्णायुश्च दिवं ययौ
॥५६॥ चैलातेयोऽप्यनुरागात्सुसुमाया मुहुर्मुहुः । मुखं पश्यन्नविज्ञातश्रमो याम्यां दिशं ययौ ॥ ५७ ॥ सर्वसन्तापहरणं छायावृक्षमिवाध्वनि । साधुमेकं ददर्शासौ कायोत्सर्गजुषं पुरः ।। ५८॥ स स्वेन कर्मणा तेन किश्चिदुद्विग्नमानसः। तमुवाच समाख्याहि धर्म संक्षेपतो मम ॥ ५९॥ अन्यथा कदली
(१) दुर्मदः ।
॥३४॥
in Education Internat
For Personal & Private Use Only
Page #87
--------------------------------------------------------------------------
________________
Jain Education Inter
ला विष्यामि शिरस्तव । अनेनैव कृपाणेन सुसुमाया इव क्षणात् ॥ ६० ॥ स ज्ञानान्मुनिरज्ञासीद्बोधिनीजमिहाहितम् । अवश्यं यास्यति स्फातिं पल्वले शालिवीजवत् ॥ ६१ ॥ कार्यः सम्यगुपशमो विवेकः संवरोऽपि च । इत्युक्त्वा चारणमुनिः स पक्षीव खमुद्ययौ ॥ ६२ ॥ पदानि मन्त्रवत्तानि परावर्त्तयतस्ततः । जज्ञे चिलातीपुत्रस्य तदर्थोल्लेख ईदृशः || ६३ || क्रोधादीनां कषायाणां कुर्यादुपशमं सुधीः ॥ हहा तैरहमाक्रान्तश्चन्दनः पन्नगैरिव ॥ ६४ ॥ चिकित्साम्यद्य तदिमान्महारोगानिवात्मनः । क्षमामृदुत्वऋजुता सन्तोषपरमौषधैः ॥ ६५ ॥ धनधान्यहिरण्यादिसर्वस्व त्यागलक्षणम् । विवेकमेकं कुर्वीत बीजं ज्ञानमहातरोः ॥ ६६ ॥ तदिदं सुसुमाशीर्ष कृपाणं च करस्थितम् । सर्वस्वभूतं मुञ्चामि केतनं पापसम्पदः ॥ ६७ ॥ संवरश्वाक्षमनसां विषयेभ्यो निवर्त्तनम् । स मया प्रतिपन्नोऽद्य संयमश्रीशिरोमणिः ॥ ६८ ॥ पदार्थ भावयन्नेवं संरुद्धसकलेन्द्रियः । समाधिमधिगम्याभून्मनोमात्रैकचेतनः ॥ ६६ ॥ ततोऽस्य विस्रगन्धासृक्छटाकवचितं वपुः । कीटिकाभिः शतच्छिद्रं चक्रे दारु धुगणैरिव ॥ ७० ॥ पिपीलिकोपसर्गेऽपि स स्तम्भ इव निश्चलः । सार्द्धाहोरात्रयुग्मेन जगाम त्रिदशालयम् ॥ ७१ ॥ यदाह
जो तिहिँ एहिँ धम्मं समभिगो संजमं समारूढो । उवसमविवेयसंवरचिलाइपुत्तं नम॑सामि ॥ ७२ ॥ अहिसरिया पाएहिं सोणियगंधेण जस्स कीडीओ । खायंति उत्तमंगं तं दुकरकारयं वंदे ॥ ७३ ॥ धीरो चिलाइ पुत्तो
( १ ) यस्त्रिभिः पदैः धर्मं समभिगतः संयमं समारूढः । उपशमविवेकसंवरचिलाती पुत्रं नमस्यामि ॥ ( २ ) अधिसृताः पादैः शोणितगन्धेन यस्य हीनाङ्गचः ( कीटिकाः ) । खादन्ति उत्तमाङ्गं तं दुष्करकारकं वन्दे ॥ ( ३ ) धीरश्चिलातीपुत्रः पिपीलिकाभिश्चालनीव कृतः । यस्तथापि खाद्यमानः प्रतिपन्न उत्तममर्थम् ॥
For Personal & Private Use Only:
Page #88
--------------------------------------------------------------------------
________________
योग
प्रथमः प्रकाशः।
शास्त्रम्
॥३५॥
मुयङ्गलीयाहिं चालणिव्व को । जो तहवि खजमाणो पडिवन्नो उत्तम अहं ॥ ७४ ॥ अट्ठाइजेहिं राईदिएहिं पत्तं चिलाइपुत्तेण । देविंदामरभवणं अच्छरगणसङ्कलं रम्मम् ।। ७५ ॥ चरित्रैरापनः श्वपच इव धिक्कारपदवीम्, चिलातीपुत्रोऽसावधिनरकमासत्रितगतिः। समालम्ब्यैवं यत्रिदिवसदनातिथ्यमगमन, स एवायं योगः सकलसुखमूलं विजयते ॥ ७६ ॥१३॥
पुनरेव योगमेव स्तौतितस्याजननिरेवास्तु नृपशोर्मोघजन्मनः । अविद्वको यो योग इत्यक्षरशलाकया ॥ १४ ॥ ___ न जननमजननिः “नोनिः शापे"॥(सिद्धहेमसू०) ५।३।१२७ ।। इत्यनिः। अस्तु भूयात् । ना चासौ पशुश्च नृपशुस्तस्य नृपशोः। पशुप्रायपुरुषस्य मोषजन्मन इति निष्फलजननस्य, यः, किं ? यो विद्धकर्णः कया अक्षर
शलाकया-अक्षराण्येव शलाका कर्णवेधजननी अक्षरशलाका। केनोल्लेखेन यान्यवराणि अत एव आह ।योग इति । योग इत्यक्षरलवणशलाकया योऽविद्धकर्णः लोहादिमयशलाकाविद्धकर्णोऽपि । तस्य नृपशोर्वरमजनानियुक्ता न
पुनर्विडम्बनाप्रायं जननमिति ॥१४॥ - पुनरपि पूर्वार्द्धन योगं स्तुत्वा उत्तरार्द्धन तत्स्वरूपमाहचतुर्वर्गेऽग्रणीर्मोचो योगस्तस्य च कारणम् । ज्ञानश्रद्धानचारित्ररूपं रत्नत्रयं च सः॥१५॥
(४) सार्द्धद्विभिः रात्रिदिनैः प्राप्तं चिलातीपुत्रेण । देवेन्द्रामरभवनं अप्सरोगणसङ्कुलं रम्यम्
॥३५॥
Jain Education internal
For Personal & Private Use Only
Page #89
--------------------------------------------------------------------------
________________
चतुर्वर्गोऽर्थकामधर्ममोचलक्षणः तस्मिन्नग्रणीः प्रधानं मोक्षः । अर्थो हि अर्जनरक्षणनाशव्ययहेतुकदुःखानुषङ्गदक्षितत्वान चतुर्वर्गेऽग्रणीभवति । कामस्तु सुखानुषङ्गलेशाद्यद्यप्योंदुत्कृष्यते तथापि विरसावसानत्वात दर्गतिसाधनत्वाच नाग्रणी । धर्मस्तु ऐहिकामुष्मिकसुखसाधनत्वेन अर्थकामाभ्यां यद्यप्युत्कृष्यते तथापि कनकनिगडरूपपुण्यकर्मबन्धननिबन्धनत्वाद्भवभ्रमणहेतुरिति नाग्रणीः। मोक्षस्तु पुण्यपापक्षयलक्षणो न क्लेशबहुलो न वा विषसम्पृक्तानवदापातरमणीयः परिणामदुःखदायी न वा ऐहिकामुष्मिकफलाशंसादोपदूषित इति भवति परमानन्दमयश्चतुर्वर्गेणीः यः। तस्य च कारणं साधकतमं करणं योगः। तस्य किं रूपमित्याह । रत्नत्रयं मरकतादिव्यवच्छेदेनाह । ज्ञानश्रद्धानचारित्ररूपमिति ॥ १५ ॥
· रत्नत्रये प्रथमं ज्ञानस्वरूपमाहयथावस्थिततत्त्वानां संक्षेपाद्विस्तरेण वा। योऽवबोधस्तमत्राहुः सम्यग्ज्ञानं मनीषिणः ॥१६॥
यथावस्थितानि नयप्रमाणप्रतिषितस्वरूपाणि यानि तत्वानि जीवाजीवाश्रवसंवरनिर्जराबन्धमोक्षलक्षणानि । तेषां योऽवबोधस्तत्सम्यगजानं, स चावबोधः चयोपशमविशेषात्कस्यचित्संक्षेपेण कर्मक्षयात कस्यचिद्विस्तरेण ।
तथाहि
जीवाजीवावाश्रवश्व संवरो निर्जरा तथा । बन्धो मोश्चेति सप्त तत्वान्याहुर्मनीषिणः ॥ १॥ तत्र जीवा द्विधा ज्ञेया मुक्तसंसारिभेदतः। अनादिनिधनाः सर्वे ज्ञानदर्शनलक्षणाः।। २ ॥ मुक्ता एकस्वभावाः
तष
Latin Education interna
For Personal & Private Use Only
Page #90
--------------------------------------------------------------------------
________________
योग
प्रथमः
शास्त्रम्
प्रकाशः।
॥३६॥
स्युर्जन्मादिक्लेशवार्जिताः। अनन्तदर्शनज्ञानवीर्यानन्दमयाश्च ते ॥३॥ संसारिणो द्विधा जीवाः स्थावरत्रसभेदतः। द्वितयेऽपि द्विधा पर्याप्तापर्याप्तविशेषतः ॥४॥ पर्याप्तयस्तु षडिमाः पर्याप्तत्वनिबन्धनम् । आहारो वपुरक्षाणि प्राणा भाषा मनोपि च ॥५॥ स्युरेकाक्षविकलाक्षपञ्चाक्षाणां शरीरिणाम् । चतस्रः पञ्च पवापि पर्याप्तयो यथाक्रमम् ॥६॥ एकाक्षाः स्थावरा भूम्यप्तेजोवायुमहीरुहः । तेषां तु पूर्वे चत्वारः स्युः सूक्ष्मा बादरा अपि ॥ ७॥ प्रत्येकाः साधारणाश्च द्विप्रकारा महीरुहः । तत्र पूर्वे बादराः स्युरुत्तरे सूक्ष्मवादराः॥८॥सा द्वित्रिचतुष्पश्चेन्द्रियत्वेन चतुर्विधाः। तत्र पञ्चेन्द्रिया द्वेधा संज्ञिनोऽसंज्ञिनोऽपि च ॥६॥ शिक्षोपदेशालापान्ये जानते
तेऽत्र संझिनः । संप्रवृत्तमनःप्राणास्तेभ्योऽन्ये स्युरसंज्ञिनः॥१०॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रमितीन्द्रियम्। । तस्य स्पर्शो रसो गन्धो रूपं शब्दश्च गोचरः ॥ ११॥ द्वीन्द्रियाः कृमयः शङ्खा गण्डूपदजलौकसः। कपर्दा:
शुक्तिकाद्याश्च विविधाकृतयो मताः॥ १२ ॥ यकामत्कुणमत्कोटलिक्षाद्यास्त्रीन्द्रिया मताः। पतङ्गमक्षिकाभन्दशाद्याश्चतुरिन्द्रियाः ॥ १३॥ तिर्यग्योनिभवाः शेषा जलस्थलखचारिणः । नारका मानवा देवाः सर्वे पवेन्द्रिया मताः ॥ १४ ॥ मनोभाषाकायबलत्रयमिन्द्रियपञ्चकम् । आयुरुच्छ्वासनिःश्वासमिति प्राणा दश स्मृताः॥१५॥ सर्वजीवेषु देहायुरुच्छासा इन्द्रियाणि च । विकलासंज्ञिनां भाषा पूर्णानां संज्ञिनां मनः॥ १६॥ उपपादभवा देवा नारका गर्भजाः पुनः । जरायुपोताण्डभवाः शेषाः सम्मूर्छनोद्भवाः ॥ १७॥ सम्मृच्छिनो नारकाच जीवाः पापा नपुंसकाः । देवास्तु स्त्रीवेदाः स्युर्वेदत्रयजुषः परे ॥ १८॥ सर्वे जीवा व्यवहार्यव्यवहारितया द्विधा ।
(१) मनुजाः । (२) देवनारकाः। (३) देवाः स्त्रीपुंसवेदाः।
॥३६॥
Latin Education inter
For Personal & Private Use Only
___
Page #91
--------------------------------------------------------------------------
________________
सूक्ष्मनिगोदा एवान्त्यस्तिभ्योज्ये व्यवहारिणः ॥ १६ ॥ सचित्तः संवृतः शीतस्तदन्यो मिश्रितोऽपि वा । विभेदैरान्तरैर्भिन्नो नवधा योनिरङ्गिनाम् ।। २०॥ प्रत्येक सप्त लक्षाणि पृथ्वीवार्यग्निवायुषु । प्रत्येकानन्तकायेषु क्रमाद्दश चतुर्दश ॥ २१॥ पद् पुनर्विकलाक्षेषु मनुष्येषु चतुर्दश । स्युश्चतस्रश्चतस्रश्च श्वभ्रतिर्यकसुरेषु तु ॥ २२॥ एवं लक्षाणि योनीनामशीतिश्चतरुत्तरा । सर्वज्ञोपज्ञमुक्तानि सर्वेषामपि जन्मिनाम् ॥ २३॥ एकाक्षा बादराः सूक्ष्माः पश्चाक्षाः संश्यसंज्ञिनः । स्थुर्द्वित्रिचतुरक्षाश्च पर्याप्ता इतरेऽपि च ॥ २४ ॥ एतानि जीवस्थानानि जिनोतानि चतुर्दश । मार्गणा अपि तावन्त्यो ज्ञेयास्ता नामतो यथा ॥ २५ ॥ गतीन्द्रियवपुर्योगवेदज्ञानक्रुदादयः। संयमाहारदृग्लेश्यामव्यसम्यक्त्वसंज्ञिनः ॥ २६ ॥ मिथ्यादृष्टिः सास्वादनसम्यग्मिथ्यादृशावपि । अविरतसम्यग्दृष्टिविरताविरतोऽपि च ॥ २७ ॥ प्रमत्तश्चाप्रमत्तश्च निवृत्तिवादरस्ततः । अनिवृत्तिबादरश्चाथ सूक्ष्मसंपरायकः | ॥२८॥ ततः प्रशान्तमोहश्च क्षीणमोहश्च योगवान् । अयोगवानिति गुणस्थानानि स्युश्चतुर्दश ॥ २६ ॥ मिथ्याHI दृष्टिभवेन्मिथ्यादर्शनस्योदये सति । गुणस्थानत्वमेतस्य भद्रकत्वाद्यपेक्षया ॥३०॥ मिथ्यात्वस्यानुदयेऽनन्तानुत बन्ध्युदये सति । सास्वादनः सम्यग्दृष्टिः स्यादुत्कर्षात् षडावलीः ॥ ३१॥ सम्यक्त्वमिथ्यात्वयोगान्मुहूर्त मिश्रदर्शनः । अविरतसम्यग्दृष्टिरप्रत्याख्यानकोदये ॥३२॥ विरताविरतस्तु स्यात्प्रत्याख्यानोदये सति । प्रमत्तसंयतः प्राप्तसंयमो यः प्रमाद्यति ॥ ३३ ॥ सोऽप्रमत्तसंयतो यः संयमी न प्रमाद्यति । उभावपि परावृत्त्या सातामान्तर्मुहर्तिकौ ॥ ३४ ॥ कर्मणां स्थितिघातादीनपूर्वान् कुरुते यतः। तस्मादपूर्वकरणः क्षपकः शमकश्च सः
(१) तेऽन्येऽपि व्यवहारिणः।
Jan Education Intemal by
For Personal & Private Use Only
Page #92
--------------------------------------------------------------------------
________________
योगशास्रम्
॥ ३७ ॥
8-03-100+-***
॥३५॥ यद्वादरकषायाणां प्रविष्टानामिमं मिथः । परिणामा निवर्त्तन्ते निवृत्तिवादरोऽपि तत् || ३६ || परिणामा निवर्त्तन्ते मिथो यत्र न यत्नतः । अनिवृत्तिबादरः स्यात्क्षपकः शमकश्च सः ॥ ३७ ॥ लोभाभिधः सम्परायः सूक्ष्मः किट्टीकृतो यतः । स सूक्ष्मसम्परायः स्यात्क्षपकः शमकोऽपि च ॥ ३८ ॥ अथोपशान्तमोहः स्यान्मोहस्योपशमे सति । मोहस्य तु क्षये जाते चीणमोहं प्रचचते ॥ ३६ ॥ सयोगिकेवली घातिचयादुत्पन्न केवलः । योगानां तु चये जाते स एवायोगिकेवली ॥ ४० ॥ ॥ इति जीवतत्त्वम् ॥
अजीवाः स्युर्धर्माधर्म्मविहायः कालपुद्गलाः । जीवेन सह पश्चापि द्रव्याण्येते निवेदिताः ॥ ४१ ॥ तत्र कालं विना सर्वे प्रदेशप्रचयात्मकाः । विना जीवमचिद्रूपा अकर्त्तारश्च ते मताः ॥ ४२ ॥ कालं विनास्तिकायाः स्युरमूर्त्ताः पुद्गलं विना । उत्पादविगमधौव्यात्मानः सर्वेऽपि ते पुनः ॥ ४३ ॥ पुद्गलाः स्युः स्पर्शरसगन्धवर्णस्वरूपिणः । तेऽणुस्कन्धतया द्वेधा तत्राऽबद्धाः किलाणवः ॥ ४४ ॥ बद्धाः स्कन्धा गन्धशब्दसौक्ष्म्यस्थौन्याकृतिस्पृशः । अन्धकारातपोद्योत भेदच्छायात्मका अपि ।। ४५ ।। कर्मकायमनोभाषाचेष्टितोङ्खासदायिनः । सुखदुःखजीवितव्यमृत्यूपग्रहकारिणः || ४६ || प्रत्येकमेकद्रव्याणि धर्म्माधर्मौ नभोऽपि च । अमूर्त्तानि निष्क्रियाणि स्थिराण्यपि च सर्व्वदा ॥ ४७ ॥ एकजीव परीमाणसं ख्यातीतप्रदेशकौ । लोकाकाशमभिव्याप्य धर्म्माधर्मौ व्यवस्थितौ ॥ ४८ ॥ स्वयं गन्तुं प्रवृत्तेषु जीवाजीवेषु सर्वतः । सहकारी भवेद्धर्म्मः पानीयमिव यादसाम् ॥ ४६ ॥ जीवानां पुद्गलानां च प्रपन्नानां स्वयं स्थितिम् । अधर्मः सहकार्येषु यथा च्छायाऽध्वयायिनाम् ॥ ५० ॥ सर्वगं स्वप्रतिष्ठं स्यादाकाशमवकाशदम् । लोकालोकौ स्थितं व्याप्य तदनन्तप्रदेशभाक् ॥ ५१ ॥ लोकाकाशप्रदेशस्था
For Personal & Private Use Only
प्रथमः
प्रकाशः ।
॥ ३७ ॥
Page #93
--------------------------------------------------------------------------
________________
भिन्नाः कालाणवस्तु ये । भावानां परिवर्ताय मुख्यः कालः स उच्यते ॥ ४२ ॥ ज्योति शास्त्रे यस्य मानमुच्यते Mसमयादिकम् । स व्यावहारिकः कालः कालवेदिभिरामतः॥५३॥ नवजीर्णादिरूपेण यदमी भूवनोदरे। पदार्थाः
परिवर्त्तन्ते तत्कालस्यैव चेष्टितम् ।। ५४ । वर्तमाना प्रतीतत्वं भाविनो वर्तमानताम् । पदार्थाः प्रतिपद्यन्ते कालक्रीडाविडम्बिताः॥ ५५ ॥
॥ इति अजीवतत्त्वम् ॥ मनोवचनकायानां यत्स्यात्कने स पाश्रवः। शुभ: शुभस्य हेतुः स्यादशुभस्त्वशुभस्य च ॥ ५६ ।।
॥ इति आश्रवः॥ सर्वेषामाश्रवाणां यो रोधहेतुः स संवरः । कर्मणां भवहेतूनां जरणादिह निर्जरा ॥ ५७॥
॥इति संवरनिर्जरे ॥ वक्ष्यन्ते भावनास्वेवाश्रवसंवरनिर्जराः । तमात्र विस्तरेणोक्ताः पुनरुक्तत्वभीरुभिः ॥ ५८॥ सकषायतया जीवः कर्मयोग्यांस्तु पुद्गलान् । यदादत्ते स बन्धः स्याजीवास्वातन्त्र्यकारणम् ॥५६॥ प्रकृतिस्थित्यनुभागप्रदेशा विधयोऽस्य तु । प्रकृतिस्तु स्वभावः स्यात् ज्ञानावृत्यादिरष्टधा ॥ ६॥ ज्ञानदृष्ट्यावृती वेद्यं मोहनीयायुषी अपि। नामगोत्रान्तरायाश्च मूलप्रकृतयो मताः ॥ ६१ ॥ निकर्षोत्कर्षतः कालनियमः कर्मणां स्थितिः । अनुभागो। विपाकः स्यात्प्रदेशोऽशप्रकल्पनम् । ६२॥ मिथ्यादृष्टिरविरतिप्रमादौ च क्रुदादयः। योगेन सह पञ्चैते विज्ञेया बन्धहेतवः ॥६३ ॥
॥इति बन्धतत्त्वम् ।। अभावे बन्धहेतूनां घातिकर्मक्षयोद्भवे । केवले सति मोक्षः स्याच्छेषाणां कर्मणां क्षये ॥ ६४ ॥ सुरासुर
Jan Education Internat
For Personal & Private Use Only
Page #94
--------------------------------------------------------------------------
________________
योगशास्त्रम् ॥३८॥
नरेन्द्राणां यत्सुखं भुवनत्रये । स स्यादनन्तभागोऽपि न मोक्षसुखसम्पदः॥६५॥ स्वस्वभावजमत्यक्षं यदस्मिन् भि
प्रथम: शाश्वतं सुखम् । चतुर्वर्गाग्रणीत्वेन तेन मोक्षः प्रकीर्तितः॥ ६६ ॥
प्रकाशः। . ॥इति मोक्षतत्त्वम् ॥ मतिश्रुतावधिमनःपर्यायाः केवलं तथा । अमीभिः सान्वयैर्भेदैर्ज्ञानं पञ्चविधं मतम् ॥ ६७ ॥ अवग्रहादिमिभिन्न बहाचैरितरैरपि । इन्द्रियानिन्द्रियभवं मतिज्ञानमुदीरितम् ॥६८ ॥ विस्तृतं बहुधा पूर्वैरङ्गोपाङ्गैः प्रकीर्णकैः । स्याच्छन्दलाञ्छितं ज्ञेयं श्रुतज्ञानमनेकधा ॥६६॥ देवनैरयिकाणां सादवधिर्भवसम्भवः। षड्विकल्पस्तु शेषाणां क्षयोपशमलक्षणः॥ ७० ॥ ऋजुर्विपुल इत्येवं स्यान्मनःपर्ययो द्विधा । विशुद्ध्यप्रतिपाताभ्यां तद्विशेषोऽवगम्यताम् ॥ ७१ ॥ अशेषद्रव्यपर्यायविषयं विश्वलोचनम् । अनन्तमेकमत्यक्षं केवलज्ञानमुच्यते ॥ ७२ ॥ एवं च पञ्चमिर्जानैतितत्त्वसमुच्चयः । अपवर्गहेतुरत्नत्रयस्याद्याङ्गभाग्भवेत् ॥७३॥ भवविटपिसमूलोन्मूलने मत्तदन्ती, जडि. मतिमिरनाशे पनि प्राणनाथः । नयनमपरमेतद्विश्वतत्त्वप्रकाशे, करणहरिणबन्धे वागुरा ज्ञानमेव ॥७४॥ १६ ॥
द्वितीयं रत्नमाहरुचिर्जिनोक्ततत्त्वेषु सम्यश्रद्धानमुच्यते । जायते तन्निसर्गेण गुरोरधिगमेन वा ॥ १७ ॥
जिनोक्तेषु तत्त्वेषु जीवादिषक्तस्वरूपेषु या रुचिस्तत श्रद्धानम् । न हि ज्ञानमित्येव रुचिं विना फलसिद्धिः । १ करणानि-इन्द्रियाणि.
in Education Inter
For Personal & Private Use Only
Page #95
--------------------------------------------------------------------------
________________
शाकानादिस्वरूपवेदिनाऽपि रुचिरहितेन न सौहित्यलक्षणं फलमवाप्यते । श्रुतज्ञानवतोऽप्यङ्गारमर्दकादेरभव्यस्य दरभव्यस्य वा जिनोक्ततत्त्वेषु रुचिरहितस्य न विवक्षितं फलमुपश्रूयते । तस्य चोत्पादे द्वयी गतिः निसर्गोऽधिग.मश्च । निसर्गः स्वभावो गुरूपदेशादिनिरपेक्षः सम्यश्रद्धानकारणम् । तथाहि___अनाद्यनन्तसंसारावर्त्तवर्तिषु देहिषु । ज्ञानदृष्ट्यावृतिवेदनीयान्तरायकर्मणाम् ॥ १॥ सागरोपमकोटीनां कोट्यस्त्रिंशत्परा स्थितिः। विंशतिर्गोत्रनाम्नोश्च मोहनीयस्य सप्ततिः ॥२॥ ततो गिरिसरिद्वावघोलनान्यायतः स्वयम् । एकाब्धिकोटिकोटथूना प्रत्येक क्षीयते स्थितिः॥३॥ शेषाधिकोटिकोट्यन्तःस्थितौ सकलजन्मिनः । यथाप्रवृत्तिकरणाद्रन्थिदेशं समियरति॥ ४ ॥ रागद्वेषपरीणामो दुर्मेदो ग्रन्थिरुच्यते । दुरुच्छेदो दृढतरः काष्ठादेरिव सर्वदा ॥५॥ ग्रन्थिदेशं तु संप्राप्ता रागादिप्रेरिताः पुनः । उत्कृष्टबन्धयोग्याः स्युश्चतुर्गतिजुषोऽपि ते ॥६॥ तेषां मध्ये तु ये भव्या भाविभद्राः शरीरिणः । आविष्कृत्य परं वीर्यमपूर्वकरणे कृते ॥७॥ अतिक्रामन्ति सहसा तं ग्रन्थि दुरतिक्रमम् । अतिक्रान्तमहाध्वानो घट्टभूमिमिवाध्वगाः ॥८॥ अथानिवृत्तिकरणादन्तरकरणे कृते । मिथ्यात्वं विरलीकुयुर्वेदनीयं यदग्रतः ॥8॥ अन्तर्महर्तिकं सम्यगदर्शनं प्राप्नुवन्ति यत् । निसर्गहेतुकमिदं सम्यक्श्रद्धानमुच्यते ॥ १०॥ गुरूपदेशमालम्ब्य सर्वेषामपि देहिनाम् । यत्तु सम्यश्रद्धानं तत्स्यादधिगम परम् ॥ ११॥ यमप्रशमजीवातुर्वीजं ज्ञानचरित्रयोः । हेतुस्तप:श्रुतादीनां सदर्शनमुदीरितम् ॥ १२॥ श्लाध्य हि चरणज्ञानवियुक्तमपि दर्शनम् । न पुन नचारित्रे मिथ्यात्वविषदक्षिते ॥ १३॥ ज्ञानचारित्रहीनोऽपि श्रूयते
१ तृप्तिलक्षणम्. २ नदीतीरभूमिम्.
in Education international
For Personal Private Use Only
Page #96
--------------------------------------------------------------------------
________________
प्रथम: प्रकाशः।
बोग- श्रेणिकः किल । सम्यग्दर्शनमाहात्म्यातीर्थकत्वं प्रपत्स्यते॥१४॥ अधृतचरणबोधाः प्राणिनो यत्प्रभावा-दसमसशास्त्रम् खनिधानं मोक्षमासादयन्ति। भवजलनिधिपोतं दुःखकान्तारदावम्, श्रयत तदिह सम्यग्दर्शनं रत्नमेकम् ॥१५॥१७॥ |
. तृतीयं रत्नमाह॥३९॥
सर्वसावद्ययोगानां त्यागश्चारित्रमिष्यते। कीर्तितं तदहिंसादिवतभेदेन पञ्चधा ॥१८॥
सर्वे न तु कतिपये ये सावधयोगाः सपापव्यापारास्तेषां त्यागो ज्ञानश्रद्धानपूर्वकं परिहारः स सम्यक्चारित्रं ज्ञानदर्शनविनाकृतस्य चारित्रस्य सम्यक्चारित्रत्वानुपपत्तेः । सर्वग्रहणं देशचारित्रव्यवच्छेदार्थम् । इदं च चारित्रं मूलोत्तरगुणभेदेन द्विविधं कीर्तितमित्यादिना मूलगुणरूपं चारित्रमाह। पञ्चधेति व्रतभेदेन, न तु स्वरूपतः ॥१८॥
मूलगुणानेव कीर्चयतिअहिंसासूनृतास्तेयब्रह्मचर्यापरिग्रहाः । पञ्चभिः पञ्चभिर्युक्ता भावनाभिविमुक्तये ॥ १९ ॥
अहिंसादयश्च पश्चापि प्रत्येकं पञ्चविधभावनाभ्यर्हिताः सन्तः स्वकार्यजननं प्रति अप्रतिबद्धसामर्थ्या भवजन्तीति पञ्चभिरित्याद्युक्तम् ॥ १६॥ प्रथमं मूलगुणमाहन यत्प्रमादयोगेन जीवितव्यपरोपणम् । त्रसानां स्थावराणां च तदहिंसाव्रतं मतम् ॥२०॥
प्रमादोज्ञानसंशयविपर्ययरागद्वेषस्मृतिभ्रंशयोगदुष्प्रणिधानधर्मानादरभेदादष्टविधः । तद्योगात्रसानां स्थाराणां च जीवानां प्राणन्यपरोपणं हिंसा । तनिषेधादहिंसा प्रथमं व्रतम् ॥२०॥
॥३६॥
in Education
For Personal & Private Use Only
|
Page #97
--------------------------------------------------------------------------
________________
Jain Education Interna
द्वितीयमाह - प्रियं पथ्यं वचस्तथ्यं सूनृतव्रतमुच्यते । तत्तथ्यमपि नो तथ्यमप्रियं चाहितं च यत् ॥ २१ ॥
तथ्यं वचोऽमृषारूपमुच्यमानं सूनृतंत्रतमुच्यते । कि विशिष्टं तथ्यं ? प्रियं पथ्यं च तत्र प्रियं यत् श्रुतमात्रं प्रीणयति, पथ्यं यदायतौ हितम् । ननु तथ्यमेवैकं विशेषणमस्तु सत्यव्रताधिकारात् प्रियपथ्ययोस्तु कोऽधिकारः ? अत श्राह तत्तथ्यमपीति व्यवहारापेक्षया तथ्यमपि यदप्रियं यथा चौरं प्रति चौरस्त्वं कुष्ठिनं प्रति कुष्ठी त्वमिति तदप्रियत्वान्न तथ्यम् । तथ्यमप्यहितं यथा मृगयुभिः पृष्टस्यारण्ये मृगान् दृष्टवतो मया मृगा दृष्टा इति तञ्जन्तुघातहेतुत्व तथ्यम् ॥ २१ ॥ तृतीयमाह - श्रनादानमदत्तस्यास्तेयत्रतमुदीरितम् । बाह्याः प्राणा नृणामर्थो हरता तं हता हि ते ॥२२॥
वित्तस्वामिना श्रदत्तस्य वित्तस्य यदनादानं तदस्तेयव्रतम् । तच्च स्वामिजीवतीर्थकर गुर्व्वदत्तभेदेन चतुर्विधम् । तत्र स्वाम्यदत्तं तृणोपलकाष्ठादिकं तत्स्वामिना यददत्तम् । जीवादत्तं यत्स्वामिना दत्तमपि जीवेनादत्तं यथा प्रव्रज्यापरिणामविकलो मातापितृभ्यां पुत्रादिर्गुरुभ्यो दीयते । तीर्थकरादत्तं यत्तीर्थकरैः प्रतिषिद्धमाघाकर्मिकादि गृह्यते । गुर्व्वदत्तं नाम स्वामिना दत्तमाधाकम्मिकादिदोषरहितं गुरूनननुज्ञाप्य यद्गृह्यते । नन्वहिंसापरिकरत्वं सर्व्वव्रतानामदत्तादाने तु केव हिंसा येनाहिंसापरिकरत्वं स्यादित्युक्तं बाह्याः प्राणा इत्यादि । यदि स्तेयस्य प्राणहरणस्वरूपं मृग्यते तदा तदस्त्येव ॥ २२ ॥
For Personal & Private Use Only
OK+10+0003.000
Page #98
--------------------------------------------------------------------------
________________
योग
चतुर्थमाह
प्रथम: | दिव्यौदारिककामानां कृतानुमतिकारितः। मनोवाकायतस्त्यागो ब्रह्माष्टादशधा मतम् ॥२३॥ प्रकाशः ।
दिवि भवा दिव्याः ते च वैक्रियशरीरसम्भवाः। औदारिकाश्च औदारिकतिर्यग्मनुष्यदेहप्रभवास्ते च ते काम्यन्त इति कामाश्च तेषां त्यागो ब्रह्मनिषेधात्मकं ब्रह्मचर्यव्रतम् । तच्चाष्टादशधा मनसा अब्रह्म न करोमि न कारयामि कुर्वन्तमपि परं नानुमन्ये । एवं च वचसा कायेन वेति दिव्ये ब्रह्मणि नव भेदाः। एवमौदारिकेऽपीत्यष्टादश । यदाह
दिव्यात्कामरतिसुखात त्रिविधं त्रिविधेन विरतिरिति नवकम् ।
औदारिकादपि तथा तद्ब्रह्माष्टादशविकल्पम् ॥ १ ॥ इति । कृतानुमतिकारितैरिति मनोवाकायत इति च मध्ये कृतत्वात्पूर्वोत्तरेष्वपि महाव्रतेषु सम्बन्धनीयम् ॥ २३ ।
पञ्चममाहसर्वभावेषु मूर्छायास्त्यागः स्यादपरिग्रहः। यदसत्स्वपि जायेत मूर्च्छया चित्तविप्लवः॥२४॥ ___ सर्वभावेषु द्रव्यक्षेत्रकालभावरूपेषु यो मूर्छाया गार्द्धयस्य त्यागो न तु द्रव्यादित्यागमात्रं सोऽपरिग्रहव्रतम् । | ननु परिग्रहत्यागोऽपरिग्रहवतं स्यात् किं मूर्खात्यागलक्षणेन तल्लक्षणेन ? अत आह-यदसत्वपीति । यसादस
स्वप्यविद्यमानेष्वपि द्रव्यक्षेत्रकालभावेषु मर्छया चिचविप्लव: स्यात् । चित्तविप्लवः प्रशमसौख्यविपर्यासः। ||॥४०॥
For Personal & Private Use Only
Page #99
--------------------------------------------------------------------------
________________
असत्यपि धने धनगर्द्धवतो राजगृहनगरद्रमकस्येव चित्तसंक्लेशो दुर्गतिपातनिबन्धनं भवति । सत्यपि वा | द्रव्यक्षेत्रकालभावलक्षणे सामग्रीविशेषे तृष्णाकृष्णाहिनिरुपद्रवमनसा प्रशमसुखप्राप्त्या चित्तविप्लवाभावः । अत एव धर्मोपकरणधारिणां यतीनां शरीरे उपकरणे च निर्ममत्वानामपरिग्रहत्वम् । यदाह
यद्वत्तुरगः सत्स्वप्याभरणभूषणेष्वनभिषक्तः । तद्वदुपग्रहवानपि न सङ्गमुपयाति निर्ग्रन्थः ॥१॥
यथा च धर्मोपकरणवतामपि मारहितानां मुनीनां न परिग्रहग्रहित्वदोषस्तथा व्रतिनीनामपि गुरूपदिष्टधर्मोपकरणधारिणीनां रत्नत्रयवतीनां, तेन तासांधर्मोपकरणपरिग्रहमात्रेण मोचापवादः प्रलापमात्रम् ॥२४॥
पञ्चभिः पञ्चभिर्युक्ता भावनाभिर्विमुक्तये इत्युक्तं तत्प्रस्तौतिभावनाभिर्भावितानि पञ्चभिः पञ्चभिः क्रमात्। महाव्रतानि नो कस्य साधयन्त्यव्ययं पदम् ॥२५॥ H भाव्यन्ते वास्यन्ते गुणविशेषमारोप्यन्ते महाव्रतानि यकाभिस्ता भावनाः ॥ २५ ॥
अथ प्रथमव्रतस्य भावना आहॐ मनोगुप्त्येषणादानेर्याभिः समितिभिः सदा । दृष्टान्नपानग्रहणेनाहिंसां भावयेत् सुधीः ॥२६॥
मनोगुप्तिर्वक्ष्यमाणलक्षणा तयेत्येका भावना । एषणा विशुद्धपिण्डग्रहणलक्षणा तस्यां या समितिः । पादा- | नग्रहणेन निक्षेप उपलक्ष्यते । तेन पीठादेग्रहणे स्थापने च या समितिः। ईरणमीयो गमनं तत्र या समितिः। आभिरेषणादानेासमितिभिर्दृष्टयोरनपानयोग्रहणेनोपलक्षणत्वात् तद्ग्रासेनाहिंसां भावयेदिति सम्बन्धः । इह
in Education Internatio
For Personal & Private Use Only
Page #100
--------------------------------------------------------------------------
________________
O
योगशास्त्रम्
प्रथम:
॥४१॥
|च गप्तिसमितीनां महाव्रतभावनात्वेन गताथानामपि अथवा पश्चसमितीत्यादिग्रन्थन पुनरुत्कीरीनं गुप्तिसमितीनामुत्तरगुणत्वज्ञापनार्थम् । यदाह
प्रकाशः। पिण्डस्स जा विसोही समिईओ भावणा तवो दुविहो । पडिमा अभिग्गहो चिय उत्तरगणमोविहाणाहिं ॥१॥
इह च मनोगप्तेर्भावनात्वं हिंसायां मनोव्यापारस्य प्राधान्यात् । श्रूयते हि प्रसन्नचन्द्रराजर्षिर्मनोगत्याऽभाविताहिंसावतो हिंसामकुर्वनपि सप्तमनरकपृथ्वीयोग्यं कर्म निर्ममे । एषणादानेर्यासमितयस्तु अहिंसायां नितरामपकारिण्य इति युक्तं भावनात्वम् । दृष्टान्नपानग्रहणं च संसक्तानपानपरिहारेणाहिंसाव्रतोपकारायेति पञ्चमी भावना ॥ २६ ॥
द्वितीयव्रतस्य भावना आहहास्यलोभभयक्रोधप्रत्याख्यानैर्निरन्तरम् । आलोच्य भाषणेनापि भावयेत्सूनृतव्रतम् ॥२७॥ ___ हसन् हि मिथ्या ब्रूयात् , लोभपरवशश्वार्थाकाझ्या, भयाः प्राणादिरक्षणच्छया, क्रुद्धः क्रोधतरलितमनस्कतया मिथ्या ब्रूयादिति हास्यादिप्रत्याख्यानानि चतस्रो भावनाः । आलोच्य भाषणं सम्यगज्ञानपूर्वकं पालोच्य मृपा मा भूदिति मोहतिरस्कारद्वारेण भाषणं पञ्चमी भावना । मोहस्य च मृषावादहेतुत्वं प्रतीतमेव । यदाह-" रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतमिति" ॥ २७ ॥
तृतीयव्रतस्य भावना आह१ पिण्डस्य या विशोधिः समितयो भावनास्तपो द्विविधम् । प्रतिमा अभिग्रहश्चैव उत्तरगुणविधानानि (प्रकाराः) ॥१॥ |Tinyam
Jain Education internal
For Personal & Private Use Only
Page #101
--------------------------------------------------------------------------
________________
अालोच्यावग्रहयाञ्चाभीक्ष्णावग्रहयाचनम् । एतावन्मात्रमेवैतदित्यवग्रहधारणम् ॥ २८ ॥ समानधार्मिकेभ्यश्च तथावग्रहयाचनम्। अनुज्ञापितपानान्नाशनमस्तेयभावनाः॥२९॥(युग्मम्)
आलोच्य मनसा विचिन्त्यावग्रहं याचेत । देवेन्द्रराजगृहपतिशय्यातरसार्मिकभेदाद्धि पञ्चावग्रहाः । अत्र च पूर्वः पूर्वो बाध्य उत्तर उत्तरो बाधकः। तत्र देवेन्द्रावग्रहो यथा सौधर्माधिपतेर्दक्षिणलोकाध ईशानाधिपतेरुत्तरलोकार्धम् । राजा चक्रवर्ती तस्यावग्रहो भारतादिवर्षम् । गृहपतिर्मण्डलाधिपतिस्तस्यावग्रहस्तन्मण्डलादि । शय्यातरो वसतिस्वामी तदवग्रहो वसतिरेव । साधर्मिकाः साधवस्तेषामवग्रहः शय्यातरप्रदत्तं गृहादि । एतानवग्रहान् ज्ञात्वा यथायथमवग्रहं याचेत । अस्वामियाचेन हि परस्परविरोधेन अकाण्डधाटनादय ऐहिका दोषाः परलोकेऽपि अदत्तपरिभोगजनितं पापकर्म । इति प्रथमा भावना । सकृद्दत्तेऽप्यवग्रहे स्वामिना अभीक्ष्णं भूयो भूयोऽवग्रहयाचनं कार्य पूर्वलब्धेऽवग्रहे ग्लानाद्यवस्थामृत्रपुरीपोत्सर्गपात्रकरचरणप्रक्षालनस्थानानि दातृचित्तपीडापरिहारार्थ याचनीयानि । इति द्वितीयभावना । एतावन्मात्रमेव एतावत्परिमाणमेवैतत् क्षेत्रादि ममोपयोगि नाधिकमिति अवग्रहस्य धारणं व्यवस्थापनम् । एवमवग्रहधारणे हि तदभ्यन्तरवर्तिनीमूर्ध्वस्थानादिक्रियामासेवमानो न दातुरुपरोधकारी भवति । याश्चाकाल एवावग्रहानवधारणे विपरिणतिरपि दातुश्चेतसि स्यादात्मनोऽपि चादत्तपरिभोगजनितकर्मबन्धः स्यादिति तृतीयभावना। धर्म चरन्तीति धार्मिकाः समानास्तुन्याः प्रतिपकशासनाः साधवस्तेभ्यः पूर्वपरिगृहीतक्षेत्रेभ्योऽवग्रहो याच्यस्तदनुज्ञानाद्धि तत्रासितव्यं, अन्यथा स्तेयं स्यादिति
JainEducation ins
For Personal Private Use Only
Page #102
--------------------------------------------------------------------------
________________
योग: शास्त्रम्
प्रथमः प्रकाश
॥४२॥
चतुर्थी भावना। अनुज्ञापिते अनुनया स्वीकृते ये पानाने तयोरशनं सूत्रोक्तेन हि विधिना प्रासुकमेषणीयं कल्पनीयं च पानानं लब्धमानीयालोचनापूर्व गुरवे निवेद्यानुज्ञातो गुरुणा मण्डल्यामेकको वाऽश्नीयात । उपलक्षणमेतत यतकिश्चिदौधिकौपग्रहिकभेदमुपकरणं धर्मसाधनं तत्सर्व गुरुणाऽनुज्ञातं परिभोक्तव्यम । एवं विदधानो नातिक्रामत्यस्तेयव्रतमिति पञ्चमी भावना ।
चतुर्थव्रतभावना आहस्त्रीषण्ढपशुमद्वेश्मासनकुड्यान्तरोज्झनात् । सरागस्त्रीकथात्यागात्प्राग्रतस्मृतिवर्जनात्॥३०॥ स्त्रीरम्याङ्गेक्षणस्वाङ्गसंस्कारपरिवर्जनात् । प्रणीतात्यशनत्यागाद् ब्रह्मचर्य तु भावयेत् ॥३१॥
. (युग्मम् ) त्रियो देवमानुषभेदाद्विविधाः एताश्च सचित्ताः । अचित्तास्तु पुस्तलेप्यचित्रकर्मादिनिर्मिताः। षण्ढास्तृतीयवेदोदयवर्तिनो महामोहकर्माणः स्त्रीपुंससेवनाभिरताः। पशवस्तिर्यग्योनिजाः । तत्र गोमहिषीवडवाबालेयीअजाविकादयः सम्भाव्यमानमैथुनाः। एभ्यः कृतद्वन्द्वेभ्यो मतुः स्त्रीषण्डपशुमती च ते वेश्मासने च वेश्म-वसतिः, आसनं-संस्तारकादि, कुब्यान्तरं यत्रान्तरस्थोऽपि कुड्यादौ दम्पत्योर्मोहनादिशब्दः श्रूयते ब्रह्मचर्यभङ्गभयादेषामुज्झनं त्यागः । इति प्रथमा भावना। सरागस्य मोहोदयवतो या स्त्रीभिः कथा स्त्रीणां वा कथा सरागाश्च ताः
१ बालेयी-गर्दभी.
in Education Inter
For Personal & Private Use Only
www.jalnelibrary.org
Page #103
--------------------------------------------------------------------------
________________
स्त्रियश्च ताभिस्तासां वा कथा तस्यास्त्यागः । रागानुवन्धिनी हि देशजातिकुलनेपथ्यभाषागतिविभ्रमेङ्गितहास्यलीलाकटाक्षप्रणयकलहशृङ्गाररसानुविद्धा कथा वात्येव चित्तोदधेरवश्यं विक्षोभमादधातीति द्वितीया भावना । प्राक् प्रव्रज्याब्रह्मचर्यात् पूर्व गृहास्थावस्थायां यद्रतं स्त्रीभिः सह निधुवनं तस्य स्मृतिस्तस्या वर्जनं, प्राग्रतसरणेन्धनाद्धि कामाग्निः सन्धुच्यते । इति तृतीया भावना । स्त्रीणामविवेकिजनापेक्षया यानि रम्याणि स्पृहणीयान्यजानि मुखनयनस्तनजघनादीनि तेषामीक्षणमपूर्वविस्मयरसनिर्भरतया विस्फारिताक्षस्य विलोकनम् । इक्षणमात्र तु रागद्वेषरहितस्यादुष्टमेव । यदाह__ अशक्य रूपमद्रष्टुं चक्षुर्गोचरमागतम् । रागद्वेषौ तु यौ तत्र तो बुधः परिवर्जयेत् ॥ १॥ इत्यादि ॥ .
तथा स्वस्यात्मनोऽहं शरीरं तस्य संस्कारः स्नानविलेपनपननखदन्तकेशसन्मार्जनादिः, स्त्रीरम्याङ्गवणं च स्वाङ्गसंस्कारश्च तयोः परिवर्जनात् । स्त्रीरम्याङ्गेक्षणतरलितविलोचनो हि दीपशिखायां शलभ इव विनाशमुपयाति । अशुचिशरीरसंस्कारमूढो हि तत्तदुत्कलिकामयैर्विकल्पैर्वृथात्मानमायासयतीति चतुर्थी भावना । प्रणीतो वृष्यः स्निग्धमधुरादिरसः। अत्यशनमप्रणीतस्याऽपि रूक्षभैक्षस्याकण्ठमदरपरणं तयोस्त्यागो निरन्तरवृष्यमधुरस्निग्धरसप्रणीतो हि प्रधानधातुपरिपोषेण वेदोदयादब्रह्माऽपि सेवेत । अत्यशनस्य तु न केवलं ब्रह्मचतिकारित्वाद्वर्जनं शरीरपीडाकारित्वादपि । यदाह
अद्धमसणस्स सव्वंजणस्स कुजा दगस्स दो भागे । वाउपवियारणहा छबभायं ऊणगं कुजा ॥१॥ १ वीर्यवर्धका. २ अर्धमशनस्य सव्यअनस्य कुर्यादुदकस्य द्वौ भागौ । वायुप्रविचारणार्थ षष्ठभागमूनकं कुर्यात् ॥१॥
For Personal & Private Use Only
Jun Education inter
Page #104
--------------------------------------------------------------------------
________________
बोग-
समान
प्रथमः
प्रकाशा
इति पञ्चमी भावना । एवं नवविधब्रह्मचर्यगुप्तिसंग्रहेण ब्रह्मचर्यव्रतस्य पश्च भावनाः॥३०॥३१॥ शास्त्रम्।
पश्चमव्रतस्य भावना आह। स्पर्शे रसे च गन्धे च रूपे शब्दे च हारिणि । पञ्चस्वितीन्द्रियार्थेषु गाढं गाय॑स्य वर्जनम् ॥३२॥ ॥१३॥ | एतेष्वेवामनोज्ञेषु सर्वथा द्वेषवर्जनम् । आकिञ्चन्यव्रतस्यैवं भावनाः पञ्च कीर्तिताः ॥३३॥ ||
_ (युग्मम् ) स्पर्शादिषु मनोहारिषु विषयेषु यद्गाढं गा_स्याभिष्वङ्गस्य वर्जनम् । स्पर्शादिष्वेवामनोज्ञेष्विन्द्रियप्रतिकूलेषु यो द्वेषोऽप्रीतिलक्षणस्तस्य वर्जनम् । गा_वान् हि मनोज्ञे विषयेऽभिष्वङ्गवानमनोज्ञान्विषयान्विद्वेष्टि मध्यस्थस्य तु मृारहितस्य न कचित्प्रीतिरप्रीतिर्वा, रागानान्तरीयकतया च द्वेषस्योपादानम्। किञ्चन बाह्याभ्यन्तरपरिग्रहरूपं नास्यास्तीत्यकिश्चनस्तद्भाव आकिश्चन्यमपरिग्रहता। आकिश्चन्यं च तद्वतं च तस्यैताः पञ्च भावना ॥ ३२ ॥ ३३॥ मूलगुणरूपचारित्रमभिधायोत्तरगुणरूपं तदाह| अथवा पञ्चसमितिगुप्तित्रयपवित्रितम् । चरित्रं सम्यक्चारित्रमित्याहुर्मुनिपुङ्गवाः ॥३४॥
समितिरिति पञ्चानां चेष्टानां तान्त्रिकी संज्ञा । अथवा सं सम्यक् प्रशस्ता अर्हत्प्रवचनानुसारेण इतिः चेष्टा समितिः पश्चानां समितीनां समाहारः पञ्चसमिति । गुप्तिरात्मनः संरक्षणं मुमुक्षोर्योगनिग्रह इत्यर्थः । गुप्तीनां त्रयं गुप्तित्रयं पञ्चसमिति च गुप्तित्रयं च ताभ्यां पवित्रितं यच्चरित्रं यतीनां चेष्टा सा सम्यक्चारित्रमुच्यते । सम्यकप्र
॥४३॥
For Personal & Private Use Only
W
Jan Education intement
inelayang
Page #105
--------------------------------------------------------------------------
________________
वृत्तिलक्षणा समितिः प्रवृत्तिनिवृत्तिलचणा गुप्तिरित्यनयोर्विशेषः ॥ ३४ ॥
अथ समितीगुप्तीश्च नामत आहईर्याभाषेषणादाननिक्षेपोत्सर्गसंज्ञिकाः। पञ्चाहुः समितीस्तिस्रो गुप्तीस्त्रियोगनिग्रहात् ॥३५॥
ईर्यासमितिर्भाषासमितिरेषणासमितिरादाननिक्षेपसमितिरुत्सर्गसमितिरित्येताः पञ्च समितीर्घवते तीर्थकराः ।। | त्रिसंख्या योगास्त्रियोगा मनोवाक्कायव्यापारास्तेषां निग्रहो निरोधः प्रवचनविधिना मार्गव्यवस्थापनमुन्मार्गनिवारणं च । निग्रहादिति हेतौ पञ्चमी तेन मनोगुप्तिर्वचनगुप्तिः कायगुप्तिरिति तिखो गुप्ती वते ॥३॥-ईर्यालक्षणमाहलोकातिवाहिते मार्गे चुम्बिते भाखदंशुभिः। जन्तुरक्षार्थमालोक्य गतिरीर्या मता सताम् ॥३६॥
बसस्थावरजन्तुजाताभयदानदीक्षितस्य मनेरावश्यके प्रयोजने गच्छतो जन्तुरक्षानिमित्तं स्वशरीररक्षानिमित्त च पादानादारभ्य युगमात्रक्षेत्रं यावत् निरीक्ष्य ईरणमीर्या गतिस्तस्यां समितिरीर्यासमितिः । यदाहुः
पुरो जुगमायाए पेहमाणो महिं चरे । वजंतो बीयहरियाई पाणे य दगमट्टियं ॥१॥
प्रोवायं विसमं खाणुं विजलं परिवजए । सङ्कमेण न गच्छेजा विजमाणे परकमे ॥२॥ गतिश्च मार्गे भवति तस्य विशेषणं लोकातिवाहिते लोकैरतिवाहिते अत्यन्तशुणे स्पृष्टे चुम्बिते आदित्यकिरणैः। (१) पुरतो युगमात्रया प्रेक्षमाणो महीं चरेत् । वर्जयन् बीजहरितानि प्राणान् च दकमृत्तिकाम् ।। (२) अवपातं विषमं स्थाणुं विजलं परिवर्जयेत् । संक्रमेण न गच्छेत् विद्यमाने पराक्रमे ॥
Jan Education intemato
For Personal & Private Use Only
Page #106
--------------------------------------------------------------------------
________________
योगशास्त्रम्
प्रकाशः
॥४४॥
प्रथमविशेषणेन पविराधिते मार्गे गच्छतो यतेः षड्जीवनिकायविराधना न भवति उन्मार्गेण न गन्तव्यमिति प्रथमः चाह । तथाविधेऽपि मार्गे रात्री गच्छतः सम्पातिमसत्त्वविराधना भवेदिति तत्परिहारार्थ द्वितीयाविशेषणम् । एवं विधोपयोगवतश्च गच्छतो मुनेः कथंचित प्राणिवधेऽपि प्राणिवधपापं न भवति । यदाह
उच्चालियम्मि पाए इरियासमियस्स सङ्कमहाए । वावजेज कुलिङ्गी मरिज तं जोगमासञ्ज ॥१॥ ने य तस्स तनिमित्तो बंधो सुहुमो विदेसियो समए । अणवजो उपभोगेण सव्वभावेण सो जम्हा ॥२॥
तथाजिअदु व मरदु व जीवो अजदाचारस्स निच्छो हिंसा । पयदस्स णत्थि बंधो हिंसामित्तेण समिदस्स ॥३॥३६॥ |||
भाषासमितिमाह| अवद्यत्यागतः सर्वजनीनं मितभाषणम् । प्रिया वाचंयमानां सा भाषासमितिरुच्यते ॥३७॥
अवद्यानि भाषादोषा वाक्यशुद्ध्यध्ययनप्रतिपादिताः धूर्त्तकामुकक्रव्यादचौरचार्वाकादिभाषितानि च तेषां निर्दम्भतया त्यागस्ततःसर्वजनीनं सर्वजनेभ्यो हितं, मितं खल्पमप्यतिबहुप्रयोजनसाधकं तच तद्भाषणं च । यदाह
(१) उच्चालिते पादे ईर्यासमितस्य (तेन) संक्रमार्थम् । व्यापद्येत कुलिङ्गी (हीन्द्रियादिः) म्रियेत तं योगमासाद्य ॥१॥ (२) न च तस्य तन्निमित्तो बन्धः सूक्ष्मोऽपि दर्शितः समये । अनवद्य उपयोगेन सर्वभावेन स यस्मात् ॥२॥ (३) जीवतु वा म्रियतां वा जीवोऽसदाचारस्य निश्चयतो हिंसा। प्रयतस्य नास्ति बन्धो हिंसामात्रेण समितस्य ॥३॥ ॥४४
Jain Education internet
For Personal & Private Use Only
Page #107
--------------------------------------------------------------------------
________________
DR-TOK→
Jain Education Internation
***0++***++++
***O*--
महुरं निउणं थोवं कज्जावडियं श्रगव्वियमतुच्छं । पुव्विं महसंकलियं भयंति जं धम्मसंजुत्तं ॥ १ ॥ एवंविधं यद्भाषणं सा भाषासमितिः । भाषायां सम्यगितिर्भाषा समितिः । सा च प्रिया अभिमता वाचंयमानां मुनीनाम् | यदाहु:--
जा य सच्चा न वत्तव्वा सच्चामोसा य जा मुसा । जा य बुद्धेहिं खाइमा ग तं भासेज पष्पवं ॥१॥ इति ॥३७॥ एषणासमितिमाह—
द्विचत्वारिंशता भिचादोषैर्नित्यमदूषितम् । मुनिर्यदन्नमादत्ते सैषणासमितिर्मता ॥ ३८ ॥ द्वाभ्यामधिका चत्वारिंशत् द्विचत्वारिंशद्भिचादोषाः उद्गमोत्पादनैषणालचणाः तत्रोद्गमदोषा गृहस्थप्रभवाः षोडश यद्यथा
हाकम्मुद्देसियपूर्वकम्मे मीसजाए य । ठवणा पाहुडियाए पाओयरकीयपामिच्चे ॥ १ ॥ पॅरिअट्टिए अभिइडे उभिसे मालोहडे इय । अच्छि भणिसिट्टे अज्झोअर य सोलसमे ॥ २ ॥ (१) मधुरं निपुणं स्तोकं कार्यापतितमगर्वितमतुच्छम् । पूर्वे मतिसङ्कलितं भणन्ति यद्धर्मसंयुक्तम् ॥ (२) या च सत्या न वक्तव्या सत्यामृषा च या मृषा । या च बुद्धैरनाचीर्णा न तां भाषेत प्रज्ञावान् ॥ ( ३ ) आधाकमैौद्देशिकपूतिकर्म च मिश्रजातं च । स्थापना प्राभृतिका प्रादुष्कारक्रीतप्रामित्यम् ॥ (४) परिवर्त्तितमभ्याहृतमुद्भिन्नं मालापहृतमिति । आच्छेद्यमनिसृष्टं अध्यवपूरकश्च षोडशः ॥
For Personal & Private Use Only
10-08
+++++
Page #108
--------------------------------------------------------------------------
________________
योग
शास्त्रम्।
॥४५॥
पापाय विकल्प्य यति मनसि कृत्वा सचित्तस्याचित्तीकरणमचित्तस्य वा पाको निरुक्तादा
प्रथमः उद्देशः साध्वर्थ सङ्कल्पः स प्रयोजनमस्य औद्देशिकं यत्पूर्वकृतमोदनमोदकक्षोदादि तत्साधूद्देशेन दध्यादिना ।
प्रकाशः। गुडपाकेन च संस्कुर्वतो भवति ॥ २॥
आधार्मिकावयवसम्मिश्रं शुद्धमपि यत्तत्पूतिकर्म शुचिद्रव्यमिवाशुचिद्रव्यसम्मिश्रम् ॥३॥ यदात्मार्थ साध्वर्थ चादित एव मिश्रं पच्यते तन्मिश्रम् ॥४॥ साधुयाचितस्य क्षीरादेः पृथक्त्य स्वभाजने स्थापनं स्थापना ॥५॥
कालान्तरभाविनो विवाहादेरिदानी सभिहिताः साधवः सन्ति तेषामप्युपयोगे भवत्विति बुद्ध्या इदानीमेव करणं समयपरिभाषया प्राभृतिका, सन्निकृष्टस्य विवाहादेः कालान्तरे साधुसमागमनं सञ्चिन्त्योत्कर्षणं वा ॥६॥
यदन्धकारव्यवस्थितस्य द्रव्यस्य वहिप्रदीपमण्यादिना भित्यपनयनेन वा, बहिनिष्कास्य द्रव्यधारणेन वा, प्रकटकरणं तत्प्रादुष्करणम् ॥७॥
यत्साध्वर्थ मूल्यन क्रीयते तत्क्रीतम् ॥८॥ यत्साध्वर्थमन्त्रादि उद्यतकं गृहीत्वा दीयते तत्प्रामित्यकम् ॥ ६ ॥ स्वद्रव्यमर्पयित्वा परद्रव्यं तत्सदृशं गृहीत्वा यद्दीयते तत्परिवर्तितम् ॥ १० ॥ गृहग्रामादेः साध्वर्थ यदानीतं तदभ्याहृतम् ॥ ११॥ (१) दूरनयनम्, विलम्बेन करणमिति यावत् ।। (२) उद्धारके ॥
॥४५॥
Jan Education
For Personel Private Use Only
www.
library.org
Page #109
--------------------------------------------------------------------------
________________
Jain Education Internati
14/0/+K+*****CKK19
कुतुपादिस्थस्य घृतादेर्दानार्थ यत् मृत्तिकाद्यपनयनं तदुद्भिन्नम् ॥ १२ ॥ यदुपरिभूमिकातः शिक्यादेर्भूमिगृहाद्वा आकृष्य साधुभ्यो दानं तन्मालापहृतम् ॥ १३ ॥ यदाच्छिद्य परकीयं हठात् गृहीत्वा स्वामी प्रभुश्चौरो वा ददाति तदाच्छेद्यम् ॥ १४ ॥ गोष्ठी भक्तादि सर्वैरदत्तमननुमतं वा एकः कश्चित्साधुभ्यो ददाति तदनिसृष्टम् ॥ १५ ॥ स्वार्थमधिश्रयणे सति साधुसमागमश्रवणात्तदर्थं पुनर्यो धान्यादिवापः सोऽभ्यवपूरकः ॥ १६ ॥ उत्पादनादोषा अपि षोडश ते च साधुप्रभवाः । तद्यथा
धाई दुई निमित्ते जीववणीवगे तिमिच्छा य । कोहे माणे माया लोभे अ हवन्ति दस एए ॥ १ ॥ पुविपच्छासंथवविजामन्ते श्र चुसजोए य । उप्पायखाइ दोसा सोलसमे मूलकम्मे य ॥ २ ॥ बालस्य चीरमञ्जनमण्डनक्रीडनाङ्कारोपण कर्मकारिण्यः पञ्च धात्र्यः एतासां कर्म भिक्षार्थं कुर्वतो मुनेर्धात्रीपिण्डः ॥ १ ॥
मिथः सन्देशकथनं दूतीत्वं तत्कुर्वतो भिक्षार्थ दूतीपिण्डः ॥ २ ॥
श्रतीतानागतवर्त्तमानकालेषु लाभालाभादिकथनं निमित्तं तद्भिदार्थं कुर्वतो निमित्तपिण्डः ॥ ३ ॥ जातिकुलगण कर्म्मशिल्पादिप्रधानेभ्य आत्मनस्तत्तद्गुणत्वारोपणं भिक्षार्थमाजीवपिण्डः ॥ ४ ॥
(१) धात्री दूती निमित्तं आजीववनीपके चिकित्सा च । क्रोधो मानो माया लोभश्च भवन्ति दश एते ॥ (२) पूर्वपश्चात्संस्तवविद्यामन्त्रं च चूर्णयोगश्च । उत्पादनाया दोषाः षोडशो मूलकर्म च ॥
For Personal & Private Use Only
←**@*••*0;+→→**
Page #110
--------------------------------------------------------------------------
________________
योग
प्रथम: प्रकाशः।
शास्त्रम्
॥४६॥
श्रमणब्राह्मणक्षपणातिथिश्वानादिभक्तानां पुरतः पिण्डार्थमात्मानं तत्तद्भक्तं दर्शयतो वनीपकपिण्डः ॥५॥ वमनविरेचनबस्तिकादि कारयतो वैद्यभैषज्यादि सूचयतो वा पिण्डार्थ चिकित्सापिण्डः ॥६॥ विद्यातपःप्रभावज्ञापनं राजपूजादिख्यापनं क्रोधफलदर्शनं वा मिक्षार्थ कुर्वतः क्रोधपिण्डः ॥७॥ लब्धिप्रशंसोत्तानस्य परेणोत्साहितस्यावमतस्य वा गृहस्थाभिमानमुत्पादयतो मानपिण्डः ॥८॥ नानावेषभाषापरिवर्त्तनं भिवार्थ कुर्वतो मायापिण्डः ॥६॥ अतिलोभाद् भिक्षार्थ पर्यटतो लोभपिण्डः ॥१०॥
पूर्वसंस्तवं जननीजनकादिद्वारेण पश्चात्संस्तवं श्वश्रुश्वशुरादिद्वारेणात्मपरिचयाऽनुरूपं सम्बन्धं भिवार्थ घटयत: पूर्वपश्चात्संस्तवपिण्डः ॥११॥
विद्यां मन्त्रं चूर्ण योगं च भिक्षार्थ प्रयुञ्जानस्य चत्वारो विद्यादिपिण्डा:मन्त्रजपहोमादिसाध्या स्त्रीदेवताधिष्ठाना वा विद्या ॥ १२॥ पाठमात्रप्रसिद्धः पुरुषाधिष्ठानो वा मन्त्रः॥ १३ ॥ चूर्णानि नयनाञ्जनादीनि अन्तर्दानादिफलानि ॥१४॥ पादप्रलेपादयः सौभाग्यदौर्भाग्यकरा योगाः॥१५॥ गर्भस्तम्भगर्भाधानप्रसवस्नपनकमूलरक्षाबन्धनादि भिक्षार्थ कुर्वतो मूलकर्मपिण्डः ॥ १६ ॥ गृहिसाधूमयप्रभवा एषणादोषा दश। तद्यथा
॥४६॥
Jain Education intermane
Foi Personal & Private Use Only
Page #111
--------------------------------------------------------------------------
________________
मैडियमक्खियनिक्खित्तपिध्यिसाहरिप्रदायगुम्मीसे । अपरिणयलित्तछाडिय एसणदोसा दस हवन्ति ॥१॥ प्राधाकर्मकादिशङ्काकलुषितो गदनाद्याइत्ते तुच्छङ्कितं यं च दोष शङ्कसे तमापद्यते ॥१॥ पृथिव्युत कवनस्पतिभिः सगितैरचिरपि मध्धादिभिर्गहितैराश्लिष्टं यदनादि तन्प्रक्षितम् ।। २ । पृथिव्युद कलेजोवायुवनस्पसियु बसेषु च यदनाधचित्तमपि स्थापितं तनिक्षिप्तम् ॥ ३ ॥ सचित्तेन फलादिना स्थगितं पिहितम् ।।४।। दानभाजनस्थमयोग सचित्तेषु पृथिव्यादिपु निक्षिप्य तेन भाजनेन ददतः संहृतम् ॥ ५॥
बालवृद्धपण्डकपमानज्यरितान्धमत्तोन्मतच्छिन्नकरचरणनिगडितपादुकारूढकण्डकपेषकभर्जककर्तकलोठकवींखकपिञ्जकदजकन्यालोडकभोजकपड्कायविराधका दातृत्वेन प्रतिषिद्धा या च स्त्री बेलामासवती गृहीतवाला बालवत्सा वा एभ्यो अन्नादि गृहीतुं साधोने कल्पते ॥ ६॥
देयद्रव्यं खण्डादि सचित्तेन धान्यकणादिना मिश्र ददत उन्मिश्रम् ।। ७ ।। देयद्रव्यं मिश्रमचित्तत्वेनापरिणमनादपरिणतम् ॥८॥ वसादिना संसृष्टेन हस्तेन पात्रेण वा ददतोऽन्नादि लिप्तम् ॥ ६ ॥
घृतादि च्छर्दयन् यद्ददाति तत् छर्दितं, छद्यमाने घृतादौ तत्रस्थस्यागन्तुकस्य वा सर्वस्य जन्तोर्मधुविन्द्दाहरणेन विराधनासम्भवात् ॥ १०॥
(१) शङ्कितम्रक्षितनिक्षिप्तपिहितसंहृतदायकोन्मिश्रम् । अपरिणतलिप्तछर्दितं एपणादोषा दश भवन्ति ॥
Jan Education International
For Personal & Private Use Only
Page #112
--------------------------------------------------------------------------
________________
प्रथम: प्रकाश
योग- | तदेवमुद्गमोत्पादनैषणादोषाः संहता द्विचत्वारिंशद्भवन्ति, ते च भिक्षादोषास्तैरदूषितमन्नमशनखाद्यस्वाद्यभेदमु- | शास्त्रम्
पलक्षणत्वात्पानं सौवीरादि, तथा रजोहरणमुखवस्त्रचोलपट्टपात्रादिस्थविरकल्पिकयोग्यश्चतुर्दशविधो, जिनकल्पिक
योग्यश्च द्वादशविध औधिक उपधिः, आर्यिकायोग्यश्च पञ्चविंशतिविधः। औपग्रहिकश्च शय्यापीठफलकचर्मदण्डा॥४७॥ दिरुपलक्षणादेव परिगृह्यते । न ह्यौधिकरजोहरणाद्यन्तरेण औपग्रहिकपीठफलकाद्यन्तरेण च वर्षासु हेमन्तग्रीष्म
योरपि जलकणिकाकुलायामनूपभूमौ महाव्रतसंरक्षणं कर्तुं क्षमम् । एतद्दोषविशुद्धमन्नादि यन्मुनिरादत्ते सा एषणमेषणा यथागममन्नादेरन्वेषणम् । अत्र " इषोनिच्छायाम्" ॥५।३।११२ ॥ इति स्त्रियामनस्तस्यां च समितिरेषणासमितिः । इयं गवेषणारूपा एपणा, ग्रासेषणाप्यनयोपलक्ष्यते तस्यां च पञ्च दोषाः । तद्यथा
संयोजना १ प्रमाणातिरिक्तता २ अङ्गारो ३ धूमः ४ कारणाभावश्च ५ । तत्र रसलोभाद्रव्यस्य मण्डकादेव्यान्तरेण खण्डघृतादिना वसतेबेहिरन्तवों योजनं संयोजना ।।१॥ धृतिबलसंयमयोगा यावता न सीदन्ति तदा
हारप्रमाणम् । अधिकाहारस्तु वमनाय मृत्यवे व्याधये चेति तं परिहरेदिति प्रमाणातिरिक्ततादोषः॥२॥ स्वा. Hद्वन्नं तदातारं वा प्रशंसन् यद्धंक्ते सरागाग्निना चरित्रेन्धनस्याङ्गारीकरणादङ्गारो दोषः ॥३॥ निन्दन् पुनश्चारित्रे
न्धनं दहन धूमकरणाध्धूमो दोषः ॥ ४॥ क्षुद्वेदनाया असहनं क्षामस्य च वैयावृत्त्याकरणमीर्यासमितेरविशुद्धिः प्रेक्षोत्प्रेक्षादेः संयमस्य चापालनं क्षुधातुरस्य प्रबलाग्न्युदयात्प्राणप्रहाणशङ्का आरौद्रपरिहारेण धर्मध्यानस्थिरीकरणं चेति भोजनकारणानि तदभावे भुञ्जानस्य कारणाभावदोषः ॥ ५॥ यदाह
(१) जलमयभूमौ
H॥४७॥
For Personal & Private Use Only
Page #113
--------------------------------------------------------------------------
________________
उत्पादनोद्गमैषणाधूमांगारप्रमाणकारणतः । संयोजनाच्च पिण्डं शोधयतामेषणासमितिः ॥१॥ इति ॥३८॥
आदाननिक्षेपसमितिमाहश्रासनादीनि संवीक्ष्य प्रतिलिख्य च यत्नतः। गृह्णीयान्निक्षिपेद्वा यत्सादानसमितिः स्मृता ।३।।
आसनं विष्टरः आदिशद्वाद्वस्त्रपात्रफलकदण्डादेः परिग्रहः । तान्यासनादीनि संवीक्ष्य चक्षुषा प्रतिलिख्य रजोहरणादिना यत्नत इत्युपयोगपूर्वकम् । अन्यथा सम्यक्प्रतिलेखना न स्यात् । यदाह
पडिलेहणं कुणंतो मिहो कहं कुणइ जणवयकहं वा । देइ व पच्चक्खाणं वाएइ सयं पडिच्छइ वा ॥१॥ पंढवीआउक्काएतेऊवाऊवणस्सइतसाणं । पडिलेहणापमत्तो छण्डंपि विराहगो भणिओ॥२॥
यद्गृह्मीयादाददीत निक्षिपेत् स्थापयेत्संवीक्षितप्रतिलिखितभूमौ सा आदाननिक्षेपसमितिः । भीमो भीमसेन इति न्यायादादानसमितिः ॥ ३६॥ उत्सर्गसमितिमाहकफमूत्रमलप्रायं निर्जन्तुजगतीतले । यत्नाद्यदुत्सृजेत्साधुः सोत्सर्गसमितिर्भवेत्॥ ४० ॥
कफः श्लेष्मा मुखनासिकासञ्चारी मूत्रं प्रश्रवणं मलो विष्ठा प्रायग्रहणादन्यदपि परिष्ठापनायोग्यं वस्त्रपात्रभतपानादि गृह्यते । निर्जन्तुस्त्रसस्थावरजन्तुरहिता स्वयं च निर्जन्तुर्या जगती तस्यास्तलं स्थण्डिलमित्यर्थः। तत्र
(१) प्रतिलेखनां कुर्वन् मिथः कथां करोति जनपदकथां वा । ददाति वा प्रत्याख्यानं वाचयति स्वयं प्रतीच्छति वा ।। (२) पृथिव्यपकायतेजोवायुवनस्पतित्रसानाम् । प्रतिलेखनाप्रमत्तः षण्णामपि विराधको भणितः ।।
in Education Interna
For Personal & Private Use Only
Page #114
--------------------------------------------------------------------------
________________
याग
प्रथम: प्रकाशः।
शास्त्रम्
॥४८॥
यन्नादुपयोगपूर्वकं यदुत्सृजेत्साधुः सोत्सर्गसमितिः ॥ ४० ॥
अथ गुप्तीनामवसरः, तत्र मनोगुप्तिमाहविमुक्तकल्पनाजालं समत्वे सुप्रतिष्ठितम् । आत्मारामं मनस्तज्ज्ञैर्मनोगुप्तिरुदाहृता ॥४१॥
इह मनोगुप्तिस्त्रिधा । प्रातरौद्रध्यानानुबन्धिकल्पनाजालवियोगः प्रथमा । शास्त्रानुसारिणी परलोकसाधिका धर्मध्यानानुवन्धिनी माध्यस्थ्यपरिणतिद्वितीया । कुशलाकुशलमनोवृत्तिनिरोधेन योगनिरोधावस्थाभाविन्यात्मारामता तृतीया । ता एतास्तिस्रोऽपि विशेषणत्रयेणाह-विमुक्तकल्पनाजालमिति समत्वे सुप्रतिष्ठितमिति आत्माराममिति च एवंविधं मनो मनोगुप्तिः ॥ ४१ ॥
वाग्गुप्तिमाहसंज्ञादिपरिहारेण यन्मौनस्यावलम्बनम् । वाग्वृत्तेः संवृतिर्वा या सा वाग्गुप्तिरिहोच्यते ॥४२॥ ___ संज्ञा मुखनयनभूविकाराङ्गुल्याच्छोटनादिका अर्थसूचिकाश्चेष्टाःआदिशब्दालोष्टक्षेपोलीभावकासितहुतादीनि गृह्यन्ते । संज्ञादीनां यः परिहारस्तेन यन्मौनमभाषणं तस्यावलबनमभिग्रहः। संज्ञादिना हि प्रयोजनानि सूचयतो मौनं निष्फलमेवेत्येका वाग्गुप्तिः । वाचनप्रच्छनपृष्टव्याकरणादिषु लोकागमाविरोधेन मुखवस्त्रिकाच्छादितवक्त्रस्य भाषमाणस्यापि वाग्वृत्तेः संवृतिर्वाग्विनियन्त्रणं द्वितीया वाग्गुप्तिः। आभ्यां भेदाभ्यां वाग्गुप्तेः सर्वथा वाग्निरोधः सम्यग्भाषणं च स्वरूपं प्रतिपादितं भवति, भाषासमितौ तु सम्यग्वाक्प्रवृत्तिरेवेति वाग्गुप्तिभाषासमित्योर्भेदः।
॥४८॥
Inn Education intema 12
For Personal & Private Use Only
Page #115
--------------------------------------------------------------------------
________________
* 100 K++* 11K+++
यदाहु:--
समय नियमा गुत्तो गुतो समियत्तयम्मि भयणिओ । कुसलवयमुईरंतो जं वइगुत्तो वि समिओ वि ॥ १ ॥४२॥ अथ काय गुप्तिः सा च द्विधा चेष्टानिवृत्तिलक्षणा यथासूत्रं चेष्टानियमलक्षणा च तत्राद्यामादउपसर्ग कायोत्सर्गजुषो मुनेः । स्थिरीभावः शरीरस्य कायगुप्तिर्निगद्यते ॥ ४३ ॥
उपसर्गा देवमानुपतिर्यकृता उपद्रवाः । उपलक्षणत्वात् क्षुत्पिपासादयः परीपहा अपि गृह्यन्ते तेषां प्रसङ्गः सन्निपातः । अपि शब्दात्तदभावेऽपि मुनेः साधोः कायः शरीरं तस्योत्सर्गस्त्यागस्तत्र निरपेक्षतालचणस्तं जुषते तस्य कायोत्सर्गजुषो यः स्थिरीभावो निश्चलता योगनिरोधं कुर्वतः सर्वथा शरीरचेष्टापरिहारो वा यः, सा कायगुप्तिः ॥ ४३ ॥
द्वितीयामाह
शयनासननिक्षेपादानचंक्रमणेषु यः । स्थानेषु चेष्टानियमः कायगुप्तिस्तु साऽपरा ॥ ४४ ॥ शयनमागमोक्तो निद्राकालः स च रात्रावेव न दिवा । अन्यत्र ग्लानाध्वश्रान्तवृद्धादेः । तत्रापि प्रथमयामे - तिक्रान्ते गुरूनापृच्छ्य प्रमाणयुक्तायां वसतौ संवीक्ष्य प्रमृज्य च भूमिं संहत्यास्तीर्य च संस्तरणपट्टकद्वय मूर्ध्वमध कार्य सपादं मुखवस्त्रिकार जोहरणाभ्यां प्रमृज्यानुज्ञापितसंस्तारकावस्थानः पठितपश्ञ्चनमस्कार सामायिकसूत्रः १ समितो नियमाद्गुतो गुप्तः समितत्वे भजनीयः । कुशलवाचमुदीरयन् यत् वाम्गुप्तोऽपि समितोऽपि ॥ १ ॥
९
For Personal & Private Use Only
******++******+03-04
Page #116
--------------------------------------------------------------------------
________________
योग
शास्रम्
॥१९॥
कृतवामवाहूपधान आकुञ्चितजानुकः कुक्कुटीवद्वियति प्रसारितजङ्घो वा प्रमार्जितक्षोणीतलन्यस्तचरणो वा भूयः प्रथमः सङ्कोचसमये प्रमार्जितसंदंशकः उद्वर्तनकाले च मुखवस्त्रिकाप्रमृष्टकायो नात्यन्ततीव्रनिद्रः शयीत । प्रमाणयुक्ता मप्रकाशः। तु वसतिहस्तत्रयप्रमिते भूप्रदेशे प्रत्येकं. सभाजनानां साधूनां यत्रावस्थानं सकलावकाशपूरणं च स्यात् । आसनमुपवेशनं तद्यत्र प्रदेशे चिकीर्पितं तं चक्षुषा निरीक्ष्य प्रमृज्य च रजोहरणेन बहिर्निषद्यामास्तीर्योपविशेष उपवि. ष्टोऽप्याकुश्चनप्रसारणादि तथैव कुर्वीत वर्षादिषु च वृषीपीठादिषक्तयैव सामाचार्योपविशेत् । निक्षेपादाने च दण्डाद्युपकरणविषये ते अपि प्रत्यवेक्ष्य प्रमृज्य च विधेये । चंक्रमणं गमनं तदप्यावश्यकप्रयोजनवतः साधोः पुरस्ताद्युगमात्रप्रदेशसन्निवोशितदृष्टेरप्रमत्तस्य त्रसस्थावरभूतानि संरक्षतोऽत्वरया पदन्यासमाचरतः प्रशस्तं । स्थानमूर्ध्वस्थितिलक्षणमवष्टम्भादि च प्रत्यवेक्षितप्रमार्जितप्रदेशविषयम् । एतेषु चेष्टानियमः स्वच्छन्दचेष्टापरिहारो यः सो अपरा द्वितीया कायगुप्तिरिति ॥ ४४ ॥
एतासामागमप्रसिद्धं मातृत्वमुपदर्शयतिएताश्चारित्रगात्रस्य जननात्परिपालनात्। संशोधनाच्च साधूनां मातरोऽष्टौ प्रकीर्तिताः॥४५॥ | ___एताः समितिगुप्तयः शास्त्रेऽष्टौ मातर इति प्रसिद्धाः । मातृत्वे हेतूनाह । साधूनां सम्बन्धि चारित्रमेव गात्रमङ्गं || तस्य जननादभूतस्य प्रादुर्भावनात् । जनितस्य च चारित्रगात्रस्य परिपालनात्सर्वोपद्रवनिवारणेन पोषणेन च वृद्धिनयनात् । चारित्रगात्रस्यैवातिचारमलिनस्य सतः संशोधनानिर्मलीकरणादिति ॥ ४५ ॥ चारित्रं व्याख्यायोपसंहरति
॥४६॥
Lain Education inte
r d!
For Personal & Private Use Only
Page #117
--------------------------------------------------------------------------
________________
सर्वात्मना यतीन्द्राणामेतच्चारित्रमीरितम्। यतिधर्मानुरक्तानां देशतः स्यादगारिणाम्॥४६॥
द्विधा चारित्रं सर्वदेशभेदात् । सर्वात्मना चारित्रं सर्वसावद्ययोगविरतिलक्षणम् । यतीन्द्राणामनगारिश्रेष्ठानामेतन्मूलगुणोत्तरगुणस्वरूपमीरितम्। धातूनामनेकार्थत्वात्प्रतिपादितम् । देशचारित्रं तु केषामित्याह । अगारिणां गृहस्थानां देशत एकदेशविरतिलक्षणम् । किं विशिष्टानामगारिणां? यतिधर्मानुरक्तानां यतिधर्मे सर्वविरतिचारित्र रूपे अनुरक्तानां संहननादिदोषादकुर्वतामपि प्रीतिमताम् । यदाह-सर्वविरतिलालसः खलु देशविरतिपरिणाम: यतिधर्मानुरागरहितानां तु गृहस्थानां देशविरतिरपि न सम्यगिति देशतः स्यादगारिणामित्युक्तम् ॥ ४६ ॥ ____ तत्र यादृशो गृहस्थो धर्माधिकारी तादृशमुपदर्शयितुं तथाहीत्यनेन प्रस्तावनामाह, तथाहीत्युपदर्शने निपातसमुदायःन्यायसम्पन्नविभवः शिष्टाचारप्रशंसकः। कुलशीलसमैः सार्धं कृतोद्वाहोऽन्यगोत्रजैः ॥४७॥ पापभीरुः प्रसिद्धं च देशाचारं समाचरन् । अवर्मवादी न क्वापि राजादिषु विशेषतः॥४८॥
अनतिव्यक्तगुप्ते च स्थाने सुप्रातिवेश्मिके । अनेकनिर्गमद्वारविवर्जितनिकेतनः ॥ ४६ ॥ * कृतसङ्गः सदाचारैर्मातापित्रोश्च पूजकः । त्यजन्नुपप्लुतं स्थानमप्रवृत्तश्च गर्हिते ॥ ५० ॥
व्ययमायोचितं कुर्वन् वेषं वित्तानुसारतः।अष्टभिर्धीगुणैर्युक्तः शृण्वानो धर्ममन्वहम् ॥५१॥
For Personel Private Use Only
Page #118
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
अजीर्णे भोजनत्यागी काले भोक्ता चसात्म्यतः। अन्योऽन्याप्रतिबन्धेन त्रिवर्गमपि साधयन्।५२ प्रथमः यथावदतिथौ साधौ दीने च प्रतिपत्तिकृत् । सदानभिनिविष्टश्च पक्षपाती गुणेषु च ॥५३॥ । प्रकाशः। अदेशाकालयोश्चर्या त्यजन् जानन् बलाबलम् ।वृत्तस्थज्ञानवृद्धानां पूजकः पोष्यपोषकः ॥५४॥ | दीर्घदर्शी विशेषज्ञः कृतज्ञो लोकवल्लभः । सलजः सदयः सौम्यः परोपकृतिकर्मठः॥५५॥ अन्तरङ्गारिषड्वर्गपरिहारपरायणः। वशीकृतेन्द्रियग्रामो गृहिधर्माय कल्पते ॥ ५६ ॥
(दशभिः कुलकम् ) खामिद्रोहमित्रद्रोहविश्वसितवञ्चनचौर्यादिगार्थोपार्जनपरिहारेणार्थोपार्जनोपायभूतः स्वस्ववर्णानुरूपः सदाचारो न्यायस्तेन सम्पन्न उत्पनो विभवः सम्पद्यस्य स तथा । न्यायसम्पन्नो हि विभव इहलोकहिताय । अशङ्कनीयतया स्वशरीरेण तत्फलभोगान्मित्रस्वजनादौ संविभागकरणाच्च । यदाह
सर्वत्र शुचयो धीराः स्वकर्माचलगर्विताः । कुकर्मनिहतात्मानः पापाः सर्वत्र शङ्किताः॥१॥
परलोकहिताय च सत्पात्रेषु विनियोगाद्दीनादौ कृपया वितरणाच्च । अन्यायोपात्तस्तु लोकद्वयेऽप्यहितायैव । इहलोके हि लोकविरुद्धकारिणो वधबन्धादयो दोषाः परलोके नरकादिगमनादयः। यद्यपि कस्यचित्पापानुबन्धिपुण्यकर्मवशादैहलौकिकी विपन्न दृश्यते तथाप्यायत्यामवश्यम्भाविन्येव । यदाह
Jun Education inter
For Personal & Private Use Only
Page #119
--------------------------------------------------------------------------
________________
पापेनैवार्थरागान्धः फलमानोति यत् कचित् । बडिशामिषवत्तत्तमविनाश्य न जीर्यति ॥ १॥ न्याय एव परमार्थतोऽर्थोपार्जनोपायोपनिषत् । यदाहनिपानमिव मण्डूकाः सरः पूर्णमिवाण्डजाः। शुभकर्माणमायान्ति विवशाः सर्वसम्पदः॥१॥ विभवत्त्वं च गार्हस्थ्ये प्रधानं कारणमित्यादौ न्यायसम्पन्नविभव इत्युक्तम् ॥१॥
तथा शिष्टाचारप्रशंसकः शिष्यन्ते स शिष्टा वृत्तस्थज्ञानवृद्धसेवोपलब्धविशद्धशिक्षाः पुरुषविशेषास्तेषामाचारश्चरितम् । यथा
लोकापवादभीरुत्वं दीनाभ्युद्धरणादरः । कृतज्ञता सुदाक्षिण्यं सदाचारः प्रकीर्जितः ॥१॥ इत्यादि ।
तस्य प्रशंसकः । यथाविपद्युच्चैः स्थेयं पदमनुविधेयं च महता, प्रिया न्याय्या वृत्तिर्मलिनमसुमङ्गेऽप्यसुकरम् ॥ असन्तो नाम्योः सुहृदपि न याच्यस्तनुधनः, सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ १॥२॥
तथा कुलं पितृपितामहादिपूर्वपुरुषवंशः, शीलं मद्यमांसनिशाभोजनादिपरिहाररूपः समाचारस्ताभ्यां समा- 2 स्तुल्याः समकुलशीला इत्यर्थः । गोत्रं नाम तथाविधैकपुरुषप्रभवो वंशस्तत्र जाता गोत्रजाः तेभ्योऽन्येऽन्यगोत्रजास्तैः सार्धं कृतोद्वाहो विहितविवाहः । अग्निदेवादिसाक्षिकं पाणिग्रहणं विवाहः । स च लोकेऽष्टविधः । तत्रालङ्कृत्य कन्यादानं ब्राह्मो विवाहः १ । विभवविनियोगेन कन्यादानं प्राजापत्यः २ । गोमिथुनदानपूर्वकमार्षः ३ । यत्र यज्ञार्थमृत्विजः कन्याप्रदानमेव दक्षिणा स दैवः ४। एते धा विवाहाश्चत्वारः । मातुः पितुर्वन्धूनां
For Personal & Private Use Only
Jain Education Internatif
Page #120
--------------------------------------------------------------------------
________________
प्रथमः
प्रकाशः।
योग
चाप्रामाण्यात्परस्परानुरागण मिथः समवायागान्धर्वः ५। पणबन्धेन कन्याप्रदानमासुरः ६ । प्रसह्य कन्याग्रहणाजाखम न
द्राक्षसः ७। सुप्तप्रमत्तकन्याग्रहणात्पैशाचः ८। एते चत्वारोऽप्यधाः । यदि वधूवरयोः परस्परं रुचिरस्ति |
तदा अधD अपि धाः । शुद्धकलत्रलाभफलो विवाहः । अशुद्धभायोंदियोगेन नरक एव । तत्फलं वध॥५१॥ रक्षणमाचरतः सुजातसुतसन्ततिरनुपहता चित्तनिवृत्तिगृहकृत्यसुविहितत्वमाभिजात्याचारविशुद्धत्वं देवातिथिबान्ध
वसत्कारानवद्यत्वं चेति । वधूरक्षणोपायास्त्वेते-गृहकर्मविनियोगः १ परिमितोऽर्थसंयोगो २ ऽस्वातन्त्र्यम् ३ सदा च मातृतुन्यस्त्रीलोकावरोधन ४ मिति ॥ ३॥
पापानि दृष्टादृष्टापायकारणानि कर्माणि तेभ्यो भीरुः । तत्र दृष्टापायकारणानि चौर्यपारदारिकत्वबूतरमणादीनि इहलोकेऽपि सकललोक प्रसिद्धविडस्वनास्थानानि । अदृष्टापायकारणानि मद्यमांससेवनादीनि शास्त्रनिरूपितनरकादियातनाफलानि ॥४॥
प्रसिद्धः तथाविधापरशिष्टसम्मततया दूरं रूढिमागतः। देशाचारो भोजनाच्छादनादिचित्रक्रियात्मकः सकलमण्डलव्यवहारस्तं सम्यगाचरन् , तदाचारातिलङ्घने हि तद्देशवासिजनतया विरोधसम्भावनादकल्याणलाभः स्यात् ।।
अवोऽश्लाघा तं वदतीत्येवंशीलोऽवर्णवादी न कापि जघन्योत्तममध्यमभेदेषु जन्तुषु । परावर्णवादी हि बहुदोषः। यदाह-- परपरिभवपरिवादादात्मोत्कर्षाच्च बध्यते कर्म । नीचैर्गोत्रं प्रतिभवमनेकभवकोटिदुर्मोचम् ॥१॥
तदेवं सकलजनगोचरोऽप्यवर्मवादो न श्रेयान् । किं पुना राजामात्यपुरोहितादिषु बहुजनमान्येषु । राजाद्य
॥११॥
in Education International
For Personal & Private Use Only
Page #121
--------------------------------------------------------------------------
________________
Jain Education Inte
-----
वर्णवादाद्धि वित्तप्राणनाशनादिरपि दोषः स्यात् ॥ ६ ॥
तथा अनेकं बहु यन्निर्गमद्वारं उपलक्षणत्वात्तदेव च प्रवेशहारं तेन विवर्जितं निकेतनं यस्य स तथा । बहुषु हि निर्गमप्रवेशद्वारेष्वनुपलच्यमाणनिर्गमप्रवेशानां दुष्टलोकानामापाते स्त्रीद्रविणादिविप्लवः स्यात् । अत्र चानेकद्वारतायाः प्रतिषेधेन विधिराक्षिप्यते । ततः प्रतिनियतद्वारसुरक्षितगृहो गृहस्थः स्यादिति लभ्यते । तथाविधमपि निकेतनं स्थान एव निवेशयितुं युक्तं नास्थाने । स्थानं तु शन्यादिदोषरहितं बहुलदूर्वा प्रवालकुशस्तम्ब प्रशस्तवगन्धमृत्तिका सुस्वादुजलोद्गमनिधानादिमच्च । स्थानगुणदोषपरिज्ञानं च शकुन स्वप्नोपश्रुतिप्रभृतिनिमित्तादिबलेन । स्थानमेव विशिनष्टि- अतिव्यक्तमतिप्रकटमृतिगुप्तमतिप्रच्छन्नं तन्निषेधादनतिव्यक्तगुप्तम् । तत्र अतिव्यक्ते ह्यसनिहितगृहान्तरतया परिपार्श्वतो निरावरणतया चौरादयोऽभिभवेयुः । अतिगुप्ते च सर्वतो गृहान्तरैर्निरुद्धत्वान्न स्वशोभां लभते, प्रदीपनकाद्युपद्रवेषु च दुःखनिर्गमप्रवेशं गृहं भवति । पुनः कथंभूते स्थाने ? सुप्रातिवेश्मिके शोभनाः शीलादिसम्पन्नाः प्रातिवेश्मिका यत्र । कुशलप्रातिवेश्मिकत्वे हि तदालापश्रवणतच्चेष्टादर्शनादिवशात् स्वतः सगुणस्यापि गुणहानिः स्यात् । दुष्प्रातिवेश्मिकास्त्वेते शास्त्रप्रतिषिद्धाः -
खरियातिरिक्खजोगीता लायरसमणमाहणसुसाया । वग्गुरिश्रवाह गुम्मियहरिएस पुलिंदमच्छंधा ॥ ९ ॥ ७ ॥ तथा कृतः सङ्गो येन स कृतसङ्गः सन् शोभन आचार इहपरलोकहिता प्रवृत्तिर्येषां ते सदाचारास्तैर्न तु कितवधूर्त्तविटभट्टभण्डनटादिभिस्तत्सङ्गे हि सदपि शीलं विलीयेत । यदाह
१ स्वरिका ( दासी ) तिर्यग्योनितालाचरश्रमणब्राह्मणस्मशानाः । वागुरिकव्याधगौल्मिकहरिकेशपुलिन्द्रमत्स्यन्धाः ॥१॥
For Personal & Private Use Only
R+K+000-3-****
Page #122
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥ ५२ ॥
Jain Education Intern
यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि । श्रथासज्जनगोष्ठीषु पतिष्यसि पतिष्यसि ॥ १ ॥ सङ्गः सर्वात्मना त्याज्यः स चेत्यक्तुं न शक्यते । स सद्भिः सह कर्त्तव्यः सन्तः सङ्गस्य भेषजम् ॥ २ ॥
॥ इति च ॥ ८ ॥
तथा माता जननी पिता जनकस्तयोः पूजकस्त्रिसन्ध्यं प्रणामकरणेन परलोकहितानुष्ठाननियोजनेन सकलव्यापारेषु तदाज्ञया प्रवृत्त्या वर्णगन्धादिप्रधानस्य पुष्पफलादिषस्तुन उपढौकनेन तद्भोगे भोगेन चान्नादीनामन्यत्र तदनुचितादिति । माता च पिता च मातापितरौ " आ द्वन्द्वे " ।। ३ । २ । ३६ ॥ इत्यात्वं मातुश्चाभ्याहतत्वात्पूर्वनिपातः । यन्मनुः -
उपाध्याया दशाचार्य श्राचार्याणां शतं पिता । सहस्रं तु पितुर्माता गौरवेणातिरिच्यते ॥ १ ॥ ६ ॥ तथा त्यजन् परिहरन् उपप्लुतं स्वचक्रपरचक्रविरोधाद्दुर्भिचमारीतिजनविरोधादे श्वास्वस्थीभूतं यत् स्थानं ग्रामनगरादि | अत्यज्यमाने हि तस्मिन् धर्म्मार्थकामानां पूर्वार्जितानां विनाशेन नवानां चानुपार्जनेनोभयलोकभ्रंश एव स्यात् ॥ १० ॥
तथा गर्हितं देशजातिकुलापेक्षया निन्दितं कर्म्म तत्राप्रवृत्तः । देशगर्हितं यथा - " सौवीरेषु कृषिकर्म्म । लाटेषु मद्यसन्धानम् ।
जात्यपेक्षया यथा— ब्राह्मणस्य सुरापानं तिललवणादिविक्रयश्च । कुलापेचया यथा - चौलुक्यानां मद्यपानम् गर्हितकर्म्मकारिणो हि शेषमपि धर्म्य कर्मोपहासाय भवति ॥ ११ ॥
१९- 9380..0K
For Personal & Private Use Only
KOK
प्रथमः
प्रकाशः ।
॥ ५२ ॥
Page #123
--------------------------------------------------------------------------
________________
तथा व्ययो भर्त्तव्यभरणस्वमोगदेवतातिथिपूजनादिप्रयोजने द्रव्यविनियोगः । प्रायः कृषिपाशुपान्यवाणिज्यसेवादिजनितो द्रव्यलाभः तस्योचितमनुरूपं व्ययं कुर्वन् । यदाह
" लामोचियदाणे लाभोचियभोगे लाभोचियनिहिकरे सिया।" आयोचितश्च व्ययश्चतुर्भागादितया कैश्चिदुच्यते । यदाहपादमायानिधिं कुर्यात्पादं वित्ताय खट्टयेत । धर्मोपभोगयोः पादं पादं भर्तव्यपोषणे ॥१॥ केचिवाहुःआयादई नियुञ्जीत धर्मे समधिकं ततः। शेषेण शेष कुर्वीत यत्नतस्तुच्छमैहिकम् ॥१॥ पायानुचितो हि व्ययो रोगमिव शरीरं कृशीकृत्य विभवसारमाखिलव्यवहारासमर्थ पुरुषं कुर्वीत । उक्तं चआयव्ययमनालोच्य यस्तु वैश्रवणायते । अचिरेणव कालेन सोडत वै श्रमणायते ॥१॥१२॥
तथा वेषो वस्त्रालङ्करणादिभोगः। वित्तं विभव उपलक्षणाद्वयोऽवस्थादेशकालजात्यादिग्रहः। तदनुसारेण तदानुरूप्येण कुर्वन्निति सम्बद्ध्यते । विभवाद्यननुसारेण वेषं कुर्वतो जनोपहसनीयतातुच्छत्वान्यायसम्भावनादयो दोषाः । अथवा व्ययमायोचितं कुर्वन्नेव वेषं वित्तानुसारेण कुर्वन्नेवेत्यपरोऽर्थः। यो हि सत्यप्याये कार्पण्याद् व्ययं न करोति सत्यपि विचे कुचेलत्वादिधर्मा भवति । स लोकगर्हितो धर्मेऽप्यनधिकारीति ॥ १३ ॥
तथा अष्टभिधीगुणयुक्तः धियो बुद्धेर्गणाः शुश्रूषादयः। ते त्वमीशुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहोऽपोहोऽर्थविज्ञानं तत्वज्ञानं च धीगुणाः॥१॥ (१) लाभोचितदान लाभोचितभोगो लाभोचितनिधिकरः स्यात् ।
in Education Inter IT
For Personal & Private Use Only
Page #124
--------------------------------------------------------------------------
________________
योगशाखम्
प्रथम: प्रकाशः।
॥ ५३॥
तत्र शुश्रषा श्रोतुमिच्छा । श्रवणमाकर्णनम् । ग्रहणं शास्त्रार्थोपादानम् । धारणमविस्मरणम् । ऊहो विज्ञातमर्थमवलम्ब्यान्येषु तथाविधेषु व्याप्त्या वितर्कणम् । अपोह उक्तियुक्तिभ्यां विरुद्धादर्थाद् हिंसादिकात प्रत्यपायसम्भावनया व्यावर्त्तनम् । अथवा ऊहः सामान्यज्ञानमपोहो विशेषज्ञानम् । अर्थविज्ञानम्रहापोहयोगान्मोहसन्देह
विपर्यासव्युदासेन ज्ञानम् । तत्वज्ञानमूहापोहविज्ञानविशुद्धमिदमित्थमेवेति निश्चयः। शुश्रूषादिभिर्हि उपाहितप्रज्ञा- प्रकर्षः पुमान कदाचिदकल्याणमामोति । एते च बुद्धिगुणा यथासम्भवं द्रष्टव्याः॥१४॥
तथा शृण्वानस्ताच्छील्येन धमेमभ्युदयनिःश्रेयसहेतुः शृण्वन् अन्वहं प्रतिदिनं धर्मश्रवणपरो हि मन खेदाप
मानोति । यदाहनिर्वाति बुद्ध्यते मूढम् प्रधानमिति श्रवणमात्रामोजने नवं भोजनं त्यजति"
क्लान्तमपोज्झति खेदं तप्तं निर्वाति बुद्ध्यते मूढम् । स्थिरतामेति व्याकुलमुपयुक्तसुभाषितं चेतः ॥ १॥ प्रत्यहं धर्मश्रवणं चोत्तरोत्तरगुणप्रतिपत्तिसाधनत्वात्प्रधानमिति श्रवणमात्राबुद्धिगुणादस्य भेदः ॥१५॥
तथा अजीर्णे अजरणे पूर्वभोजनस्य अथवा अजीर्णे परिपाकमनागते पूर्वभोजने नवं भोजनं त्यजतीत्येवंशीलः । अजीर्णभोजने हि सर्वरोगमूलस्याजीर्णस्य वृद्धिरेव कृता भवति । यदाह-"अजीर्णप्रभवा रोगा इति" अजीणं च लिङ्गतो ज्ञातव्यम् । यदाह
मलवातयोर्विगन्धो विभेदो गात्रगौरवमरुच्यम् । अविशुद्धश्चोद्गारः षडजीर्णव्यक्तालगानि ॥ १॥१६॥
तथा काले बुभुक्षासमये भोक्ता अन्नाद्युपजीवकः । भोक्तेति साधौ तुन, तेन लौल्यपरिहारेण यथाग्निबलं मितं भुञ्जीत । अतिरिक्तभोजनं हि वमनविरेचनमरणादिना न साधु भवति, यो हि मितं भुङ्क्ते स बहु भुङ्क्ते।
॥६
Jain Education Intel
For Personal & Private Use Only
Page #125
--------------------------------------------------------------------------
________________
अक्षुधितेन ह्यमृतमपि भुक्तं भवति विषम् । तथा सुत्कालातिक्रमादन्नद्वेषो देहसादश्च भवति । विध्यातेऽग्नौ किं नामेन्धनं कुर्यादिति ।
पानाहारादयो यस्याविरुद्धाः प्रकृतेरपि । सुखित्वायावकल्पन्ते तत्सात्म्यमिति गीयते ॥ १॥
एवं लक्षणात्सात्म्यात् आजन्म सात्म्येन भुक्तं विषमपि पथ्यं भवति । परमसात्म्यमपि पथ्यं सेवेत न पुन: सात्म्यप्राप्तमप्यपथ्यम् । सर्व बलवतः पथ्यमिति मत्वा न कालकूटं खादेत् । सुशिक्षितोऽपि विषतन्त्रज्ञो म्रियत एव कदाचिद्विपात् ॥ १७ ॥
तथा त्रिवर्गो धर्मार्थकामः तत्र यतोऽभ्युदयनिःश्रेयसासद्धिः स धर्मः। यतः सर्वप्रयोजनसिद्धिः सोऽर्थः। यत आभिमानिकरसानुविद्धा सर्वेन्द्रियप्रीतिः स कामः। ततोऽन्योऽन्यस्य परस्परं यो प्रतिबन्धोऽनुपघातस्तेन त्रिवर्गमपि न त्वेकैकं साधयेत् । यदाह__ यस्य त्रिवर्गशून्यानि दिनान्यायान्ति यान्ति च । स लोहकारभाव श्वसनपि न जीवति ॥१॥
तत्र धर्मार्थयोरुपघातेन तादात्विकविषयसुखलुब्धो वनगज इव को नाम न भवत्यास्पदमापदाम् । न च तस्य धनं धर्मः शरीरं वा यस्य कामेऽत्यन्तासक्तिः । धर्मकामातिक्रमानमुपार्जितं परेऽनुभवन्ति स्वयं तु परं पापस्य भाजनं सिंह इव सिन्धुरवधात् । अर्थकामातिक्रमेण च धर्मसेवा यतीनामेव धर्मो न गृहस्थानाम् । न च धर्मबाधयाऽर्थकामौ सेवेत । बीजभोजिनः कुटुम्बिन इव नास्त्यधार्मिकस्यायत्यां किमपि कल्याणम् । स खलु सुखी योऽमुत्र सुखाविरोधेन इहलोकसुखमनुभवति । एवमर्थवाधया धर्मकामौ सेवमानस्य ऋणाधिकत्वम् । कामबाधया
in Education International
For Personal & Private Use Only
Page #126
--------------------------------------------------------------------------
________________
प्रथमः
योगशास्त्रम्
प्रकाशः।
॥५४॥
धर्मार्थो सेवमानस्य गार्हस्थ्याभावः स्यात् । एवं च तादात्विकमूलहरकदर्येषु धर्मार्थकामानामन्योऽन्यबाधा सुलभैव तथाहि. यः किमप्यसञ्चिन्त्योत्पन्नमर्थमपव्यति स तादात्विकः । यः पितृपैतामहमर्थमन्यायेन भक्षयति स मूलहरः। यो भृत्यात्मपीडाभ्यामर्थ सचिनोति न तु कचिदपि व्ययते स कदर्यः। तत्र तादात्विकमूलहरयोरर्थभ्रंशेन धर्मकामयोर्विनाशानास्ति कल्याणं । कदर्यस्य त्वर्थसंग्रहो राजदायादतस्कराणां निधिर्न तु धर्मकामयोर्हेतुरिति । अनेन च त्रिवर्गवाधा गृहस्थस्य कर्तुमनुचितेति प्रतिपादितम् । यदा तु दैववशाद्वाधा सम्भवति, तदोत्तरोत्तरवाधायां पूर्वस्य पूर्वस्य बाधा रक्षणीया । तथाहि कामबाधायां धर्मार्थयोर्बाधा रक्षणीया, तयोः सतोः कामस्य सुकरात्पादकत्वात् । कामार्थयोस्तु बाधायां धर्मो रक्षणीयः धर्ममूलत्वादर्थकामयोः । उक्तं च
धर्मश्चेन्नावसीदेत कपालेनापि जीवतः । आढ्योऽसीत्यवगन्तव्यं धर्मवित्ता हि साधवः ॥१॥१८॥ तथा न विद्यते सततप्रवृत्तातिविशदैकाकारानुष्ठानतया तिथ्यादिदिनविभागो यस्य सोऽतिथिः । यथोक्तम्तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना । अतिथि तं विजानीयाच्छेषमभ्यागतं विदुः ॥ १॥
साधुः शिष्टाचाररतः सकललोकाऽवगीतः। दीनो दीच् चय इति वचनात् चीणसकलधर्मार्थकामाराधनशक्तिः तेषु प्रतिपत्तिकृत् प्रतिपत्तिरुपचारोऽन्नपानादिरूपः । कथं यथावत् औचित्यानतिक्रमेण । यदाह
औचित्यमेकमेकत्र गुणानां कोटिरेकतः । विषायते गुणग्राम औचित्यपरिवर्जितः ॥ १ ॥ १६ ॥
॥५४॥
Jan Education Inter
i
For Personal & Private Use Only
Page #127
--------------------------------------------------------------------------
________________
तथा अनभिनिविष्टोऽभिनिवेशरहितः । अभिनिवेशश्च नीतिपथमनागतस्यापि पराभिभवपरिणामेन कार्यस्या। रम्भः । स च नीचानां भवति । यदाह
दर्पः श्रमयति नीचान्निष्फलनयविगुणदुष्करारम्भैः । श्रोतोविलोमतरणव्यसनिमिरायास्यते मत्स्यैः ॥१॥ अनभिनिविष्टत्वं च कादाचित्कं शाठ्यान्नीचानामपि सम्भवत्यत आह । सदेति ॥२०॥
तथा गुणेषु सौजन्यौदार्यदाक्षिण्यस्थैर्यप्रियपूर्वप्रथमाभिभाषणादिषु स्वपरयोरुपकारकारणेष्वात्मधर्मेषु पक्षपाती । पक्षपातस्तु बहुमानतत्प्रशंसासाहाय्यकरणादिना अनुकूला प्रवृत्तिः । गुणपक्षपातिनो हि जीवा अवन्ध्यपुण्यबीजनिषेकेणेहामुत्र च गुणग्रामसम्पदमारोहन्ति ॥ २१ ॥ ___ तथा प्रतिषिद्धो देशोऽदेशः प्रतिषिद्धः कालोऽकालः तयोरदेशाकालयोश्चर्या चरणं तां त्यजन् परिहरन् प्रदेशकालचारी हि चौरादिभ्योऽवश्यमुपद्रवमामोति ॥ २२॥
तथा जानन् विदन् बलं शक्तिं स्वस्य परस्य वा द्रव्यक्षेत्रकालभावकृतं सामर्थ्यम् । अबलमपि तथैव । बलाबलपरिज्ञाने हि सर्वेः सफल आरम्भः अन्यथा तु विपर्ययः । यदाहस्थाने शमवतां शक्त्या व्यायामे वृद्धिरङ्गिनाम् । अयथावलमारम्भो निदानं चयसम्पदः॥१॥ इति ॥ २३ ॥
तथा वृत्तमनाचारपरिहारः सम्यगाचारपरिपालनं च, तत्र तिष्ठन्तीति वृत्तस्थाः। ज्ञानं हेयोपादेयवस्तुविनिश्चयस्तेन वृद्धा महान्तः । वृत्तस्थाश्च ते ज्ञानवृद्धाश्च तेषां पूजकः । पूजा च सेवाञ्जल्यासनाभ्युत्थानादिलचणा । वृत्तस्थज्ञानवन्तो हि पूज्यमाना नियमात्कल्पतरव इव सदुपदेशादिफलैः फलन्ति ॥ २४ ॥
in Education internations
For Personal & Private Use Only
Page #128
--------------------------------------------------------------------------
________________
प्रथमः
योगशास्त्रम्
प्रकाशः।
तथा पोष्या अवश्यमर्त्तव्या मातृपित्गृहिण्यपत्यादयस्तान् योगक्षेमकरणेन पोषयतीति पोषकः ॥ २५॥ तथा दीर्घकालभावित्वाद्दीर्घमर्थमनर्थ च पश्यति पर्यालोचयतीत्येवंशीलो दीर्घदर्शी ॥२६॥
तथा वस्त्ववस्तुनोः कृत्याकृत्ययोः स्वपरयोर्विशेषमन्तरं जानाति निश्चिनोतीति विशेषज्ञः, अविशेषज्ञो हि पुरुषः पशो तिरिच्यते । अथवा विशेषमात्मन एव गुणदोषाधिरोहलक्षणं जानातीति विशेषज्ञः। यदाह
प्रत्यहं प्रत्यवेक्षेत नरश्चरितमात्मनः । किं नु मे पशुभिस्तुल्यं किं नु सत्पुरुषैरिति ॥१॥२७॥ ___तथा कृतं परोपकृतं जानाति न निनुते कृतज्ञः, एवं हि तस्य कुशललाभो यदुपकारिणो बहु मन्यते, कृतघ्नस्य *तु निष्कृतिरेव नास्ति । यदाह
“कृतघ्ने नास्ति निष्कृतिरिति" ॥२८॥ तथा लोकानां विशिष्टजनानां विनयादिगुणैर्वल्लभः प्रियः। को हि गुणवतः प्रति प्रीतो न भवति । यस्तु न लोकवल्लभः स न केवलमात्मानं स्वस्य धर्मानुष्ठानमपि परैदेषयन् परेषा बोधिलाभभ्रंशहेतुर्भवति ॥ २६ ॥ तथा लज्जा वैयात्याभावः सह लज्जया सलजः। लजावान् हि प्राणप्रहाणेऽपि न प्रतिज्ञातमपजहाति । यदाह
लजां गुणौधजननी जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्त्तमानाः।
तेजस्विनः सुखमसूनपि सन्त्यजन्ति सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥१॥३०॥ तथा सह दयया दुखितजन्तुदुःखत्राणाभिलाषेण वर्चत इति सदयः। धर्मस्य दया मलमिति द्यामनन्ति । तदवश्यं दयां कुर्वीत । यदाह
॥ ५५॥
Jan Education internal
For Personal & Private Use Only
Page #129
--------------------------------------------------------------------------
________________
प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा । आत्मौपम्येन भूतानां दयां कुर्वीत मानवः॥ १॥३१॥ तथा सौम्योऽक्रूराकारः, क्रूरो हि लोकस्योद्वेगकारणम् ।। ३२ ॥
तथा परोपकृतौ परोपकारे कर्मठः कर्मशूरः कर्मणि घटते " तत्र घटते कर्मणष्ठः" ॥७।१।१३७॥ इति ठः, परोपकारपरो हि पुमान् सर्वस्य नेत्रामृताञ्जनम् ॥ ३३ ॥
तथा अन्तरङ्गश्वासावरिषड्वर्गस्तस्य परिहारोऽनासेवनं तत्र परायणस्तत्परः। तत्रायुक्तितः प्रयुक्ताः कामक्रोधलोभमानमदहर्षाः शिष्टगृहस्थानामन्तरङ्गोरिषड्वर्गः। तत्र परपरिगृहीताखनूढासु वा स्त्रीषु दुरभिसन्धिः कामः। परस्यात्मनो वा अपायमविचार्य कोपकरणं क्रोधः। दानाहेषु स्वधनाप्रदानं निष्कारणं परधनग्रहणं च लोभः । दुरभिनिवेशारोहो युक्तोक्ताग्रहणं वा मानः । कुलबलैश्वर्यरूपविद्यादिभिरहङ्कारकरणं परप्रधनिबन्धनं वा मदः । निर्निमित्तं परदुःखोत्पादनेन खस्स द्यूतपापाद्यनर्थसंश्रयेण वा मनःप्रमोदो हर्षः। एतेषां च परिहार्यत्वमपायहेतुत्वात् । यदाह
दाण्डक्यो नाम भोजः कामाद्राह्मणकन्यामभिमन्यमानः सबन्धुराष्ट्रो विननाश करालश्च वैदेहः १ । क्रोधाजनमेजयो ब्राह्मणेषु विक्रान्तस्तालजक्चश्व भृगुषु २ । लोभादैलश्चातुर्वर्ण्यमभ्याहारयमाणः सौवीरश्चाजबिन्दुः ३। मानाद्रावणः परदारानप्रयच्छन् दुर्योधनो राज्याभ्रंशं च ४। मदादम्भोद्भवो भूतावमानी हैहयश्चार्जुन: ५। हर्षाद्वातापिरगस्त्यमभ्यासादयन् वृष्णिसङ्घश्च द्वैपायन ६ मिति ॥ ३४ ॥
in Education internatio
For Personal & Private Use Only
Page #130
--------------------------------------------------------------------------
________________
योगशास्त्रम्
प्रथम: प्रकाशः।
॥५६॥
तथा वशीकृतः स्वच्छन्दतां त्याजित इन्द्रियग्रामो हृषीकसमूहो येन स तथा । अत्यन्तासक्तिपरिहारेण स्पर्शनादीन्द्रियविकारनिरोधकः । इन्द्रियजयो हि पुरुषाणां परमसम्पदे भवति । यदाह
आपदां कथितः पन्था इन्द्रियाणामसंयमः । तज्जयः सम्पदा मार्गो येनेष्टं तेन गम्यताम् ॥१॥ इन्द्रियाण्येव तत्सर्व यत् स्वर्गनरकावुभौ । निगृहीतविसृष्टानि स्वर्गाय नरकाय च ॥ २ ॥ सर्वथेन्द्रियनिरोधस्तु यतीनामेव धर्म इह तु श्रावकधर्मोचितगृहस्थस्वरूपमेवाधिकृतमित्येवमुक्तम् ॥ ३५॥ एवंविधगुणसमग्रो मनुष्यो गृहिधर्माय कल्पते अधिकतो भवतीति ॥ ५६ ॥
इति परमाईतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषन्नाग्नि
सञ्जातपट्टबन्धे श्रीयोगशास्ने स्वोपचं प्रथमप्रकाशविवरणस् ।
॥५६॥
Education tema
For Personal Private Use Only
Page #131
--------------------------------------------------------------------------
________________
___ अहम् द्वितीयः प्रकाशः।
गृहिधर्माय कल्पत इत्युक्तं गृहिधर्मश्च श्रावकधर्मः स च सम्यक्त्वमूलानि द्वादश व्रतानि तान्येवाहसम्यक्त्वमूलानि पञ्चाणुव्रतानि गुणास्त्रयः। शिक्षापदानि चत्वारि व्रतानि गृहमेधिनाम्॥१॥[1]
सम्यक्त्वं मूलं कारणं येषां तानि सम्यक्त्वमूलानि । अणूनि महाव्रतापेक्षया लघूनि व्रतानि अहिंसादीनि पञ्च एतानि मूलगुणाः । गुणास्त्रय उत्तरगुणरूपाः ते च गुणव्रतानि दिखतादीनि त्रीणि । शिक्षणं शिक्षा अभ्यासः शिक्षायै पदानि स्थानानि चत्वारि सामायिकादीनि प्रतिदिवसाभ्यसनीयानि तत एव गुणव्रतेभ्यो भेदः । गुणव्रतानि हि प्रायो यावजीविकानि गृहमोधिनां श्रावकाणाम् ॥१॥
सम्यक्त्वमूलानीत्युक्तं तत्र सम्यक्त्वं विभजतिया देवे देवताबुद्धिमुरौ च गुरुतामतिः। धर्मे च धर्मधीः शुद्धा सम्यक्त्वमिदमुच्यते ॥२॥ ___ या देवे गुरौ धौ च वक्ष्यमाणलक्षणे देवत्वगुरुत्वधर्मत्वबुद्धिरयमेव देवो गुरुधर्म इति निश्चयपूर्वा रुचिः
श्रद्धानमिति यावत्, शुद्धा अज्ञानसंशयविपर्यासनिराकरणेन निर्मला सा सम्यक्त्वम् । यद्यपि रुचिर्जिनोक्ततत्त्वेAI विति यतिश्रावकाणां साधारणं सम्यक्त्वलक्षणमुक्तम् । तथापि गृहस्थानां देवगुरुधर्मेषु पूज्यत्वोपास्यत्वानुष्ठेयत्व
in Education Internati
For Personal & Private Use Only
Page #132
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥ ५७ ॥
-03-08-10+
908++++
Jain Education Internatio
लक्षणोपयोगवशाद् देवगुरुधर्म्मतत्त्वप्रतिपत्तिलक्षणं सम्यक्त्वं पुनरभिहितम् । ननु तत्त्वार्थरुचिलक्षणे सम्यक्त्वे देवगुरुधर्माणां क तत्वेऽन्तर्भावः ? उच्यते - देवा गुरुवश्च जीवतस्त्रे, धर्म्मः शुभाश्रवे संवरे चान्तर्भवति । सम्यक्त्वं च त्रिधा - औपशमिकं चायोपशमिकं क्षायिकं च । तत्रोपशमो भस्मच्छन्नानिवत् मिथ्यात्वमोहनीयस्थानन्तानुबन्धिनां च क्रोधमानमाया लोभानामनुदयावस्था । उपशमः प्रयोजनं प्रवर्त्तकमस्य श्रपशमिकं तच्चानादिमिथ्यादृष्टेः करणत्रयपूर्वकमान्तर्मौहूर्त्तिकं चतुर्गतिगतस्यापि जन्तोर्भवतीत्युक्तप्रायम् । यद्वा उपशमण्यारूढस्य भवति । यदाह
उवसामगसेढिगयस्स होइ उवसामियं तु सम्मत्तं । जो वा श्रकयतिपुंजो अ खवियमिच्छो लहइ सम्मं ॥ १ ॥ क्षयो मिध्यात्वमोहनीयस्यानन्तानुबन्धिनां च उदितानां देशतो निर्मूलनाशः अनुदितानां चोपशमः, क्षयेण युक्त उपशमः क्षयोपशमः स प्रयोजनमस्य चायोपशमिकं तच्च सत्कर्म्मवेदनाद्वेदकमप्युच्यते । औपशमिकं तु सत्कर्म्मवेदनारहितमित्यौपशमिक क्षायोपशमिकयोर्भेदः । यदाह
des संतकम्मं खश्रवसमिएसु नाणुभावं सो । उवसंतकसाओ उस वेएइ न संतकम्मं वि । एतस्य च स्थितिः षट्षष्टिः सागरोपमाणि साधिकानि । यदाह
( १ ) उपशमकश्रेणिगतस्य भवति औपशमिकं तु सम्यक्त्वम् । यो वाऽकृतत्रिपुञ्जश्च क्षपितमिथ्यो लभते सम्यक् ॥ ( २ ) वेदयति सत्कर्म क्षायोपशमिकेषु नानुभावं सः । उपशान्तकषायः पुनर्वेदयति न सत्कर्मापि ॥
For Personal & Private Use Only:
R-03-2018-03-08-08-07
द्वितीयः
प्रकाशः ।
11 2109 11
Page #133
--------------------------------------------------------------------------
________________
दो वारे विजयाइसु गयस्स तिप्पच्चुए अहव ताई । अइरेग नरभवियं नाणाजीवाण सम्बद्धं ॥१॥
चयो मिथ्यात्वमोहनीयस्यानन्तानुबन्धिनां च निर्मूलनाशः। चयः प्रयोजनमस्य क्षायिकं तच्च साधनन्तम् । अत्र चान्तरश्लोकाः
मृलं बोधिद्रुमस्यैतत् द्वारं पुण्यपुरस्य च । पीठं निर्वाणहर्म्यस्य निधानं सर्वसम्पदाम् ॥१॥ गुणानामेक आधारो रत्नानामिव सागरः । पात्रं चारित्रवित्तस्य सम्यक्त्वं श्लाघ्यते न कैः ॥ २॥ अवतिष्ठेत नाज्ञानं जन्तौ सम्यक्त्ववासिते । प्रचारस्तमसः कीदृक् भुवने भानुभासिते ॥३॥ तिर्यग्नरकयोद्वारे दृढा सम्यक्त्वमर्गला । देवमानवनिर्वाणसुखद्वारैककुश्चिका ॥ ४ ॥ भवेद्वैमानिकोऽवश्यं जन्तुः सम्यक्त्ववासितः । यदि नोद्वान्तसम्यक्त्वो बद्धायुवापि नो पुरा ॥५॥
अन्तर्मुहुर्तमपि यः समुपास्य जन्तुः, सम्यक्त्वरत्नममलं विजहाति सद्यः। बम्भ्रम्यते भवपथे सुचिरं न सोऽपि, तद्विभ्रतश्चिरतरं किमुदीरयामः ॥ ६ ॥ इति ॥
विपक्षज्ञाने सति विवक्षितं सुज्ञानं भवतीति सम्यक्वविपचं मिथ्यात्वमाहअदेवे देवबुद्धिर्या गुरुधीरगुरौ च या। अधर्मे धर्मबुद्धिश्च मिथ्यात्वं तद्विपर्ययात् ॥ ३ ॥ ____ अदेवोऽगुरुरधर्मश्च वक्ष्यमाणलक्षणस्तत्र देवत्वगुरुत्वधर्मत्वप्रतिपत्तिलक्षणं मिथ्यात्वं तस्य लक्षणं तद्वि
(१) द्वौ वारौ विजयादिषु गतस्य त्रीन् अच्युतेऽथवा तान् । अतिरेक नरभविकं नानाजीवानां सर्वार्धम् ॥
Jain Education Interati
For Personal & Private Use Only
Page #134
--------------------------------------------------------------------------
________________
योग
द्वितीय प्रकाश
शास्त्रम्
पर्ययादिति तस्य सम्यक्त्वस्य विपर्ययः तसाद्धेतोः सम्यक्त्वविपर्ययरूपत्वादित्यर्थः । तथा च इदमपि संगृहीतं-देवे अदेवत्वस्य गुरावगुरुत्वस्य धर्म अधर्मत्वस्य प्रतिपत्तिरिति ।
मिथ्यात्वं च पञ्चधा भाभिग्रहिकमनाभिग्रहिकमाभिनिवेशिकं सांशयिकमनाभोगिकं च । तत्राभिग्रहिकं पाखण्डिना स्वस्वशास्त्रनियन्त्रितविवेकालोकानां परपक्षप्रतिक्षेपदक्षाणां भवति ॥१॥ अनाभिग्रहिकं तु प्राकृतलोकानां सर्वे देवा बन्दनीया न निन्दनीया एवं सर्वे गुरवः सर्वे धर्मा इति ॥२॥ आभिनिवेशिकं जानतोऽपि यथास्थितं वस्तु दुरभिनिवेशलेशविप्लावितधियो जमालेरिव भवति ॥३॥ सांशयिक देवगुरुधर्मेष्वयमयं वेति संशयानस्य भवति ॥४॥ अनाभोगिकं विचारशून्यस्यैकेन्द्रियादेर्वा विशेषविज्ञानविकलस्य भवति ।। ५॥ यदाह
आभिग्गहियं अणभिग्गहं च तह अभिणिवेसियं चेव । संसइयमणाभोग मिच्छत्तं पंचहा होइ ॥१॥ अत्रान्तरश्लोकाःमिथ्यात्वं परमो रोगो मिथ्यात्वं परमं तमः । मिथ्यात्वं परमः शत्रुर्मिथ्यात्वं परमं विषम् ॥१॥ जन्मन्येकत्र दुःखाय रोगो ध्वान्तं रिपुर्विषम् । अपि जन्मसहस्रेषु मिथ्यात्वमचिकित्सितम् ॥२॥ (१) आभिग्रहिकमनभिग्रहं च तथा अभिनिवेशिकं चैव । सांशयिकमनाभोगं मिथ्यात्वं पञ्चधा भवति । (२) अणभिम्गहियं ।
॥५८॥
Jain Education Intera
For Personal & Private Use Only
Page #135
--------------------------------------------------------------------------
________________
मिथ्यात्वेनालीढचित्ता नितान्तं, तस्वातत्त्वं जानते नैव जीवाः।
किं जात्यन्धाः कुत्रचिद्वस्तुजाते, रम्यारम्यव्यक्तिमासादयेयुः ॥ ३ ॥ देवादेवगुर्वगुरुधर्माधर्मेषु लक्षयितव्येषु देवलक्षणमाह* सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः। यथास्थितार्थवादी च देवोऽहन् परमेश्वरः ॥४॥
देवस्य देवत्वे चतुरोऽतिशयानाचक्षते विचक्षणाः । तद्यथा
ज्ञानातिशयः १ अपायापगमातिशयः २ पूजातिशयः ३ वागतिशयश्च ४ । तत्र सर्वज्ञ इत्यनेन सकलजीवाजीवादितत्त्वज्ञतया ज्ञानातिशयमाह । न तु यथाहुर्विशृङ्खलवादिनः परे।
सर्वं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । कीटसंख्यापरिज्ञानं तस्य नः कोपयुज्यते ॥ १॥ दूरं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । प्रमाणं दरदर्शी चेदेतान गध्रानुपामहे ॥ २॥ इति ॥
न हि विवक्षितस्यैकस्यापष्टिस्यार्थस्य ज्ञानमशेषार्थज्ञानमन्तरेण भवति । सर्वे हि भावा भावान्तरैः साधारणासाधारणरूपा इत्यशेषज्ञानमन्तरेण सोलक्षण्यवैलक्षण्याभ्यां नैकोऽपि ज्ञातो भवति । यदाहु:
एको भावः सर्वथा येन दृष्टः, सर्वे भावास्तत्वतस्तेन दृष्टाः।
सर्वे भावाः सर्वथा येन दृष्टा, एको भावस्तत्त्वतस्तेन दृष्टः॥१॥ (१) इत्यशेषज्ञतामन्तरेण । (२) लक्षणसहितस्य भावः सालक्षण्यम् ।
मा
in Education internation
For Personal & Private Use Only
Page #136
--------------------------------------------------------------------------
________________
योग
द्वितीय प्रकाशः।
शास्त्रम्
जितरागादिदोष इत्यनेनापायापगमातिशयमाह । तत्रेदं सर्वजनप्रतीतम् यथा सन्ति रागद्वेषादयः । ते च दोपास्तरात्मनो दूषणात् । ते च जिताः प्रतिपक्षसेवनादिभिर्भगवतेति जितरागादिदोष इत्युक्तम् । सदा रागादिरहित एव कश्चित्पुरुषविशेषोऽस्तीति नु वार्तामात्रम् । अजितरागादेश्चास्सदादिवन्न देवत्वमिति । त्रैलोक्यपूजित इत्यनेन पूजातिशयमाह । कतिपयप्रतारितमुग्धबुद्धिपूजायां हि न देवत्वं स्यात् । यदा तु चलितासनैः सुरासुरैर्नानादेशभाषाव्यवहारविसंस्थुलैमनुष्यैः परस्परनिरुद्धवरैः सख्यमुपागस्तियग्भिश्च समवसरणभूमिमभिपतद्भिरहमहमिकया सेवाञ्जलिपूजागुणस्तोत्रधर्मदेशनामृतरसास्वादादिभिः पूज्यते भगवान् तदा देवत्वमिति । यथास्थितार्थवादीत्यनेन वागतिशयः यथास्थितं सद्भूतमर्थं वदतीत्येवंशलो यथास्थितार्थवादी । यदाचक्ष्महि स्तुतौ
अपक्षपातेन परीक्षमाणा द्वयं द्वयस्याप्रतिमं प्रतीमः । यथास्थितार्थप्रथनं तवैतदस्थाननिर्बन्धरसं परेषाम् ॥१॥ यथा वा
क्षिप्येत वाऽन्यैः सदृशीक्रियेत वा, तवांहिपीठे लुठनं सुरोशितुः । इदं यथावस्थितवस्तुदेशनं, परैः कथङ्कारमपाकरिष्यते ॥ २॥
देव इति लक्ष्यपदं दीव्यते स्तूयते इति देवः स च सामर्थ्यादहन परमेश्वरो नान्यः ॥ ४॥
चतुरतिशयवतो देवस्य ध्यानोपासनशरणगमनशासनप्रतिपत्तीः साधिक्षेपमुपदिशतिध्यातव्योऽयमुपास्योऽयमयं शरणमिष्यताम् । अस्यैव प्रतिपत्तव्यं शासनं चेतनास्ति चेत ॥५॥
अयं देवो ध्यातव्यः पिण्डस्थपदस्थरूपस्थरूपाततिरूपतया श्रेणिकेनेव । श्रेणिको हि वर्णप्रमाणसंस्थानसंह
in Education International
For Personal & Private Use Only
Page #137
--------------------------------------------------------------------------
________________
ननचतुस्त्रिंशदतिशयादियोगिनं भगवन्तं श्रीमहावीरमनुध्यातवान् । तदनुभावाच्च तद्वर्णप्रमाणसंस्थानसंहननातिशययुक्तः पद्मनाभस्तीर्थकरो भविष्यति । यदाचमाहि
तह तम्मएण मणसा वीरजियो झाइको तए पुव्विं । जह वारिसो चिय तुम अहेसि ही जोगमाहप्पं ॥१॥ भागमश्चजस्सीलसमायारो अरिहा तित्थंकरो महावीरो। तस्सीलसमायारो होहि हु परिहा महापउमो ॥२॥
उपास्यः सेवाञ्जलिसंबन्धादिना अयमेव देवः दृष्कृतगर्दासकृतानुमोदनापूर्वकमयमेव देवो भवभयातिभेदी * शरणमिष्यताम् । अस्यैवोक्तलक्षणस्य देवस्य शासनमाज्ञा प्रतिपत्तव्यं खीकरणीयम् । शासनान्तराणि हि
निरतिशयपुरुषप्रणेतृकाणि न प्रतिपत्तियोग्यानि । चेतनास्ति चेदित्यधिषेपः चेतनावत एव प्रत्युपदेशस्य सफलत्वात् । अचेतनं तु प्रति विफलं उपदेशप्रयासः । यदाह
अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं, श्वपुच्छमवनामितं बधिरकर्णजापः कृतः। स्थले कमलरोपणं सुचिरमपरे वर्षणं, तदन्धमुखमण्डनं यदबुधे जने भाषितम् ॥ १॥५॥
अदेवलक्षणमाह(१) तथा तन्मयेन मनसा वीरजिनो ध्यातस्त्वया पूर्वम् । यथा तादृश एव त्वमासीः ही योगमाहात्म्यम् ॥ (२) यच्छीलसमाचारो अईन तीर्थकरो महावीरः। तच्छीलसमाचारो भविष्यति खलु अर्हन महापद्मः॥
in Education International
For Personal & Private Use Only
Page #138
--------------------------------------------------------------------------
________________
योग- ये स्त्रीशस्त्राक्षसूत्रादिरागाद्यङ्ककलङ्किताः । निग्रहानुग्रहपरास्ते देवाः स्युन मुक्तये ॥ ६॥ द्वितीय शास्त्रम् । स्त्री कामिनी, शस्त्रं शूलादि, अक्षसूत्रं जपमाला, तान्यादौ येषां नाट्याट्टहासादीनां ते स्त्रीशस्वाक्षसूत्रादयः,
प्रकाशः। राग आदिर्येषां ते रागादयः आदिशब्दाद्देषमोहपरिग्रहः, रागादीनामङ्काश्चिह्नानि, स्त्रीशस्त्राक्षसूत्रादयश्च ते रागाद्यवाश्च तैः कलङ्किता क्षितास्तत्र स्त्री रागचिहं शस्त्र द्वेषचिह्नं अक्षसूत्रं मोहचिह्नम् । वीतरागो हि नाङ्गनासङ्गभाग्भवति । वीतद्वेषो वा कथं शस्त्रं विभृयात् । गतमोहो वा कथं विस्मृतिचिह्नं जपमालां परिगृहीयात् । रागद्वेषमोहैः सर्वदोषाः संगृहीतास्तन्मूलत्वात्सर्वदोषाणाम् । निग्रहो वधवन्धादिः, अनुग्रहो वरप्रदानादिः, तौ परौ प्रकृष्टौ येषां ते तथा। निग्रहानुग्रहावपि रागद्वेषयोश्चिहे। ये एवंविधास्ते देवा न भवन्ति मुक्तये इति मुक्तिनिमित्तम् । देवत्वमात्रं तु क्रीडनादिकारिणां प्रेतपिशाचादीनामिव न वार्यते ॥६॥
मुक्तिनिमित्तत्वाभावमेव व्यनक्तिनाट्याट्टहाससङ्गीताद्युपप्लवविसंस्थुलाः। लम्भयेयुः पदं शान्तं प्रपन्नान् प्राणिनः कथम् ?॥७॥
इह सकलसांसारिकोपप्लवरहितं शान्तं पदं मुक्तिकैवल्यादिशब्दाभिधेयमस्तीत्यत्र नास्ति विप्रतिपत्तिः । तत्तादृशं शान्तं पदं नाट्याट्टहाससङ्गीतादिविसंस्थुलाः स्वयमुपहतवृत्तयः कथमाश्रितजनान् प्रापयेयुः । न घेरण्डतरुः कल्पतरुलीलामुद्वहति । ततश्च रागद्वेषमोहदोषविवर्जितो जिन एको देवो मुक्तये नेतरे दोषदक्षिताः । अत्रान्तरश्लोकाः
॥६०
Lain Education inter
For Personal Private Use Only
Page #139
--------------------------------------------------------------------------
________________
न सर्वज्ञा न नीरागाः शङ्करब्रह्मविष्णवः। प्राकृतेभ्यो मनुष्येभ्योऽप्यसमञ्जसवृत्तितः ॥१॥ स्त्रीसङ्गः काममाचष्टे द्वेषं चायुधसंग्रहः। व्यामोहं चाक्षसूत्रादिरशौचं च कमण्डलुः ॥२॥ गौरी रुद्रस्य सावित्री ब्रह्मणः श्रीर्मुरद्विषः । शचीन्द्रस्य रखे रत्नादेवी दक्षात्मजा विधोः ॥३॥ तारा बृहस्पतेः स्वाहा वह्वेश्चेतोभुवो
रतिः । धूमोणों श्राद्धदेवस्य दारा एवं दिवौकसाम ॥४॥ सर्वेषां शस्त्रसम्बन्धः सर्वेषां मोहजृम्भितम् । तदेवं TE देवसन्दोहो न देवपदवीं स्पृशेत् ॥५॥ बुद्धस्यापि न देवत्वं मोहाच्छून्याभिधायिनः। प्रमाणसिद्धे शून्यत्वे
शून्यवादकथा वृथा ॥६॥ प्रमाणस्यैव सत्त्वेन न प्रमाणविवर्जिता। शून्यसिद्धिः परस्यापि न स्वपक्षस्थितिः कथम् १ ॥ ७॥ सर्वथा सर्वभावेषु क्षणिकत्वे प्रतिश्रुते । फलेन सह सम्बन्धः साधकस्य कथं भवेत् ॥८॥ वधस्य वधको हेतुः कथं क्षणिकवादिनः । स्मृतिश्च प्रत्यभिज्ञा च व्यवहारकरी कथम् ॥६॥ निपत्य ददतो व्याघ्याः स्वकायं कृमिसङ्कुलम् । देयादेयविमूढस्य दया बुद्धस्य कीदृशी ॥१०॥ स्वजन्मकाल एवात्मजनन्युदरदारिणः। मांसोपदेशदातुश्च कथं शौद्धोदनेर्दया ॥११॥ यो ज्ञानं प्रकृतेर्द्धम भाषते स्म निरर्थकम् । निर्गुणो निष्क्रियो मृढः स देवः कपिलः कथम् ॥१२॥ आर्याविनायकस्कन्दसमीरणपुरस्सराः। निगद्यन्ते कथं देवाः सर्वदोषनिकेतनम् ॥ १३॥ या पशुYथमश्नाति स्वपुत्रं च वृषस्यति । शृङ्गादिभिती जन्तून् सा वन्द्यास्तु कथं
नु गौः॥ १४ ॥ पयःप्रदानसामर्थ्याद्वन्द्या चेन्महिषी न किम् । विशेषो दृश्यते नास्यां महिषीतो मनागपि H॥१५॥ स्थानं तीर्थर्षिदेवानां सर्वेषामपि गौर्यदि । विक्रीयते दुह्यते च हन्यते च कथं ततः॥१६॥ मुसलोदुखले
चुल्ली देहली पिप्पलो जलम् । निम्बोऽर्कश्चापि यैः प्रोक्ता देवास्तैः केज वर्जिताः ॥ १७॥
Jain Education international
For Personal & Private Use Only
Page #140
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
॥६१॥
वीतरागस्तोत्रेऽप्युक्तममाभिः।
द्वितीयः कृतार्था जठरोपस्थदुःस्थितैरपि दैवतैः । भवादृशान्निनुवते हहा देवास्तिकाः परे ॥१८॥७॥ प्रकाशः।
गुरुलक्षणमाहमहाव्रतधरा धीरा भैक्षमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः ॥ ८॥
महाव्रतानि अहिंसादीनि तानि धरन्तीति महाव्रतधराः। महाव्रतधारित्व एवायं हेतुः धीरा इति, धैर्य है। ह्यापत्स्वप्यवैक्लव्यं तद्योगाद्धि अखण्डितमहाव्रतधरा भवन्ति । मूलगुणधारित्वमुक्त्वा उत्तरगुणधारित्वमाहमैक्षमात्रोपजीविन इति, भिक्षाणां समूहो भै अन्नपानधर्मोपकरणरूपं तन्मात्रमेवोपजीवन्ति लोकान्न पुनर्द्धनधान्यहिरण्यग्रामनगरादि । मूलगुणोत्तरगुणधारणकारणभूतगुणवत्त्वमाह-सामायिकस्था इति, समो रागद्वेषविकल आत्मा समस्यायो विशिष्टज्ञानादिगुणलाभः समायः स एव सामायिक “विनयादित्वादिकण्" तत्र तिष्ठन्तीति सामायिकस्थाः । सामायिकस्थो हि मूलगुणोत्तरगुणभेदमिन्नं चारित्रं पालयितुं क्षमः। एतद्यतिमात्र- | साधारणलक्षणम् । गुरोस्तु असाधारणलक्षणं-धर्मोपदेशका इति, धर्म संवरनिर्जरारूपं यतिश्रावकसम्बन्धिभेदभिनं वा उपदिशन्तीति धर्मोपदेशकाः। यदुक्तमसामिभिधानचिन्तामणी-“गुरुर्धर्मोपदेशक" इति, गुणन्ति सद्भूतं शास्त्रार्थमिति गुरवः ॥८॥ अगुरुलक्षणमाह
॥६१॥
in Education Internet
For Personal & Private Use Only
Page #141
--------------------------------------------------------------------------
________________
Jain Education Intern
सर्वाभिलाषिणः सर्वभोजिनः सपरिग्रहाः । श्रब्रह्मचारिणो मिथ्योपदेशा गुरवो न तु ॥९॥
सर्वमुपदेश्य सम्बन्धिस्त्रीधनधान्यहिरण्यक्षेत्रवास्तुचतुष्पदाद्यभिलषन्तीत्येवंशीलाः सर्वाभिलाषिणः । तथा सर्व मद्यमधुमांसानन्तकायादि भुञ्जत इत्येवंशीलाः सर्वभोजिनः । सह परिग्रहेण पुत्रकलत्रादिना वर्त्तन्ते सपरिग्रहाः । अत एवाब्रह्मचारिणः, अब्रह्मणो महादोषतां कथयितुमब्रह्मचारिण इति पृथगुपन्यासः । अगुरुत्वे असाधारणं कारणमाह-मिथ्योपदेशा इति, मिथ्या वितथ श्राप्तोपज्ञोपदेशरहितत्वादुपदेशो धर्मदेशनं येषां ते तथा । न तु नैव एवंविधा गुरव इति ॥ ६ ॥
ननु धर्मोपदेशदायित्वं चेदस्ति तदास्तु गुरुत्वं किं निष्परिग्रहित्वादिगुणगवेषणेन ? इत्याहपरिग्रहारम्भमग्नास्तारयेयुः कथं परान् ? । स्वयं दरिद्रो न परमीश्वरीकर्त्तुमीश्वरः ॥१०॥
परिग्रहस्त्र्यादिरारम्भो जन्तुहिंसा निबन्धनं सर्वाभिलाषित्वसर्वभोजित्वादिः, ताभ्यां मग्ना भवान्धौ त्रुडिताः कथं परानुपदेश्यान् भवाम्भोधेस्तारयेयुस्तारण समर्थाः स्युः १ । साधकं दृष्टान्तमाह-स्वयमित्यादि स्पष्टम् ।। १० ।।
धर्म्मलक्षणमाह
दुर्गतिप्रपतत्प्राणिधारणाद्धर्म उच्यते । संयमादिर्दशविधः सर्व्वज्ञोक्तो विमुक्तये ॥ ११ ॥ दुर्गतौ नरकतिर्यग्लक्षणायां प्रपतन्तो ये प्राणिनस्तेषां धारणाद्धेतोर्द्धर्म उच्यते । धर्मशब्दार्थोऽयं । इदमेव च
For Personal & Private Use Only
Page #142
--------------------------------------------------------------------------
________________
द्वितीय:
प्रकाशः।
योग
लक्षणं धर्मस्य । धत्ते वा नरसुरमोक्षस्थानेषु जन्तूनिति निरुक्ताद्धर्मः । यदाहशास्त्रम् । दुर्गतिप्रसृतान् जन्तून् यसाद्धारयते ततः । धत्ते चैतान् शुभे स्थाने तस्माद्धर्म इति स्मृतः॥१॥
स तु वक्ष्यमाणैः संयमादिभिर्भेदैर्दशधा । सर्वज्ञोकत्वाद्विमुक्तये भवति । देवतान्तरप्रणीतस्त्वसर्वज्ञवक्तक॥६२॥
त्वान प्रमाणम् ॥ ११॥
ननु सर्वज्ञोक्तत्वाभावेऽप्यपौरुषेयवचनोपज्ञस्य धर्मस्य प्रामाणिकत्वमस्तु । यदाह-चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं स्थुलं व्यवहितं विप्रकृष्टमेवंजातीयकमर्थमवगमयितुं शक्नोति नान्यत्किञ्चनेन्द्रियमिति । चोदना च अपौरुषेयत्वेन पुरुषगतानां दोषाणामप्रवेशात् प्रमाणमेव । यदाह-शब्दे दोषोद्भवस्तावद्वक्त्रधीन इति स्थितम् । तदभावः कचित्तावद्गुणवद्वक्तृकत्वतः ॥१॥ तद्गुणैरपकृष्टानां शब्दे संक्रान्त्यसम्भवात् । यद्वा वक्तुरभावेन न स्युर्दोषा निराश्रयाः ॥२॥ किश्च-दोषाः सन्ति न सन्तीति पौरुषेयेषु युज्यते । वेदे कर्तुंरभावाच्च | दोषाशकैच नास्ति नः ॥३॥ इत्याहअपौरुषेयं वचनमसम्भवि भवेद्यदि । न प्रमाणं भवेद्वाचां ह्याप्ताधीना प्रमाणता ॥ १२ ॥
पुरुषेण कृतं पौरुषेयं तत्प्रतिषेधादपौरुषेयम् । उच्यते स्थानकरणाभिघातपूर्वकं पुरुषेण प्रतिपाद्यते इति वचनम् । तदिदं परस्परविरुद्धम् अपौरुषेयं वचनं चेति । तदेवाह-असम्भवि न ह्यस्ति सम्भवो वचनस्य त्रसरेणोरिवाकाशे । न चाम्रर्चस्य सतोऽप्यदर्शनमिति वक्तुं युक्तं प्रमाणाभावात् । अभिव्यञ्जकवशाच्छदश्रवणमेव प्रमाणमिति चेत् न । तस्य जन्यत्वेऽप्युपपत्तेः । अभिव्यङ्गयत्वे प्रत्युत दोषसम्भवः । एकशब्दाभिव्यक्त्यर्थं स्थान
in Education Internet
For Personal & Private Use Only
Page #143
--------------------------------------------------------------------------
________________
करणाभिघाते शब्दान्तराणामपि तद्देश्यानामभिव्यक्तिप्रसङ्गः । न च प्रतिनियतव्यञ्जकव्यङ्गथता शब्दानां भवति व्यङ्गन्यान्तरेषु तददर्शनात् । तथा च
गृहे दधिघटीं द्रष्टुमाहितो गृहमेधिना । अपूपानपि तद्देश्यान् प्रकाशयति दीपकः॥१॥
तदेवं वचनस्यापौरुषेयता न सम्भवति । अथाप्यप्रामाणिकहेवाकबलादाकाशादिवच्छब्दस्यापौरुषेयता यदि भवेत् तथापि प्रामाण्यं न सम्भवति । हि यसादाप्तवक्तृकत्वेन वाचां प्रामाण्यं नान्यथा । यता
शब्दे गुणोद्भवस्तावद्वक्त्रधीन इति स्थितम् । तदभावः कचित्तावद्दोषवद्वक्तृकत्वतः ॥१॥ तद्दोषैरपकृष्टानां शब्दे संक्रान्त्यसम्भवात् । यद्वा वक्तुरभावेन गुणा न स्युनिराश्रयाः॥२॥ किञ्च
गुणाः सन्ति न सन्तीति पौरुषेयेषु युज्यते । वेदे कर्तुरभावाच्च गुणाशङ्खव नास्ति नः ॥ ३॥ १२ ॥ एवं तावदपौरुषेयवचनाभिहितस्यासम्भवादिना अभावमभिधायासर्वज्ञपुरुषवक्तृकस्य धर्मस्याप्रामाणिकत्वमाह| मिथ्यादृष्टिभिराम्नातो हिंसाद्यैः कलुषीकृतः। स धर्म इति वित्तोऽपि भवभ्रमणकारणम् ॥१३॥
मिथ्यादृष्टिभिर्हरिहरहिरण्यगर्भकपिलबुद्धादिभिराम्नात आत्मोपज्ञतया प्रतिपादितः । यत्तदोर्नित्याभिसम्बन्धाद्यो मिथ्यादृष्टिभिराम्नातः स धर्मत्वेन मुग्धबुद्धीनां प्रसिद्धोऽपि भवभ्रमणकारणमधर्म एवेत्यर्थः । कुत इत्याहहिंसाद्यैः कलुषीकृत इति । मिथ्यादृष्टिप्रणीता ह्यागमा हिंसादिदोषदक्षिताः॥१३॥
इदानीमदेवागुर्वधर्माणां साक्षेपं प्रतिक्षेपमाह
in Education Internation..
For Personal & Private Use Only
Page #144
--------------------------------------------------------------------------
________________
योग
शानम्
॥६३॥
सरागोऽपि हि देवश्चेद् गुरुरब्रह्मचार्यपि। कृपाहीनोऽपि धर्मः स्यात्कष्टं नष्ट हहा जगत्॥१४॥ द्वितीयः ___ रागग्रहणमुपलक्षणं द्वेषमोहयोः । अब्रह्मचारित्वमुपलक्षणं प्राणातिपातादीनाम् । कृपाहीनत्वमुपलक्षणं मूलो- प्रकाशः। त्तरगुणहीनत्वस्य । चेच्छब्दः प्रत्येकमभिसम्बध्यते । आक्षेपं प्रकटयति-कष्टमिति खेदे नष्टं जगत् देवगुरुधर्मशून्यत्वेन विनष्टं दुर्गतिगमनात् । हहा निपातः खेदातिशयसूचकः । यदाह| रागी देवो दोसी देवो मामि सुन्नपि देवो,मजे धम्मो मंसे धम्मो जीवहिंसाइ धम्मो । रत्ता मत्ता कन्तासत्ता ॥ जे गुरू तेवि पुज्जा, हाहा क; नहो लोगो अट्टमट्ट कुणंतो॥१॥१४॥
तदेवमदेवागुर्वधर्मपरिहारेण देवगुरुधर्मप्रतिपत्तिलक्षणं सम्यक्त्वं सुव्यवस्थितम् । तच शुभात्मपरिणामरूपमस्मदादीनामप्रत्यक्षं केवलं लिङ्गैर्लक्ष्यते, तान्येवाह - शमसंवेगनिर्वेदानुकम्पास्तिक्यलक्षणैः। लक्षणैः पञ्चभिः सम्यक् सम्यक्त्वमुपलक्ष्यते॥१५॥ ___ पञ्चभिर्लक्षणैर्लिङ्गैः परस्थं परोक्षमपि सम्यक्त्वं सम्यगुपलक्ष्यते । लिङ्गानि तु शमसंवेगनिर्वेदानुकम्पास्तिक्यस्वरूपाणि । शमः प्रशमः क्रूराणामनन्तानुबन्धिनां कषायाणामनुदयः। स च प्रकृत्या वा कषायपरिणतेः कटुफलावलोकनाद्वा भवति । यदाह
(१) रागी देवो द्वेषी देवो सखे शून्योऽपि देवः, मद्ये धर्मो मांसे धर्मः जीवहिंसायां धर्मः । रक्ता मत्ताः कान्तासक्ता ये गुरवः तेऽपि पूज्याः , हाहा कष्टं नष्टो लोको अट्टमढें कुर्वन् ।
॥६३॥
in Education internal
For Personal & Private Use Only
Page #145
--------------------------------------------------------------------------
________________
Jain Education Int
इईए कम्माणं नाऊणं वा विबागमसुहं ति । अवरद्धे वि न कुप्पह उवसमओ सव्वकालं पि ॥ १ ॥ अन्ये तु क्रोधकण्डूविषयतृष्णोपशमः शम इत्याहुः । अधिगतसम्यग्दर्शनो हि साधूपासनावान् कथं क्रोधकण्ड्वा विषयतृष्णया च तरलीक्रियेत ? ननु क्रोधकण्डूविषय तृष्णोपशमश्चेच्छमस्तर्हि कृष्णश्रेणिकादीनां सापराधे निरपराधेऽपि च परे क्रोधवतां विषयतृष्णातरलितमनसां च कथं शमः १ तदभावे च सम्यक्त्वं न गम्येत ? नैवम् । दृश्यते हि धूमरहितोऽप्ययस्कारगृहेषु वह्निः भस्मच्छन्नस्य वा वहेर्न धूमलेशोऽपीति । अयं तु नियमः सुपरीक्षिते लिङ्गे सति लिङ्गी भवत्येव । यदाह-
लिङ्गे लिङ्गी भवत्येव लिङ्गिन्येवेतरत्पुनः । नियमस्य विपर्यासे सम्बन्धो लिङ्गलिङ्गिनोः ॥ १ ॥
सज्ज्वलन कषायोदयाद्वा कृष्णादीनां क्रोधकण्डूविषयतृष्णे । सज्ज्वलना अपि केचन कषायास्तीव्रतया अनन्तानुबन्धिसदृशविपाकवन्त इति सर्वमवदातम् । संवेगो मोचाभिलाषः । सम्यग्दृष्टिहिं नरेन्द्र सुरेन्द्राणां विषयसुखानि दुःखानुषङ्गादुःखतया मन्यमानो मोक्षसुखमेव सुखत्वेन मन्यते अभिलषति च । यदाह -
रविबुसरसोक्खं दुक्खं चिय भावओो अ मनंतो । संवेगओ न मोक्खं मोत्तूगं किंचि पच्छे (त्थे ) इ ॥ १ ॥ निर्वेदो भववैराग्यम् । सम्यग्दर्शनी हि दुःखदौर्गत्यगहने भवकारागारे कर्मदण्डपाशिकैस्तथातथा कदर्थ्यमानः प्रतिकर्त्तुमक्षमो ममत्वरहितच दुःखेन निव्र्व्विष्मो भवति । यदाह-
(१) प्रकृत्याः कर्मणां ज्ञात्वा वा विपाकमशुभमिति । अपराधेऽपि न कुप्यति उपशमतः सर्वकालमपि ॥ (२) नरविबुधेश्वरसौख्यं दुःखमेव भावतश्च मन्यमानः । संवेगतो न मोक्षं मुक्त्वा किञ्चित् प्रेक्षते, ( प्रार्थयति ) ॥
For Personal & Private Use Only
K+K+XOK++1.08.0108130.1
Page #146
--------------------------------------------------------------------------
________________
योगशास्त्रम्
प्रकाशा
॥६४॥
नारयतिरियनरामरभवेसु निव्वेयो वसइ दुक्खं । अकयपरलोयमग्गो ममत्तविसवेगरहिओ य ॥१॥
अन्ये तु संवेगनिर्वेदयोरर्थविपर्ययमाहुः संवेगो भवविरागः निर्वेदो मोक्षाभिलाष इति । अनुकम्पा दुःखितेषु अपक्षपातेन दुःखप्रहाणेच्छा । पक्षपातेन तु करुणा स्वपुत्रादौ व्याघ्रादीनामप्यस्त्येव । सा चानुकम्पा द्रव्यतो भावतश्च भवति । द्रव्यतः सत्यां शक्तौ दुःखप्रतीकारेण । भावत आर्द्रहृदयत्वेन । यदाहदेण पाणिनिवहं भीमे भवसायरम्मि दुक्खत्तं । अविसेसओणुकंपं दुविहावि सामच्छ(त्थ)ो कुणइ ॥१॥
अस्तीति मतिरस्येत्यास्तिकस्तस्य भावः कर्म वा आस्तिक्यम् । तत्त्वान्तरश्रवणेऽपि जिनोक्ततत्त्वविषये निराकाङ्क्षा प्रतिपत्तिः । आस्तिक्येन हि जीवधर्मतया अप्रत्यक्षं सम्यक्त्वं लक्ष्यते । तद्वान् हि आस्तिक इत्युच्यते। यदाह
मन्नइ तमेव सच्चं नीसंकं जं जिणेहिं पबत्तं । सुहपरिणामो सम्मं कंखाइविसुत्तिारहिओ ॥१॥
अन्ये तु शमादीनि लिङ्गान्यन्यथा व्याचक्षते सुपरीक्षितप्रवक्तप्रवाच्यप्रवचनतत्त्वाभिनिवेशान्मिथ्याभिनिवे| शोपशमः शमः । स सम्यग्दर्शनस्य लक्षणम् । यो ह्यतत्त्वं विहायात्मना तत्त्वं प्रतिपन्नः स लक्ष्यते सम्यग्दर्शन
(१) नारकतिर्यनरामरभवेषु निर्वेदतः वसति दुःखम् । अकृतपरलोकमार्गो ममत्वविषवेगरहितश्च । (२) दृष्ट्वा प्राणिनिवहं भीमे भवसागरे दुःखार्तम् । अविशेषतोऽनुकम्पां द्विविधामपि सामर्थ्यतः करोति ॥ (३) दुहावि। (४) मन्यते तदेव सत्यं निःशकं यजिनैः प्रज्ञापितम् (प्रज्ञप्तम् ) । शुभपरिणामः सम्यक् काङ्खादिविसूत्रिकारहितः॥
॥६४॥
Main Education Internal
For Personal Private Use Only
worw.jainelibrary.org
Page #147
--------------------------------------------------------------------------
________________
+-+0.04108-03-08-10-2
Jain Education Inter
-*-*
वानिति । संवेगो भयं जिनप्रवचनानुसारिणो हि नरकेषु शारीरं मानसं च शीतोष्णादिजनितं च संक्लिष्टासुरोदीरितं च परस्परोदीरितं च, तिर्यक्षु भारारोपणाद्यनेकविधं मनुजेषु दारिद्र्यदौर्भाग्यादि च दुःखमवलोकयतस्तद्भीरुतया तत्प्रशमोपायभूतं धर्ममनुतिष्ठतो लक्ष्यते विद्यतेऽस्य सम्यग्दर्शनमिति । निर्वेदो विषयेष्वनभिष्वङ्गः यथा इहलोक एव प्राणिनां दुरन्तकामभोगाभिष्वङ्गोऽनेकोपद्रवफलः परलोकेऽप्यतिकटुकनरकतिर्यग्मनुष्यजन्मफलप्रदः । अतो न किञ्चिदनेन । उज्झितव्य एवायमिति । एवंविधनिर्वेदेनापि लक्ष्यतेऽस्त्यस्य सम्यग्दर्शनमिति । अनुकम्पा कृपा यथा सर्व्व एव सच्चाः सुखार्थिनो दुःखप्रहाणार्थिनश्च । ततो नैषामल्पापि पीडा मया कार्येत्यनयापि लक्ष्यतेऽस्त्यस्य सम्यक्त्वमिति । सन्ति खलु जिनेन्द्रप्रवचनोपदिष्टा अतीन्द्रिया जीवपरलोकादयो भावा इति परिणाम आस्तिक्यम् । अनेनापि लक्ष्यते सम्यग्दर्शनयुक्तोऽयमिति ॥ १५ ॥
सम्यक्त्वलिङ्गान्युक्त्वा भूषणान्याह -
स्थैर्य प्रभावना भक्तिः कौशलं जिनशासने । तीर्थसेवा च पञ्चास्य भूषणानि प्रचक्षते ॥ १६ ॥ अस्य सम्यक्त्वस्य पञ्च भूषणानि भूष्यते अलकियते यैस्तानि भूषणानि जिनशासने जिनशासनविषये । एतच्च सर्वत्र सम्बध्यते । स्थैर्य जिनधर्म प्रति चलितचित्तस्य परस्य स्थिरत्वापादनं स्वयं वा परतीर्थिकर्द्धिदर्शनेsपि जिनशासनं प्रति निष्प्रकम्पता । प्रभवति जैनेन्द्रशासनं तस्य प्रभवतः प्रयोजकत्वं प्रभावना । सा चाष्टधा प्रभावकभेदेन । यदाह
For Personal & Private Use Only
K08-03
Page #148
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
॥ ६५ ॥
Jain Education Inter
पावयणी धम्मकही वाई नेमित्तिय तवस्सी य | विजा सिद्धो अ कई अव पभावगा भणिया ।। १ ।। तत्र प्रवचनं द्वादशाङ्गं गणिपिटकं तदस्यास्त्यतिशयवदिति प्रवचनी युगप्रधानागमः । धर्मकथा प्रशस्यास्यास्तीति धर्मकथt शिखादित्वादिन् । वादिप्रतिवादि सभ्य सभापतिलक्षणायां चतुरङ्गायां सभायां प्रतिपक्षनिरासपूर्वकं स्वपक्षस्थापनार्थमवश्यं वदतीति वादी । निमित्तं त्रैकालिकं लाभालाभादिप्रतिपादकं शास्त्रं तद्वेच्यधीते वा नैमित्तिकः । तपो विकृष्टमष्टमाद्यस्यास्तीति तपस्वी । विद्याः प्रज्ञयादयः शासनदेवतास्ताः साहाय (य्य) के यस्य स विद्यावान् । अञ्जनपादले पतिलक गुटिकासकल भूता कर्षण निष्कर्षण वौक्रियत्वप्रभृतयः सिद्धयस्ताभिः सिद्धयतिम सिद्धः । कवते गद्यपद्यादिभिः प्रबन्धैर्वर्णनां करोतीति कविः । एते प्रवचन्यादयोऽष्टौ प्रभवतो भगवच्छासनस्य यथायथं देशकालाद्यौचित्येन साहाय (य्य) ककरणात्प्रभावकास्तेषां कर्म प्रभावना द्वितीयं भूषणम् । भक्तिः प्रवचने विनयवैयावृच्यरूपा प्रतिपत्तिः सम्यग्दर्शनज्ञानचारित्रादिगुणाधिकेष्वभ्युत्थानमभियानं शिरस्यञ्जलिकरणं स्वयमासनढौकनमासनाभिग्रहो वन्दना पर्युपासना श्रनुगमनं चेत्यष्टविधकर्मविनयनादृष्टविध उपचारविनयः । व्यावृत्तस्य भावः कर्म वा वैयावृत्त्यम् । तच्चाचार्योपाध्यायतपस्विशि (शै) क्षकग्लानकुलगणसङ्घसाधुसमनो(मान) ज्ञेषु दशस्वन्नपानवस्त्रपात्रप्रतिश्रयपीठफलकसंस्ता रादिभिर्धर्म्मसाधनैरुपग्रहः शुश्रूषा भैषजक्रियाकान्तारविषमदुर्गोपसर्गेष्वभ्युपपत्तिश्च । जिनशासनविषये च कौशलं नैपुण्यम् । ततो हि व्यवहितादिरप्यर्थे विषयीक्रियते । यथानार्यदेशवर्त्ती आर्द्रककुमारः श्रेणिकपुत्रेणाभयकुमारेण कौशलात्प्रतिबोधित इति । तीर्थं नद्यादेखि संसारस्य तरणे (१) प्रवचनी धर्मकथी वादी नैमित्तिकः तपस्वी च । विद्यावान् सिद्ध कविः अष्टैव प्रभावका भणिताः ।।
For Personal & Private Use Only
R-OK+10+10+2018+3+0<*+++
द्वितीयः
प्रकाशः ।
॥ ६५ ॥
Page #149
--------------------------------------------------------------------------
________________
1 सुखावतारो मार्गः । तच्च द्विधा द्रव्यतीर्थ भावतीर्थ च । द्रव्यतीर्थ तीर्थकृतां जन्मदीक्षाज्ञाननिर्वाणस्थानम् । यदाह
जम्मं दिक्खा नाणं तित्थयराणं महाणुभावाणं । जत्थ य किर निव्वाणं आगाढं दंसणं होइ ॥ १॥
भावतीर्थे तु चतुर्विधः श्रमणसः प्रथमगणधरो वा । यदाह-“तित्थं भन्ते तित्थं तित्थयरे तित्थं ? * गोयमा! अरिहा ताव नियमा तित्थंकरे, वित्थं पुण चाउव्वले समणसंधे पढमगणहरे वा" । तीर्थस्य सेवा तीर्थसेवा ॥१६॥
अस्य सम्यक्त्वस्य भूषणान्युक्त्वा दूषणान्याहशङ्काकाङ्क्षाविचिकित्सामिथ्यादृष्टिप्रशंसनम्। तत्संस्तवश्व पश्चापि सम्यक्त्वं दूषयन्त्यलम्॥१७॥
पश्चापि शङ्कादयो निर्दोषमपि सम्यक्त्वं दूषयन्ति अलमतिशयेन । शङ्का सन्देहः सा च सर्वविषया देशविषया च । सर्वविषया अस्ति वा नास्ति वा धर्म इत्यादि । देशशङ्का एकैकवस्तुधर्मगोचरा। यथा अस्ति जीवः केवलं सर्वगतोऽसर्वगतो वा सप्रदेशोदेशो वेति । इयं च द्विधाऽपि भगवदर्हत्प्रणीतप्रवचनेषु अप्रत्ययरूपा सम्य
(१) जन्म दीक्षा ज्ञानं तीर्थकराणां महानुभावानाम् । यत्र च किल निर्वाणं आगाढं दर्शनं भवति ॥ (२) चतुर्वर्णः ।
(३) तीर्थ भगवन् तीर्थ तीर्थकरः तीर्थ ! गौतम ! अर्हन् तावन्नियमेन तीर्थंकरस्तीर्थ पुनश्चातुर्वर्णो श्रमणसङ्घः प्रथमगणधरो वा।
in Education Internat
For Personal & Private Use Only
Page #150
--------------------------------------------------------------------------
________________
योग-
शास्त्रम्
॥६६॥
त्वं दूषयति । केवलागमगम्या अपि हि पदार्था अस्मदादिप्रमाणपरीक्षानिरपेचा प्राप्तप्रणेतकत्वान्न सन्देग्धुं योग्या । द्वितीयः । यत्रापि मोहवशात कचन संशयो भवति तत्राप्यप्रतिहतेयमर्गला । यथा
प्रकाशः। ___ कत्थ य मइदुव्वल्वेण तम्विहायरियविरहो वावि । नेयगहणचणेण य नाणावरणोदएणं च ॥ १॥ 'हेऊदाहरणासंभवे असइ सुट्ट जं न बुझेजा । सव्वन्नुमयमवितहं तहावि तं चिंतए मइमं ॥२॥ 'अणुवकयपरागुग्गहपरायणा जंजिणा जगप्पवरा । जियरागदोसमोहा य ननहा वाइणो तेणं ॥३॥
यथा वा सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः मिथ्यादृष्टिः। सूत्रं हि नः प्रमाणं जिनाभिहितम । * कासा अन्यान्यदर्शनग्रहः । सापि सर्वविषया देशविषया च । सर्वविषया सर्वपाखण्डिधाकाङ्क्षारूपा । देशकाङ्क्षा
त्वेकादिदर्शनविषया यथा सुगतेन भिक्षणामक्लेशको धर्म उपदिष्टः स्नानानपानाच्छादनशयनीयादिषु सुखानुभवद्वारेण । यदाह___ मृद्वी शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराहे । द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्ते शाक्यसिंहेन दृष्टः॥१॥ इति
(१) क्व च ( क्वचन ) मतिदुर्बलेन तद्विधाचार्यविरहतो वापि । ज्ञेयगहनत्वेन च ज्ञानावरणोदयेन च ॥ (२) हेतूदाहरणासंभवे च सति सुष्टु यन्न बुध्येत । सर्वज्ञमतमवितथं तथापि तच्चिन्तयति मतिमान् ॥ (३) अनुपकृतपरानुग्रहपरायणा यजिना जगत्प्रवराः । जितरागदोष ( द्वेष ) मोहाश्च नान्यथा वादिनस्तेन ॥
६६॥
Latin Education Internatie
For Personal & Private Use Only
Page #151
--------------------------------------------------------------------------
________________
न
एतदपि घटमानकमेव न दुरापेतम् । तथा परिवादभौतब्राह्मणादयो विषयानुपभुजाना एव परलोकेऽपि सुखन युज्यन्त इति साधीयानेषोऽपि धर्म इति । एवं च काङ्गापि परमार्थतो भगवदर्हत्प्रणीतागमानाश्वासरूपा सम्यक्त्व दूषयति । विचिकित्सा चित्तविप्लवः, सा च सत्यपि युक्त्यागमोपपन्ने जिनधर्मेऽस्य महतस्तपःक्लेशस्य सिकताकणकवलवनिःस्वादस्यायत्यां फलसम्पद्भवित्री । अथ क्लेशमात्रमेवेदं निर्जराफलविकलमिति । उभयथा हि क्रिया दश्यन्ते सफला अफलाश्च कृषीवलादीनामिव इयमपि तथा सम्भाव्यते । यदाह
पुव्वपुरिसा जहोइअमग्गचरा घडइ तेसि फलजोगो । अम्हेसु य धीसंघयणविरहो न तह तेसि फलं ॥१॥ इति ॥
विचिकित्सापि भगवद्वचनानाश्वासरूपत्वात्सम्यक्त्वस्य दोषः। न च शङ्कातो नेयं भिद्यते । शङ्का हि सकलासकलपदार्थभाक्त्वेन द्रव्यगुणविषया, इयं तु क्रियाविषयैव । यद्वा विचिकित्सा निन्दा सा च सदाचारमुनिविषया यथा अस्त्रानेन प्रस्वेदजलक्लिन्नमलत्वाद्दुर्गन्धिवपुष एत इति । को दोषः स्याद्यदि प्रासुकवारिणाऽङ्गक्षालन | कुर्वीरनिति । इयमपि तत्त्वतो भगवद्धआनाश्वासरूपत्वात सम्यक्त्वदोषः३। मिथ्या जिनागमविपरीता दृष्टिदेशनं येषां ते मिथ्यादृष्टयस्तेषां प्रशंसनं प्रशंसा तच्च सर्वविषयं देशविषयं च । सर्वविषयं सर्वाण्यपि कपिलादिदर्शनानि युक्तियुक्तानीति माध्यस्थ्यसारा स्तुतिः सम्यक्त्वस्य षणम् । यदाचक्ष्महि स्तुती
(१) पूर्वपुरुषा यथोचितमार्गचरा घटते तेषां फलयोगः । अस्मासु च धीसंहननविरहतः न तथा तेषां फलम् ॥
in Education Internation
व
१२
For Personal & Private Use Only
Page #152
--------------------------------------------------------------------------
________________
योगशास्त्रम्।
द्वितीयः प्रकाशन
॥६७॥
सुनिश्चितं मत्सरिणो जनस्य, न नाथ मुद्रामतिशेरते ते । माध्यस्थ्यमास्थाय परीक्षका ये, मणौ च काचेच समानुबन्धाः ॥१॥
देशविषयं तु इदमेव बुद्धवचनं साङ्यकणादादिवचनं वा तत्त्वमिति । इदं तु व्यक्तमेव सम्यक्त्वदषणम। तैर्मिथ्यादृष्टिभिरेकत्र संवासात्परस्परालापादिजनितः परिचयः संस्तवः। एकत्रवासे हि तत्प्रक्रियाश्रवणाचत्क्रियादर्शनाच्च दृढसम्यक्त्ववतोऽपि दृष्टिभेदः सम्भाव्यते, किमुत मन्दबुडेनेवधर्मस्य इति संस्तवोऽपि सम्यक्त्वदूषणम् । एवंविधं च सम्यक्त्वं विशिष्टद्रव्यक्षेत्रकालभावसामय्यां सत्यां गुरोः समीपे विधिना प्रतिपद्य श्रावको यथावत्पालयति । यदाह_ 'समणोवासो तत्थ मिच्छताओ पडिक्कमे । दन्वओ भावो पुब्बिं सम्मत्तं पडिवजए ॥१॥ ने कप्पए से परतित्थियाणं, तहेव तेर्सि चिय देवयाणं । परिग्गहे ताण य चेइयाणं, पहावणावंदणपूयणाई ॥२॥ लोयाण तित्थेसु सिणाणदाणं, पिंडप्पयाणं हुणणं तवं च । संकंतिसोमग्गहणाइएसुं, पभूयलोयाण पवाहकिच्चं ॥३॥
एवं तावत्सागरोपमकोटीकोट्यां शेषायां किश्चिदूनायां मिथ्यात्वमोहनीयस्थितौ जन्तुः सम्यक्त्वं प्रतिपद्यते । सागरोपमकोटीकोव्यामप्यवशिष्टायां पन्योपमपृथक्त्वं यदा व्यतीतं भवति तदा देशविरतिं प्रतिपद्यते । यदाह
(१) श्रमणोपासकस्तत्र मिथ्यात्वात्प्रतिक्रामेत् । द्रव्यतो भावतः पूर्व सम्यक्त्वं प्रतिपद्यते ॥ (२) न कल्पते तस्य परतीक्षिकानां तथैव तेषामेव देवतानाम् । परिग्रहे तेषां च चैत्यानां प्रभावनावन्दनपूजनादि ॥ (३) लोकानां तीर्थेषु स्नानदानं पिण्डप्रदानं हवनं तपश्च । संक्रान्तिसोमग्रहणादिकेषु प्रभूतलोकानां प्रवाहकृत्यम् ॥
॥ ६७॥
in Education intern a
For Personal & Private Use Only
Page #153
--------------------------------------------------------------------------
________________
“ 'सम्मत्तम्मि उ लद्धे पलियपुहुत्तेण सावो होज ति" ॥ १७ ॥
सम्यक्त्वमूलानि पञ्चाणुव्रता त्युक्तं तत्र सम्यक्त्वमभिहितमिदानीमणुव्रतान्याह* विरतिं स्थूलहिंसादेविविधत्रिविधादिना । अहिंसादीनि पञ्चाणुव्रतानि जगदुर्जिनाः॥१८॥ । स्थूला मिथ्यादृष्टीनामपि हिंसात्वेन प्रसिद्धा या हिंसा सा स्थूलहिंसा स्थूलानां वा त्रसानां जीवानां हिंसा
स्थूलहिंसा । स्थूलग्रहणमुपलक्षणम् । तेन निरपराधसङ्कल्पपूर्वकहिंसानामपि ग्रहणं आदिग्रहणात स्थलानृतस्तेया1 ब्रह्मचर्यपरिग्रहाणां संग्रहः । एभ्यः स्थूलहिंसादिभ्यो या विरतिनिवृत्तिस्तामहिंसादीनि अहिंसासूनृतास्तेयब्रह्मच
पिरिग्रहान् पञ्चाणुव्रतानीति (तानि ) जिनास्तीर्थकरा जगदुः प्रतिपादितवन्तः । किमविशेषेण विरतिर्नेत्याह । द्विविधत्रिविधादिना भङ्गजालेन द्विविधः कृतकारितरूपस्त्रिविधो मनोवाकायभेदेन यत्र स द्विविधत्रिविध एको भङ्गः । इह यो हिंसादिभ्यो विरतिं प्रतिपद्यते, स द्विविधां कृतकारितभेदां त्रिविधेन मनसा वचसा कायेन चेति ।
एवं च भावना-स्थूलहिंसां न करोत्यात्मना न कारयत्यन्येन मनसा वचसा कायेन चेति । अस्य चानुमतिर|| प्रतिषिद्धा अपत्यांदिपरिग्रहसद्भावात् तैहिंसादिकरणे च तस्यानुमतिप्राप्तेः । अन्यथा परिग्रहापरिग्रहयोरविशेषण
प्रव्रजिताप्रबजितयोरभेदापत्तेः । ननु भगवत्यादावागमे त्रिविधं त्रिविधेनेत्यपि प्रत्याख्यानमुक्तमगारिणः, तच्चश्रुतोक्तत्वादनवद्यमेव तत्कस्मानोच्यते ? उच्यते-तस्य विशेषविषयत्वात् । तथाहि यः किल प्रविजिपरेव
(१) सम्यक्त्वे तु लब्धे पल्योपमपृथक्त्वेन श्रावको भवेदिति ।
in Education internate
For Personal & Private Use Only
Page #154
--------------------------------------------------------------------------
________________
योगशास्त्रम्।
द्वितीयः प्रकाश
॥६८॥
प्रतिमाः प्रतिषद्यते पुत्रादिसन्ततिपालनाय यो वा विशेष स्वयंभूरमणादिगतं मत्स्यादिमांसं स्थूलहिंसादिकं वा कचिदवस्थाविशेषे प्रत्याख्याति स एव त्रिविधं त्रिविधेनेति करोति । इत्यल्पविषयत्वानोच्यते । बाहुल्येन तु द्विविधं त्रिविधेनेति । द्विविधत्रिविध आदिर्यस्य द्विविधत्रिविधादेर्भङ्गजालस्य तेन ॥
द्विविधं द्विविधेनेति द्वितीयो मङ्गः द्विविधमिति स्थलहिंसां न करोति न कारयति द्विविधेनेति मनसा वचसा यद्वा मनसा कायेन यद्वा वाचा कायेनेति । तत्र यदा मनसा वाचा न करोति न कारयति तदा मनसा अभिसन्धिरहित एव वाचापि हिंसकमब्रुवन्नेव कायेनैव दुश्चेष्टितादिना असंज्ञिवत्करोति । यदा तु मनसा कायेन न करोति न कारयति तदा मनसाभिसन्धिरहित एव कायेन दुश्चेष्टितादि परिहरनेवानाभोगाद्वाचैव हन्मि घातयामि वेति ब्रूते । यदा तु वाचा कायेन न करोति न कारयति तदा मनसैवाभिसन्धिमधिकृत्य करोति कारयति च । अनुमतिस्तु त्रिभिरपि सर्वत्रैवास्ति । एवं शेषविकल्पा अपि भावनीयाः ।
द्विविधमेकविधेनेति तृतीयः द्विविधं करणं कारणं च एकविधेन मनसा यद्वा वचसा यद्वा कायेन । एकविधं त्रिविधेनेति चतुर्थः एकविधं करणं यद्वा कारणं मनसा वाचा कायेन च ।
एकविधं द्विविधेनेति पञ्चमः एकविधं करणं यद्वा कारणं द्विविधेन मनसा वाचा यद्वा मनसा कायेन यद्वा वाचा कायेन ।
एकविधमेकविधेनेति षष्ठः एकविधं करणं यद्वा कारणं एकविधेन मनसा यद्वा वाचा यद्वा कायेन । यदाह
॥६८॥
in Education interna
For Personal & Private Use Only
Page #155
--------------------------------------------------------------------------
________________
Jain Education Internat
14-08+0.03++-→
विवि पढो दुविहं दुविहे बीओ होइ । दुविहं एगविहेां एगविहं चेव तिविद्देण ॥ १ ॥ एगविहं दुविहेणं एगेगविहेण छठ्ठओ हो ।
एते च मङ्गाः करणत्रिकेण योगत्रिकेण च विशेष्यमाणा एकोनपञ्चाशद्भवन्ति । तथाहि
हिंसां न करोति मनसा १ वाचा २ कायेन ३ मनसा वाचा ४ मनसा कायेन ५ वाचा कायेन वा ६ मनसा वाचा कायेन च ७ एते करणेन सप्त भङ्गाः ।
एवं कारणेन सप्त । अनुमत्या सप्त । तथा हिंसां न करोति न कारयति च मनसा १ वाचा २ कायेन ३ मनसा वाचा ४ मनसा कायेन ५ वाचा कायेन वा ६ मनसा वाचा कायेन च ७ । एते करणकारणाभ्यां सप्त भङ्गाः ।
एवं करणानुमतिभ्यां सप्त । कारणानुमतिभ्यामपि सप्त । करणकारणानुमतिभिरपि सप्त । एवं सर्वे मीलिता एकोनपञ्चाशद्भवन्ति । एते च त्रिकालविषयत्वात् प्रत्याख्यानस्य कालत्रयेण गुणिताः सप्तचत्वारिंशदधिकं शतं भवन्ति । यदाह -
'सेयालं भंगसयं पच्चक्खाणम्मि जस्स उवलद्धं । सो खलु पच्चक्खाणे कुसलो सेसा अकुसलाभो ॥ १ ॥ (१) द्विविधत्रिविधेन प्रथमो द्विविधं द्विविधेन द्वितीयो भवति । द्विविधं एकविधेन एकविधं चैव त्रिविधेन । एकविधं द्विविधेन एकविधेन षष्ठको भवतीति ।
(१) सप्तचत्वारिंशत्भङ्गशतं प्रत्याख्याने यस्य उपलब्धम् । स खलु प्रत्याख्याने कुशलः शेषा अकुशलाः ॥
For Personal & Private Use Only
R-60%-*0-10
www.jainvelibrary.org
Page #156
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
॥६६॥
निकालविषयता चातीतस्य निन्दया साम्प्रतिकस्य संवरणेन अनागतस्य प्रत्याख्यानेनेति । यदाह
द्वितीयः "अंडअंनिंदामि पडुप्पन्नं संवरेमि अणागयं पञ्चक्खामि त्ति" । एते च भङ्गा अहिंसावतमाश्रित्योपदर्शिताः प्रकाशन व्रतान्तरेष्वपि द्रष्टव्याः ॥१८॥
एवं सामान्येन हिंसादिगोचरां विरतिमुपदर्य प्रत्येकं हिंसादिषु तामुपदिदयिषुर्हिसायां तावदाहपङ्गकुष्टिकुणित्वादि दृष्ट्वा हिंसाफलं सुधीः। निरागस्त्रसजन्तूनां हिंसां सङ्कल्पतस्त्यजेत् ॥१९॥
इह नादृष्टपापफलाः पापानिवर्तन्त इति पापफलमुपदर्शयन् हिंसाविरतिव्रतमुपदिशति । पङ्गुः सत्यपि !! पादे पादविहरणाक्षमः, कुष्ठी त्वग्दोषी, कुणिर्विकलपाणिः, तेषां भावः पङ्गुकुष्ठिकुणित्वम् । आदिग्रहणात्पङ्गत्वोपलक्षितमधःकायवैगुण्यम् , कुष्ठित्वोपलक्षितं सकलरागजातम् , कुणित्वोपलक्षितमुपरिकायवैगुण्यं संगृह्यते । एतद्धिंसाफलं दृष्ट्वा सुधीरिति बुद्धिमान् , स हि शास्त्रबलेन हिंसायाः फलमेतदिति निश्चित्य हिंसां त्यजेत् । अत्र विधौ सप्तमी। केषां ? निरागस्त्रसजन्तूनां निरागसो निरपराधास्त्रसा द्वीन्द्रियादयस्तेषां सङ्कल्पेन सङ्कल्पतः आधादित्वात्ततीयान्तात्तसुः । निरागस इति निरपराधजन्तुविषयां हिंसां प्रत्याचष्टे सापराधस्य तु न नियमः त्रसग्रहणेनैकेन्द्रियविषयां हिंसां नियमयितुं न क्षम इत्याचष्टे-सङ्कल्पत इति अमुं जन्तुं मांसाद्यर्थित्वेन हन्मीति सङ्कल्पपूर्वकं हिंसा वर्जयेत् । पारम्भजा तु हिंसा अशक्यप्रत्याख्यानेति तत्र यतनामेव कुर्यादिति । अत्रान्तरश्लोकाः(१) अतीतं निन्दामि प्रत्युत्पन्नं संवृणोमि अनागतं प्रत्याख्यामीति ।
॥६ ॥
in Education internate
For Personal & Private Use Only
Page #157
--------------------------------------------------------------------------
________________
येषामेकान्तिको भेदः सम्मतो देहदेहिनोः । तेषां देहविनाशेऽपि न हिंसा देहिनो भवेत ॥ १॥ अभेदैकान्तवादेऽपि स्वीकृते देहदेहिनोः। देहनाशे देहिनाशात्परलोकोऽस्तु कस्य वै ॥२॥ भिन्नाभिन्नतया तस्माजीवे | देहात्प्रतिश्रुते । देहनाशे भवेत्पीडा या तां हिंसां प्रचक्षते ॥३॥ दुःखोत्पत्तिर्मन क्लेशस्तत्पर्यायस्य च क्षयः। यस्यां स्यात्सा प्रयत्नेन हिंसा हेया विपश्चिता ॥ ४॥ प्राणी प्रमादतः कुर्याद्यत्प्राणव्यपरोपणम् । सा हिंसा जगदे प्राीज संसारभूरुहः॥५॥शरीरी म्रियतां मा वा ध्रुवं हिंसा प्रमादिनः। सा प्राणव्यपरोपेऽपि प्रमादरहितस्य न ॥६॥ जीवस्य हिंसा न भवेनित्यस्यापरिणामिनः। क्षणिकस्य खयं नाशात्कथं हिंसोपपद्यताम् ॥ ७॥ नित्यानित्ये ततो जीवे परिणामिनि युज्यते । हिंसा कायवियोगेन पीडातः पापकारणम् ॥८॥ केचिद्वदन्ति हन्तव्याः प्राणिनः प्राणिघातिनः । हिंस्रस्यैकस्य घाते स्याद्रक्षणं भूयसां किल ॥६॥ तदयुक्तमशेषाणां हिंस्रत्वात्प्राणिनामिह । हन्तव्यता स्यात्तल्लाभमिच्छोमूलक्षतिः स्फुटा ॥१०॥ अहिंसासम्भवो धर्मः स हिंसातः कथं भवेत् । न तोयजानि पद्मानि जायन्ते जातवेदसः ॥ ११ ॥ पापहेतुर्वधः पापं कथं छेत्तुमलं भवेत् । मृत्युहेतुः कालकूटं जीविताय न जायते ॥ १२ ॥ संसारमोचकास्त्वाहुर्दुःखिनां वध इष्यताम् । विनाशे दुःखिनां दुःखविनाशो जायते किल ॥ १३ ॥ तदप्यसाम्प्रतं ते हि हता नरकगामिनः। अनन्तेषु नियोज्यन्ते दुःखेषु स्वन्पदुःखकाः ॥ १४ ॥ किं च सौख्यवतां घाते धर्मः स्यात्पापवारणात् । इत्थं विचार्य हेयानि वचनानि कुतीर्थिनाम् ॥१॥ चार्वाकाः प्राहुरात्मैव तावन्नास्ति कथश्चन । तं विना कस्य सा हिंसा कस्य हिंसाफलं भवेत् ॥१६॥ भूतेभ्य एव चैतन्यं पिष्टादिभ्यो यथा मदः। भूतसंहतिनाशे च पश्चत्वमिति कथ्यते ॥ १७॥ आत्माभावे च तन्मूल:
JainEducation
For Personal Private Use Only
Page #158
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥ ७० ॥
Jain Education Internation
K+ 1)
परलोको न युज्यते । श्रभावे परलोकस्य पुण्यापुण्यकथा वृथा ॥ १८ ॥ तर्पासि यातनाचित्राः संयमो भोगवश्चना । इति विप्रतिपत्तिभ्यः परेभ्यः परिभाष्यते ।। १६ ।। स्वसंवेदनतः सिद्धः स्वदेहे जीव इष्यताम् । श्रहं दुःखी सुखी वाहमिति प्रत्यययोगतः ॥ २० ॥ घटं वे यहमित्यत्र त्रितयं प्रतिभासते । कर्म क्रिया च कर्त्ता च तत्कर्त्ता किं निषिध्यते ॥ २१ ॥ शरीरमेव चेत्कर्तृ न कर्त्तृ तदचेतनम् । भूतचैतन्ययोगाच्चेच्चेतनं तदसङ्गतम् ॥ २२ ॥ मया दृष्टं श्रुतं स्पृष्टं घ्रातमास्वादितं स्मृतम् । इत्येककर्तृकाभावात् भूतचिद्वादिनः कथम् || २३ || स्वसंवेदनतः सिद्धे स्वदेहे चेतनात्मनि । परदेहेऽपि तत्सिद्धिरनुमानेन साध्यते ॥ २४ ॥ बुद्धिपूर्वी क्रियां दृष्ट्वा स्वदेहेऽन्यत्र तद्गतिः । प्रमाणबलतः सिद्धा केन नाम निवार्यते ।। २५ ।। तत्परलोकिनः सिद्धौ परलोको न दुर्घटः । तथा च पुण्यपापादि सर्वमेवोपपद्यते ।। २६ ।। तपांसि यातनाचित्रा इत्याद्युन्मत्तभाषितम् । सचेतनस्य तत्कस्य नोपहासाय जायते ॥ २७ ॥ निर्वाधोऽस्ति ततो जीवः स्थित्युत्पादव्ययात्मकः । ज्ञाता द्रष्टा गुणी भोक्ता कर्त्ता काय प्रमाणकः ॥२८॥ तदेवमात्मनः सिद्धौ हिंसा किं नोपपद्यते । तदस्याः परिहारेणा हिंसात्रतमुदीरितम् || २६ ॥ १६ ॥ हिंसानियमे स्पष्टं दृष्टान्तमाहश्रात्मवत्सर्वभूतेषु सुखदुःखे प्रियाप्रिये । चिन्तयन्नात्मनोऽनिष्टां हिंसामन्यस्य नाचरेत् ॥२०॥ सुखशब्देन सुखसाधनमन्नपानस्रक्चन्दनादि गृह्यते । दुःखशब्देन दुःखसाधनं वधबन्धमारणादि । ततो ( १ ) स्वयमेवो ० ।
For Personal & Private Use Only
द्वितीयः प्रकाशः
॥७०॥
Page #159
--------------------------------------------------------------------------
________________
यथात्मनि दुःखसाधनमप्रियं तथा सर्वभूतेष्वपि । एवं चिन्तयन् दुःखसाधनत्वादप्रियां परस्य हिंसां न कुर्वीत । सुखग्रहणं दृष्टान्तार्थम् । यथा सुखसाधनं प्रियमेवं दुःखसाधनमप्रियम् । तथा सर्वभूतेष्वपि दुःखसाधनमप्रियमित्यर्थः। यदाहुलौकिका अपि
श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ १ ॥ इति ॥ २० ॥
ननु प्रतिषिद्धाचरणे दोपः, प्रतिषिद्धा च त्रसजीवविषया हिंसा. स्थावरेष त्वप्रतिषिद्धहिंसेषु यथेष्टं चेष्टन्तां - गृहस्था इत्याहनिरर्थिकां न कुर्वीत जीवेषु स्थावरेष्वपि । हिंसामहिंसाधर्मज्ञः काङ्क्षन्मोक्षमुपासकः ॥२१॥ ___स्थावराः पृथिव्यम्बुतेजोवायुवनस्पतयस्तेष्वपि जीवेषु हिंसां न कुर्वीत । किंविशिष्टां ? निरर्थिको प्रयोजन
रहिता, शरीरकुटुम्बनिर्वाहनिमित्तं हि स्थावरेषु हिंसा न प्रतिषिद्धा, या त्वर्थिका शरीरकुटुम्बादिप्रयोजनरहिता * तादृशीं हिंसां न कुर्वीत उपासका श्रावकः । किविशिष्टः? अहिंसाधर्मज्ञः अहिंसालक्षणं धर्म जानातीति अहिंसा
धर्मज्ञः। न हि प्रतिषिद्धवस्तुविषयैवाहिंसा धर्मः किन्त्वप्रतिषिद्धेष्वपि सा यतनारूपा । ततश्च तथाविधं धर्म जानन् का स्थावरेष्वपि निरर्थिकां हिंसां न विदधीत । ननु प्रतिषिद्धविषयैवाहिंसास्तु किमनया सूक्ष्मक्षिकया ? इत्याह-काङ्क्षन्मोतं, स हि मोक्षाकाङ्की यतिवत् कथं निरर्थिकां हिंसामाचरेत ॥ २१ ॥
ननु निरन्तरहिंसापरोऽपि सर्वस्वं दक्षिणां दत्वा पापविशुद्धिं विदध्यात किमनेन हिंसापरिहारक्लेशेन ? इत्याह
in Education International
For Personal & Private Use Only
Page #160
--------------------------------------------------------------------------
________________
योगशास्त्रम
द्वितीयः प्रकाशः।
॥७१॥
प्राणी प्राणितलोभेन यो राज्यमपि मुञ्चति । तद्वधोत्थमघं सर्वोर्वीदानेऽपि न शाम्यति॥२२॥
प्राणी जन्तुः प्राणितं जीवितव्यं तस्य लोभेन राज्यमपि तत्कालोपस्थितं परिहरति । यदाहमार्यमाणस्य हेमाद्रिं राज्यं वाथ प्रयच्छतु । तदनिष्टं परित्यज्य जीवो जीवितुमिच्छति ॥१॥
तत्तथाविधप्राणितप्रियप्राणिवधसम्भवं पापं सकलपृथ्वीदानेनापि न शाम्यति । भूदानं हि सकलदानेभ्योऽभ्यधिकमिति श्रुतिः ॥ २२॥
अथ श्लोकचतुष्टयेन हिंसाक निन्दामाहवने निरपराधानां वायुतोयतृणाशिनाम् । निनन् मृगाणां मांसार्थी विशिष्येत कथं शुनः ? ॥२३॥
समिति "निप्रेभ्यो नः"॥२॥२॥१५॥ इति कर्मत्वप्रतिषेधाच्छेषे षष्ठी । वने वनवासिनां न त परस्वीकृतभूमिवासिनां । तथाविधा अपि सापराधाः स्युरित्याह-निरपराधानां परधनहरणपरगृहभङ्गपरमारणाद्यपराधरहितानां । निरपराधत्वे हेतुमाह-वायुतोयवृणाशिनाम् , न हि वायुतोयतृणानि परधनानि येन तद्भक्षणात्सापराधत्वं स्यात् । मांसार्थीति अत्रापि मृगाणामिति सम्बध्यते । मृगाणां यन्मांसं तदर्थयते, मृगग्रहणेनाटविकाः प्राणिनो गृह्यन्ते । एवंविधमृगमांसार्थी मृगवधपरायणो निरपराधमानुषपिचण्डिकामांसलुब्धाच्छुनः कथं विशिष्येत श्ववेत्यर्थः ॥ २३॥ दीर्यमाणः कुशेनापि यः स्वाङ्गे हन्त दूयते। निर्मन्तून् स कथं जन्तूनन्तयेन्निशितायुधैः॥२४॥
॥
७
॥
in Education Internat
For Personal & Private Use Only
Page #161
--------------------------------------------------------------------------
________________
दीर्यमाणो विदार्यमाणः कुशेन दर्मेण अपिशब्दादास्तां शस्त्रेण यः स्वाङ्गे शरीरे हन्तेति प्रतिबोध्यामत्रणे यते उपतप्यते । निर्मान्तूनिरपराधान् जन्तून् स कथं अन्तयेदन्तं प्रापयेत् निशितायुधैः कुन्तादिभिः ? पात्मानुसारेणापि परपीडामजाननेवं निन्द्यते । तथा च मृगयाव्यापृतान् क्षत्रियान् प्रति केनचिदुक्तम्
रसातलं यातु यदत्र पौरुषं, के नीतिरेषाऽशरणो ह्यदोषवान् ।
निहन्यते यदलिनातिदुबेलो, हहा महाकष्टमराजकं जगत ॥१॥२४॥ A निर्मातुंक्रूरकर्माणःक्षणिकामात्मनो धृतिम्।समापयन्ति सकलं जन्मान्यस्य शरीरिणः॥२५॥ ___ क्रूरं रौद्रं कर्म हिंसादि येषां ते क्रूरकर्माणो लुब्धकादयः । आत्मनः स्वस्य धृति स्वास्थ्यलक्षणां निर्मातु-1 मिति सम्बन्धः। धृतेर्विशेषणं क्षणिकामिति आजन्मशाश्वतिकधृतिनिमित्तं कदाचित्किश्चिद्विरुद्धमपि क्रियते । क्षणिकधृतिनिर्माणार्थे तु समापयन्ति समाप्तिं नयन्ति जन्म अन्यस्य वध्यस्य शरीरिणः। अयमर्थ:-परप्राणिमांसजन्यचणिकतृप्तिहेतोराकालिकं परस्यायुः समाप्यत इति महदिदं वैशसम् । यदाह- योऽश्नाति यस्य तन्मांसमुभयोः पश्यतान्तरम् । एकस्य क्षणिका तृप्तिः प्राणैरन्यो वियुज्यते ॥ १॥२५॥ | म्रियस्वेत्युच्यमानोऽपि देही भवति दुखितः। मार्यमाणःप्रहरणैर्दारुणैः स कथं भवतः ॥ __ म्रियख त्वमित्युच्यमानोऽपि न तु मार्यमाणो देही जन्तुर्जायमानमृत्युरिव दुःखितो भवतीति सर्वप्राणिप्रती
(१) कुनीति ।
in Education intet
For Personal & Private Use Only
Page #162
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥७२॥
तम्। प्रहरणैः कुन्ततोमरादिभिर्मार्यमाणो विनाश्यमानः स वराको देही कथं भवेत् ? परमदुःखित एव भवेदित्यर्थः। द्वितीयः मरणवचनेनाऽपि द्यमानस्य निशितैः शर्मारणमिति मृतमारणं तत्कथं सकर्णः कुर्यादिति निन्दा ॥२६॥
प्रकाशः। | हिंसाफलं दृष्टान्तद्वारेणाह
श्रूयते प्राणिघातेन रौद्रध्यानपरायणौ । सुभूमो ब्रह्मदत्तश्च सप्तमं नरकं गतौ ॥ २७ ॥ ____ श्रूयते आकर्ण्यते एतदागमे । यदुत प्राणिपातेन हेतुना सुभूमब्रह्मदत्तौ चक्रवर्तिनौ सप्तमं नरकं गतौ । हिंसाया नरकगमनहेतुत्वं न रौद्रध्यानमन्तरेण भवति । अन्यथा सिंहवधकतपस्विनोऽपि नरकः स्यादित्युक्तं रौद्रध्यानपरायणौ हिंसानुबन्धिध्यानयुक्तावित्यर्थः। यथा तौ नरकं गतौ तथा कथानकद्वारेण दर्श्यते । तथाहि
वसन्तपुरनामायां पुर्यामुच्छन्नवंशकः। आसीच्च्युत इवाकाशादग्निको नाम दारकः॥१॥ सोऽन्यदा | चलितस्तस्मात् स्थानाद्देशान्तरं प्रति । सार्थाद्धीनः परिभ्राम्यनगमत्तापसाश्रमम् ॥२॥ तमग्नि तनयत्वेनाग्रही
कुलपतिज॑मः । जमदग्निरिति ख्यातिं स लोकेषु ततोऽगमत ॥३॥ तप्यमानस्तपस्तीक्ष्णं प्रत्यक्ष इव पावकः। तेजसा दुःसहेनासौ पप्रथे पृथिवीतले ॥४।। अत्रान्तरे महाश्राद्धो नाम्ना वैश्वानरः सुरः। धन्वन्तरिश्च तापसभक्तो व्यवदतामिति ॥५॥ एक आहाहतां धर्मः प्रमाणमितरः पुनः । तापसानां विवादेऽस्मिन् व्यधातामिति निर्णयम् ॥ ६॥ आईतेषु जघन्यो यः प्रकृष्टस्तापसेषु यः । परीक्षणीयावावाभ्यां को गुणैरतिरिच्यते ॥७॥ HI तदानीं मिथिलापुर्या नवधर्मपरिष्कृतः । श्रीमान् पद्मरथो नाम प्रस्थितः पृथिवीपतिः ॥८॥ दीक्षां श्रीवासु- 1
ITI॥७२॥
Jan Education Intema
For Personal & Private Use Only
Page #163
--------------------------------------------------------------------------
________________
पूज्यन्ते ग्रहीतुं भावतो यतिः । गच्छथम्पापुरीं ताभ्यां देवाभ्यां ददृशे पथि ॥ ६ ॥ परीक्षाकाङ्क्षया ताभ्यां पानाने ढौकिते नृपः । तृषितः क्षुधितोऽप्यज्झद्वीराः सत्त्वाञ्चलन्ति न ॥ १० ॥ क्रकचैरिव चक्राते क्रूरैः कर्करकण्टकैः । पीडां देवौ नृदेवस्य मृदुनोः पादपद्मयोः ॥ ११ ॥ पादाभ्यां प्रचरद्रक्तधाराभ्यां तादृशेऽध्वनि । तूलिकातलसञ्चारं संचेरे च तथापि सः ॥ १२ ॥ दिर्ममे गीतनृत्यादि ताम्यां चोमाय भूपतेः । तन्मोघमभवत्तत्र दिव्यास्त्रमिव गोत्रजे ।। १३ ।। तौ सिद्धपुत्ररूपेण पुरोभूयेदमूचतुः । तवाद्यापि महाभाग महदायुर्युवासि च ॥ १४ ॥ स्वच्छन्दं भुंक्ष्व तद्भोगान् का वीर्यद्यौवने तपः । निशीथकृत्यं कः प्रातः कुर्यादुद्योगवानपि ।। १५ यौवने तदतिक्रान्ते देहदौर्बन्यकारणम् । गृह्णीयास्त्वं तपस्तात द्वितीयमिव वार्द्धकम् ।। १६ ।। राजोचे यदि बह्वायुर्वहुपुण्यं भविष्यति । जलमानेन नलिनीनालं हि परिवर्द्धते ॥ १७ ॥ लोलेन्द्रिये यौवने हि यत्तपस्तत्तपो ननु । दारुणास्त्रे रणे यो' हि शूरः शूरः स उच्यते ॥ १८ ॥ तस्मिन्नचलिते सच्चात्साधु साध्विति वादिनौ । तौ तौ तापसोत्कृष्टं जमदग्निं परीचितुम् ॥ १६ ॥ न्यग्रोधमिव विस्तारिजटासंस्पृष्टभूतलम् । वन्मीकाकीर्णपादान्तं दान्तं तौ तमपश्यताम् ।। २० ।। तस्य श्मश्रुलताजाले नीडं निर्माय मायया । तदैव देवौ चटकमिथुनीभूय तस्थतुः ।। २१ ।। चटकश्चटकामूचे यास्यामि हिमवगिरौ । अन्यासक्तो नैष्यसि त्वमिति तं नान्वमंस्त सा ॥ २२ ॥ गोघातपातकेनाहं गृह्ये नायामि चेत्प्रिये । इत्युक्तशपथं भूयश्रटकं चटकाऽब्रवीत् || २३ || ऋषेरस्यैनसा गृह्ये शपेथा इति चेत्प्रिय । विसृजामि तदैव त्वां पन्थानः सन्तु ते शिवाः ॥ २४ ॥ इत्याकर्ण्य वचः क्रुद्धो जमदग्निम्मुनिस्ततः । उभाभ्यामपि हस्ताभ्यामुभौ जग्राह पचिणौ ॥ २५ ॥ श्राचचचे ततो हन्त कुर्वाणे दुष्करं
१३
Jain Education Shal
For Personal & Private Use Only
8-10-08+0.08+
Page #164
--------------------------------------------------------------------------
________________
योगशास्त्रम्
द्वितीयः प्रकाशः।
॥७३॥// पुस गतिर्नास्तीत्या
तपः। उष्णरश्माविव ध्वान्तमाः पापं मयि कीदृशम् ॥ २६ ॥ अथर्षि चटकोवाच मा कुपस्ते मुधा तपः। अपुत्रस्य गतिर्नास्तीत्यश्रौषीस्त्वं न कि श्रुतिम् ॥ २७ ॥ तत्तथा मन्यमानोऽयं मुनिरेवमचिन्तयत् । ममाकलनपुत्रस्य प्रवाहे मूत्रितं तपः ॥ २८॥ क्षुभितं तं परिज्ञाय धिम् भ्रान्तस्तापसैरिति । जज्ञे धन्वन्तरिः श्राद्धः प्रत्येति प्रत्ययान कः ।। २8 ।। बभूवतुरदृश्यौ च तावपि त्रिदशौ तदा । जमदग्निश्च सम्प्राप पुरं नेमिककोष्टकम् ॥३०॥ जितशत्रुमहीपालं तत्र भूयिष्ठकन्यकम् । स प्रेप्सुः कन्यकामेकां दक्षं हर इवागमत् ॥३१॥ कृत्वाभ्युत्थानमुशि: प्राञ्जलिस्तमभाषत । किमर्थमागता यूयं ब्रूत किं करवाण्यहम् ॥३२॥ कन्यार्थमागतोऽस्मीति मुनिनोक्ते नृपोऽब्रवीत् । मध्ये शतस्य कन्यानां त्वां येच्छति गृहाण ताम् ॥ ३३ ॥ स कन्यान्तःपुरं गत्वा जगाद नृपकन्यकाः। धर्मपत्नी मम काचिद्भवतीभ्यो भवत्विति ॥३४॥ जटिलः पलितः क्षामो भिक्षाजीवो वदन्निदम् । न लजसे त्वमिति ताः कृतथुत्कारमृचिरे ॥३५॥ समीरण इव क्रुद्धो जमदग्निमुनिस्ततः । अधिज्येष्वासयष्ट्याभाः कन्याः कुब्जीचकार ताः ॥३६॥अथाङ्गणे रेणुपुझे रममाणां नृपात्मजाम् । एकामालोकयामास रेणुकेत्यब्रवीच ताम्॥३७॥ स तस्या इच्छसीत्युक्त्वा मातुलिङ्गमदर्शयत् । तया प्रसारितः पाणिः पाणिग्रहणसूचकः॥३८॥तां मुनिः परिजग्राह रोरोधनमिवोरसा। सार्द्ध गवादिभिस्तस्मै ददौ च विधिवन्नृपः।।३६ ।। सश्यालीस्नेहसम्बन्धादेकोनं कन्यकाशतम्। सज्जीचके तपःशक्त्या धिग्मूढानां तपोव्ययः॥४०॥नीत्वाश्रमपदं तां च स मुग्धमधुसकृतिम् । हरिणीमिव लोलाक्षी प्रेम्णा मुनिरवर्द्धयत् ४१ अङ्गुलीभिर्गणयतो दिनान्यस्य तपस्विनः । यौवनं चारुकन्दर्पलीलावनमवाप सा ॥४२॥ साक्षीकृतज्वलदग्निर्ज
१ अघिज्यधनुर्यष्टितुल्याः ।
॥७३॥
in Education intem
For Personal & Private Use Only
Page #165
--------------------------------------------------------------------------
________________
मदग्निमुनिस्ततः । यथावदुपयेमे तां भूतेश इव पार्वतीम् ॥ ४३ ॥ ऋतुकाले स ऊचे तां चलं ते साधयाम्यहम् । यथा ब्राह्मणमूर्धन्यो धन्य उत्पद्यते सुतः॥४४॥ सोवाच हस्तिनपुरेऽनन्तवीर्यस्य भूपतेः। पल्ल्यस्ति मत्स्वसा तस्यै चरुः क्षात्रोऽपि साध्यताम् ॥ ४५ ॥ ब्रामं सधर्मचारिण्यै क्षात्रं तजामयेऽपरम् । स चरुं साधयामास पुत्रीयमुपजीवितुम् ॥ ४६ ॥ साचिन्तयदहं तावदभूवमटवीमृगी । मा भून्मादृक् सुतोऽपीति क्षात्रं चस्मभक्षयत् ॥४७॥ सादाबा चरुं स्वस्र जातौ च तनयौ तयोः । तत्र रामो रेणुकायाः कृतवीर्यश्च तत्स्वसुः॥४८॥ क्रमेण ववृधे राम ऋषित्वे पैतृकेऽपि सः। क्षात्रं प्रदर्शयंस्तेजो हुताशनमिवाम्भसि ।। ४६ ॥ विद्याधरोऽन्यदा तत्र कोऽप्यागादतिसारकी । विद्या तस्यातिसाराा विस्मृताकाशगामिनी ॥५०॥ रामेण प्रतिचरितो भेषजायैः स बन्धुवत् । रामाय सेवमानाय विद्या पारशवीं ददौ ॥५१॥ मध्येशरवणं गत्वा तां च विद्यामसाधयत् । रामः परशुरामोऽभूत्ततः प्रभृति विश्रुतः ॥५२॥ अन्येयुः पतिमापृच्छ्य रेणुकोत्कण्ठिता स्वसुः । जगाम हस्तिनपुरे प्रेम्णो
दूरे न किश्चन ॥५३॥ श्यालीति लालयन् लोललोचनां तत्र रेणुकाम् । अनन्तवीर्योऽरमयत्कामः कामं निरङ्कुश: T॥ ५४॥ ऋषिपल्ल्या तया राजाहल्ययेव पुरन्दरः । अन्वभूच्च यथाकामं सम्भोगसुखसम्पदम् ॥५॥ अनन्तवी
त्तिनयो रेणुकायामजायत । ममतायामिवोतथ्यः सधर्मिण्यां बृहस्पतेः॥५६ ॥ तेनापि सह पुत्रेण रेणुकामानयन्मुनिः । स्त्रीणां लुब्धो जनः प्रायो दोष न खलु वीक्षते ॥ ५७ ॥ तां पुत्रसहितां वल्लीमकालफलितामिव । सञ्जातकोपः परशुरामः परशुनाच्छिनत् ॥ ५८॥ तद्भगिन्या स वृत्तान्तोऽनन्तवीर्यस्य शंसितः। कोपमुद्दीपयामास कृशानुमिव मारुतः ॥५६॥ ततश्चावार्यदोर्योऽनन्तवीर्थो महीपतिः । जमदग्न्याश्रमं गत्वाभाजीन्मत्त इव
For Personal & Private Use Only
Lain Education intern
Page #166
--------------------------------------------------------------------------
________________
योग
शास्त्रम् ॥ ७४ ॥
Jain Education Interna
द्विपः ॥ ६० ॥ तापसानां कृतत्रासः समादाय गवादि सः । मन्दं मन्दं परिक्रामन् केसरीव न्यवर्त्तत ॥ ६१ ॥ त्रस्यत्तपस्वितुमुलं श्रुत्वा ज्ञात्वा च तां कथाम् । क्रुद्धः परशुरामोऽथाधावत्साचादिवान्तकः ॥ ६२ ॥ सुभटग्रामसंग्रामकौतुकी जमदग्निजः । पर्शुना खण्डशचक्रे दारुवद्दारुणेन तम् ॥ ६३ ॥ राज्ये निवेशयाश्चक्रे तस्य प्रकृतिपूरुषैः । कृतवीर्यो महावीर्यः स एव तु वयोलघुः || ६४ ॥ स तु मातृमुखाच्छ्रुत्वा मृत्युव्यतिकरं पितुः । आदिष्टाहिरिवागत्य जमदग्निममारयत् ॥ ६५ ॥ रामः पित्वधक्रुद्धो द्राग्गत्वा हस्तिनापुरे | अमारयत्कृतवीर्यं किं यमस्य दवयसि ॥ ६६ ॥ जामदग्न्यस्ततस्तस्य राज्ये न्यविशत स्वयम् । राज्यं हि विक्रमाधीनं न प्रमाणं क्रमाक्रमौ ॥ ६७ ॥ रामाक्रान्तपुराद्राज्ञी कृतवीर्यस्य गुर्विणी । व्याघ्राघ्रातवनादेणीवागमत्तापसाश्रमम् ॥ ६८ ॥ कृपाधनैर्भूगृहान्तः सा निधाय निधानवत् । तपस्विभिर्गोप्यते स्म क्रूरात्परशुरामतः ॥ ६६ ॥ चतुर्दशमहास्वमसूचितोऽस्याः सुतोऽजनि । गृह्णन् भूमिं सुखेनाभूत्सुभूमो नामतस्ततः ॥ ७० ॥ क्षत्रियो यत्र यत्रासीत्तत्र तत्राप्यदीप्यत । पर्शुः परशुरामस्य कोपानिरिव मूर्त्तिमान् ॥ ७१ ॥ रामोऽगादन्यदा तत्राश्रमे पर्शुश्च सोऽज्वलत् । चत्रं चासूचयद्भूम इव धूमध्वजं तदा ॥ ७२ ॥ किमत्र क्षत्रियोऽस्तीति पृष्टास्तेन तपस्विनः । इत्यूचुस्तापसीभूताः क्षत्रिया वयमास्महे ॥ ७३ ॥ रामोऽप्यमर्षान्निः चत्रां सप्तकृत्वो वसुन्धराम् । निर्ममे निस्तृणां शैलतटीमिव दवानलः ॥ ७४ ॥ मक्षत्रियदंष्ट्रा भी रामः स्थालमपूरयत् । यमस्य पूर्णकामस्य पूर्णपात्रश्रियं दधत् ।। ७५ ।। रामः पप्रच्छ नैमित्तानन्येद्युर्मे कुतो वधः । सदा वैरायमाणा हि शङ्कन्ते परतो मृतिम् ॥ ७६ ॥ यो दंष्ट्राः पायसीभूताः सिंहासन इह स्थितः । भोच्यतेऽमुस्ततस्त्यस्ते वधो भावीति तेऽब्रुवन् ॥ ७७ ॥ रामोऽथ
For Personal & Private Use Only
40X0208-11
द्वितीयः प्रकाशः ।
॥ ७४ ॥
Page #167
--------------------------------------------------------------------------
________________
कारयामास सत्रागारमवारितम् । परि सिंहासनं तत्रास्थापयत्स्यालमग्रतः ।। ७८ ।। अथाश्रमे प्रतिदिन लालयइस्तपास्वाभः । निन्यङ्गम इव सुभूमो वृद्धिमद्भताम् ॥ ७६ || विद्याधरो मेघनादोऽन्येानमित्तिकानिति । पारपप्रच्छ पचाः कन्या मे कस्य दीयताम || ८०॥ तस्या बरं वरीयांसं सुभमं तेऽप्यपादिशन् । दचा कन्यां ततस्तस्मै तस्येवाभूत्स सेवकः ॥ १॥ कृपमेक इवानन्ययोऽथ पप्रच्छ मातरम । सुभमः किमियानव लोकाध्यमधिकाऽपि किम् ॥ ८२ ॥ माताप्यचीकथदथो लोकोऽनन्तो हि वत्सक । मक्षिकापदमानं हि लोकमध्येऽयमाश्रमः ॥८३॥ अस्मिन् लोकेऽस्ति विख्यातं नगरं हस्तिनापुरम् । पिता ते कृतवीर्योऽभूत्तत्र राजा महाभुजः ॥ ८४ ॥ हवा ते पितरं रामो राज्यं स्वयमशिश्रियत । क्षिर्ति निःक्षत्रियां चक्रे तिष्ठामस्तद्भयादिह ।। ८५ ॥ तत्काल हास्तिनपुरे सुभूमो भौमवज्ज्वलन । जगाम वैरिण क्रुद्धः क्षात्रं तेजो हि दुद्धरम् ।।८६॥ तत्र सत्र यया सिह इव सिंहासनेविशत् । दंष्टास्ताः पायसीभूताः सुभुजो बुभुजे च सः॥८७॥ उत्तिष्ठमाना युद्धाय ब्राह्मणास्तत्र रक्षकाः । जनिरे मेघनादेन व्याघ्रण हरिणा इव ॥८८ ॥ प्रस्फुरदंष्ट्रिकाकेशो दशनैरधरं दशन् । ततो रामः क्रुधा कालपाशाकृष्ट इवाययौ ।। ८ ।। रामेण मुमुचे रोषात्सुभूमाय परश्वधः। विध्यातस्तक्षणं तस्मिन् स्फुलिङ्ग इव वारिणि ।।६० ॥ अस्वाभावात्सुभृमोऽपि दंष्ट्रास्थालमुदक्षिपत् । चक्रीरभूव तत्सद्यः किं न स्यात्पुण्यसम्पदा ॥४१॥ चक्रवत्त्येष्टमः सोऽथ तेन चक्रेण भास्वता । शिरः परशुरामस्य पङ्कजच्छेदमच्छिदत् ।। 8२ ॥ क्षमा निःक्षत्रियां रामः सप्तकृत्वो यथा व्यधात् । एकविंशतिकृत्वस्तां तथा निर्ब्राह्मणामसौ ।। ६३ ।। क्षुष्पक्षितिपह
१ मङ्गलग्रवत्.
Sain Education international
For Personal & Private Use Only
Page #168
--------------------------------------------------------------------------
________________
द्वितीयः प्रकाशा
योग- स्त्यश्वपदातिव्यहलोहितः । वाहयन् वाहिनीनेव्याः स प्राक् प्राचीमसाधयत् ॥ १४॥ स च्छिम्मानेकसभटमण्डमशास्त्रम् ।
ण्डितभतलः । दक्षिणाशा दक्षिणाशापतिरन्य इवाजयत् ॥६५॥ भटास्थिभिर्दन्तुरयन् शक्तिशरिवाभितः ।
रोधो नीरनिधेः सोऽथ प्रतीचीमजयद्दिशम् ॥ ६ ॥ हेलोद्घाटितवैवाढथकन्दरः स्थाममन्दरः । म्लेच्छान्विजेतुं ॥७५॥ भरतोत्तरखण्डं विवेश सः॥ १७॥ उच्छलच्छोणितरसच्छटाच्छुरितभूतलः । म्लेच्छांस्तत्राथ सोऽभावीदिनिव
महाकरी ॥६॥ एवं चतुर्दिशं भ्राम्यन् घरदृश्वणकानिव । दलयन् सुभटानुवीं स पद्खण्डामसाधयत् ॥६॥ उज्जासयन्नसुमतामिति नित्यरौद्र-ध्यानानलेन सततं ज्वलदन्तरात्मा । आसाद्य कालपरिणामवशेन मृत्यु, तां | सप्तमी नरकभूमिमगात्सुभूमः ॥१०॥
इति सुभूमचक्रवर्तिकथानकम् ॥ . अथ ब्रह्मदत्तकथा
साकेतनगरे चन्द्रावतंसस्य सुतः पुरा । नामतो मुनिचन्द्रोऽभूच्चन्द्रवन्मधुराकृतिः॥१॥ निर्विष्मः कामभोगेभ्यो भारेभ्य इव भारिकः। मुनेः सागरचन्द्रस्य पार्श्वे जग्राह स व्रतम् ॥२॥प्रव्रज्यां जगतः पूज्यां पालयनयमन्यदा देशान्तरे | विहाराय चचाल गुरुणा सह ॥३॥ स तु भिक्षानिमित्तेन पथि ग्रामं प्रविष्टवान् । सार्थाद्भष्टोष्टवीमाट यूथच्युत इवैणकः
॥४॥ स तत्र क्षुत्पिपासाभ्यामाकान्तो ग्लानिमागतः । चतुर्भिःप्रतिचरितो वल्लवैर्बान्धवैरिव ॥शा स तेषामुपकाराय निर्ममे धर्मदेशनाम् । अपकारिष्वपि कृपा सतां किं नोपकारिषु ॥६॥ प्रवव्रजुस्ते तत्पार्वे चत्वारः शमशालिनः ।
॥७५॥
Lain Education inter 20
For Personal & Private Use Only
Page #169
--------------------------------------------------------------------------
________________
Jain Education Internat
8-03-06-10+2+-+0.+-08-10-2
चतुर्विधस्य धर्मस्य चतस्र इव मूर्त्तयः ॥७॥ व्रतं तेऽपालयन् सम्यक् किन्तु द्वौ तत्र चक्रतुः । धर्मे जुगुप्सा चित्रां हि चित्तवृत्तिः शरीरिणाम् ॥ ८ ॥ जग्मतुस्तपसा तौ द्यां जुगुप्साकारिणावपि । स्वर्गाय जायतेऽवश्यमप्येकाः कृतं तपः ॥ ६ ॥ च्युत्वा ततो दशपुरे शाण्डिल्यब्राह्मणावुभौ । युग्मरूपौ सुतौ दास्यां जयवत्यां बभूवतुः । ॥ १० ॥ तौ क्रमाद्योवनं प्राप्तौ पित्रादिष्टौ च जग्मतुः । रक्षितुं क्षेत्रमीदृग् हि दासेराणां नियोजनम् ॥ ११ ॥ तयोः शयितयोर्नक्तं निःसृत्य वटकोटरात् । एकः कृष्णाहिना दष्टः कृतान्तस्येव बन्धुना ॥ १२ ॥ ततः सर्पोपलम्भाय द्वितीयोऽपि परिभ्रमन् । वैरादिवाशु तेनैव दष्टो दुष्टेन भोगिना ।। १३ ।। तावनातप्रतीकारौ वराकौ मृत्युमापतुः । यथाऽऽयातौ तथा यातौ निष्फलं जन्म धिक्तयोः ॥ १४॥ कालिञ्जरगिरिप्रस्थे मृग्या यमलरूपिणौ । मृगावजनिषातां तौ ववृधाते सदैव च ॥ १५ ॥ प्रीत्या सह चरन्तौ तौ मृगौ मृगणा हतौ । वाणेनैकेन ककालं कालधर्ममुपेयतुः ॥ १६ ॥ ततोऽपि मृतगङ्गायां राजहंस्या उभावपि अजायेतां सुतौ युग्मरूपिणौ पूर्वजन्मवत् ॥ १७ ॥ क्रीडन्तावेकदेशस्थौ धृत्वा जालेन जालिकः । ग्रीवां क्वा saiहीनानां हृीदृशी गतिः ॥ १८ ॥ वाराणस्यां ततोऽभूतां भूतदत्ताभिवस्य तौ । महाधनसमृद्धस्य मातङ्गाधिपतेः सुतौ ॥ १६ ॥ चित्रसम्भूतनामानौ तौ मिथः स्नेहशालिनौ । न कदापि व्ययुज्येतां सम्बद्धौ नखमांसवत् ।। २० ।। वाराणस्यां तदा चाभूच्छङ्ख इत्यवनीपतिः । आसीच्च सचिवस्तस्य नमुचिर्नाम विश्रुतः ॥ २१ ॥ परेद्युः सोऽपराधे महीयस महीभुजा । अर्पितो भूतदत्तस्य प्रच्छन्नवधहेतवे ।। २२ ।। तेनोचे नमुचिछन्नं त्वां रक्षामि निजात्मवत् । पाठयस्यात्मजौ मे त्वं यदि भूमिगृहस्थितः || २३ || प्रतिपन्नं नमुचिना तन्मातङ्गपतेर्वचः ।
For Personal & Private Use Only
17.0K++70.K+K+1,03
Page #170
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
॥ ७६ ॥
OK+-**-• -*****03-13-**०/-(10
जनो हि जीवितव्यार्थी तन्नास्ति न करोति यत् || २४ ॥ विचित्राचित्रसम्भूतौ स तथाऽध्यापयत् कलाः । रेमे - नुरक्तया सार्द्धं मातङ्गपतिभार्यया ।। २२ ।। ज्ञात्वा तद्भूतदत्तेनारेभे मारयितुं स तु । सहते कः स्वदारेषु पारदारिकविप्लवम् ॥ २६ ॥ ज्ञात्वा मातङ्गपुत्राभ्यां स दूरेणापसारितः । सैवास्मै दक्षिणा दत्ता प्राणरक्षणलक्षणा ||२७|| ततो निःसृत्य नमुचिर्गतवान् हस्तिनापुरे । चक्रे सनत्कुमारेण सचिवश्चक्रिणा निजः ॥ २८ ॥ इतश्च चित्रसम्भूतौ तुर्नवयौवनौ । कुतोऽपि हेतोरायातौ पृथिव्यामाश्विनाविव || २६ || तौ स्वादु जगतुगतं हाहाहूहूपहासिनौ । वादयामासतुर्वीणामतितुम्बुरुनारदौ || ३० || गतिप्रबन्धानुगतैः सुव्यक्तेः सप्तभिः स्वरैः । तयोर्वादयतोर्वेणुं किंकरन्ति स्म किन्नराः || ३१ || मुरजं धीरघोषं तौ वादयन्तौ च चक्रतुः । गृहीत मुरकंकालातोद्य कृष्णविडम्बनाम् ॥ ॥ ३२ ॥ शिवः शिवोर्वशीरम्भामुख केशीतिलोत्तमाः । यन्नाट्यं न विदाञ्चक्रुस्तौ तदप्यभिनिन्यतुः ॥ ३३ ॥ सर्वगान्धर्वसर्वस्वमपूर्वं विश्वकार्म्मणम् । प्रकाशयद्भचामेताभ्यां न जहे कस्य मानसम् ॥ ३४ ॥ तस्यां पुरि प्रववृते कदाचिन्मदनोत्सवः । निरीयुः पौरचर्चय्र्यस्तत्र संगीतपेशलाः || ३५ ॥ चर्चरी निर्ययौ तत्र चित्रसम्भूतयोरपि । जग्मुस्तत्रैव तद्गीताकृष्टाः पौरा मृगा इव ॥ ३६ ॥ राज्ञो व्यज्ञपि केनापि मातङ्गाभ्यां पुरीजनः । गीतेनाकृष्य सर्वोऽयमात्मवन्मलिनः कृतः ॥ ३७ ॥ चमापेनापि पुराध्यक्षः साक्षेपमिदमाज्ञपि । न प्रवेशः प्रदातव्यो नगर्यामनयोः कचित् ॥ ३८ ॥ ततः प्रभृति तौ वाराणस्या दूरेण तस्थतुः । प्रवृत्तचैकदा तत्र कौमुदीपरमोत्सवः ॥ ३६ ॥ राजशासनमुल्लङ्घय लोलेन्द्रियतया च तौ । प्रविष्टौ नगरी भृङ्गौ गजगण्डतटीमिव ॥ ४० ॥ उत्सवं प्रेक्षमाणौ तौ सर्वाङ्गीणावगुण्ठनौ । दस्युवन्नगरीमध्ये नं नं विचेरतुः ॥ ४१ ॥ क्रोष्टुवत्क्रोष्टुशब्देन
For Personal & Private Use Only
- 70.+-+403-08+030
द्वितीयः
प्रकाशः ।
॥ ७६ ॥
Page #171
--------------------------------------------------------------------------
________________
। पौरगीतेन तौ ततः। अगायतां तारतारमलक्या भवितव्यता ॥४२॥ आकर्ण्य कर्णमधुरं तद्गीतं युवनागरैः ।
मधुवन्मक्षिकाभिस्तौ मातङ्गौ परिवारितौ ॥४३॥ कावेताविति विज्ञातुं लोकैः कष्टावगुण्ठनौ । अरे तावेव मातङ्गावित्याक्षेपण भाषितौ ॥४४॥ नागरैः कुट्यमानौ तौ यष्टिर्मिलॊष्टुभिस्ततः । श्वानाविव गृहात्पुयों (योः)
नतग्रीवो निरीयतुः ॥४५॥ तौ सैन्यशशवल्लोहन्यमानौ पदे पदे । स्खलत्पादौ कथमपि गम्भीरोद्यानमीयतुः ||॥४६॥ तावचिन्तयतामेवं धिग् नौ दुर्जातिषितम् । कलाकौशलरूपादि पयो घ्रातमिवाहिना ॥४७॥
उपकारो गुणैरास्तामपकारोऽयमावयोः । तदिदं क्रियमाणायाः शान्तेर्वेताल उत्थितः ॥४८॥ कलालावण्यरूपाणि स्यूतानि वपुषा सह । तदेवानर्थसदनं तृणवत्त्यज्यतां क्षणात् ॥ ४६ ॥ इति निश्चित्य तौ प्राणपरिहारपरायणौ । मृत्यु साक्षादिव द्रष्टुं चेलतर्दक्षिणामभि॥५०॥ ततो दूरं प्रयातौ तौ गिरिमेकमपश्यताम् । यत्रारूढे वीक्ष्यन्ते कारण: किरिपोतवत् ॥५१॥ भृगुपातेच्छया ताभ्यामाराहद्भ्यां महामुनिः। ददृशे पर्वते तस्मिन् जङ्गमो गुणपवेल : ॥५२॥ प्रावृषण्यमिवाम्भोदं मुनि गिरिशिरःस्थितम् । दृष्ट्वा प्रणष्टसन्तापग्रसरौ तौ बभूवतुः ॥ ५३॥ तौ प्राग्दुःखामिवोज्झन्तावानन्दाश्रुजलच्छलात् । तत्पादपद्मयोर्भङ्गाविव सद्यो निपेततुः ॥ ५४॥ समाप्य मुनिना ध्यानं को युवा किमिहागतौ । इति पृष्टौ स्ववृत्तान्तं तावशेषमशंसताम् ॥ ५५ ॥ स ऊचे भृगुपातेन वपुरेव हि शीर्यते । शीर्यते नाशुभं कमें जन्मान्तरशतार्जितम् ॥ ५६ ॥ त्याज्यं वपुरिदं वां चेद गृहीतं वपुषः फलम् । तच्चापवर्गस्वगोदिकारणं परमं तपः ॥ ५७॥ इत्यादिदेशनावाक्यसुधानिध/तमानसौ । तस्य पार्श्व जगृहतुतिधर्ममुभावपि ॥ ५॥ अधीयानौ क्रमेणाथ तौ गीतार्थों बभूवतुः । आदरण गृहीतं हि किंवा न स्यान्मनस्विनाम् ॥ ५९ ॥ षष्ठाष्टमग्र
For Personal Private Use Only
Page #172
--------------------------------------------------------------------------
________________
योगशास्त्रम्
द्वितीयः प्रकाशः।
॥ ७७॥
भतिभिस्तौ तपोभिः सुदुस्तपैः । क्रशयामासतुहं प्राक्तनैः कर्मभिः सह ॥ ६०॥ ततो विहरमाणौ तौ ग्रामादग्राम पुरात्पुरम् । कदाचित्प्रतिपेदाते नगरं हस्तिनापुरम् ॥६१|| तौ तत्र हाचरोद्याने चेरतुर्दुश्चरं तपः । सम्भोगभूमयोऽपि स्युस्तपसे शान्तचेतसाम् ॥ ६२॥ सम्भृतमुनिरन्येधुर्मासक्षपणपारणे । पुरे प्रविष्टो भिक्षार्थ यतिधर्मोऽङ्गवानिव ॥ ६३ ॥ गेहाद्गुहं परिभ्राम्यन्नीर्यासमितिपूर्वकम् । स राजमार्गापतितो दृष्टो नमुचिमन्त्रिणा ॥६४॥ मातङ्गदारकः सोऽयं मद्त्तं ख्यापयिष्यति । मन्त्रीति चिन्तयामास पापाः सर्वत्र शङ्किताः ॥६५॥ यावन्मन्मन कस्यापि प्रकाशयति न ह्यसौ । तावन्निासयाम्येनमिति पत्तीन्ययुक्त सः॥६६॥ स ताडयितुमारेभे तेन पूर्वोपकार्यापि क्षीरपाणमिवाहीनामुपकारोऽसतां यतः ॥ ६७ ॥ लकुटैः कुट्यमानोऽसौ सस्यबीजमिवोक्तटैः। स्थानात्ततोऽपचक्राम त्वरितं त्वरितं मुनिः ॥८॥ अमुच्यमानः कुट्टाकैनियन्नपि मुनिस्तदा। शान्तोऽप्यकुप्यदापोऽपि तप्यन्ते वह्नितापतः ॥६६॥ निर्जगाम मुखात्तस्य बाष्पो नीलः समन्ततः । अकालोपस्थिताम्भोदविभ्रमं विभ्रदम्बरे ॥ ७॥ तेजोलेश्योल्ललासाथ ज्वालापटलमालिनी । तडिन्मण्डलसङ्कीर्णामिव द्यामभितन्वती ॥ ७१।। अतिविष्णुकुमारं तं तेजोलेश्याधरं ततः। प्रसादयितुमाजग्मुः पौराः सभयकौतुकाः ॥ ७२ ॥ राजा सनत्कुमारोऽपि ज्ञात्वा तत्र समाययौ । उचिष्ठति यतो वह्निस्तद्धि विध्यापयेत्सुधीः ॥ ७३ ॥ नत्वोचे तं नृपः किं वो युज्यते भगवन्निदम् । चन्द्राश्माांशुतप्तोऽपि नाचिर्मुश्चति जातुचित् ॥७४॥ एभिरत्यपराद्धं यत्कोपोऽयं भवतामतः । क्षीराब्धेर्मथ्यमानस्य कालकूटमभून्न किम् ।। ७५ ।। न स्यात्स्यान्चेचिरं न स्याचिरं चेत्तत्फलेऽन्यथा । खलस्नेह इव क्रोधः सतां तहमहेऽत्र किम् ।। ७६ ॥ तथापि नाथ नाथामि कोपं मुञ्चेतरोचितम् । भवादृशाः समदृशो ह्यपकार्युपकारिषु
| ७७ ।।
in Education Internation
For Personal & Private Use Only
Page #173
--------------------------------------------------------------------------
________________
arke-...
॥ ७७॥ चित्रोऽप्यवान्तरे ज्ञात्वा सम्भूतमुनिमभ्यगात् । सान्त्वयितुं भद्रमिव द्वियं मधुरभाषितैः ।। ७८ ।। तस्य कोप उपाशाम्यनित्रवाक्यैः श्रुतानुगैः। पयोवाहपयःपूनिगरिय दवानलः ।। ७६ ।। महाकोपतमोमुक्तः शशाङ्क इव पार्वणः । क्षणादासादयामास प्रसादं स महामुनिः।। ८ ।। वन्दित्वा क्षमयित्वा च लोकस्तस्मान्यवर्तत ।। सम्भूतश्चित्रमुनिना तदुधानमनीयत ॥८१॥ पश्चातापं चक्रतुस्तौ पर्यटद्भिगृहे गृहे । आहारमात्रककृते प्राप्यते व्यसनं महत् ।।८२॥ शरीरं गत्वरमिदं ह्याहारेणापि पाषितम् । किमनेन शरीरेण किं बाहारेण योगिनाम् ।।३।। चेतसीति विनिश्चित्य कृतसंलेखनौ पुरा । उभी चतुर्विधाहारप्रत्याख्यानं प्रचक्रतुः ।। ८४ ॥ कः पराभूतवान्साधु वसुधाम्पाति मग्यपि । इति जिज्ञासतो राज्ञो मन्त्री व्यज्ञपि केनचित् ।। ८५ ।। अान्नार्चति यः सोऽपि पापः किमुत हन्ति यः । इत्यानाययदुर्वीशो दस्युवत्संयमय्य तम् ॥८६॥ अन्योऽपि साधुविध्वंसं मा विधादिति शुद्धधीः । तं बद्धं पुरमध्येन सोनपीत्साधुसन्निधौ ॥ ८७॥ नमन्नृपशिरोरत्नभाभिरम्भोमयीमिव । कुर्वन्नुर्वी स उर्वीशपुङ्गवस्ताववन्दत ।। ८८।। सव्यपाणिगृहीतास्यवस्विकापिहिताननौ। उदक्षिणकरौ तौ तमाशशंसतुराशिपा ॥८६॥ यो वोऽपराधवान् सोऽस्तु स्वकर्मफलभाजनम् । राज्ञा सनत्कुमारणेत्यदर्शि नमुचिस्तयोः ॥१०॥ अमोचि नमुचिः प्राप्तः पञ्चत्वोचितभूमिकाम् । सनत्कुमारतस्ताभ्यामुरगो गरुडादिव ॥९१ ॥ निवास्य कर्मचण्डालश्चण्डाल इव पत्तनात् । वध्योऽप्यमोच्यसौ राज्ञा मान्यं हि गुरुशासनम् ॥ १२ ॥ सपत्नीभिश्चतुःषष्टिसहस्रैः परिवारिता । वन्दितुं तौ सुनन्दागात् स्त्रीरत्नमथ चक्रिणः ।।६३॥ सा सम्भूतमुनेः पादपद्मयोर्खलितालका । पपातास्येन कुर्वाणा भुवमिन्दुमतीमिव ।।६।। तस्याश्चालकसंस्पर्श सम्भूतमुनिरन्वभूत् । रोमाश्चितश्च |
in Education international
For Personal & Private Use Only
Page #174
--------------------------------------------------------------------------
________________
योग-
द्वितीयः प्रकाशः.
। ७८॥
मयोभनमा सयोऽभूच्छलान्वेषी हि मन्मथः ||५॥ अथ सान्तःपुरे राज्ञि तायनुज्ञाप्य जम्मुपे । रागाभिभूतः सम्भूतो निदानमिति निर्ममे ।। ६६ ॥ दुष्करस्य मदीयस्य यद्यस्ति तपसः फलम् । तत्स्त्रीरत्नपतिरह भूयासं भाविजन्मनि ॥७॥ चित्रोऽप्यूचे काहीद मोक्षदात्तपसः फलम् । मौलियोग्येन रत्नेन पादपीठं करोपि किम् ।।६८ ॥ मोहात्कृतं तन्निदानमिदानीमाप मुच्यताम् । मिथ्यादुष्कृतमस्थास्तु मुद्यन्ति न भवादृशाः || ६ || एवं निवायेमाणोऽपि सम्भूतश्चित्रसाधना । निदानं नामुचदहो विपयेच्छा बलीयसी ।। १०० ॥ निव्यंढानशनी ता तु प्राप्तायुःकर्मसंक्षयों । सौधर्म समजायतां विमाने सुन्दरे सुरौ ॥१॥च्युत्वा जीवोऽध चित्रस्य प्रथमसालोकतः । पुरे पुरिमतालाख्ये महेभ्यत योऽभवत् ।। २ ।। च्युत्ता सम्भूतजीवोऽपि काम्पिन्ये ब्रह्म भूपतेः । भायायाधुलनी. देव्याः कुदा समवतीर्णवान् ।। ३ ।। चतुर्दशमहास्वमसूचितागामिवभवः । अथ जज्ञ सुतस्तस्याः प्राच्या इव दिवाकरः।। ४ । ब्रह्ममग्न इवानन्दाद् ब्रह्मभृपतिरस्य च । ब्रह्माण्डविश्रुता ब्रह्मदत्त इत्यभिधा व्यधात् ॥ ५॥ ववृध स जगन्नेत्रकुमुदानां मुददेशन् । पुष्यन् कलाकलापेन कलानिधिरिवामल: ।। ६ ।। वक्याणि ब्रह्मण इव चत्वारि ब्रह्मणो भवन् । प्रिय मित्राणि तत्रैकः कटकः काशिभूपतिः । ७॥ कणेरुदत्तसंज्ञोऽन्यो हस्तिनापुरनायकः । दीघश्च कोशलाधीशचस्पेशः पनुलका मातहाद्वपमकैकमकैकस्य पुरंगुनाः। पश्चाप्यधिवमन्ति स्म स्पद्रुमा इव नन्दनम् ।। ।। ब्रह्मणो नगरेऽन्येयुस्त यथायोगमाययुः । तत्र च कीडतां तो यया काल:कियानपि।।१०।। ब्रह्मदत्तम्य पूर्णेषु वर्षेप द्वादशेपथ । परलोकगतिं भजे ब्रह्मराजः शिरोरुजा ।। ११ ।। कृत्वौदेहिक ब्रह्मभूपतेः कटकादयः। उपाया इमत्तानेचमा मन्त्रमन्निनि।।१३॥ ब्रह्मदतः शिशुविदेककस्तापदन नःतस्य
।
in Education International
For Personal & Private Use Only
Page #175
--------------------------------------------------------------------------
________________
Jain Education Inte
प्राहरिक ३१ वर्षे वर्षेऽस्तु रक्षकः ॥ १३ ॥ दीर्घखातुं सुहृद्राज्यं तैः संयुज्य न्ययुज्यत । ततः स्थानाद्यथास्थानमथ जग्मुनयोऽपि ते ॥ १४ ॥ दीर्घबुद्धिदीर्घोऽपि ब्रह्मणो राज्यसम्पदम् । उक्षेवारक्षकं क्षेत्रं स्वच्छन्दं बुभुजे ततः ।। १५ ।। निरङ्कुशतया कोशं चिरगूढं स मूढधीः । सर्वमन्वेषयामासं परममेव दुर्जनः ।। १६ ।। स प्राक् परिचयादन्तरन्तःपुरमनर्गलः । सञ्चचाराधिपत्यं हि प्रायोऽन्धकरणं नृणाम् ॥ १७ ॥ एकान्ते चुलनीदेव्या सोऽतिमात्रममन्त्रयत् । वचोभिर्नम्र्मनिपुणैर्नुदन् स्मरशरैरिव ॥ १८ ॥ आचारं ब्रह्मसुकृतं लोकं चावगणय्य सः । संप्रसक्तश्चुलन्याभूद्दुवीराणीन्द्रियाणि हि ।। १६ ।। ब्रह्मराजे पतिप्रेम मित्रस्नेहं च तावुभौ । जहतुथूलनीदीर्घावहो सर्वङ्कषः स्मरः ॥ २० ॥ सुखं विलसतोरेवं यथाकामीनयोस्तयोः । बहवो व्यतियान्ति स्म मुहूर्त्तभित्र वासराः ॥ २१ ॥ ब्रह्मराजस्य हृदयं द्वैतीयीकमिव स्थितम् । मन्त्र्यज्ञासीद्धनुरिदं स्पष्टं दुश्रेष्टितं तयोः ॥ २२ ॥ सचिवोऽचिन्तयच्चेदं चुलनी स्त्रीस्वभावतः । श्रकार्यमाचरत्वेषा सत्यो हि विरलाः स्त्रियः ॥ २३ ॥ सकोशान्तःपुरं राज्यं न्यासे विश्वासतोऽर्पितम् । यद्विद्रवति दीर्घस्तदकार्यं नास्य किश्चन ।। २४ ।। तदसावाचरेत्किञ्चित्कुमारस्यापि विप्रियम् । पोषकस्यापि नात्मीयो मार्जार इव दुर्जनः ॥ २५ ॥ विमृश्येति वरधनुसंज्ञं स्वसुतमादिशत् । तत्तत् ज्ञापयितुं नित्यं ब्रह्मदत्तं च सेवितुम् ।। २६ ।। विज्ञप्ते मन्त्रिपुत्रेण वृत्तान्ते ब्रह्मनन्दनः । शनैः प्राकाशयत्कोपं नवोद्भिन्न इव द्विपः ||२७|| ब्रह्मदत्तोऽसहिष्णुस्तन्मातृदुश्चरितं ततः। मध्ये शुद्धान्तमगमगृहीत्वा काककोकिले ॥२८॥ वर्णसङ्करतो वध्यावेतावन्यमपीदृशम् । निश्चितं निग्रहीष्यामि तत्रेत्युच्चैरुवाच सः ॥ २६ ॥ काकोऽहं त्वं पिकी - त्यावां निजिघृक्षत्यसाविति । दीर्घेणोक्तेऽवदद्देवी मा भैषीर्वालभाषितात् ॥ ३० ॥ एकदा भद्रवशया सह नीवा
१४
For Personal & Private Use Only
Page #176
--------------------------------------------------------------------------
________________
योग
शास्रम्
॥ ७६ ॥
Jain Education Interns
मृगद्विपम्। साक्षेपं तद्वदेवाचे कुमारो मारसूचकम्॥ ३१ ॥ इति श्रुत्वाऽवदद्दीर्घः साकूतं बाल भाषितम्। ततश्चुलन्युवाचेति यद्यस्त्येवं ततोऽपि किम् ॥ ३२ ॥ हंस्याऽन्येद्युर्बकं बध्ध्वाभ्यधत्त ब्रह्मसूरिति । अनया रमते ह्येष सहे कस्यापि नेदृशम् ।। ३३ ।। दीर्घोऽवादीदिदं देवि स्वपुत्रस्य शिशोः शृणु । अन्तरुद्भिन्न रोषाग्निधूमोद्वारोपमा गिरः || ३४ ॥ वर्द्धमानः कुमारोऽयं तदवश्यं भविष्यति । श्रवयोरतिविघ्नाय करेण्वोरिव केसरी ॥ ३५ ॥ न यावत्क - वचहरः कुमारो हन्त जायते । तावद्विषद्रुम इव बालोऽप्युन्मूल्यतामसौ || ३६ || चुलन्यूचे कथं राज्यधरः पुत्रो विहन्यते । तिरश्च्योऽपि हि रक्षन्ति पुत्रान् प्राणानिवात्मनः ॥ ३७ ॥ दीर्घोऽब्रवीत्पुत्रमूर्त्या तव कालोऽयमागतः । मा हस्त्वं मयि सति सुतास्तव न दुर्लभाः ॥ ३८ ॥ विमुच्यापत्यवात्सल्यं शाकिनीव चुलन्यथ । रतस्नेहपरवशा प्रतिशुश्राव तत्तथा ॥ ३६ ॥ सामन्त्रयद्विनाश्योऽयं रक्ष्या च वचनीयता । यद्वदाम्रवणं सेक्यं कार्यं च पितृतर्पणम् ॥ ४० ॥ क उपायोऽथवास्त्येष विवाह्यो ब्रह्मसूरसौ । वासागारमिषात्तस्य कार्य जतुगृहं ततः ॥ ४१ ॥ गूढप्रवेशनिःसारे तत्रोद्वाहादनन्तरम् । सुषुप्ते सस्नुषेऽप्यस्मिन् ज्वाल्यो निशि हुताशनः ॥ ४२ ॥ उभाभ्यां मन्त्रयित्वैवं पुष्पचूलस्य कन्यका । वृता वैवाहिकी सर्वसामग्री चोपचक्रमे ॥ ४३ ॥ तयोश्च क्रूरमाकूतं विज्ञाय सचिवो धनुः । इति विज्ञपयामास दीर्घराजं कृताञ्जलिः ॥ ४४ ॥ कलाविन्नीतिकुशलः सूनुर्वरधनुर्मम । हलिहयुवेवास्तु त्वदाज्ञारथधूर्वहः ।। ४५ ।। जद्भव इवाहं तु यातायातेषु निःसहः । गरुण कचिदनुष्ठानं करोमि त्वदनुज्ञया ॥ ४६ ॥ कमप्यनर्थं कुर्वीत मायाव्येष गतोऽन्यतः । श्रशङ्कतेति तं दीर्घो धीमद्भ्यः को न शङ्कते
१ वृषभयुवा. (२) वृद्धवृषभः ।
For Personal & Private Use Only
द्वितीयः
प्रकाशः ।
॥ ७६ ॥
Page #177
--------------------------------------------------------------------------
________________
॥४७॥ मायाकृतावहित्थोऽथ दीर्घः सचिवमृचिवान् । राज्येन त्वां विना नः किं यामिन्येव विना विधम ॥४॥ धर्म सत्रादिनाऽत्रैव कुरु मा गास्त्वमन्यतः। राज्यं भवादृशै ति सद्वतैरिव काननम् ॥४६॥ ततो भागीरथीतीरे सद्बुद्धिर्विदधे धनुः । धर्मस्येव महाच्छत्रं पवित्रं सत्रमण्डपम् ।। ५० ॥ स च पान्थसार्थानामनपानादिना ततः । प्रवाहमिव गाङ्गं सोऽनवच्छिन्नमवाहयत् ॥५१॥ दानमानोपकारात्तैः स प्रत्ययितपूरुषैः । चक्रे सुरङ्गां द्विक्रोशां
ततो जतुगृहावधि ॥ ५२ ॥ इतः प्रच्छन्नलेखेन सौहाद्रुमवारिणा । इमं व्यतिकरं पुष्पचूलमज्ञापयद्धनुः •॥ ५३ ॥ ज्ञात्वा तत्पुष्पचूलोऽपि सुधीः खदुहितुः पदे । प्रेषयामास दासेरी हंसीस्थाने बीमिव
॥५४॥ पित्तले च स्वर्णमिति पौष्पचूलीति सा जनैः । लक्षिता भूषणमणिद्योतिताशाविशत्पुरीम् ॥ ५५ ॥ मच्छेद्गीतिध्वनितूर्यपूर्यमाणे नभस्तले । मुदा तां चुलनी ब्रह्मसू नुना पर्यणाययत् ॥५६ ॥ चुलन्यप्यखिलं लोकं विसृज्य रजनीमुखे । कुमारं सस्नुषं प्रैषीजातुषे वासवेश्मनि ॥ ५७ ॥ सवधकः कुमारोऽपि विसृष्टान्यपरिच्छदः। तत्रागाद्वरधनुना छाययेव स्वया सह ॥ ५८ ॥ वाताभिमन्त्रिपुत्रेण ब्रह्मदत्तस्य जाग्रतः। निशार्द्ध व्यतिचक्राम कुतो निद्रा महात्मनाम् ॥ ५६ ।। चुलन्यादिष्टपुरुषैः फूत्कर्तुं नमिताननैः । ज्वलेति प्रेरित इव वासगृहेऽज्वलच्छिखी ॥ ६० ॥ धूमस्तोमस्ततो विष्वक् पूरयामास रोदसीम् । चुलनीदीर्घदुष्कृत्यदुष्कीर्तिप्रसरोपमः ॥ ६१ ॥ सप्तजिहोऽप्यभूत्कोटिजिह्वो ज्वालाकदम्बकैः । तत्सर्व कवलीकर्तुं बुभुक्षित इवानलः ॥ ६२॥ किमेतदिति संपृष्टो ब्रह्मदत्तेन मन्त्रिसूः । संक्षेपादाचचक्षेऽदश्चलनीदुष्टचेष्टितम् ॥ ६३ ॥ आक्रष्टुं त्वामितः स्थानाद्रूपं करिकरादिव । अस्ति तातेन दत्तेह सुरक्षा सत्रगामिनी ॥ ६४ ॥ अत्र पाणिप्रहारेण प्रकाशीकृत्य तत्क्षणात् । योगीव विवर
Latin Education internal
For Personal & Private Use Only
Page #178
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥ ८० ॥
*03/000/-----*+C
द्वारं तद्द्वारं प्रविशाधुना ॥ ६५ ॥ आतोद्यपुटवत्सोऽथ पाणिनाऽऽस्फोट्य भूपुटम् । सुरङ्गया समित्रोऽगाद्रत्नरन्ध्रेण सूत्रवत् ।। ६६ ।। सुरङ्गान्ते धनुधृतौ तुरङ्गावध्यरोहताम् । राजमन्त्रिकुमारौ तौ रेवन्तश्रीविडम्बकौ ||६७|| पञ्चाशद्योजनीं क्रोशमिव पञ्चमधारया । अश्वौ जग्मतुरुच्छ्वासौ ततः पञ्चत्वमापतुः ॥ ६८ ॥ ततस्तौ पादचारेण प्राणत्राणपरायणौ । जग्मतुर्निकषा ग्रामं कृच्छ्रात्कोष्टकनामकम् ।। ६६ । प्रोवाच ब्रह्मदत्तोऽथ सखे वरधनोऽधुना । स्पर्द्धमाने इवान्योऽन्यं बाधेते क्षुत्तृषा च माम् ॥ ७० ॥ क्षणमत्र प्रतीक्षस्वेत्युक्त्वा तं मन्त्रिनन्दनः । ग्रामादाकारयामास नापितं वपनेच्छयो ॥ ७१ ॥ मन्त्रिपुत्रस्य मन्त्रेण तत्रैव ब्रह्मनन्दनः । वपनं कारयामास चूलामात्रमधारयत् ।। ७२ ।। तथा कषायवस्त्राणि पवित्राणि स धारयन् । सन्ध्याभ्रच्छन्नवालांशुमालिलीलामधारयत् ॥ ७३ ॥ कण्ठे वरधनुन्यस्तं ब्रह्मसूत्रमधत्त च । ब्रह्मपुत्रो ब्रह्मपुत्रसादृश्यमुदुवाह च ॥ ७४ ॥ मन्त्रिसूर्ब्रह्मदत्तस्य वक्षः श्रीवत्सलाञ्छितम् । पट्टेन पिदधे प्रावृट् पयोदेनेव भास्करम् ॥ ७५ ॥ एवं वेषपरावर्त्तं ब्रह्मसूः सूत्रधारवत् । पारिपार्श्विकवन्मन्त्रिपुत्रोऽपि विदधे तथा ॥ ७६ ॥ ततः प्रविष्टौ ग्रामे तौ पार्वणाविन्दुभास्करौ । केनापि द्विजवर्येण भोजनाय निमन्त्रितौ ॥ ७७ ॥ सोऽथ तौ भोजयामास भक्त्या राजानुरूपया । प्रायस्तेजोऽनुमानेन जायन्ते प्रतिपत्तयः ॥ ७८ ॥ कुमारस्याक्षतान्मूर्ध्नि क्षिपन्ती विप्रगेहिनी । श्वेतवस्त्रयुगं कन्यां चोपनिन्येऽप्सरः समाम् ॥ ७६ ॥ ऊचे ततो वरधनुर्बटोरस्याकलापटोः । कण्ठे बनासि किमिमां मूढे शण्डस्य गामिव ॥ ८० ॥ ततो द्विजवरेणोचे ममेयं गुणबन्धुरा । कन्या बन्धुमती नास्या विनासुमपरो वरः ॥ ८१ ॥ षट्खण्डपृथिवीपाता पतिरस्या भविष्यति । इत्याख्यायि निमित्तज्ञैर्निश्चितं चायमेव सः ॥ ८२ ॥ तैरेवाख्यायि मे पट्टच्छन्नश्रीवत्सलाञ्छनः ।
For Personal & Private Use Only
द्वितीयः
प्रकाश: ।
॥ ८० ॥
Page #179
--------------------------------------------------------------------------
________________
भोच्यते यस्तवगृहे तस्मै देया स्वकन्यका ॥३॥ जज्ञेच ब्रह्मदत्तस्योद्वाहः सह तया तदा । भोगिनामुपतिष्ठन्ते | भोगाः काममचिन्तिताः ॥८४ ॥ तामषित्वा निशां बन्धमतीमाश्वास्य चान्यतः । ययौ कुमार एकत्रावस्थान
सद्विषां कुतः ॥८शा प्रातामं प्रापतुस्तौ तत्र चाशृणुतामिदम् । पन्थानोऽधिब्रह्मदत्तं सर्वे दीर्पण रोधिताः ॥६॥ | प्रस्थितावुत्पथेनाथ पेततुस्तौ महाटवीम । निरुद्धां श्वापदैर्दीर्घपुरुषैरिव दारुणैः ॥८७॥ ततः कुमारं तृषितं मुक्त्वा वटतरोरधः । वारिणेऽगाद्वरधनुर्मनस्तुल्येन रंहसा ॥८८॥ ततो वरधनुः सोऽयमुपलक्ष्य न्यरुध्यत । रुपितेदर्दीघंपुरुषैः पोत्रिपोत इव श्वभिः ॥ ४॥ गृह्यतां गृह्यतामेष वध्यतां वध्यतामिति । भीषणं भाषमाणैस्तैर्जगृहे ववधे
च सः॥४०॥ संज्ञामधिब्रह्मदत्तं पलायस्वेति सोऽकृत । पलायिष्ट कुमारोऽपि समये खलु पौरुषम् ।। ६१॥ | ततस्तस्या महाटव्या महाटव्यन्तरं जवात् । ब्रह्मसूराश्रमीवागादाश्रमादाश्रमान्तरम् ।। ६२॥ स तु तत्र कृताहारा विरसैररसे: फलेः। तृतीये दिवसेऽपश्यदेकं तापसमग्रतः॥१३॥ कुत्राश्रमो वो भगवनिति पृष्टस्तपखिना। स खाश्रमपदं निन्ये तापसा ह्यतिथिप्रियाः ॥ ६४ ॥ सोऽथापश्यत्कुलपतिं ववन्दे पितवन मुदा। प्रमाणमन्तःकरणमविज्ञातेऽपि वस्तुनि ॥६५॥ ऊचे कुलपतिवत्स तवातिमधुराकृतेः। को हेतुरत्रागमने मरौ सुरतरोरिव ॥१६॥ ततो महात्मनस्तस्य विश्वस्तो ब्रह्मसूर्निजम् । वृत्तान्तमाख्यत्प्रायेण गोप्यं न खलु तादृशम् (शः ) || ॥ ६७ ॥ हृष्टस्ततः कुलपतिाहरद्गद्गदातरम् । द्विधास्थित इवात्मैको भ्राताहं त्वत्पितुलेंघुः ॥ ६ ॥ ततो निजगृहं प्राप्तस्तिष्ठ वत्स यथासुखम् । अस्मत्तपोभिर्वर्द्धख सहैवासन्मनोरथैः ॥88 ॥ कुर्वन् जनगा
१ किरिबालः.
in Education Interna
For Personal & Private Use Only
Page #180
--------------------------------------------------------------------------
________________
योग
द्वितीय प्रकाशः।
शास्त्रम्
॥८१॥
नन्दममन्दं विश्ववल्लभः । असौ तत्राश्रमे तस्थौ प्रावटकालोऽप्युपस्थितः ॥ २००॥ तत्राऽसौ निवसंस्तेन बलेनेव जनार्दनः। शास्त्राणि शस्त्राण्यत्राणि सर्वाण्यध्याप्यते स्म च ॥१॥ वर्षात्यये समायाते सारसालापबन्धुरे । बन्धाविव फलाद्यर्थ प्रचलुस्तापसा वनम् ॥२॥ सादरं कुलपतिना वार्यमाणोऽप्यगादूनम । तैः सह ब्रह्मदत्तोऽपि कलभः कलभैरिव ॥३॥ भ्रमनितस्ततोऽपश्यद्विण्मत्रं तत्र दन्तिनः । प्रत्यग्रमिति सोऽमस्त हस्ती कोऽप्यस्ति दूरतः ॥४॥ तापसैर्वार्यमाणोऽपि ततः सोऽनुपदं व्रजन् । योजनपश्चक
स्यान्ते नाग नगमिवैक्षत ॥५॥ निःशङ्क बद्धपर्यङ्कः कुर्वन् गर्जितमूर्जितम् । मल्लो मन्नमिवादास्त नृहस्ती मत्त" हस्तिनम् ॥ ६॥ क्रुधोद्धषितसर्वाङ्गो व्याकुञ्चितकरः करी । निष्कम्पकर्णस्ताम्रास्यः कुमारं प्रत्यधावत ॥७॥
इभोऽभ्यर्णेऽभ्यगाद्यावत् कुमारस्तावदन्तरे । उत्तरीयं प्रचिक्षेप तं वञ्चयितुमर्भवत् ॥८॥ अभ्रखण्डमिव भ्रश्यदन्तरिक्षात्तदंशुकम् । दशनाम्यां प्रतीयेष क्षणादेषोऽत्यमर्षणः॥६॥ एवंविधाभिश्चेष्टाभिः कुमारस्तं मतङ्गजम् । लीलया खेलयामासाहितुण्डिक इवारेगम् ॥ १०॥ सखेव ब्रह्मदत्तस्यात्रान्तरे कृतडम्बरः। धाराधरोऽम्बुधाराभिरुपदुद्राव तं गजम् ॥ ११ ॥ ततो रसित्वा विरसं मृगनाशं ननाश सः । कुमारोऽपि भ्रमन्नद्रिदिग्मूढः प्राप निम्नगाम् ॥ १२॥ उत्ततार कुमारस्तां नदी मूामिवापदम् । ददर्श च तटे तस्याः पुराणं पुरमुद्वसम् ॥ १३ ।। कुमारः प्रविशंस्तस्मिन्नपश्यद्वंशजालिकाम् । तत्रासिवसुनन्दौ चोत्पातकेतुविधू इव ॥ १४ ॥ तौ गृहीत्वा कृपाणेन कुमारः शस्त्रकौतुकी । चिच्छेद कदलीच्छेदं तां महावंशजालिकाम् ॥ १५ ॥ वंशजालान्तरे चासौ स्फुरदोष्ठदलं शिरः । ददर्श पतितं पृथ्व्यां स्थलपद्ममिवाग्रतः ॥ १६॥ सम्यक् पश्यन्त्रपश्यच्च ब्रह्मस्तत्र कस्यचित् ।
॥
१॥
JainEducation inteneK
For Personal & Private Use Only
Page #181
--------------------------------------------------------------------------
________________
वल्गुलीकरणस्थस्य कबन्धं धूमपायिनः॥१७॥ हा विद्यासाधनधनो निधनं प्रापितो मया। कोऽप्येषोऽनपराधो धिम् | मामिति स्वं निनिन्द सः ॥ १८ ॥ अग्रतः स ययौ यावत्तावदुद्यानमैक्षत । सुरलोकादवतीर्ममवन्यामिव नन्दनम् ॥१६॥ स तत्र प्रविशन्नग्रे प्रासादं सप्तभुमिकम् । अदर्शत्सप्तलोकश्रीरहस्यमिव मूच्छितम् ॥ २० ॥ आरूढेऽभ्रंलिहे तस्मिन्निषण्णां खेचरीमिव । हस्तविन्यस्तवदनां नारीमेकां स ऐक्षत ॥२१॥ उपमृत्य कुमारस्तां पप्रच्छ स्वच्छया गिरा ! का त्वमेकाकिनी किंवा किं वा शोकस्य कारणम् ॥ २२ ॥ अथ सा साध्वसाक्रान्ता जगादेति सगद्गदम् । महान् व्यतिकरो मेऽस्ति बृहि कस्त्वं किमागतः ।। २३ ।। ब्रह्मदत्तोऽस्मि पश्चालभूपतेर्ब्रह्मणः सुतः। इति सोऽचीकथद्यावन्मुदा सा तावदुत्थिता ॥ २४ ॥ आनन्दबाष्पसलिलैर्लोचनाञ्जलिविच्युतैः । सा कुर्वती पाद्य. मिव पपातामुष्य पादयोः ॥ २५ ॥ कुमाराशरणाया मे शरणं त्वमुपागतः । मजतो नौरिवाम्भोधी वदन्तीति रु
रोद सा ॥ २६ ॥ तेन पृष्टा च साप्यूचे त्वन्मातृभ्रातुरस्म्यहम् । नाम्रा पुष्पवती पुष्पचूलस्यङ्गपतेः सुता ॥२७॥ | कन्यास्मि भवते दत्ता विवाहदिवसोन्मुखी । हंसीव रन्तुमुद्याने दीर्घिकापुलिनेगमम् ॥ २८ ॥ दुष्टविद्याधरेणाहं नाटयोन्मत्ताभिधेन तु । अत्रापहृत्यानीतास्मि रावणेनेव जानकी ॥२६॥ दृष्टिं सोऽसहमानो मे विद्यासाधनहेतवे । शूर्पणखासूनुरिव प्राविशद्वंशजालिकाम् ॥३०॥ धूमपस्योर्ध्वपादस्य तस्य विद्याद्य सेत्स्यति । शक्तिमान् सिद्धविद्यः स किल मां परिणेष्यति ॥ ३१ ॥ ततस्तद्वधवृत्तान्तं कुमारोऽस्यै न्यवेदयत् । हर्षस्योपरि हर्षोऽभूत्प्रियाप्या विप्रियच्छिदा ॥३२॥ तयोरथ विवाहोऽभूगान्धर्वोऽन्योऽन्यरक्तयोः । श्रेष्ठो हि क्षत्रियेष्वेष निमन्त्रोऽपि सकामयोः
१ बल्गुलः पक्षिविशेषः, ततः च्विः
in Education interat
For Personal & Private Use Only
Page #182
--------------------------------------------------------------------------
________________
योगशास्त्रम्
द्वितीयः प्रकाशः।
॥
२
॥
॥ ३३ ॥ रममाणस्तया सार्द्ध विचित्रालापपेशलम् । स एकयामामिव तां त्रियामामत्यवाहयत् ।। ३४ ॥ ततः प्रभातसमये ब्रह्मदत्तेन शुश्रुवे । आकाशे खेचरस्त्रीणां कुररीणामिव ध्वनिः ॥ ३५॥ अकस्माजायते कोऽयं खे शब्दोऽनब्दवृष्टिवत् । तेनेति पृष्टा संभ्रान्ता पुष्पवत्येवमत्रवीत् ॥ ३६॥ भगिन्यौ त्वद्विषो नाट्योन्मत्तस्येमे समागते । नाम्ना खण्डा विशाखा च विद्याधरकुमारिके ॥ ३७॥ तन्निमित्तं विवाहोपस्करपाणी इमे मुधा। अन्यथा चिन्तितं कार्य दैवं घटयतेऽन्यथा ॥ ३८ ॥ अपसर्प क्षणं तावद्यावत्चद्गुणकीर्तनैः । लभेऽहमनयोर्भावं त्वयि रागविरागयोः ॥३०॥ रागे रक्तां प्रेरयिष्ये पताकां तचमापतेः । विरागे चालयिष्यामि श्वेतां गच्छेस्तदाऽन्यतः ॥ ४० ॥ ब्रह्मदत्तस्ततोऽवादीन्मा भैषी र नन्वहम् । ब्रह्मसूनुः किमेते मे तुष्ट रुष्ट करिष्यतः ॥ ४१ ॥ उवाच पुष्पवत्येवं नैताभ्यां वच्मि ते भयम् । एतत्सम्बन्धिनः किन्तु मा विरौत्सुनभश्चराः ॥४२॥ तस्याश्चित्तानुवृत्त्या तु तत्रैवास्थात् स एकतः । अथ पुष्पवती श्वेतां पताकां पर्यचीचलत् ॥४३॥ ततः कुमारस्तां दृष्ट्वा तत्प्रदेशाच्छनैः शनैः । प्रियानुरोधादगमन हि भीस्तादृशां नृणाम् ।। ४४॥ आकाशमिव दुर्गा ( ) हमरण्यमवगाह्य सः । दिनान्तेऽर्क इवाम्भोधि प्रापदेकं महासरः ।। ४५ ।। ततः प्रविश्य तत्रासौ सुरेभ इव मानसे । स्नात्वा स्वच्छन्दमत्यच्छाः सुधा इव पपावपः ।। ४६ ॥ निःसृत्य ब्रह्मसूधरात्तीरमुत्तरपश्चिमम् । लताक्वणदलिस्वानः सौस्नातिकमिवाभ्यगात् ॥ ४७ ।। तत्र तेन द्रुमलताकुङ्गे पुष्पाणि चिन्वती। वनाधिदेवता साक्षादिव काप्यति सुन्दरी ॥ ४८ ॥ दध्याविति कुमारोऽपि जन्मप्रभृति वेधसः। रूपाण्यभ्यस्य
२ सुस्नानपृच्छकमिव.
॥८२॥
in Education International
For Personal & Private Use Only
Page #183
--------------------------------------------------------------------------
________________
तोऽमुष्यां सञ्जातं रूपकौशलम् ॥ ४६॥ सा दास्या सह जन्पन्ती कटाक्षः कुन्दसोदरैः । कण्ठे मालामिवास्यन्ती तं पश्यन्त्यन्यतो ययौ ॥ ५० ॥ पश्यन् कुमारस्तामेव प्रस्थितो यावदन्यतः। वस्त्रभूषणताम्बूलभृद्दासी तावदाययों ॥५१॥ सा वस्त्राद्यपयित्वोचे या त्वया ददृशेऽत्र सा। सत्यङ्कारमिव स्वार्थसिद्धेः प्रैषीदिदं त्वयि ॥५२॥ आदिष्टा चास्मि यदमुं मन्दिरे तातमन्त्रिणः । नयातिथ्याय तथ्याय स हि वेत्ति यथोचितम् ॥ ५३॥ सोऽगात् सह तया वेश्म नागदेवस्य मन्त्रिणः । अमात्योऽप्यभ्युदस्थात्तमाकृष्ट इव तद्गुणैः॥ ५४ ॥ श्रीकान्तया राजपुत्र्या वासाय तव वेश्मनि । प्रेषितोऽसौ महाभागः सन्दिश्येति जगाम सा ॥ ५५ ॥ उपास्यमानः स्वामीव विविध
तेन मन्त्रिणा । क्षणदां आपयामास क्षणमेकमिवैष ताम् ।। ५६ ॥ मन्त्री राजकुलेज्नैषीत्कुमारं क्षणदात्यये । अर्था1 दिनोपतस्थेऽभु बालार्कमिव भूपतिः॥५७।। वंशाद्यपृष्ट्वापि नृपः कुमाराय सुतां ददौ । आकृत्यैव हि तत्सर्वे विदन्ति ननु तद्विदः॥ ५८॥ उपायंस्त कुमारस्तां हस्तं हस्तेन पीडयन् । अन्योऽन्यं संक्रमयितुमनुरागमिवाभितः ॥५६॥ ब्रह्मदत्तोऽन्यदा क्रीडन् रहः पप्रच्छ तामिति । एकस्याज्ञातवंशादेः पित्रा दत्तासि मे कथम् ॥ ६॥ श्रीकान्ता कान्तदन्तांशुधौताधरदलाब्रवीत् । राजा शबरसेनोऽभूद्वसन्तपुरपत्तने ॥६१॥ तत्सूनुर्मे पिता राज्ये निषम: क्रूरगोत्रिभिः। पर्यस्तोऽशिश्रियदिमा पल्लीं सबलवाहनः ॥ ६२ ॥ भिल्लानुपनमय्यात्र वार्वेग इव वेतसान् । ग्रामघातादिना तातः पुष्णाति स्वं परिग्रहम् ॥ ६२॥ जातास्मि चाहं तनया तातस्यात्यन्तवल्लभा । स्वामिन् सम्पदिवोपायांश्चतुरस्तनयाननु ॥६४ ॥ स मामुद्यौवनामूचे सर्वे मे द्वेषिणो नपाः । त्वयेह स्थितया वीक्ष्य शंस्यो यस्ते मतो वरः ॥ ६५ ।। तस्थुषी चक्रवाकीव सरस्तीरे निरन्तरम् । ततः प्रभृति पश्यामि सानेकैकशोऽ
Iain Education inte
For Personal & Private Use Only
Page #184
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥८३॥
ध्वगान् ॥ ६६ ॥ मनोरथानामगतिः स्वमेऽप्यत्यन्तदुर्लभः । आर्यपुत्रागतोऽसि त्वं मद्भाग्योपचयादिह ॥ ६७ ॥ द्वितीयः स पल्लीपतिरन्येधुग्रामघातकृते ययौ। कुमारोऽपि समं तेन क्षत्रियाणां क्रमो ह्यसो ॥ ६८ ॥ लुण्ख्यमाने ततो
प्रकाशः। ग्रामे कुमारस्य सरस्तटे । पादाब्जयोर्वरधनुरेत्य हंस इवापतत् ॥६६॥ कुमारकण्ठमालम्ब्य मुक्तकण्ठं रुरोद स: नवीभवन्ति दुःखानि सञ्जाते हीष्टदर्शने ॥ ७० ॥ ततः पीयूषगण्डूपैरिवालापैः सुपेशलैः । आश्वास्य पृष्टस्तेनोचे स्ववृत्तमिति मन्त्रिसूः ॥७१ ॥ वटे(टा)ऽधस्त्वां तदा मुक्त्वा गतोऽहं नाथ पाथसे । सुधाकुण्डमिवापश्यं किञ्चिदने । | महासरः ॥ ७२ ॥ तुभ्यमम्भोजिनीपत्रपुटेनादाय वार्यहम् । यमदूतैरिवागच्छन् रुद्धः संवर्मितैभेटैः ॥ ७३ ॥
अरे वरधनो ब्रूहि ब्रह्मदत्तः क्व विद्यते । इति तैः पृच्छ्यमानः सन्न वेमीत्यहमब्रु(ब)वम् ॥ ७४ ॥ तस्करैखि निःशङ्क ताड्यमानोऽथ तैरहम् । इत्यवोचं यथा ब्रह्मदत्तो व्याघेण भक्षितः॥७॥ तं देशं दर्शयेत्युक्तो माययेतस्ततो भ्रमन् । त्वदर्शनपथेऽभ्येत्याकार्ष संज्ञा पलायने ॥ ७६ ॥ परिवाड्दत्तगुटिकां मुखेऽहं क्षिप्तवास्ततः। तत्प्रभावन निःसंज्ञो मृत इत्युज्झितोऽस्मि तैः ॥ ७७॥ चिरं गतेषु तेष्वास्यादाकृष्य गुटिकामहम् । त्वां नष्टार्थमिवान्वेष्टुं भ्रमन् ग्रामं कमप्यगाम् ।।७८|| तत्रैककोऽपि ददृशे परिव्राजकपुङ्गवः । साक्षादिव तपोराशिर्नमश्चक्रे मया ततः॥७९॥ सोऽवदन् मां वरधनो मित्रमस्मि धनोरहम् । वसुभागो महाभागो ब्रह्मदत्तः क्व वर्तते ॥५०॥ आचचक्षे मयाप्यस्य विश्वं विश्वस्य सूनृतम् । स च मे दुष्कथाधमैलानास्यः पुनरभ्यधात् ॥१॥ तदा जतुगृहे दग्धे दीर्घः प्रातरुदैक्षत । करङ्कमेकं निर्दग्धं करङ्कत्रितयं न हि ॥२॥ सुरङ्गां तत्र चापश्यत्तदन्तेऽश्वपदानि च । धनोर्बुद्ध्या प्रणष्टौ वां ज्ञात्वा तस्मै चुकोप सः॥८३॥ बध्ध्वा युवां समानेतुं प्रत्याशं साधनानि सः । अस्खलद्गमनान्य- ॥ ३॥
त्वदर्शनपथेऽभ्येत्याकाष
स
चिरं गतेषु तेष्वास्यादा
शिनमश्चक्रे मया ततः
For Personal Private Use Only
www.ebay.org
Page #185
--------------------------------------------------------------------------
________________
महांसीवादिदेश च ॥५४॥ पलायितो धनुमन्त्री जनयित्री तु सा तव। दीर्पण नरक इव क्षिप्ता मातङ्गपाटके ॥८॥ गण्डोपरिष्टापिटकेनेवा” वार्तया तया। दुःखोपयुद्भवःखः काम्पीन्यं गतवानहम् ॥८६॥ छमकापालिकीभूय तत्र मातङ्गपाटके । वेश्म वेश्मानुप्रवेशमस्थां शश इवानिशम् ।। ८७ ॥ पृच्छथमानश्च लोकेन तत्र भ्रमणकारणम् । अवोचमिति मातङ्गया विद्यायाः कल्प एष मे ॥८८॥ तत्रैवं भ्राम्यता मैत्री मया विश्वासभाजनम् । अजायतारक्षकस्य मायया किं न साध्यते ॥८९॥ अन्येास्तन्मुखेनाम्बामवोचं यत्करोत्यसौ। त्वत्पुत्रमित्रकौण्डिन्यो महाव्रत्यभिवादनम् ॥६० ॥ द्वितीयेऽति स्वयं गत्वा जनन्या बीजपूरकम् । अदा सगुटिकं जग्धेनासंज्ञा तेन साऽभवत् ॥ १॥ मृतेति तां पुराध्यक्षो गत्वा राज्ञे व्यजिज्ञपत् । राज्ञादिष्टाः
स्वपुरुषास्तस्याः संस्कारहेतवे ॥१२॥ तत्रायाता मयोक्तास्ते संस्कारोऽस्याः क्षणेत्र चेत् । महाननर्थो वो * राज्ञश्चेति जग्मुः स्वधाम ते ॥३॥ आरक्षं चावदं त्वं चेत् सहायः साधयाम्यहम् । सर्वलक्षणभाजोऽस्या मन्त्रमेकं शवेन तत् ॥१४॥ आरक्षः प्रतिपेदे तत्तेनैव सहितस्ततः। सायमादाय जननीं श्मशानेऽगां दवीयसि ॥९५॥ स्थण्डिले मण्डलादीनि मया निर्माय मायया। पूर्देवीनां बलिं दातुमारक्षः प्रेषितस्ततः ॥१६॥ गते तस्मिन्नहं मातुरपरां गुटिकामदाम् । निद्राच्छेद इवोज्जृम्भा सोदस्थाजातचेतना ।। ६७॥ स्वं ज्ञापयित्वा रुदती निवार्य म नयामि ताम् । कच्छग्रामे गृहे तातसुहृदो देवशर्मणः ॥ ८॥ इतस्ततो भ्रमन्नेषोऽन्वेषयंस्त्वामिहागमम् । दिष्ट्या दृष्टोऽधुना साक्षात्पुण्यराशिरिवासि मे ॥ ९९ ॥ ततः परं कथं नाथ प्रस्थितोऽसि स्थितोऽसि च । तेनेति पृष्टः स्वं वृत्तं कुमारोऽपि न्यवेदयत् ॥ ३०॥ अथ कोऽप्येत्य तावचे ग्रामे दीर्घभटा:
JanEducational
For Personal & Private Use Only
Page #186
--------------------------------------------------------------------------
________________
योगशास्त्रम्
द्वितीयः प्रकाश:।
॥
४
॥
पटम् । युष्मत्तुल्यर्द्धिरूपात दर्शयन्तो वदन्त्यदः ॥१॥ ईदृग्नरौ किमायातावत्रेत्याकर्ण्य गां मया । दृष्टाविह युवां यद्वां रुचितं कुरुतं हि तत् ॥२॥ ततस्तस्मिन् गतेऽरण्यमध्येन कलभाविव । पलायमानौ कौशाम्बीं प्रापतुस्तौ पुरी क्रमात् ॥३॥ तत्र सागरदत्तस्य श्रेष्ठिनो बुद्धिलस्य च । उद्यानेऽपश्यतां लक्षपणं तौ कुक्कुटाहवम् ॥४॥ उत्पत्योत्पत्य नखरैः प्राणाकर्षाङ्कटैरिव । युयुधाते ताम्रचूडौ चश्चाचञ्चवि चोच्चकैः ॥५॥ तत्र सागरदत्तस्य जात्यं शक्तं च कुक्कुटम् । भद्रेभमिव मिश्रेभोऽभाजीबुद्धिलकुक्कुटः ॥६॥ ततो वरधनुः साह कथं जात्योऽपि कुक्कुटः । भग्नस्ते सागरानेन पश्याम्येनं यदीच्छसि ॥७॥ सागराऽनुज्ञया सोऽप्यपश्यत् बुद्धिलकुक्कुटम् । तत्पादयोरयःसूचीर्यमदतीरिवैक्षत ॥८॥ लक्षयन् बुद्धिलोऽप्यस्य लक्षार्द्ध छन्नमिष्टवान् । सोऽप्याख्यत्तं व्यतिकरं कुमारस्य जनान्तिके ॥ ६ ॥ ब्रह्मदत्तोऽप्ययःसूचीः कृष्ट्वा बुद्धिलकुक्कुटम् । भूयोऽपि सागरश्रेष्ठिकुक्कुटेनाभ्ययोजयत् ॥ १० ॥ असूचिकः कुक्कुटेन तेन बुद्धिलकुक्कुटः। क्षणादमञ्जि निम्नानां छद्मबाह्यं कुतो जयः॥ ११ ॥ हृष्टः सागरदत्तस्तावारोप्य स्यन्दनं स्वकम् । जयदानैकसुहृदौ निनाय निलये निजे ॥ १२॥ स्वधामनीव तद्धाम्नि तयोर्निवसतोरथ । किमप्याख्यद्वरधनोरेत्य बुद्धिलकिङ्करः॥ १३॥ तस्मिन् गते वरधनुः कुमारमिदमभ्यधात् । यद्बुद्धिलेन लक्षार्द्ध दित्सितं मेऽद्य पश्य तत् ॥ १४ ।। सोऽदर्शयत्ततो हारं निर्मलस्थूलवर्नुलैः । कुर्वाणं मौक्तिकैः शुक्रमण्डलस्य विडम्बनाम् ॥ १५ ॥ हारे बद्धं स्वनामाकं ब्रह्ममूर्लेखमैक्षत । आगाच्च वाचिकमिव मूत्र्त वत्साख्य| तापसी ॥ १६ ॥ अक्षतानि तयोर्मनि क्षिप्त्वाशीर्वादपूर्वकम् । नीत्वान्यतो वरधनुं किश्चिदाख्याय सा ययौ
१ रहसि.
Okk-
OK
॥
४॥
Educators
For Personel Private Use Only
Page #187
--------------------------------------------------------------------------
________________
॥ १७॥ तचाख्यातुं समारेभे मन्त्रिसूब्रह्मसूनवे । प्रतिलेखं हारबद्धलेखस्येयमयाचत ॥ १८॥ श्रीब्रह्मदत्तनामाङ्को लेखोऽयं प्रथयस्व तत् । को ब्रह्मदत्त इति सा मया पृष्टेदमब्रवीत् ॥ १६॥ अस्ति श्रेष्ठिसुता रत्नवती नामेह | पत्तने । रूपान्तरेण कन्यात्वं प्रपन्नेव रतिर्भुवि ॥२०॥ भ्रातुः सागरदत्तस्य बुद्धिलस्य च तद्दिने । कुक्कुटायोधनेऽपश्यद्ब्रह्मदत्तमिमं हि सा ।। २१॥ ततःप्रभृति ताम्यन्ती कामार्ता सा न शाम्यति । शरणं ब्रह्मदत्तो मे स एवेत्याह चानिशम् ॥ २२ ॥ स्वयं लिखित्वा चान्येधुर्लेख हारेण संयुतम् । अर्ग्यतां ब्रह्मदत्तस्येत्युदित्वा सा ममार्पयत् ॥ २३ ॥ दासहस्ते मया लेखः प्रेषीत्युक्त्वा स्थिता सती । मयापि प्रतिलेखं तेऽर्पयित्वा सा व्यसृज्यत ॥ २४ ॥ दुर्वारमारसन्तापः कुमारोऽपि ततो दिनात् । मध्याह्नार्ककरोत्तप्तः करीव न सुखं स्थितः ॥२५॥ कौशाम्बीस्वामिनोऽन्येधुदीर्घेण प्रहिता नराः । नष्टशल्यवदङ्गे तो तत्रान्वेष्टुं समाययुः ॥२६॥ राजादेशेन कौशाम्ब्यां प्रवृत्तेऽन्वेषणे तयोः । सागरो भृगृहे क्षिप्त्वा तौ जुगोप निधानवत् ॥ २७ ॥ निशि तौ निर्यियासन्ती रथमारोप्य सागरः। कियन्तमपि पन्थानं निनाय ववले ततः ॥ २८॥ तौ गच्छन्तौ पुरो नारीमुद्याने समपश्यताम् । अस्त्रपूर्णरथारूढाममरीमिव नन्दने ॥ २६ ॥ लग्ना किमियती वेला युवयोरिति सादरम् । तयोक्तौ तौ वभाषाते कावावां वेत्सि वा कथम् ॥ ३०॥ अथाभाषत सा पु-मस्यां श्रेष्ठी महाधनः । धनप्रवर इत्यासीद्धनदस्येव सोदरः॥३१॥ श्रेष्ठिश्रेष्ठस्य तस्याहमष्टानां तनुजन्मनाम् । उपरिष्टाद्विवेकश्री/गुणानामिवाभवम् ॥ ३२ ॥ उद्यौवनास्मिन्नुद्याने यक्षमाराधयं बहु । अत्युत्तमवरप्राप्त्यै स्त्रीणां नान्यो मनोरथः ॥३३॥ तुष्टो भक्त्यैष मे यक्षवरो वरमिदं ददौ । ब्रह्मदत्तश्चक्रवर्ती तव भर्चा भविष्यति ॥३४॥ सागरबुद्धि
in Education Inter
For Personal & Private Use Only
Page #188
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥८५॥
लश्रेष्ठिकुक्कुटाजौ य एष्यति । श्रीवत्सी ससखा तुल्यरूपो ज्ञेयः स तु त्वया ॥ ३५ ॥ मदायतनवर्तिन्याः प्रथमस्ते म द्वितीयः भविष्यति । मेलको ब्रह्मदत्तेन तजाने सोऽसि सुन्दर ॥३६॥ एोहि तन्मां विरहदहनाता चिरादिह । विध्यापय
प्रकाशः। पयःपूरेणेव सङ्कन सम्प्रति ॥ ३७ ॥ तथेति प्रतिपद्यास्या अनुरागमिवालघुम् । सोऽधितष्ठौ रथं तां च गन्तव्यं क्वेति पृष्टवान् ॥ ३८॥ सत्यूचे मगधपुरे मत्पितव्यो धनावहः । अस्ति श्रेष्ठयावयोर्बढी प्रतिपत्तिं स दास्यति ॥ ३९ ॥ तदितस्तत्र गन्तव्यमिति रत्नवतीगिरा । ब्रह्मसूमन्त्रिपुत्रेण सूतेनाश्वाननोदयत् ॥ ४० ॥ कौशाम्बीदेश मुल्लङ्घन्य क्षणेन ब्रह्मनन्दनः । क्रीडास्थानं यमस्येव प्राप भीमां महाटवीम् ॥ ४१ ॥ सुकण्टकः कण्टकश्च तत्र चौरचमृपती । ब्रह्मदत्तं रुरुधतुः श्वानाविव महाकिरिम् ॥ ४२ ॥ ससैन्यौ युगपत् कालरात्रिपुत्राविवोत्कटौ। शरैनेभो मण्डपवच्छादयामासतुश्च तौ ॥ ४३ ।। प्रात्तधन्वा कुमारोऽपि गर्जेश्चौरवरूथिनीम् । निषिषधेषुभिर्धारासारैर्दवमिवाम्बुदः॥४४ ॥ कुमारे वर्षति शरान् ससैन्यौ तौ प्रणेशतुः । हन्त प्रहारिणि हरौ हरिणानां कुतः स्थितिः ॥ ४५ ॥ कुमारं मन्त्रिसूरेवमूचे श्रान्तोऽसि सङ्गरात् । मुहूर्त स्वपिहि खामिंस्तदिहैव रथे स्थितः ॥ ४६॥ स्यन्दने ब्रह्मदत्तोऽपि रत्नवत्या समन्वितः । सुष्वाप गिरिनितम्बे करिण्येव करी युवा ॥४७॥ विभातायां विभाव- प्राप्यैकामथ निम्नगाम् । तस्थुः श्रान्तास्तुरङ्गाश्च कुमारश्च व्यबुध्यत ॥४८॥ विबुद्धस्तु स नापश्यत्स्यन्दने मन्त्रिनन्दनम् । पयसे किं गतः स्यादित्यसकृद् व्याजहार तम् ॥ ४६ ॥ सोऽलब्धप्रतिवाग् दृष्ट्वा रथाग्रं रक्तपङ्किलम् । विलपन् हा हतोऽस्मीति मूच्छितो न्यपतद्रथे ॥५०॥ उत्थितो लब्धसंज्ञः सन् हाहा वरधनो सखे । कासीति लोकवत् क्रन्दन् रत्नवत्येत्यबोधि सः ॥५१॥ विपन्नो ॥५॥
in Education internal
For Personal & Private Use Only
21 www.janelibrary.org
Page #189
--------------------------------------------------------------------------
________________
Jain Education int
+++-→
ज्ञायते नैव स तावद्भवतः सखा । तस्य वाचाप्यमाङ्गन्यं नाथ कर्त्तुं न युज्यते ॥ ५२ ॥ त्वत्कार्याय गतः कापि स भविष्यत्यसंशयम् । यान्ति नाथमपृष्ट्वापि नाथकार्याय मन्त्रिणः ।। ५३ ।। स तवोपरि भक्तयैव रक्षितो नूनमेष्यति । स्वामिभक्तिप्रभावो हि भृत्यानां कवचायते ॥ ५४ ॥ स्थाने प्राप्ताः करिष्यामो नरैस्तस्य गवेषणम् । युज्यते नेह तु स्थातुमन्तकोपवने वने ॥ ५५ ॥ तद्वाचा सोऽनुद्रध्यान् प्रपेदे मगधचितेः । सीमग्रामं दविष्ठं हि वाजिनां मरुतां च किम् ॥ ५६ ॥ ग्रामेशेन सदःस्थेन दृष्ट्वा निन्ये स्ववेश्म सः । अज्ञाता अपि पूज्यन्ते महान्तो मूर्त्तिदर्शनात् ॥ ५७ ॥ शोकाक्रान्त इवासीति पृष्टो ग्रामाधिपेन सः । इत्यूचे मत्सखा चौरैर्युध्यमानो गतः क्वचित् ।। ५८ ।। तस्य प्रवृत्तिमानेष्ये सीताया इव मारुतिः । इत्युक्त्वा ग्रामणीः सर्वा तां जगाहे महाटवीम् ॥ ५६ ॥ अथैत्य ग्रामणीरूचे दृष्टः कोऽपि वने न हि । प्रहारपतितः किन्तु प्राप्त एष शरो मया ॥ ६० ॥ हतो वरधनुर्नूनमिति चिन्तयतस्ततः । ब्रह्मसूनोः शोक इव तमोभूरभवन्निशा ।। ६१ ॥ यामे तुरीये यामिन्यास्तत्र चौराः समापतन् । ते तु भग्नाः कुमारेण मारेणेव प्रवासिनः ।। ६२ ।। ततोऽनुयातो ग्रामण्या ययौ राजगृहं क्रमात् । स चामुचद्रत्नवतीं तद्बहिस्तापसाश्रमे ॥ ६३ ॥ विशन् पुरं स ऐक्षिष्ट हर्म्यवातायनस्थिते । साक्षादिव रतिप्रीती कामिन्यौ नवयौवने ॥ ६४ ॥ ताभ्यां सोऽभिदधे प्रेमभाजं त्यक्त्वा जनं ननु । यत्तदा गतवान् युक्तं तत् किं ते प्रत्यभासत ॥ ६५ ॥ व्याजहार कुमारोऽपि प्रेमभाग् बत को जनः । स कदा च मया त्यक्तः कोऽहं वायुवामिति ॥ ६६ ॥ प्रसीदागच्छ विश्राम्य नाथेत्यालापनिष्ठयोः । प्राविशद्ब्रह्मदत्तोऽपि मनसीब तयोर्गृहे १ कामेन.
For Personal & Private Use Only
-+०+-10-03-08-08-10-08-
Page #190
--------------------------------------------------------------------------
________________
शास्त्रम्
|॥ ६७ ॥ तिष्ठमाने कृतस्त्रानाशनाय ब्रह्मसूनवे । कथयामासतुस्ते स्वां कथामवितथामिति ॥ ६८॥
द्वितीयः । अस्ति विद्याधरावासः कलधौतशिलामयः । मेदिन्यास्तिलक इव वैतायो नाम पर्वतः ॥ ६६ ॥ प्रकाशः। अमुष्य दक्षिणश्रेण्यां नगरे शिवमन्दिरे । राजास्ति ज्वलनशिखोऽलकायामिव गुह्यकः ॥७॥ विद्याधरपतेस्तस्य द्युतिद्योतितदिग्मुखा। प्रिया विद्युच्छिखेत्यस्ति विद्युदम्भोमुचो यथा ॥ ७१ ॥ तयोः प्राणप्रिये नाट्योन्मत्ताभिधसुतानुजे । नाम्ना खण्डा विशाखा च पुच्यावावां बभूविव ॥ ७२ ॥ तातः सौधेऽन्यदा सख्याग्निशिखेन सहालपन् । गच्छतोऽष्टापदगिरि गीर्वाणान् खे निरक्षत ॥ ७३॥ ततः स तीर्थयात्रार्थ चलितोऽचालयच्च नौ । सुहृदं चाग्निशिखं तं धर्मेणेष्टं हि योजयेत् ॥७४॥ प्राप्ता अष्टापदं तत्रापश्याम मणिनिर्मिताः । प्रतिमास्तीर्थनाथानां मानवर्णसमन्विताः ॥७५॥ स्नानं विलेपनं पूजां विरचय्य यथाविधि । तास्त्रिः प्रदक्षिणीकृत्यावन्दामहि समाहिताः ॥ ७६ ॥ प्रासादानिःसतैदृष्टौ रक्ताशोकतरोरधः । चारणश्रमणौ मूर्तिमन्ताविव तपःशमौ ॥ ७७॥
तौ प्रणम्योपविश्याग्रे शुश्रुम श्रद्धया वयम् । अज्ञानतिमिरच्छेदकौमुदी धर्मदेशनाम् ॥ ७८ ॥ पप्रछाग्निशिखः कः | स्यात्कन्ययोरनयोः पतिः। तावृचतुर्यो ह्यनयोतरं मारयिष्यति ॥ ७९ ॥ हिमेनेव शशी म्लानो जातस्तातस्तया | गिरा | आवामपीत्यवोचाव वाचा वैराग्यगर्भया ॥५०॥ संसारासारतासारा देशनाद्यैव शुश्रुवे । तद्विषादनिषादेन
किं तात परिभूयसे || ८१॥ अलमस्माकमप्येवंविधैर्विषयजैः सुखैः । प्रवृत्ते तत्प्रभृत्यावां त्रातुं निजसहोदरम् | ॥८२॥ भ्राम्यनपश्यन्मे भ्राताऽन्यदा पुष्पवतीमसौ। मातुलस्य त्वदीयस्य पुष्पचूलस्य कन्यकाम् ॥ ८३॥ रूपेणाद्भुतलावण्यपुण्येन हृतमानसः । तां जहार स दुर्बुद्धिर्बुद्धिः कर्मानुसारिणी ॥ ८४ ॥ सोऽसहिष्णुदृशं तस्या IIद॥
Jun Education intemand
For Personal & Private Use Only
www.sainelibrary.org
Page #191
--------------------------------------------------------------------------
________________
विद्या साधयितुं ययौ । स्वयं संविद्रेते सम्यग् भवन्तस्तु ततः परम् ॥८५॥ तदा च पुष्पवत्याख्यदावयोधातससयम् । शोकं धर्माक्षरैः शोकापनोद इव चानुदत् ॥ ८६ ॥ अन्यच पुष्पवत्यूचेऽभिगम्योऽयमिहागतः । ब्रह्मदचोऽस्तु वा भतों नान्यथा हि मुनेगिरः ॥८७॥ स्वीकृतं च य(त)दावाभ्यां तया च रभसावशात् । पताकाचालि धवला त्यक्त्वावां त्वं गतस्ततः ॥८८॥ यदासद्भाग्यवैगुण्यामागतोऽसि न चेक्षितः । भ्रान्त्वा सर्वत्र निर्विमे आवामिह तदागते ॥८६॥ पुण्यरसि समायातः पुरा पुष्पवतीगिरा। वृतोऽसि वरयावां तद्गतिरेकस्त्वमावयोः ॥६॥ गान्धर्वेण विवाहेन स उपायंस्त ते अपि । भोगी हि भाजनं स्त्रीणां सरितामिव सागरः ॥ ११॥ रममाणः समं ताभ्यां गङ्गोमाभ्यामिवेश्वरः । तत्रातिवाहयामास तां निशां ब्रह्मनन्दनः ॥ ४२ ॥ यावन्मे राज्यलाभः स्यात्पुष्पवत्याः समीपतः । तावद्युवाभ्यां स्थातव्यमित्युक्त्वा व्यसृजच्च ते ॥ ६३ ॥ तथेत्यादृतवत्यौ ते सलोकस्तच्च मन्दिरम् । गन्धर्वनगरमिव ततः सर्व तिरोदधे ॥१४॥ अथाश्रमे रत्नवतीमन्वेष्टुं ब्रह्मसूरगात् । अपश्यंस्तत्र पप्रच्छ नरमेकं शुभाकृतिम् ॥६५॥ दिव्याम्बरधरा नारी रत्नाभरणभूषिता । कापि दृष्टा महाभाग त्वयातीतदिनेऽद्य वा ॥ १६ ॥ स ऊचे नाथ नाथेति रुदती यो मयेक्षिता । प्रत्यभिज्ञाय नीति तपितृव्याय चार्पिता ।। ६७ ॥ तद्वरोऽसीति तेनोक्तस्तथेति ब्रह्मसूर्वदन् । निन्ये तेन प्रहृष्टेन तत्पितृव्यनिकेतनम् ॥8॥ रत्नवत्या पितृव्योऽपि ब्रह्मदत्तं व्यवाहयत् । ऋद्ध्या महत्या धनिना सर्वमीपत्करं यतः ॥६६॥ | तया विषयसौख्यानि समं सोऽनुभवमथ । मृतकार्य वरधनोरपरद्युः प्रचक्रमे ॥४०॥ साक्षादिव परेतेषु
१ जानन्ति.
For Personal & Private Use Only
in Education
Page #192
--------------------------------------------------------------------------
________________
योगशास्त्रम्
द्वितीय: प्रकाशः।
॥८७॥
भुञ्जानेषु द्विजन्मसु । विप्रवेषो वरधनुस्तत्रागत्याब्रवीदिति ॥१॥ मम चेद्भोजनं दत्थ साक्षाद्वरधनोर्हि तत । । इति श्रुतिसुधेवास्य श्रुता वाग् ब्रह्मसूनुना ॥२॥ स तं दृष्ट्वा परिष्वङ्गादेकीकुर्वन्निवात्मना । स्नपयन्निव
हर्षानिनायान्तर्गृहं ततः ॥ ३ ॥ ऊचे पृष्टः कुमारेण स्ववृत्तं सोऽकथय(कथ)त्तदा । सुप्ते त्वयि निरुद्धोऽहं चौरैः l दीर्घभटैर्यथा ॥४॥ वृक्षान्तरस्थितेनैकदस्युनकेन पत्रिणा। हतोऽहं पतितः पृथ्व्यां तिरोधां च लतान्तरे
॥५॥ गतेषु तेषु चौरेषु मध्येवृक्षं तिरोभवन् । आतिरन्तर्जलमिव क्रमेण ग्राममाप्नुवम् ॥६॥ भवत्प्रवृत्ति ग्रामेशाद्विज्ञायाहमिहागमम् । दिष्ट्याऽपश्यं भवन्तं च कलापीव पयोमुचम् ॥ ७॥ अथोचे ब्रह्मदत्तस्तममाभिः स्थास्यते ननु । विना पुरुषकारेण क्लीवैरिव कियचिरम् ॥८॥ अत्रान्तरे च सम्प्राप्तसाम्राज्यमकरध्वजः। मधुवन्मदको यूनां प्रादुरासीन्मधूत्सवः ॥६॥ तदा च राज्ञो मत्तेभः स्तम्भं भक्त्वाऽपशृङ्खलः। निर्ययौ लासिताशेषमयों मृत्योरिवानुजः ॥१०॥ ततो नितम्बमाराा काञ्चित कन्यां स्खलद्गतिम् । करी करेण जग्राहाकृष्य पुष्करिणीमिव ।। ११ ॥ तस्यां च शरणार्थिन्यां क्रन्दन्त्यां दीनचक्षुषि । जज्ञे हाहारवो विश्वदुःखबीजाक्षरोपमः॥१२॥रेमातङ्गासि मातङ्गः स्त्रियं गृहन्न लजसे । इत्युक्तः स कुमारेण तां विमुच्य तमभ्यगात्॥१३॥ उत्प्लुत्य दन्तसोपाने पादं विन्यस्य हेलया । आरुरोह कुमारस्तमशिश्रयदथासनम् ॥ १४ ॥ वाक्पादाङ्कुशयोगेन स्वं योगेनेव योगवित् । वशीचकार तं नागं कुमारस्तरसा ततः॥१शा साधु साध्वित्युच्यमानो जनैर्जय जयेति च । कुमारः करिणं स्तम्भे नीत्वावधनाद्वशामिव ॥ १६ ॥ ततो नरेन्द्रस्तत्रागात्तं च दृष्ट्वा विसिष्मिये । आकृतिर्वि
१ पक्षिविशेषः । २ चण्डालः ।
॥८७
in Education intern al
For Personal & Private Use Only
Page #193
--------------------------------------------------------------------------
________________
क्रमश्चास्य कस्य चित्रीयते न वा ॥ १७ ॥ कोऽयं तो वा छन्नात्मा किं सूर्यो वासवोऽथवा । राज्ञेत्युक्ते रत्नवत्याः पितृव्यस्तमचीकथत् ॥ १८ ॥ ततो विशाम्पतिः कन्याः पुण्यमानी कृतोत्सवः । दक्षः क्षपाकरायेव ब्रह्मद
त्ताय दत्तवान् ॥ १६ ॥ परिणीय स तास्तत्र सुखं तिष्ठन्नथाऽन्यदा । जरत्यैत्यैकयेत्यूचे भ्रमयित्वांशुकाञ्चलम् Pl॥ २० ॥ इह वैश्रवणोऽस्त्याढचः श्रिया वैश्रवणोऽपरः । तस्य च श्रीमति म सुता श्रीरिव वारिधेः ॥ २१॥
मोचिता भवता व्यालाद्राहोरिन्दुकलेव या । सा त्वामेव पतीयन्ती ततःप्रभृति ताम्यति ।। २२ ॥ यथा गजात्वया त्राता तथा त्रायस्व तां स्मरात् । गृहाण पाणिं त्वं तस्या यथा हृदयमंग्रहीः ॥ २३ ।। उपयेमे कुमारस्तां विविधोद्वाहमङ्गलैः । सुबुद्धिमन्त्रिण: कन्यां नन्दां वरधनुः पुनः ॥ २४ ॥ पप्रथाते पृथिव्यां तौ तिष्ठन्तौ तत्र शक्तितः । साभियोगी प्रतस्थाते ततो वाराणसी प्रति ॥ २५॥ श्रुत्वायान्तं ब्रह्मदत्तं ब्रह्माणमिव गौरवात् । अभ्येत्य संमुखं वाराणसीशः स्वगृहेऽनयत् ॥ २६ ॥ कटकः कटकवतीं नाम पुत्री निजां ददौ । चतुरङ्गाचमं चास्मै मूतोमिव जयश्रियम् ॥ २७॥ कणेरुदत्तश्चम्पेशो धनुमन्त्री तथाऽपरे । भगदत्तादयोऽप्येयुनृपाः श्रुत्वा तदागमम् ॥ २८ ॥ कृत्वा वरधनुं सेनान्यं सुषेणमिवाभिः । दीर्घ | दीर्घपथे नेतुं प्रतस्थ ब्रह्मनन्दनः ॥ २६ ॥ दीर्घस्य दूतः कटकराजमेत्यैवमूचिवान् । दीर्पण सममाबाल्य| मैत्री त्यक्तं न युज्यते ॥ ३० ॥ ततः कटक इत्यूचे ब्रह्मणा सहिताः पुरा । सोद- इव पञ्चाप्यभवाम सुहृदो वयम् ॥ ३१ ॥ स्वर्जुषो ब्रह्मणः पुत्रे राज्ये च त्रातुमर्पिते । दीर्पण धिकृतं नात्ति शाकिन्यपि समर्पितम् ॥३२॥
१ चन्द्राय. २ सोद्यमौ. ३ भरतचक्री.
in Education Interations
For Personal & Private Use Only
Page #194
--------------------------------------------------------------------------
________________
द्वितीयः
योगशास्त्रम्
प्रकाशः।
॥८८॥
ब्रह्मणः पुत्रभाण्डे यही? दीर्घमचिन्तयन् । आचचारातिपापं तच्छपचोऽपि किमाचरेत ॥ ३३ ॥ तद्गच्छ शस दीघोंय ब्रह्मदत्तोऽभ्युपेत्यसौ । युद्धयस्व यदि वा नश्येत्युक्त्वा दतं व्यसर्जयत ॥३४॥ ततः प्रयाणैरच्छिन्नेः काम्पील्यं ब्रह्मसूर्ययौ । सदीर्घमप्यरौत्सीत्तनमः सार्कमिवाम्बुदः ॥ ३५ ॥ दीर्घः सर्वाभिसारेण रणसारेण पत्तनात् । दण्डाकान्तो निरसरद्धिलादिव महोरगः ॥३६॥ चुलन्यपि तदात्यन्तवैराग्यादाददे व्रतम् । पावें पूर्णाप्रवर्त्तिन्याः क्रमानिवृतिमाप च ॥ ३७॥ पुरोगा दीर्घराजस्य पुरोगैब्रह्मजन्मनः । नदीयादास्यकूपारयादोभिरिव जनिरे ॥३८॥ दीर्घोऽप्यमानामिदंष्ट्रिकाविकटाननः । वराह इव धावित्वा हन्तुं प्रववृते परान् ॥३६॥ ब्रह्मदत्तस्य पादातरथिसाद्यादिकं बलम् । पर्यास्यत नदीपूरेणेव दीर्पण वेगिना ॥ ४०॥ ब्रह्मदत्तस्ततः क्रोधारुणाक्षो युयुधे स्वयम् । गर्जता दीर्घराजेन गर्जन् दन्तीव दन्तिना ॥४१॥ उभावपि बलिष्ठौ तावस्त्राण्यस्त्रनिरासतुः । कल्लोलैरिव कल्लोलान् युगान्तोद्धान्तवारिधी ॥४२॥ ज्ञात्वाऽथ सेवक इवावसरं असरद्युति ।। डुढौके ब्रह्मदत्तस्य चक्रं दिक्चक्रजित्वरम् ॥ ४३॥ ततो जहार दीर्घस्य तेनाशु ब्रह्मसूरसून् । विमर्दो विद्युतः को वा गोधानिधनसाधने ॥ ४४ ॥ जयतादेष चक्रीति भाषिणो मागधा इव । ब्रह्मदत्तोपरि सुराः पुष्पवृष्टिं वितेनिरे ॥४५॥ पौरैः पितेव मातेव देवतेव स वीक्षितः। पुरं विवेश काम्पीन्यं सुत्रामेवामरावतीम् ॥ ४६॥ पूर्वोढाः सर्वतोपि पत्नीरानाययन्नृपः । कुरुम(पुष्पव)त्यभिधानां च स्त्रीरत्नं प्रत्यातष्ठिपत् ॥४७॥ विभिन्नस्वामिनोद्भूतसीमनिर्मुलनादसौ । षदखण्डां साधयित्वो-मेकखण्डां विनिर्ममे ॥ ४८॥ संवत्सरैर्द्वादश
१ युद्धाक्रान्तः पक्षे यष्ठयाक्रान्तः ।
॥८८
in Education international
For Personal & Private Use Only
Page #195
--------------------------------------------------------------------------
________________
भिरुपेत्योपेत्य सर्वतः । तस्याभिषेको विदधे भरतस्येव राजभिः ॥ ४६॥ चतुःषष्टिसहस्रान्तःपुरस्त्रीपरिवारितः । स राज्यसौख्यं बुभुजे प्राक्तपोभूरुहः फलम् ॥ ५० ॥ अन्यचुर्नाट्यसंङ्गीते तस्य दास्या समर्पितः। स्वर्वधूगुम्फित इव विचित्रः पुष्पगेन्दुकः ॥ ५१॥ ब्रह्मदत्तस्तु तं दृष्ट्वा दृष्टपूर्वो मयेदृशः। कुत्रापीति व्यधादन्तरूहापोहं
मुहुमुहुः ॥ ५२ ॥ प्रापश्चजन्मस्मरणोत्पत्तेस्तत्कालमेव च । सौधर्म दृष्टवानेतदित्यज्ञासीन्महीपतिः P॥ ५३ ॥ स सिक्तश्चन्दनाम्भोभिः स्वस्थीभूयेत्यचिन्तयत् । कथं मेलिष्यति स मे पूर्वजन्मसहोदर:
॥ ५४ ॥ तं ज्ञातुकामः श्लोका समस्यामेवमार्पयत् । आस्व दासौ मृगौ हंसौ मातनावमरौ तथा ॥५५॥ अईश्लोकसमस्यां मे य इमां पूरयिष्यति । राज्याई तस्य दास्यामीत्यसावघोषयत्पुरे ।। ५६ ॥ श्लोकार्द्ध तत्तु सर्वोऽपि कण्ठस्थं निजनामवत् । पठनकार्षीत्पश्चाई न चापूरिष्ट कश्चन ॥ ५७॥ तदा च पुरिमतालाचित्रजीवो महेभ्यः । जातिस्मृतेः प्रव्रजितो विहरनेकदाऽऽययौ ॥५८ ॥ तत्र कस्मिंश्चिद्याने प्रासुकस्थण्डिलस्थितः। श्लोकार्द्ध तत्तु पठतः सोऽश्रौषीदारघट्टिकात ॥५६॥ एषा नौ षष्ठिका जातिरन्योऽन्याभ्यां वियुक्तयोः। श्लोकापराद्धमेवं स सम्पूर्य तमपाठयत् ॥६०॥ श्लोकापरार्द्ध तद्राज्ञः पुरस्तादारपट्टिकः । पपाठ कः कविरिति तत्पृष्टस्तं मुनि जगौ ॥६१।। स पारितोषिकं तस्मै वितीर्योत्कण्ठया ययौ। तत्रोद्याने मुनि द्रष्टुं धर्मदुममिवोद्गतम् ।।६२।। वन्दित्वा तं मुनि तत्र बाष्पपूर्णविलोचनः । निषसादान्तिके राजा सस्नेहः पूर्वजन्मवत ॥ ६३ ॥ आशीर्वादं मुनिर्दवा कृपारसमहोदधिः । अनुग्रहार्थ भूपस्य प्रारेभे धर्मदेशनाम् ॥ ६४ ॥ राजनसारे संसारे सारमन्यन्न किश्चन । सारोऽस्ति धर्म एवैकः सरोजमिव कर्दमे ।। ६५ ॥ शरीरं यौवनं लक्ष्मीः स्वाम्यं मित्राणि बन्धवः । सर्वमप्यनिलो
Jain Education internati
For Personal & Private Use Only
Page #196
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
॥ ८६ ॥
Jain Education Internati
1084
*********** --.
द्धूतपताकाञ्चलचञ्चलम् || ६६ || बहिरङ्गान् द्विषोऽजैषीर्य्यथा साधयितुं महीम् । अन्तरङ्गान् जय तथा मोक्षसाधनहेतवे ।। ६७ ।। गृहाण यतिधर्मं तत्पृथक्कृत्य त्यजापरम् । राजहंसो हि गृह्णाति विभज्य क्षीरमम्भसः || ॥ ६८ ॥ ब्रह्मदत्तस्ततोऽवादीद् दिष्या दृष्टोऽसि बान्धव । इयं तवैव राज्यश्रीर्भुव भोगान् यथारुचि ॥ ६६ ॥ तपसो हि फलं भोगाः सन्ति ते किं तपस्यसि । उपक्रमेत को नाम स्वतः सिद्धे प्रयोजने ॥ ७० ॥ मुनिरूचे ममाप्यासन् धनदस्येव सम्पदः । मया वास्तृणवत्यक्ता भवभ्रमण भीरुणा ॥ ७१ ॥ सौधर्मात् क्षीणपुण्योऽस्मिन्नागतोऽसि महीतले । इतोऽपि क्षीणपुण्यः सन् राजन्मा गा अधोगतिम् ।। ७२ ।। आय् देशे कुले श्रेष्ठे मानुष्यं प्राप्य मोक्षदम् | साधयस्यमुना भोगान् सुधया पायुशौचवत् ॥ ७३ ॥ खर्गाच्च्युत्वा क्षीणपुण्यौ भ्रान्तावावां कुयोनिषु । यथा तथा स्मरन् राजन् किं बाल इव मुह्यसि १ ॥ ७४ ॥ तेनैवं बोध्यमानोऽपि नाबुद्ध वसुधाधवः । कुतः कृतनिदानानां बोधिवीजसमागमः ॥ ७५ ॥ तमबोध्यतमं बुध्ध्वा जगाम मुनिरन्यतः । कालादिष्टाहिना दष्टे कियत्तिष्ठन्ति मान्त्रिकाः || ७६ ।। घातिकर्म्मक्षयात्प्राप्य केवलज्ञानमुत्तमम् । भवोपग्राहि कर्माणि हत्वा प्राप परं पदम् ॥ ७७ ॥ ब्रह्मदत्तोऽपि संसारसुखानुभवलालसः । सप्तातिवाहयामास शतानि शरदां क्रमात् ॥ ७८ ॥ कदाचित्प्रापरिचितो द्विजः कश्चिञ्जगाद तम् । चक्रवर्त्तिन् स्वयं भुङ्गे यत्तन्मे देहि भोजनम् ॥ ७६ ॥ ब्रह्मदत्तोऽप्यवोचत्तं मदन्नं द्विज दुर्जरम् । चिरेण जीर्य्यमाणं तु महोन्मादाय जायते ॥ ८० ॥ कदर्यो ऽस्यन्नदानेऽपि धिक्त्वामिति वदन् द्विजः । अभोजि सकुटुम्बोऽपि भूभुजा भोजनं निजम् ॥ ८१ ॥ निशायामथ विप्रस्य बीजादिव तदोदनात् । शतशाखः स्मरोन्मादतरुः प्रादुरभूभृशम् ॥ ८२ ॥ श्रज्ञातजननीजाभिस्नुषाव्यतिकरं मिथः । पशुवत्सहपुत्रोऽपि
For Personal & Private Use Only
*-*-*-*-03-103
द्वितीयः प्रकाशः ।
॥ ८६ ॥
Page #197
--------------------------------------------------------------------------
________________
विप्रः प्रववृते रते ॥८३॥ ततो विरामे यामिन्या द्विजो गृहजनश्च सः। हिया दर्शयितुं स्वास्थमन्योऽन्यमपि नाशकत् ।। ८४ ॥ क्रूरेणानेन राज्ञाऽस्मि सकुटुम्बो विडम्बितः। चिन्तयनित्यमर्षेण नगरान्निरगाद्विजः ॥५॥ दरादश्वत्थपत्राणि काणयन् शर्कराकणैः। तेन कश्चिदजापालो ददृशे भ्रमता बहिः ॥ ८६ ॥ मद्वैरसाधनायालमसाविति विमृश्य सः । तं मूल्येनेव सत्कारेणादायैवमवोचत ।। ८७॥ राजमार्गे गजारूढो यः श्वेतच्छत्रचामरः। याति कृष्ये दृशौ तस्य त्वया प्रक्षिप्य गोलिके ॥ ८८ ॥ विप्रवाचमजापालः प्रतिपेदे तथैव ताम् । पशुवत्पशुपाला हि न विमृश्यविधायिनः॥८६॥ सोऽथ कुड्यान्तरे स्थित्वा समं प्रक्षिप्य गोलिके । आस्फोटयद् दृशौ राज्ञो नाज्ञा लङ्घया विधेः खलु ॥१०॥ सोऽङ्गरक्षरजापालः प्राप्तः श्येनैरिव द्विकः। हन्यमानस्तमेवाख्यद्विप्रं विप्रियकारकम् ॥ ६१॥ तच्छृत्वा पार्थिवोऽवोचद्धिग् धिग् जातिर्द्विजन्मनाम् । यत्रैते भुञ्जते पापास्तत्र भञ्जन्ति भाजनम् ॥ ३२॥ यः स्वामीयति दातारं दत्तं तस्मै वरं शुने । न जातु दातुमुचितं कृतघ्नानां द्विजन्मनाम् ।।१३।। वञ्चकानां नृशंसानां श्वापदानां पलादिनाम् । सृष्टिं द्विजानां योऽकार्षीनिग्राह्यः प्रथमं हि सः ॥ १४॥ इति जल्पन्ननल्पकृत् पृथ्वीपतिरघातयत् । सपुत्रबन्धुमित्रं तं वित्रं मशकमुष्टिवत् ॥ १५ ॥ दृशोरन्धीकृतस्तेन हृदयेऽधीकृतः क्रुधा । विप्रान् सोऽघातयत् सर्वान् पुरोधःप्रभृतीनपि ॥ १६ ॥ सोऽमात्यमादिदेशैवं नेत्ररेषां द्विजन्मनाम् । विशालं स्थालमापूर्य निधेहि पुरतो मम ।। 8७॥ रौद्रमध्यवसायं तं राज्ञो विज्ञाय मन्त्र्यपि । श्लेष्मातकफलैः स्थालं पूरयित्वा पुरो न्यधात् ॥ १८॥ मुमुदे ब्रह्मदत्तोऽपि पाणिना संस्पृशन्मुहुः। विप्राणां लोचनैः स्थालं साधु पूर्णमिति ब्रुवन् ॥६६॥ स्पर्श स्त्रीरत्नरूपायाः पुष्पवत्यास्तथा न हि।
Jain Education interma
For Personal & Private Use Only
Page #198
--------------------------------------------------------------------------
________________
S
द्वितीयः प्रकाशः।
शास्त्रम्
॥९
॥
यथाऽऽसीद्ब्रह्मदत्तस्य ततस्थालस्पर्शने रतिः।। ५००॥ न कदाचन स स्थालमपासारयदग्रतः। दुर्मदी मदिरापात्र- मिव दुर्गतिकारणम् ॥ १॥ विप्रनेत्रधियाऽमृद्नात् श्लेष्मातकफलानि सः। फलाभिमुखपापद्रोः सन्जयन्निव दोहदम् ॥ २॥ तस्यानिवर्तको रौद्राध्यवसायोऽत्यवर्द्धत । अशुभं वा शुभं वापि सर्व हि महतां महत ।। ३ ॥ तस्यैवं वसुधेशस्य रौद्रध्यानानुबन्धिनः। पापपङ्कवराहस्य ययुर्वर्षाणि षोडश ।।४॥ यातेषु षोडशयुतेषु समाशतेषु, सप्तस्वसौक्षितिपतिः परिपूरितायुः। हिंसाऽनुवन्धिपरिणामफलानुरूपांता सप्तमी नरकलोकभुवं जगाम ॥५॥२७॥
॥ इति ब्रह्मदत्तचक्रवर्तिकथानकम् ॥
पुनरपि हिंसकानिन्दति । कुणिर्वरं वरं पङ्गुरशरीरी वरं पुमान् । अपि सम्पूर्णसर्वाङ्गो न तु हिंसापरायणः ॥२८॥
कुणिर्विकलपाणिः वरमिति मनागिष्टे मन्तमव्ययं, पङ्गुः पादविकलः, कुत्सितं शरीरमशरीरं नजः कुत्सार्थत्वात् तद्विद्यते यस्य सोऽशरीरी कुष्ठी विकलाङ्गः, कुणिपङ्गुकुष्ठिनस्ते हि विकलाङ्गत्वादेक हिंसामकुर्वन्तो मनाक् श्रेष्ठाः, सम्पूर्णसर्वाङ्गोऽपि कृतपरिकरबन्धं हिंसापरायणः पुमान तु श्रेष्ठः ॥ २८॥
ननु रौद्रध्यानपरायणस्य या तु शान्तिकनिमित्तं प्रायश्चित्तभूता हिंसा या वा कुलक्रमायाता मत्स्यबन्धानामिव A सा रौद्रध्यानरहितत्वान्न दोषायेत्याहहिंसा विघ्नाय जायेत विघ्नशान्त्यै कृताऽपि हि । कुलाचारधियाऽप्येषा कृता कुलविनाशनी॥२६॥
in Education
For Personal & Private Use Only
Page #199
--------------------------------------------------------------------------
________________
रौद्रध्यानमन्तरेणाप्यविवेकालोमाद्वा या शान्तिनिमित्वं कुलक्रमाद्वा हिंसा न केवलं पापहेतु प्रत्यत विघ्नशान्तिनिमित्तं क्रियमाणा समरादित्यकथोक्तस्य यशोधरजीवस्य सुरेन्द्रदत्तस्येव पिष्टमयकुक्कटवधरूपा विघ्नाय जायेत कल्पेत अस्मत्कुलाचारोऽयमिति बुद्ध्यापि कृता हिंसा कुलमेव विनाशयति ॥ २६ ॥
इदानी कुलक्रमायातामपि हिंसां परिहरन् पुमान् प्रशस्य एवेत्याह । अपि वंशक्रमायातां यस्तु हिंसां परित्यजेत् । सश्रेष्ठः सुलस इव कालसौकरिकात्मजः ॥३०॥ ___वंशः कुलं कुलक्रमायातामपि हिंसा यः परिहरेत् सः श्रेष्ठः प्रशस्यतमः सुलस इव, तस्य विशेषणं कालसौकरिकात्मजः कालसौकरिको नाम सौनिकस्तस्यात्मजः पुत्रः। यदाहभवि इच्छन्ति य मरणं न य परपीडं कुणन्ति मणसा वि । जे सुविइअसुगइपहा सोयरिअसुमो जहा सुलसो ॥
सुलसकथानकं सम्प्रदायगम्यम् । स चायं
महर्डि मगधेष्वस्ति पुरं राजगृहाभिधम् । तत्र श्रीवीरपादाब्जभृङ्गोऽभूच्छेणिको नृपः॥१॥ तस्य प्रियतमे नन्दाचिल्लणे शीलभूषणे । अभूतां देवकीरोहिण्याविवानकदुन्दुमेः ॥२॥ नन्दायां नन्दनो विश्वकुमुदानन्दचन्द्रमाः । नाम्नाऽभयकुमारोऽभूदुभयान्वयभूषणः ॥३॥ राजा तस्य परिज्ञाय प्रकृष्टं बुद्धिकौशलम् । ददौ
(१) अपि इच्छन्ति च मरणं न च परपीडां कुर्वन्ति मनसापि। ये मुविदितसुगतिपथाः सौकरिकसुतो यथा मुलसः॥१॥ (२) वसुदेवस्य कृष्णपितुः ।
in Education internation
For Personal & Private Use Only
Page #200
--------------------------------------------------------------------------
________________
द्वितीयः प्रकाशः।
योग- H सर्वाधिकारित्वं गुणा हि गरिमास्पदम् ॥ ४॥ अन्यदा श्रीमहावीरो विहरन् परमेश्वरः । जगत्पूज्यः पुरे तस्मिशास्त्रम्।
नागत्य समवासरत् ॥५॥ श्रुत्वा स्वामिनमायातं जङ्गमं कल्पपादपम् । कृतार्थमानी तत्रागान्मुदितः श्रेणिको नृपः ॥६॥ यथास्थानं निषमेषु देवादिषु जगद्गुरुः । प्रारेभे दुरितध्वंसदेशनी धर्मदेशनाम् ॥७॥ तदा कुष्ठगलत्कायः कश्चिदेत्य प्रणम्य च । निषसादोपतीर्थेशमलर्क इव कुट्टिमे ॥८॥ ततो भगवतः पादौ निजपूयरसेन सः। निःशङ्कश्चन्दनेनेव चर्चयामास भूयसा ॥४॥ तद्वीक्ष्य श्रेणिका क्रुद्धो दध्यौ वध्योऽयमुत्थितः । पापीयान् यजगद्भर्येवमाशातनापरः ॥१०॥ अत्रान्तरे जिनेन्द्रेण तुते प्रोवाच कुष्ठिकः । म्रियस्खेत्यथ जीवेति श्रेणिकेन तुते सति ॥ ११॥ क्षुतेऽभयकुमारेण जीव वा त्वं म्रियस्व वा । कालसौकरिकेणापि क्षुते मा जीव मा मृथाः ॥ १२ ॥ जिनं प्रति म्रियस्वेति वचसा रुषितो नृपः। इतः स्थानादुत्थितोऽसौ ग्राह्य इत्यादिशद्भटान् ॥ १३ ॥ देशनान्ते महावीरं नत्वा कुष्ठी समुत्थितः। रुरुधे श्रेणिकभटैः किरातैरिव शूकरः॥ १४ ॥ स तेषां पश्यतामेव दिव्यरूपधरः क्षणात् । उत्पपाताम्बरे कुर्वन्चर्कविम्बविडम्बनाम् ॥ १५॥ पत्तिभिः कथिते राज्ञा क एष इति विस्मयात् । विज्ञप्तो भगवानस्मै देवोऽसावित्यचीकथत् ॥ १६॥ पुनर्विज्ञपयामास सर्वज्ञमिति भूपतिः । देवः कथमभूदेष कुष्ठी वा केन हेतुना ॥ १७॥ अथोचे भगवानेवमस्ति वत्सेषु विश्रुता । कौशाम्बी नाम पूस्तस्यां शतानीकोऽभवन्नृपः ॥ १८ ॥ तस्यां नगर्यामेकोऽभूनामतः सेडुको द्विजः । सीमा सदा दरिद्राणां मूर्खाणामवधिः परः ॥ १६ ॥ गर्भिण्याऽभाणि सोऽन्येधुळमण्या सूतिकर्मणे । भट्टानय घृतं मह्यं सह्या न धन्यथा व्यथा
(१) मत्तः श्वा.
1820
For Personal & Private Use Only
Jan Education inter
www.sainelibrary.org
Page #201
--------------------------------------------------------------------------
________________
॥२०॥ सोऽप्यूचे तां प्रिये नास्ति मम कुत्रापि कौशलम् । येन किञ्चिल्लभे कापि कलाग्राह्या यदीश्वराः ॥२१॥ उवाच सा च तं भद्रं गच्छ सेवस्व पार्थिवम् । पृथिव्यां पार्थिवादन्यो न कश्चित्कल्पपादपः॥ २२ ॥ तथेति प्रतिपद्यासौ नृपं पुष्पफलादिना । प्रवृत्तः सेवितुं विप्रो रत्नेच्छुरिख सागरम् ।। २३ ॥ कदाचिदथ कौशाम्बी चम्पेशेनामितैबेलैः। धनतुनेव मेधैद्यौररुध्यत समन्ततः ॥२४॥ सानीकोऽपि शतानीको मध्येकौशाम्बि तस्थिवान् । प्रतीक्षमाणः समयमन्तर्विलमिवोरगः ॥ २५ ॥ चम्पाधिपोऽपि कालेन बहुना सन्नसैनिकः। प्रावृषि स्वाश्रयं यातुं प्रवृत्तो राजहंसवत् ।। २६ ॥ तदा पुष्पार्थमुद्याने गतः सेडुक ऐक्षत । तं क्षीणसैन्यं प्रत्यूषे निष्प्रभोडुमिवोडपम् ॥२७।। तूर्णमेत्य शतानीकं व्यजिज्ञपदसाविदम् । याति क्षीणबलस्तेऽरिभग्नदंष्ट्र इवोरगः ॥२८॥ यद्यद्योत्तिष्ठसे तस्मै तदा ग्राह्यः सुखेन सः। बलीयानपि खिन्नः सन्नखिन्नेनाभिभूयते ॥ २६ ॥ तद्वचः साधु मन्वानो राजा सर्वाभिसारतः । निःससार शरासारसारनासीरदारुणः ॥३० ।। ततः पश्चादपश्यन्तो नेशुश्चम्पेशसैनिकाः। अचिन्तिततडित्पाते को वीक्षितुमपि क्षमः ॥ ३१ ॥ चम्पाधिपतिरेकाङ्गः कान्दिशीकः पलायितः । तस्य हस्त्यश्वकोशादि कौशाम्बीपतिरग्रहीत् ॥३२॥ हृष्टः प्रविष्टः कौशाम्बी शतानीको महामनाः । उवाच सेडुकं विप्रं ब्रूहि तुभ्यं ददामि किम् ॥३३॥ विप्रस्तमूचे याचिष्ये पृष्ट्वा निजकुटुम्बिनीम् । पर्यालोचपदं नान्यो गृहिणां गृहिणी विना ॥ ३४ ॥ भट्टः प्रहृष्टो भट्टिन्यै तदशेष शशंस सः । चेतसा चिन्तयामास सा चैवं बुद्धिशालिनी ॥ ३५ ॥ यद्यमुना ग्राहयिष्ये नृपाद्वामादिकं तदा । करिष्यत्यपरान्दारान्मदाय विभवः खलु ।। ३६ ॥ दिनं प्रत्येक औलोच
(१) खिन्नसैनिकः. २ बाणवृष्टया सारभूतं नासीरम्-अग्रसैन्यं तेन दारुणः. ३ दर्शनम् ।
in Education internatio
For Personal & Private Use Only
Page #202
--------------------------------------------------------------------------
________________
द्वितीय
योग- शास्त्रम्
प्रकाश
॥३२॥
स्तथाग्रासनभोजनम् । दीनारो दक्षिणायां च याच्य इत्यन्वशात्पतिम् ॥ ३७॥ ययाचे तत्तथा विप्रो राजाऽदात्तद्वदन्निदम् । करकोऽब्धिमपि प्राप्य गृह्णात्यात्मोचितं पयः ॥३८॥ प्रत्यहं तत्तथा लेभे प्राप्य सम्भावनां च सः। पुंसां राजप्रसादो हि वितनोति महार्घताम् ॥ ३९ ॥राजमान्योऽयमित्येष नित्यं लोकैन्यमन्त्र्यत । यस्य प्रसन्नो नृपतिस्तस्य कः स्यान्न सेवकः ॥४०॥ अग्रे भुक्तं चालयित्वा बुभुजेऽनेकशोऽप्यसौ । प्रत्यहं दक्षिणालोभाद्धिग्धिग्लोभो द्विजन्मनाम् ॥ ४१॥ उपाचीयत विप्रोऽसौ विविधैर्दक्षिणाधनैः । प्रासरत्पुत्रपौत्रैश्च पादैवि वद्रुमः ॥४२॥ स तु नित्यमजीर्णान्नवमनावगै रसैः । आमैरभूषितत्वगश्वत्थ इव लाक्षया ॥ ४३ ॥ कुष्ठी क्रमेण सञ्जज्ञे शीर्णघ्राणांहिपाणिकः । तथैवामुक्त राजाग्रे सोऽतृप्तो हव्यवाडिव ॥ ४४ ॥ एकदा मन्त्रिभिर्भूपो विज्ञप्तो देव कुष्ठ्यसौ । सञ्चरिष्णुः कुष्ठरोगो नास्य योग्यमिहाशनम् ।। ४५ ॥ सन्त्यस्य नीरुजः पुत्रास्तभ्यः कोऽप्यत्र भोज्यताम् । व्यङ्गितप्रतिमायां हि स्थाप्यते प्रतिमान्तरम् ॥ ४६॥ एवमस्त्विति राज्ञोक्तेऽमात्यौर्विप्रस्तथोदितः । स्वस्थानेऽस्थापयत्पुत्रं गृहे तस्थौ स्वयं पुनः ॥ ४७॥ मधुमण्डकवक्षुद्रमक्षिकाजालमालितः। पुत्रैहादपि बहिः कुटीरक्षेपि स द्विजः॥४८॥ बहिःस्थितस्य तस्याज्ञा पुत्रा अपि न चक्रिरे । दारुपात्रे ददुः किन्तु शुनकस्येव भोजनम् ।। ४६ ।। जुगुप्समाना वध्वोऽपि तं भोजयितुमाययुः । तिष्ठिवुर्वलितग्रीवं मोटनोत्पुटनासिकाः ॥ ५० ॥ अथ सोऽचिन्तयद्विप्रः श्रीमन्तोऽमी मया कृताः । एभिर्मुक्तोऽस्म्यनादृत्य तीर्णाम्भोभिस्तरण्डवत् ॥ ५१॥ तोषयन्ति न वाचापि रोषयन्त्येव माममी । कुष्ठो रुष्टो न सन्तुष्टो भव्य इत्यनुलापिनः ॥ ५२ ॥
(१) घटः (२) वान्त्वा .
॥४२॥
Jain Education internat
For Personal & Private Use Only
Page #203
--------------------------------------------------------------------------
________________
जुगुप्सन्ते यथैते मां जुगुप्स्याः स्युरमी अपि । यथा तथा करिष्यामीत्यालोच्यावोचदात्मजान् ॥ ५३॥ उद्विग्नो जीवितस्याहं कुलाचारस्त्वसौ सुताः । मुमूर्षुभिः कुटुम्बस्य देयो मन्त्रोक्षितः पशुः ॥ ५४ ॥ पशुरानीयतामेक इत्याकग्रॅनुमोदिनः । आनिन्यिरे तेऽथ पशुं पशुवन्मन्दबुद्धयः ॥ ५५ ॥ उद्वत्याद्वय च स्वाम मन्नन व्याधिवात्तकाः । तेनाचारि पशुस्तावद्यावत कुष्ठी बभूव सः ॥५६॥ ददौ विप्रः स्वपुत्रेभ्यस्त हत्वा पशुमन्यदा । तदाशयभजानन्तो मुग्धा बुभुजिरे च ते ॥ ५७॥ तीर्थे स्वार्थाय यासामीत्यापृच्छय तनयान् द्विजः। ययावूधध्वेमुखोऽरण्यं शरण्यमिव चिन्तयन ॥५८ ॥ अत्यन्तठषितः सोष्टबटव्यां पयस चिरम् । अपश्यत्सुहृदमिव देशे नानाद्रुमे ह्रदम ॥ ५४ ॥ नीरं तीरतरुस्रस्तपत्रपुष्पफलं द्विजः। ग्रीष्ममध्यन्दिनाकोशुक्क
थित काथवत्पपों ॥ ६० ॥ सोऽपाद्यथा यथा वारि भयोभयस्तषातरः। तथा तथा विरेकोऽस्य बभूव कामभिः व सह ॥ ६१॥ स नीरुगासीत्कतिभिरप्यहोभिईदाम्भसा । मनोज्ञसर्वावयवो वसन्तेनेव पादपः ॥ ६२॥ आरोग्य
हृष्टो ववले विप्रः क्षिप्रं स्ववेश्मने । पुंसां वपुर्विशेषोत्थशृङ्गारो जन्मभूमिषु ॥ ६३ ॥ स पुयो प्रविशन् पोरेंदेशे | जातविस्मयैः । देदीप्यमानो निर्मुक्तो निर्मोक इव पन्नगः ॥ ६४॥ पौरैः पृष्टः पुनर्जात इवोलाघः कथं न्वसि । देवताराधनादस्मीत्याचचक्षे स तु द्विजः ॥६५॥ स गत्वा स्वगृहेऽपश्यत्स्वपुत्रान् कुष्ठिनो मुदा । मयाऽवज्ञाफले साधु दत्तमित्यवदच्च तान् ॥६६॥ सुतास्तमेवमुचुश्च भवता तात निघृणम् । विश्वस्तेषु किमस्मासु द्विषेवेदमनुष्ठितम् ॥ ६७॥ लोकैराक्रुश्यमानोऽसौ राजनागत्य ते पुरम् । आश्रयजीविकाद्वारं द्वारपालं निराश्रयः ॥ ६८॥ तदान वयमायाता द्वाःस्थोऽस्मद्धर्मदेशनाम । श्रोतुं प्रचलितोऽमुश्चत्तं विप्रं निजकर्मणि ॥ ६६ ॥ द्वारोपविष्टः स
Latin Education internata
For Personal & Private Use Only
Page #204
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
॥ ६३॥
Jain Education Intern
10-***-++
द्वारदुर्गाणामग्रतो बलिम् | जन्मादृष्टमिवाभुङ्क्त यथेष्टं कष्टितः क्षुधा ॥ ७० ॥ श्राकण्ठं परिभुक्तान्नदोषाद्रीष्मोष्मणा च सः । उत्पन्नया तृषाऽकारि मरुपान्थ इवाकुलः ॥ ७१ ॥ तत्तु द्वाःस्थभिया स्थानं त्यक्त्वा नागात्प्रपादिषु । असौ जलचरान् जीवान् धन्यान्मेने तृषातुरः ॥ ७२ ॥ आरटन् वारि वारीति स तृषार्त्तो व्यपद्यत । sa नगरद्वारवाप्यामजनि दर्दुरः ॥ ७३ ॥ विहरन्तो वयं भूयोऽप्यागमामेह पत्तने । लोकोऽस्मद्वन्दनार्थ च प्रचचाल ससम्भ्रमः ॥ ७४ ॥ श्रस्मदागमनोदन्तं श्रुत्वाऽम्भोहारिणीम्मुखात् । स भेकोऽचिन्तयदिदं काप्येवं श्रुतपूर्व्यहम् ॥ ७५ ॥ ऊहापोहं ततस्तस्य कुर्वाणस्य मुहुर्मुहुः । खमस्मरणवजातिस्मरणं तत्क्षणादभूत् ॥ ७६ ॥ स दध्यौ दर्दुरश्चैवं द्वारे संस्थाप्य मां पुरा । द्वाःस्थो यं वन्दितुमगात्स आगाद्भगवानिह ॥ ७७ ॥ यथैते यान्ति तं द्रष्टुं लोका यास्याम्यहं तथा । सर्वसाधारणी गङ्गा न हि कस्यापि पैतृकी ॥ ७८ ॥ ततोऽस्मद्वन्दना हेतोरुत्प्लुत्योत्प्लुत्य सोऽध्वनि । आयांस्तेऽश्वखुरतुष्पो भेकः पश्चत्वमाप्तवान् ॥ ७६ ॥ दर्दुराङ्कोऽयमुत्पेदे देवोऽस्मद्भक्तिभावितः । भावना हि फलत्येव विनाऽनुष्ठानमप्यहो ॥ ८० ॥ इन्द्रः सदस्युवाचेदमुपश्रेणिकमार्हताः । अश्रदधानस्तदसौ त(त्व)त्परीक्षार्थमागतः ॥ ८१ ॥ गोशीर्षचन्दनेनायमानर्च चरणौ मम । त्वद्द्दष्टिमोहनायान्यत्सर्वं व्याधित वैक्रियम् ॥ ८२ ॥ अथोचे श्रेणिकः स्वामिन्नमङ्गन्यं प्रभोः तुते । एषोऽन्येषां तु मङ्गन्यामङ्गन्यानि जगाद किम् ॥ ८३ ॥ अथाचचक्षे भगवान् किं भवेऽद्यापि तिष्ठसि । शीघ्रं मोक्षं प्रयाहीति मां म्रियस्वेत्युवाच सः ॥ ८४ ॥ सत्वां जगाद जीवेति जीवतस्ते यतः सुखम् । नरके नरशार्दूल मृतस्य हि गतिस्तव ॥ ८५ ॥ जीवन् धर्म्म विधत्ते स्याद्विमानेऽनुत्तरे मृतः । जीव म्रियस्व वेत्येवं तेनाभयमभाषत ॥ ८६ ॥ जीवन् पापपरो मृत्वा सप्तमं
For Personal & Private Use Only
द्वितीय:
प्रकाशः
॥ ६३ ॥
Page #205
--------------------------------------------------------------------------
________________
Jain Education in
荣下A
नरकं व्रजेत् । कालसौकरिकस्तेन प्रोचे मा जीव मा मृथाः ॥ ८७ ॥ तच्छ्रुत्वा श्रेणिको नत्वा भगवन्तं व्यजिज्ञपत् । त्वयि नाथे जगन्नाथ कथं मे नरके गतिः ॥ ८८ ॥ बभाषे भगवानेवं पुरा त्वमसि भूपते । बद्धायुर्नर के | तेन तत्रावश्यं गमिष्यसि ॥ ८६ ॥ शुभानामशुभानां वा फलं प्राग्वद्ध कर्मणाम् । भोक्तव्यं तद् द्र (तद्व) यमपि नान्यथा कर्त्तुमीश्महे ॥ ६० ॥ आद्यो भाविजिनचतुर्विंशतौ त्वं भविष्यसि । पद्मनाभाभिघो राजन् खेदं मा स्म कृथास्ततः ॥ ६१ ॥ श्रेणिकोऽथावदन्नाथ किमुपायोऽस्ति कोऽपि सः । नरकाद्येन रच्येऽहमन्धकूपादिवान्धलः ॥ ६२ ॥ भगवान् व्याजहारेदं साधुभ्यो भक्तिपूर्वकम् । ब्राह्मण्या चेत्कपिलया भिक्षां दापयसे मुदा ।। ६३ ।। कालसौकरिकात्सूनां विमोचयसि वा यदि । तदा ते नरकान्मोक्षो राजन् जायेत नान्यथा ॥ ६४ ॥ सम्यगित्युपदेशं स हृदि हारमिवोद्वहन् । प्रणम्य श्रीमहावीरं चचाल स्वाश्रयं प्रति ॥ ६५ ॥ अत्रान्तरे परीचार्थ दर्दुराङ्केन भूपतेः । अकार्य विदधत्साधुः कैवर्त्त इव दर्शितः ॥ ९६ ॥ तं दृष्ट्वा प्रवचनस्य मालिन्यं मा भवत्विति । निवार्याकार्य्यतः साम्ना स्वगृहं प्रत्यगान्नृपः ॥६७॥ स देवो दर्शयामास साध्वीमुदरिणीं पुनः । नृपः शासनभक्तस्तां जुगोप निजवेश्मनि ॥ ६८ ॥ प्रत्यक्षीभूय देवोऽपि तमूचे साधु साधु भोः । सम्यक्त्वाच्चान्यसे नैव पर्वतः स्वपदादिव ॥ ६६ ॥ नृनाथ यादृशं शक्रः सदसि त्वामचीकथत् । दृष्टस्तादृश एवासि मिथ्यावाचो न तादृशाः ॥ १०० ॥ दिवानिर्मितनक्षत्रश्रेणिकं श्रेणिकांय सः । व्यश्राणयत्ततो हारं गोलकद्वितयं तथा ॥ १ ॥ योऽमुं सन्धास्यते हारं त्रुटितं स मरिष्यति । इत्युदीर्य्य तिरोऽधत्त स्वप्नदृष्ट इवामरः || २ || दिव्यं देव्यै ददौ हारं चेन्नणायै मनोहरम् । गोलकद्वितयं तत्तु नन्दायै नृपतिर्मुदा ॥ ३ ॥ दानस्यास्यास्मि योग्येति सेयं नन्दा मनस्विनी । श्रास्फान्य स्फोटयामास स्तम्भे
For Personal & Private Use Only
930-04-→
*****
Page #206
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥३४॥
तद्गोलकद्वयम् ॥ ४॥ एकस्मात्कुण्डलद्वन्द्वं चन्द्रद्वन्द्वमिवामलम् । देदीप्यमानमन्यस्मात्क्षौमयुग्मं च निःसृतम् द्वितीयः ॥५॥ तानि दिव्यानि रत्नानि नन्दा सानन्दमग्रहीत् । अनभ्रवृष्टिवल्लाभो महतां स्यादचिन्तितः॥६॥ राजा प्रकाशा ययाचे कपिलां साधुभ्यः श्रद्धयाऽन्विता। भिक्षां प्रयच्छ निर्भिक्षां त्वां करिष्ये धनोच्चकैः ॥ ७॥ कपिलोचे , विधत्से मां सर्वा स्वर्णमयीं यदि । हिनस्सि वा तथाऽप्येतदकृत्यं न करोम्यहम् ॥८॥ कालसौकरिकोऽप्यूचे राज्ञा सूनां विमुञ्च यत् । दास्येऽहमर्थमर्थस्य लोभात्त्वमसि सौनिकः ॥९॥ सूनायां ननु को दोषो यया जीवन्ति मानवाः। तां न जातु त्यजामीति कालसौकरिकोऽवदत् ॥ १० ॥ सूनाव्यापारमेषोत्र करिष्यति कथं न्विति । नृपः क्षिप्वाऽन्धकूपे तमहोरात्रमधारयत् ॥ ११॥ अथ विज्ञपयामास गत्वा भगवते नृपः । सोऽत्याजि सौनिकः सूनामहोरात्रमिदं विभो ॥१२॥ सर्वज्ञोऽभिदधे राजन्नन्धकूपेऽपि सोऽवधीत् । शतानि पञ्च महिषान् स्वयं निर्माय मृन्मयान् ॥ १३ ॥ तद्गत्वा श्रेणिकोऽपश्यत् स्वयमुद्विविजे ततः। धिगहो मे पुरा कर्म नान्यथा भगवगिरः ॥ १४ ॥ पञ्च पश्च शतान्यस्य महिषान्निध्नतोऽन्वहम् । कालसौकरिकस्योच्चैः पापराशिरवर्द्धत ॥१५॥ इहापि रोगास्तस्यासन्दारुणैरतिदारुणाः। पर्यन्तनरकप्राप्तेरुपयुत्कलितैरषैः ॥ १६ ॥ हा तात हा मातरिति व्याधिबाधाकदर्थितः । वध्यमानः शूकरवत्कालसौकरिकोऽरटत् ॥ १७ ॥ सोऽङ्गनातूलिकापुष्पवीणाकणितमार्जिताः। दृष्टित्वमासिकाकर्णजिदाशूलान्यमन्यत ॥ १८॥ ततस्तस्य सुतस्तादृक् स्वरूपं सुलसोऽखिलम् । जगाद जगदाप्तायाभयायाभयदायिने ॥ १६ ॥ ऊचेऽभयस्त्वत्पिता यच्चक्रे तस्येदृशं फलम् । सत्यमत्युग्रपापानां १ मार्जिता-सुगन्धिद्रव्यैः संस्कृतं दधि.
॥१४॥
in Education interna
For Personal & Private Use Only
Page #207
--------------------------------------------------------------------------
________________
फलमत्रैव लभ्यते ॥२०॥ तथाऽप्यस्य कुरु प्रीत्यै विपरीतेन्द्रियार्थताम् । अमेध्यगन्धविध्वंसे भवेन जलमौषधम् ॥२१॥ अथैत्य सुलसस्तं तु कटुतिक्तान्यभोजयत् । अपाययदपोऽत्युष्णास्तप्तत्रपुसहोदराः ॥२२॥ भूयिष्ठविष्ठया सुष्टु सर्वाङ्गीणं व्यलेपयत । उर्ध्वकण्टकमय्यां च शय्यायां पर्यसूपुपत ॥ २३ ॥ श्रावयामास चक्रीवत्क्रमेल| करवान् कटून् । रचोवतालकङ्कालघोररूपाण्यदर्शयत् ॥ २४ ॥ तैः प्रीतः सोऽब्रवीत्पुत्रं चिरात्वाद्वद्य भोजनम् । शीतं वारि मृदुः शय्या सुगन्धि च विलेपनम् ॥२५॥ शब्दः श्रुतिसुधाऽमनि रूपाण्येकं सुखं दृशोः। भक्तेनापि त्वयाऽस्मात् किं वञ्चितोऽस्मि चिरं सुखात् ॥ २६ ॥ तच्छ्रत्वा सुलसो दध्याविदमत्रैव जन्मनि । अहो पापफलं घोरं नरके किं भविष्यति ॥ २७॥ सुलसे चिन्तयत्येवं स मृत्वा प्राप दारुणम् । सप्तमे नरके स्थानमप्रतिष्ठानसंज्ञितम् ॥ २८ ॥ कृतोर्ध्वदेहिकोऽभाणि सुलसः स्वजनैरिति । पितुः श्रय पदं स्याम सनाथा हि त्वया यथा ॥ २६ ॥ सुलसस्तानुवाचेदं करिष्ये कर्म न ह्यदः। किञ्चिल्लेभे फलं पित्राऽप्यत्रैवामुष्य कर्मणः ॥ ३० ॥ यथा मम प्रियाः प्राणास्तथाऽन्यप्राणिनामपि । स्वप्राणिताय धिगहो परप्राणप्रमारणम् ॥ ३१ ॥ हिंसाजीविकया जीवेत् कः प्रेक्ष्य फलमीदृशम् । मरणैकफलं ज्ञात्वा किंपाकफलमत्ति कः॥ ३२॥ अथ ते स्वजनाः प्रोचुः पापं प्राणिवधेऽत्र यत् । तद्विभज्य ग्रहीष्यामो हिरण्यमिव गोत्रिणः॥ ३३ ॥ त्वमेकं महिषं हन्या हनिष्यामोऽपरान् | वयम् । अत्यल्पमेव ते पापं भविष्यति ततो ननु ॥ ३४ ॥ आदाय सुलसः पित्र्यं कुठारं पाणिना ततः। | तेनाजघ्ने निजां जवां मूर्छितो निपपात च ॥३५॥ लब्धसंज्ञस्ततोऽवादीत साक्रन्दः करुणस्वरम् । हा कुठार
१ चक्रीवत-रासभः, क्रमेलकश्च-उष्ट्रः तयोः शब्दान्.
Jain Education intemat
For Personal & Private Use Only
Page #208
--------------------------------------------------------------------------
________________
योगशास्त्रम्
द्वितीयः प्रकाशः।
॥१५॥
प्रहारेण कठोरणास्मि पीडितः ॥ ३६॥ गृहीत बन्धवो यूयं विभज्य मम वेदनाम् । स्यामल्पवेदनो येन पीडितं पात पात माम् ॥ ३७॥ सुलसं खिन्नमनसस्ते च प्रतिबभाषिरे । पीडा कस्यापि केनापि ग्रहीतं शक्यते किम ॥३८॥ सुलसो व्याजहारेदं यद् व्यथामियतीमपि । न मे ग्रहीतुमीशिध्वे तत्कथं नरकव्यथाम् ॥३९॥ कृत्वा पापं कुटुम्बार्थे घोरां नरकवेदनाम् । एकोऽमुत्र सहिष्येऽहं स्थास्यन्त्यत्रैव बान्धवाः ॥ ४०॥ हिंसां तन्न करिष्यामि पैत्रिकीमपि सर्वथा । पिता भवति यद्यन्धः किमन्धः स्यात्सुतोऽपि हि ॥४१॥ एवं व्याहरमाणस्य सुलसस्यातिपीडया। प्रतिजागरणायागादभयः श्रेणिकात्मजः॥ ४२ ॥ परिरभ्य बभाषे तममयः साधु साधु भोः। सर्व ते श्रुतमस्माभिः प्रमोदाद्वयमागताः ॥ ४३ ॥ पापात्पैत्र्यादपक्रामन् कर्दमादिव दूरतः । त्वमेकः श्लाध्यसे हन्त पक्षपातो गुणेषु नः॥४४॥ सुलसं पेशलैरेवमालापैधर्मवत्सलः। अनुमोद्य निजं धाम स जगाम नृपात्मजः॥ ४५ ॥ खाननादृत्य सुलसो गृहीतद्वादशव्रतः। दौगैत्यभीतोऽस्थाजैनधर्मे रोर इवेश्वरे ॥४६॥
कालसौकरिकसनुरिवैवं, यस्त्यजेत् कुलभवामपि हिंसाम् । स्वर्गसम्पददवीयसि तस्य, श्रेयसामविषयो न हि किश्चित् ॥ १४७ ॥ ३०॥
__ अथ हिंसां कुर्वनपि दमादिभिः पुण्यमर्जयत्येव पापं च विशोधयेदित्याहदमो देवगुरूपास्तिर्दानमध्ययनं तपः। सर्वमप्येतदफलं हिंसां चेन्न परित्यजेत् ॥ ३१॥
दम इन्द्रियजयः, देवगुरूपास्तिर्देवसेवा गुरुसेवा च, दानं पात्रेषु द्रव्यविश्राणनं, अध्ययनं धर्मशास्त्रादेः
H
॥६॥
in Education Interna
For Personal & Private Use Only
Page #209
--------------------------------------------------------------------------
________________
पठनं, तपः कृच्छ्रचान्द्रायणादि, एतद्दमादि सर्वमपि न तु किश्चिदेव, अफलं पुण्यार्जनपापक्षयादिफलरहितं चेद्यदि हिंसां शान्तिकहेतुं कुलकमायाता वा न परित्यजेन परिहरेत् ॥ एवं तावन्मांसलुब्धानां शान्तिकार्थिना कुलाचारमनुपालयतां च या हिंसा सा प्रतिषिद्धा ॥ ३१॥ ___ इदानीं शास्त्रीयां हिंसां प्रतिषेधन शास्त्रत्वेन वाऽऽधिपति| विश्वस्तो मुग्धधीर्लोकः पात्यते नरकावनौ। अहो नृशंसर्लोभान्धैर्हिसाशास्त्रोपदेशकैः॥३२॥ __हिंसाशास्त्रं वक्ष्यमाणं तस्योपदेशका हिंसाशास्त्रोपदेशका मन्वादयस्तैः किंविशिष्टैर्नृशंसैर्निर्दयैः । दया-1 वान् हि कथं हिंसाशास्त्रमुपदिशेत । नृशंसत्वे हेतुमाह । लोभान्धैः मांसलोभान्धः स्वाभाविकविवेकविवेकिसंसर्गचक्षुरहितैः। यदाह
एकं हि चक्षुरमलं सहजो विवेक-स्तद्वद्भिरेव सह संवसतिर्द्वितीयम्।
एतद्द्वयं भुवि न यस्य स तत्त्वतोऽन्ध-स्तस्यापमार्गचलने खल्लु कोऽपराधः॥१॥ __अहो इति निर्वेदे, यतो विश्वस्तो विश्रब्धः, विश्वस्तत्वे हेतुर्मुग्धधीः। चतुरखुद्धिहि कृत्याकृत्यं विवेचयन् न प्रतारकवचस्सु विश्वसिति । लोकः प्राकृतो जनः पात्यते चेप्यते नरकावनौ नरकपृथ्व्याम् ॥ ३२॥
हिंसाशास्त्रमेव यदाहुरित्यनेन प्रस्तुत्य निर्दिशतियज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयंभुवा । यज्ञोऽस्य भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः ॥३३॥
Jain Education intemartT
For Personal & Private Use Only
Page #210
--------------------------------------------------------------------------
________________
योग
शास्त्रम्।
॥६६॥
यज्ञार्थ यज्ञनिमित्तं स्वयंभुवा प्रजापतिना पशवः सृष्टा उत्पादिताः स्वयमेवेत्यर्थवादः । अस्य जगतो विश्व- द्वितीय: स्य यज्ञो ज्योतिष्टोमादिः भूत्यै भूतिर्विभवः, तस्मात्तत्र यो वधः स न वधो विज्ञेयः हिंसाजन्यस्य पापस्यानुत्पत्तेः। प्रकाश। एवमुच्यते । कथं पुनर्यज्ञे हिंसादोषो नास्ति ? उच्यते-हिंसा हिंस्यमानस्य महानपकारः प्राणवियोगेन पुत्रदारधनादिवियोगेन वा सर्वानर्थोत्पत्तेद॑ष्कृतस्य वा नरकादिफलविपाकस्य प्रत्यासचेः। यज्ञे तु हतानामुपकारो नापकारः नरकादिफलानुत्पत्तेः ॥ ३३॥ एतदेवाह
औषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा। यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्यु(च्छ्रिोति पुनः॥३४॥ ___औषध्यो दर्भादयः पशवश्छागादयः वृक्षा यूपादयः तिर्यश्चो गवारवादयः पक्षिणः कपिञ्जलादयः यज्ञार्थ यज्ञनिमित्तं निधनं विनाशं प्राप्ताः । यद्यपि केषाश्चित्तत्र निधनं नास्ति तथापि या च यावती च पीडा विद्यत इति सा निधनशब्देन लक्ष्यते । प्राप्नुवन्ति यान्ति उच्छ्रितिमुक्तर्ष देवगन्धर्वयोनित्वमुत्तरकुर्वादिषु दीर्घायुष्कादि च॥३४॥ ___ यावत्यः काश्चिच्छास्त्रे चोदिता हिंसास्ताः संक्षिप्य दर्शयतिमधुपर्के च यज्ञे च पितृदेवतकर्मणि। अत्रैव पशवो हिंस्या नान्यत्रेत्यब्रवीन्मनुः॥ ३५ ॥ ___ मधुपर्कः क्रियाविशेषः तत्र गोवधो विहितः, यज्ञो ज्योतिष्टोमादिः तत्र पशुवधो विहितः, पितरो दैवतानि यत्र कर्मण्यष्टकादौ तच्च श्राद्धं पितृणां दैवतानां च कर्म महायज्ञादि ॥ ३५ ॥
T||४६
Lain Education internatio
For Personal & Private Use Only
Page #211
--------------------------------------------------------------------------
________________
एष्वर्थेषु पशून हिंसन् वेदतत्त्वार्थविद्विजः। श्रात्मानं च पशुंश्चैव गमयत्युत्तमां गतिम् ॥३६॥ | एतानर्थान् साधयितुं पशून हिंसन् द्विज आत्मानं पशृंयोत्तमां गतिं खर्गापवर्गलक्षणां गमयति प्रापयति । | वेदतत्त्वार्थविदिति विदुषोऽधिकारित्वमाह ॥ ३६॥
हिंसाशास्त्रमनूद्य पुनस्तदुपदेशकानाधिपतिये चक्रः क्रूरकर्माणःशास्त्रं हिंसोपदेशकम् ।क ते यास्यन्ति नरके नास्तिकेभ्योऽपि नास्तिकाः३७
ये मन्वादयः क्रूरं निघृणं कर्म येषां ते कूरकर्माणः शास्त्रं स्मृत्यादि हिंसाया उपदेशकं चक्रुः ते हिंसाशास्त्रकर्तारः क नरके यास्यन्तीति विस्मयः । ते चास्तिकाभासा अपि नास्तिकेभ्योऽपि नास्तिकाः परमनास्तिका इत्यर्थः ॥ ३७॥ । उक्तं चेत्यनेन संवादश्लोकमुपदर्शयतिवरं वराकश्चार्वाको योऽसौ प्रकटनास्तिकः। वेदोक्तितापसच्छाच्छन्नं रक्षोन जैमिनिः॥३८॥
वरमिति मनागिष्टो जैमिन्यपेक्षया चार्वाको लोकायतिकः वराक इति दम्भरहितत्वादनुकम्प्यः। तदेवाहयोऽसौ प्रकटनास्तिकः । जैमिनिस्तु न वरं कुतः वेदोक्तितापसच्छद्म तापसवेषस्तेन छन्नं रक्षो राक्षसः, अयं हि वेदोक्ति मुखे कृत्वा सकलप्राणिवश्वनाद मायावी राक्षस इव । यच्चोक्तं यज्ञार्थ पशवः स्रष्टा इति तद्बामात्रं निजनिजकर्मनिर्माणमाहात्म्येन नानायोनिषु जन्तवः समुत्पद्यन्त इति व्यलीकः कस्यचित् सृष्टिवादः, यज्ञोऽस्य भूत्यै सर्वस्येति त्वर्थवादः पचपातमात्र, वधोऽवध इति तूपहासपात्रं वचः, यज्ञार्थ विनिहतानां चौषध्यादीनां पुनरुच्छ्र
१.
in Education International
For Personal & Private Use Only
Page #212
--------------------------------------------------------------------------
________________
योगशास्रम्
॥ ६७ ॥
*03180008-08-1
Jain Education Internation
प्राप्तिः श्रद्दधानभाषितं अकृतसुकृतानां यज्ञवधमात्रेणोच्छ्रितगतिप्राप्त्ययोगात् । अपि च यज्ञहननमात्रेण यदि उच्छ्रितगतिप्राप्तिस्तर्हि मातापित्रादीनामपि यज्ञे वधः किं न क्रियते । यदाहुः -
नाहं स्वर्गफलोपभोगतृषितो नाभ्यर्थितस्त्वं मया, सन्तुष्टस्तृणभक्षणेन सततं साधो न युक्तं तव । स्वर्गे यान्ति यदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनो, यज्ञं किं न करोषि मातृपितृभिः पुत्रैस्तथा बान्धवैः ॥ १ ॥ मधुपर्कादिषु च हिंसा श्रेयसे नान्यत्रेति स्वच्छन्दभाषितं, को हि विशेषो हिंसाया येनैका श्रेयस्करी नान्येति । पुण्यात्मानस्तु सर्वाऽपि हिंसा न कर्त्तव्येत्याहुः । यथा
सव्वे जीवा वि इच्छंति जीविउ न मरजिउं । तम्हा पाणिवहं घोरं निग्गंथा वज्जयंति णम् ॥ १ ॥ यत्क्तं " आत्मानं च पशूंश्चैव गमयत्युत्तमां गतिमिति " तदविमहासाहसिकादन्य: को वक्तुमर्हति । अपि नाम पशोरहिंस्रस्य कामनिर्जरयोत्तमगतिलाभः संभवेत्, द्विजस्य तु निशांतकृपाणि काप्रहारपूर्व सौनिकस्येव निर्दयस्य हिंसतः कथमुत्तमगतिसंभावनाऽपि स्यात् १ ॥ ३८ ॥
एतदेव विशेषाभिधानपूर्वकमुपसंहरन्नाह -
देवोपहारव्याजेन यज्ञव्याजेन येऽथवा । घ्नन्ति जन्तून् गतघृणा घोरां ते यान्ति दुर्गतिम् ॥३९॥ देवा भैरव चण्डिकादयस्तेभ्यः उपहारो बलिः स एव व्याजं छद्म तेन महानवमीमाघाष्टमी चैत्राष्टमीनमसितका( १ ) सर्वे जीवा अपि इच्छन्ति जीवितुं न मर्तुम् । तस्मात् प्राणिवधं घोरं निर्ग्रन्था वर्जयन्ति ॥ १ ॥
For Personal & Private Use Only
-*-*- -*KXUK++
द्वितीय
प्रकाशः ।
॥ ६७॥
Page #213
--------------------------------------------------------------------------
________________
|दिषु देवपूजाच्छद्मना ये जन्तुघातं कुर्वन्ति ये च यज्ञव्याजेन गतघृणा निर्दयास्ते घोरां रौद्रां दुर्गतिं नरकादि
लक्षणां यान्ति, अत्र देवोपहारव्याजेनेति विशेषाभिधानं यज्ञव्याजेनेत्युपसंहारः, अपि च निराबाधे धर्मसाधने स्वाधीने साबाधपराधीनधर्मसाधनपरिग्रहो न श्रेयान् । यदाहुः-अर्के चेन्मधु विन्देत किमर्थ पर्वतं बजेदिति ॥ ३६॥
एतदेवाहशमशीलदयामूलं हित्वा धर्म जगद्धितम्। अहो हिंसाऽपि धर्माय जगदे मन्दबुद्धिभिः॥४०॥ ___ शमः कषायेन्द्रियजयः, शीलं सुस्वभावता, दया भूतानुकम्पा, एतानि मूलं कारणं यस्य स तथा धर्मोऽभ्यु| दयनिःश्रेयसकारणं तं । किं विशिष्टं ? जगद्धितं, हित्वा उपेक्ष्य शेमशीलादीमि धर्मसाधनान्युपेक्ष्येत्यर्थः, अहो
इति विस्मये हिंसापि धर्मसाधनबहिता धर्मसाधनत्वेन मन्दबुद्धिभिरुक्ता सर्वजनप्रसिद्धानि शमशीलादीनि | धर्मसाधनान्युपेक्ष्य अधर्मसाधनमपि हिंसां धर्मसाधनत्वेन प्रतिपादयतां परेषां व्यक्तैव मन्दबुद्धिता ॥ ४०॥
एवं तावल्लोभमूला शान्त्यर्था कुलक्रमायाता यज्ञनिमित्ता देवोपहारहेतुका च हिंसा प्रतिषिद्धा । पितृनिमित्ता | अवशिष्यते तां प्रतिनिषेधितुं परशास्त्रीयां षश्लोकीमनुवदतिहविर्यच्चिररात्राय यच्चानन्त्याय कल्पते । पितृभ्यो विधिवदत्तं तत्प्रवक्ष्याम्यशेषतः॥४१॥
चिररात्रशब्दो दीर्घकालवचनः, यच्चानन्त्याय केनचिद्धविषा दीर्घकालवृप्तिर्जायते केनचिदनन्तैव तदुभयं प्रवक्ष्यामि ॥४१॥
in Education interna
For Personal & Private Use Only
Page #214
--------------------------------------------------------------------------
________________
योगशास्रम्
॥
८॥
तिले/हियवैर्मापेरद्भिर्मूलफलेन वा । दत्तेन मासं प्रीयन्ते विधिवत्पितरो नृणाम् ॥ ४२ ॥ द्वितीय
तिलादिग्रहणं नेतरपरिसंख्यानार्थमपि तूपात्तानां फलविशेषप्रदर्शनार्थम् । एतैर्विधिवद्दत्तैः पितरो मासं प्रकाशः। प्रीयन्ते ॥४२॥ द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु ।औरभ्रणाथ चतुरःशाकुनेनेह पञ्चतु॥४३॥ ___ मत्स्याः पाठीनकाद्याः, हरिणा मृगाः, औरभ्रा मेषाः, शकुनय आरण्यकुक्कटाद्याः ॥ ४३ ॥ षण्मासांश्छागमांसेन पार्षतेनेह सप्त वै । अष्टावेणस्य मांसेन रौरवेण नवैव तु ॥४४॥
छागश्छगलः, पृषतैणरुरवो मृगजातिविशेषवचनाः ॥ ४४ ॥ दशमासांस्तु तृप्यन्ति वराहमहिषामिषेः । शशकूर्मयोर्मासेन मासानेकादशैव तु ॥ ४५ ॥
वराह पारण्यशूकरः ॥ ४५॥ संवत्सरं तु गव्येन पयसा पायसेन तु । वार्धाणसस्य मांसेन तृप्तिदशवार्षिकी ॥ ४६ ॥ __श्रुतानुमितयोः श्रुतसंबन्धस्य बलीयस्त्वाद्रव्येन पयसा पायसेन च संबन्धो न मांसेन प्राकरणिकेन, अन्ये तु व्याख्यानयन्ति मांसेन गव्येन पयसा पायसेन वा । पयसो विकारः पायसं दध्यादि । पयःसंस्कृते त्वोदने प्रसिद्धिः । वार्धीणसो जरच्छागः यस्य पिवतो जलं त्रीणि स्पृशन्ति जिहा कौँ च यदाह
त्रिपिवं त्विन्द्रियक्षीणं श्वेतं वृद्धमजापतिम् । वाणसं तु तं प्राहुर्याज्ञिकाः पितृकर्मसु ॥१॥४६॥ H८॥
an Education
For Personel Private Use Only
___
Page #215
--------------------------------------------------------------------------
________________
पितृनिमित्तहिंसोपदेशक शास्त्रमन्ध तदुपदिष्टां हिंसां दूषयतिस इतिस्मृत्यनुसारेण पितृणां तर्पणाय या।मूदैविधीयते हिंसा साऽपि दुर्गतिहेतवे ॥ ४७ ॥
इति पूर्वोक्ता या स्मृतिधर्मसंहिता तस्या अनुसारेणालम्बनेन पितरः पितुर्वश्याः । यच्छ्रुतिः- “पित्रे पितामहाय प्रपितामहाय पिण्डं निर्वपेदिति"। तेषां तर्पणाय तृप्तये मूढेरविचारकर्या हिंसा विधीयते सापिन केवलं मांसलोभादिनिमित्ता दुर्गतिहेतवे नरकाय । न हि स्वल्पाऽपि काचिद्धिंसा न नरकादिनिबन्धनं । यत्तु पितृवृप्तिप्रपञ्चवर्णनं तन्मुग्धबुद्धिप्रतारणमात्रं, न हि तिलब्रीह्यादिभिर्मत्स्यमांसादिभिर्वा परासूनां पितृणां तृप्तिरुत्पद्यते । यदाह
मृतानामपि जन्तूनां यदि तृप्तिभवेदिह । निर्वाणस्य प्रदीपस्य स्नेहः संवर्द्धयेच्छिखाम् ॥ १॥ इति
न केवलं हिंसा दुर्गतिहेतुरेव किं तु हिंस्यमानैर्जन्तुभिर्विरोधनिबन्धनत्वेन खस्यापि इहामुत्र च हिंसाहेतुतया भयहेतुः ॥ ४७ ।। अहिंस्रस्य तु सर्वजीवाभयदानशौण्डस्य न कुतोऽपि भयमस्तीत्याहयो भूतेष्वभयं दद्याद्भूतेभ्यस्तस्य नो भयम् । यादृग्वितीर्यते दानं तागासाद्यते फलम् ४८
स्पष्टम् ॥४८॥
एवं तावद्धिसापराणां मनुष्याणां नरकादि हिंसाफलममिहितं । सुराणामपि हिंसकानां जुगुप्सनीयचरितानां मूढजनप्रसिद्धं पूज्यत्वं परिदेवयते
१ शोचति.
in Education internation
!
For Personal & Private Use Only
Page #216
--------------------------------------------------------------------------
________________
हात कोदण्डादिधरत्वासिया । हिंसकत्वे विशे
तुमयुक्तत्वात् । कोदण्ड
योग
। कोदण्डदण्डचक्रासिशूलशक्तिधराः सुराः। हिंसका अपि हा कष्टं पूज्यन्ते देवताधिया ॥ ४६॥ द्वितीय ___ हा कष्टमित्यतिशयनिर्वेदे हिंसका अपि रुद्रप्रभृतयः सुराः प्राकृतैर्जनैः पूज्यन्ते विविधपुष्पोपहारादिभिर
प्रकाशः। शास्त्रम्
य॑न्ते । ते च यथाकथञ्चिदभ्यर्च्यतां नाम केवलं देवताबुद्धिस्तत्र विरुद्धा इत्याह-देवताधिया । हिंसकत्वे विशे॥880
पणद्वारेण हेतुमाह-कोदण्डदण्डचक्रासिशूलशक्तिधरा इति कोदण्डादिधरत्वाद्धिंसकाः, हिंसकत्वमन्तरेण कोदण्डादीनां धारयितुमयुक्तत्वात् । कोदण्डधरः शङ्करः, दण्डधरो यमः, चक्रासिधरो विष्णुः, शलधरौ शिवी, शक्तिधरः कुमारः, उपलक्षणमन्येषां शस्त्राणां शस्त्रधराणां च ॥ ४६॥
एवं प्रपश्चतो हिंसां प्रतिषिध्य तद्विपक्षभूतमीहंसावतं श्लोकद्वयेन स्तौति| मातेव सर्वभूतानामहिंसा हितकारिणी । अहिंसैव हि संसारमरावमृतसारणिः ॥ ५० ॥
अहिंसा दुःखदावाग्निप्रावृषेण्यघनावली। भवभ्रमिरुगा नामहिंसा परमौषधी ॥५१॥ ___ स्पष्टम् ॥ ५० ॥५१॥ अहिंसाव्रतस्य फलमाह- . दीर्घमायुः परं रूपमारोग्यं श्लाघनीयता। अहिंसायाः फलं सर्व किमन्यत्कामदैव सा ॥ ५२ ॥ ____ अहिंसापरो हि परेषामायुर्वर्द्धयन्ननुरूपमेव जन्मान्तरे दीर्घायुष्वं लभते । तथैव पररूपमविनाशयन् प्रकृष्टं रूपमामोति । तथैव चास्वास्थ्यहेतुं हिंसां परिहरन् परमस्वास्थ्यरूपमारोग्यं लभते सर्वभूताभयप्रदश्च तेभ्य आत्मनः श्लाघनीयतामश्नुते । एतत्सर्वमहिंसायाः फलं, कियद्वा शृङ्गग्राहिकया वक्तुं शक्यते इत्याह-किमन्यत्कामदैव सा
॥8 ॥
in Education Interna
l
For Personal & Private Use Only
Page #217
--------------------------------------------------------------------------
________________
•-**¤k<•*@*3<•-->*¤««--•XOX••*&*«**®******O****
Jain Education Intematt
यद्यत्कामयते तत्तस्मै ददाति उपलक्षणमेतदकामितस्यापि स्वर्गापवर्गादेः फलस्य दानात् ।
अत्रान्तरे श्लोकः
हेमाद्रिः पर्वतानां हरिरमृतभुजां चक्रवर्त्ती नराणां, शीतांशुर्ज्योतिषां स्वस्तरुरवनिरुहां चण्डरोचिर्ब्रहाणाम् । सिन्धुस्तोयाशयानां जिनपतिरसुरामर्त्यमर्त्याधिपानां यद्वत्तद्वद्भूतानामधिपतिपदवीं यात्यहिंसा किमन्यत् ॥ १ ॥५२॥ उक्तमहिंसाव्रतम्, अथ सूनृतव्रतस्यावसरस्तच्च नालीकविरतिव्रतमन्तरेणोपपद्यते, न च तत्फलमनुपदर्थ्यालीकाद्विरतिं कारयितुं शक्यः पर इत्यलीकफलमुपदर्श्य तद्विरतिमुपदर्शयतिमन्मनत्वं काहलत्वं मूकत्वं मुखरोगिताम् । वीक्ष्यासत्यफलं कन्यालीकाद्यसत्यमुत्सृजेत् ॥ ५३ ॥ मन एव मन्तृ यत्र तन्मन्मनं परस्याप्रतिपादकं वचनं तद्योगात्पुरुषोऽपि मन्मनस्तस्य भावो मन्मनत्वं १ । काहलमव्यक्तवर्णं वचनं तद्योगात्पुरुषोऽपि काहलस्तस्य भावः काहलत्वं २ | मूकोऽवाक् तस्य भावो मूकत्वं ३ । मुखस्य रोगा उपजिह्वादयस्तेऽस्य सन्ति मुखरोगी तस्य भावो मुखरोगिता ४ । एतत्सर्वमसत्यफलं वीक्ष्य शास्त्रबलेनोपलभ्यासत्यं स्थूलासत्यमुत्सृजेच्छ्रावकः । यदाह
मूका जडाव विकला वाहीना वा ग्जुगुप्सिताः । पूतिगन्धमुखाश्चैव जायन्तेऽनृतभाषिणः ॥ १ ॥ ५३ ॥ असत्यं च कन्यालीकादि वच्यमाणम् । तदेवाह —
कन्यागो भूम्यलीकानि न्यासापहरणं तथा । कूटसाक्ष्यं च पञ्चेति स्थूलासत्यान्यकीर्त्तयन् ॥५४॥
For Personal & Private Use Only
K+9+108484-08-0-0-08-10318
Page #218
--------------------------------------------------------------------------
________________
योगशास्त्रम्
द्वितीयः प्रकाशः।
॥१००।
कन्यालीकं १ गवालीक २ भूम्यलीकं ३ न्यासापहरणं ४ कूटसाक्ष्यं च ५ एतानि पञ्च स्थूलासत्यान्यकीपा र्तयन् जिनाः । तत्र कन्याविषयमलीकं कन्यालीकं भिन्नकन्यामभिन्ना विपर्ययं वा वदतो भवतिः इदं च सर्वस्य
कुमारादिद्विपदविषयस्यालीकस्योपलक्षणं १ । गवालीकमन्पचीरां बहुक्षीरां विपर्ययं वा वदतः, इदमपि सर्वचतुप्पदविषयस्यालीकस्योपलक्षणं २। भूम्यलीकं परसत्कामप्यात्मादिसत्कां विपर्ययं वा वदतः, इदं च शेषपादपाद्यपद
द्रव्यविषयालीकस्योपलक्षणं ३ । अथ द्विपदचतुष्पदापदग्रहणमेव कस्मान्न कृतम् ? उच्यते-कन्याद्यलीकानां लोके । अतिगर्हितत्वेन रूढत्वादिति । न्यस्यते रक्षणायान्यस्मै समर्प्यत इति न्यासः सुवर्णादिः तस्यापहरणमपलापस्त
द्वचनं स्थूलमृषावादः, इदं चानेनैव विशेषेण पूर्वालीकेभ्यो भेदेनोपात्तं, कूटसाक्ष्यं प्रमाणीकृतस्य लञ्चामत्सरादिना मा कूटं वदतः, यथाहमत्र साक्षी, अस्य च परकीयपापसमर्थकत्वलक्षणविशेषमाश्रित्य पूर्वेभ्यो भेदेनोपन्यासः, एतानि क्लिष्टाशयसमुत्थत्वात् स्थलासत्यानि ॥ ५४॥
एतेषां स्थूलालीकत्वे विशेषणद्वारेण हेतुमुपन्यस्य प्रतिषेधमाहसर्वलोकविरुद्धं यद्यद्विश्वसितघातकम् । यद्विपक्षश्च पुण्यस्य न वदेत्तदसूनृतम् ॥ ५५॥
सर्वलोके विरुद्धत्वात् कन्यागोभूम्यलीकानि न वदेत । विश्वसितघातकत्वाच्यासापलापं न वदेत् । पुण्यस्य धर्मस्य विपक्षरूपोऽधर्मस्तं हि वदन् प्रमाणीकृतो विवादिभिरभ्यर्थ्यते धर्म बयानाधर्ममिति । इति धर्मविपक्षत्वास्कूटसाक्ष्यं न वदेत् ॥ ५५॥
असत्यस्य फलविशेषमुपदर्शयंस्तत्परिहारमुपदिशति
H॥१०॥
in Education Internativ
For Personal & Private Use Only
Page #219
--------------------------------------------------------------------------
________________
। असत्यतो लघीयस्त्वमसत्याद्वचनीयता। अधोगतिरसत्याच्च तदसत्यं परित्यजेत् ॥ ५६ ॥ __लघीयस्त्वं वचनीयता चासत्यस्यैहिकं फलं, अधोगतिरामुष्मिकम् ॥५६॥ ___ अथ भवतु क्लिष्टाशयपूर्वस्यासत्यस्य निषेधः, प्रामादिकस्य तु का वाःत्याहअसत्यवचनं प्राज्ञः प्रमादेनापि नो वदेत् । श्रेयांसि येन भज्यन्ते वात्ययेव महाद्रुमाः ॥५७॥ ___ आस्तां क्लिष्टाशयपूर्वकमसत्यवचनं, प्रामादिकमप्यज्ञानसंशयादिजनितवचनं न वदेत् येन प्रामादिकेनासत्यवचनेन श्रेयांसि भङ्गमुपयान्ति वात्ययेव महाद्रुमा इति दृष्टान्तः । यदाहुमहर्षयः
श्रइम्मि य कालम्मि* पच्चुप्पन्नमणागए । जमहं तु न जाणेज्जा एवमेध ति यो वए॥१॥ अहम्मि य कालम्मि* पच्चुप्पसमणागए । जत्थ संका भवे तंतु, एवमेधं ति यो वए ॥२॥ अइअम्मि य कालम्मि पच्चुप्पत्रमणागए । निस्संकिगं भवे जंतु, एवमेनं तु निदिसे ॥३॥
एतच्चासत्यं चतुर्द्धा-भूतनिह्ववो, अभूतोद्भावनं, अर्थान्तरं, गहरे च । भूतनिद्ववो यथा-नास्त्यात्मा, नास्ति पुण्यं, नास्ति पापं चेत्यादि । अभूतोद्भावनं यथा-सर्वगत आत्मा श्यामाकतन्दुलमात्रो वा । अर्थान्तरं यथा-गाम
(१) अतीते च काले प्रत्युत्पन्नमनागते । यमर्थ तु न जानीयात् एवमेतत् इति नो वदेत् ॥ १ ॥ * अद्धम्मि । (२) अतीते च काले प्रत्युत्पन्नमनागते । यत्र शङ्का भवेत्तत्तु एवमेतत् इति नो वदेत् ॥२॥ (३) अतीते च काले प्रत्युत्पन्नमनागते । निःशङ्कितं भवेत्तत्तु एवमेतत् तु निर्दिशेत् ॥ ३ ॥ * अद्धम्मि।
For Personal & Private Use Only
Jain Education internation
Page #220
--------------------------------------------------------------------------
________________
बोग
द्वितीय: प्रकाशः।
॥१.१॥
श्वमभिदधतः । गहों तु विधा, एका सावद्यव्यापारप्रवत्तेनी, यथा क्षेत्र कृषत्यादि । द्वितीया अप्रिया. काय काणमिति वदतः । तृतीया आक्रोशरूपा, यथा अरे बान्धकिनेय इत्यादि ।। ५७॥
अतिपरिहरणीयत्वमसत्यवचनस्य दर्शयन् पुनरप्यैहिकान् दोषानाहअसत्यवचनाद्वैरविषादाप्रत्ययादयः । प्रादुःषन्ति न के दोषाः कुपथ्यावयाधयो यथा ॥५॥ वैरं विरोधः, विषादः पश्चात्तापा, अप्रत्ययोऽविश्वासः । श्रादिग्रहणाद्राजावमानादयो गृह्यन्ते ॥ ५ ॥
- आमुष्मिक मृषावादस्य फलमाहनिगोदेष्वथ तिर्यतु तथा नरकवासिषु। उत्पद्यन्ते मृषावादप्रसादेन शरीरिणः ॥ ५९॥
निगोदा अनन्तकायिका जीवास्तेषु, तिर्यचु गोबलीवर्दन्यायेन शेषतिर्यग्योनिषु, नरकवासिषु नैरयिकेषु ॥५६॥
इदानीं मृषावादपरिहारे अन्वयव्यतिरेकाम्यां कालिकाचार्यवसुराजौ दृष्टान्तावाहब्रूयाद्भियोपरोधाद्वा नासत्यं कालिकार्यवत् । यस्तु ब्रूते स नरकं प्रयाति वसुराजवत् ॥६०॥
मिया मरणादिभयेन, उपरोधादाक्षिण्यादसत्यं न ब्रूयात् । यस्तु ब्रूते भियोपरोधाद्वा इत्यत्रापि संबन्धनीयं, दृष्टान्तौ संप्रदायगम्यौ । स चायम् ।
(१) कुलटापुत्र ।
॥१.१॥
Fe Personal Private Use Only
Page #221
--------------------------------------------------------------------------
________________
अस्ति भूरमणीमौलिमीणस्तुरमणी पुरी । यथार्थनामा तत्रासीजितशत्रुर्महीपतिः ॥ १ ॥ रुद्रेति नामधेयेन ब्राह्मणी तत्र विश्रुता । दत्त इत्यभिधानेन तस्याः पुत्रो बभूव च ॥२॥ दत्तो नितान्तदुर्दान्तो द्यूतमद्यप्रियः । सदा । सेवितुं तं महीपालं प्रवृत्तो वर्त्तनेच्छया ॥ ३ ॥ राज्ञा प्रधानीचक्रेऽसौ छायावत्पारिपार्श्वकः । आरोहायोपसर्पन्त्या विषवल्लेरपि द्रुमः॥४॥ विमेध प्रकृतीरेष राजानं निरवासयत् । पापात्मानः कपोताश्च स्वाश्रयोच्छेददायिनः॥५॥ तस्य राज्ञो दुरात्माऽसौ राज्ये स्वयमुपाविशत् । क्षुद्रः पादान्तदानेऽपि क्रामत्युच्छीर्षकावधि ॥६॥ पशुहिंसोत्कटान् यज्ञानज्ञो धर्मधिया व्यधात् । धूमैमलिनयन् विश्वं स मृतरिव पातकैः ॥७॥ विहरन् कालिकार्याख्यश्चाचार्यस्तस्य मातुलः । तत्राजगाम भगवानङ्गवानिव संयमः ॥८॥ तत्समीपमनापित्सुर्दत्तो मिथ्यात्वमोहितः । अत्यर्थ प्रार्थितो मात्रा मातुलाभ्यर्णमाययौ ॥६॥ मत्तोन्मत्तप्रमत्ताभो दत्तोऽपृच्छत्तमुद्भटम्। आचार्य यदि जानासि यज्ञानां बेहि किं फलम् ॥ १०॥ उवाच कालिकाचार्यों धर्म पृच्छसि तच्छणु । तत्परस्य न कर्त्तव्यं यद्यद्विप्रियमात्मनः ॥ ११॥ ननु यज्ञफलं पृच्छामीति दत्तोदिते पुनः । सूरिरूचे न हिंसादि श्रेयसे किन्तु पाप्मने ॥ १२॥ पुनस्तदेव साक्षेपं पृष्टो दत्तेन दुधिया । ससौष्ठवमुवाचार्यो यज्ञानां नरकः फलम् ॥१३॥ दत्तः क्रुद्धोऽभ्यधादेवमिह कः प्रत्ययो वद । आर्योऽप्यूचे श्वकुम्भ्यां त्वं पक्ष्यसे सप्तमेऽहनि ॥ १४ ॥ दत्तः कोपादुदस्तभ्रूररुणीकृतलोचनः । भूताविष्ट इवोवाच प्रत्ययोवापि को ननु ॥ १५॥ अथोचे कालिकार्योऽपि श्वकुम्भीपचनात्पुरः । तस्मिन्नेवायकस्माचे मुखे विष्ठा प्रवेक्ष्यति ॥१६॥ रोषाद् दत्तो जगादेदं तव मृत्युः कुतः
in Education inte
For Personal Private Use Only
Page #222
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥ १०२ ॥
Jain Education Internation
4+10+20
कदा । न कुतोऽपि स्वकाले द्यां यास्यामीत्यवदन्मुनिः ॥ १७ ॥ श्रमुं निरुद्ध दुर्बुद्धिमिति दत्तेन रोषतः । श्रदिष्टैः कालिकाचार्यो रुरुधे दण्डपूरुषैः ॥ १८ ॥ अथ दत्तात् समुद्विग्नाः सामन्ताः पापकर्मणः । श्रन्नाद्यं नृपं तस्मै दत्तमर्पयितुं किल ॥ १६ ॥ दत्तोऽपि शङ्कितस्तस्थौ निलीनो निजवेश्मनि । कण्ठीरवरवत्रस्तो निकुञ्ज इव कुञ्जरः ॥ २० ॥ स विस्मृतदिनो दैवादागते सप्तमे दिने । बहिर्निर्गन्तुमारचै राजमार्गानरचयत् ॥ २१ ॥ तत्रैको मालिकः प्रातर्विशन् पुष्पकरण्डवान् । चक्रे वेगातुरो विष्ठां भीतः पुष्पैः प्यधत्त च ॥ २२ ॥ इहाहनि हनिष्यामि पशुवन्मुनिपांसनम् । चिन्तयन्निति दत्तोऽपि निर्ययौ सादिभिर्वृतः ॥ २३ ॥ एकेन वल्गताऽश्वेन विष्ठोत्क्षिप्ता खुरेण सा । दत्तस्य प्राविशच्चास्ये नासत्या यमिनां गिरः ||२४|| शिलास्फालितवत्सद्यः श्लथाङ्गो विमनास्ततः । स सामन्ताननापृच्छ्य ववले स्वगृहं प्रति ||२५|| नाऽस्मन्मन्त्रोऽमुना ज्ञात इति प्रकृतिपुरुषैः । गृहमप्रविशन्नेव बद्ध्वा दधे स गौरिव ॥ २६ ॥ अथ प्रकाशयंस्तेजो निजं राजा चिरन्तनः । प्रादुरासीत्तदानीं स निशात्यय इवार्यमा ॥ २७ ॥ सोऽहिः करण्डनिर्यात इव दूरं ज्वलन् क्रुधा । दत्तं वकुम्भ्यां नरककुम्भ्यामिव तदाऽचिपत् ॥ २८ ॥ श्रधस्तात्ताप्यमानायां कुम्भ्यां श्वानो - न्तरास्थिताः । दत्तं विददुः परमधार्मिका इव नारकम् ॥ २६ ॥ निरस्तभूपालभयोपरोधः श्रीकालिकाचार्य इवैवमुच्चैः । सत्यत्रतत्राणकृतप्रतिज्ञो न जातु भाषेत मृषा मनीषी ॥ ३० ॥
॥ इति कालिकाचार्यदत्तकथानकम् ॥
अस्ति चेदिषु विख्याता नाम्ना शुक्तिमती पुरी । शुक्तिमत्याख्यया नद्या नर्मसख्येव शोभिता ॥ १ ॥ पृथ्वीकुटकल्पायां तस्यां तेजोभिरद्भुतः । माणिक्यमिव पृथ्वीशोऽभिचन्द्रो नामतोऽभवत् ॥ २ ॥ सूनुः सूनृतवाक्तस्य वसुरि
For Personal & Private Use Only
100084-03-08-03 *-03-08
द्वितीय:
प्रकाशः।
॥ १०२ ॥
Page #223
--------------------------------------------------------------------------
________________
त्यभिधानतः । अजायत महाबुद्धिः पाण्डोरिव युधिष्ठिरः॥३२पार्श्वे चीरकदम्बस्य गुरोः पर्वतकः सुतः। राजपुत्रो वसुच्छात्रोनारदश्वापठंखयः॥४॥ सौधोपरि शयानेषु तेषु पाठश्रमानिशि । चारणश्रमणौ व्योग्नि यान्तावित्यूचतुर्मिथः ॥शा एषामेकतमः स्वर्ग गमिष्यत्यपरौ पुनः। नरकं यास्यतस्तच्चाश्रौषीत्तीरकदम्बकः॥६॥ तच्छ्रुत्वाचिन्तयामास खिनःचीरकदम्बकः मय्यप्यध्यापके शिष्यौ यास्यतोनरकं हहा॥७॥ एभ्यः को यास्यति स्वर्ग नरक कौ च यास्यतः। जिज्ञासुरित्युपाध्यायस्तांस्त्रीन् युगपदाहत ॥॥ यावपूर्ण समप्येषामेकैकं पिष्टकुकुटम् । स ऊचेऽमी तत्र वध्या * यत्र कोपि न पश्यति ॥8॥ वसुपर्वतको तत्र गत्वा शून्यप्रदेशयोः। आत्मनीनां गतिमिव जनतः पिष्टकुक्कुटौ ॥१०॥ महात्मा नारदस्तत्र व्रजित्वा नगरादहिः । स्थित्वा च विजने देशे दिशःप्रेक्ष्य व्यतर्कयत् ॥११॥ गुरुपादैरदस्तावदादिष्टं वत्स यत्त्वया। वध्योऽयं कुक्कुटस्तत्र यत्र कोऽपि न पश्यति ॥ १२॥ असौ पश्यत्यह पश्याम्यमी पश्यन्ति खेचराः । लोकपालाश्च पश्यन्ति पश्यन्ति ज्ञानिनोऽपि च ॥ १३ ॥ नास्त्येव स्थानमपि तद्यत्र कोऽपि न पश्यति । तात्पर्य तद्गुरुगिरां न वध्यः खलु कुक्कुटः ॥ १४ ॥ गुरुपादा दयावन्तः सदा हिंसाप
राङ्मुखाः । अस्मत्प्रज्ञां परिज्ञातुमेतन्नियतमादिशन् ॥१५॥ विमृश्यैवमहत्वैव कुक्कुटं स समाययौ । कुकुटाहनने न हेतुं गुरोर्व्यज्ञपयञ्च तम् ॥ १६ ॥ स्वर्ग यास्यत्यसौ तावदिति निश्चित्य सस्वजे । गुरुणा नारदः स्नेहात् साधु
साध्विति भाषिणा ॥१७॥ वसुपर्वतको पश्चादागत्यैवं शशंसतुः । निहतो कुकुटौ तत्र यत्र कोऽपि न पश्यति ॥ १८ ॥ अपश्यतं युवामादावपश्यन् खेचरादयः । कथं हतौ कुक्कुटौ रे पापावित्यशपद्गुरुः ॥ १६ ॥ ततः खेदादुपाध्यायो दध्यौ विध्यातपाठधीः । सुधा मेऽध्यापनक्लेशो वसुपर्वतयोरभूत ॥२०॥ गुरूपदेशो हि यथापात्रं
in Education Internal
For Personal & Private Use Only
Page #224
--------------------------------------------------------------------------
________________
योगशास्रम् ॥ १०३ ॥
Jain Education Internat
10-08-**--*+11+0/
परिणमेदिह । अभ्राम्भः स्थानभेदेन मुक्ता लवणतां व्रजेत् ॥ २१ ॥ प्रियः पर्वतकः पुत्रः पुत्रादप्यधिको वसुः । नरकं यास्यतस्तस्माद्गृहवासेन किं मम || २२ || निर्वेदादित्युपाध्यायः प्रव्रज्यामग्रहीत्तदा । तत्पदं पर्वतोऽध्यास्त व्याख्याक्षणविचक्षणः ॥ २३ ॥ भूत्वा गुरोः प्रसादेन सर्वशास्त्रविशारदः । नारदः शारदाम्भोदशुद्धधीः स्वां भुवं ययौ ॥ २४ ॥ नृपचन्द्रोऽभिचन्द्रोऽपि जग्राह समये व्रतम् । ततश्वासीद्वम् राजा वासुदेवसमः श्रिया ॥ २५ ॥ सत्यवादीति स प्राप प्रसिद्धिं पृथिवीतले । तां प्रसिद्धिमपि त्रातुं सत्यमेव जगाद सः ।। २६ ।। अथैकदा मृगयुगा मृगाय मृगयाजुषा । चिचिपे विशिखो विन्ध्यनितम्बे सोऽन्तराऽस्खलत् ॥ २७ ॥ इषुस्खलनहेतुं स ज्ञातुं तत्र ततः । श्राकाशस्फटिकशिलामज्ञासीत्पाणिना स्पृशन् || २८ || स दध्याविति मन्येऽस्यां संक्रान्तः परतश्चरन् । भूमिच्छायेव शीतांशौ ददृशे हरिणो मया || २६ || पाणिस्पर्श विना नेयं सर्वथाऽप्युपलक्ष्यते । श्रवश्यं तदसौ योग्या वसोर्वसुमतीपतेः ॥ ३० ॥ रहो व्यज्ञपयद्राज्ञे गत्वा तां मृगयुः शिलाम् । हृष्टो राजाऽपि जग्राह ददौ चास्मै महद्धनम् || ३१ || स तया घटयामास च्छन्नं स्वासनवेदिकाम् । तच्छिल्पिनोऽघातयच्च नात्मीयाः कस्यचिन्नृपाः || ३२ ॥ तस्यां सिंहासनं वेदौ चेदीशस्य निवेशितम् । सत्यप्रभावादाकाशस्थित मित्यबुधञ्जनः ॥ ३३ ॥ सत्याद्धि तुष्टाः सान्निध्यमस्य कुर्वन्ति देवताः । एवमूर्जस्विनी तस्य प्रसिद्धिर्व्यानशे दिशः ॥ ३४ ॥ तया प्रसिद्धया राजानो भीतास्तस्य वशं गताः । सत्या वा यदि वा मिथ्या प्रसिद्धिर्जयिनी नृणाम् ॥ ३५ ॥ श्रगाच्च नारदोऽन्येद्युस्ततश्चैक्षिष्ट पर्वतम् । व्याख्यानयन्तमृग्वेदं शिष्याणां शेषजुषाम् ॥ ३६ ॥ अजैर्यष्टव्यमित्यस्मिन् मेषैरित्युपदेशकम् । बभाषे नारदो भ्रातर्भ्रान्त्या किमिदमुच्यते ॥ ३७ ॥ ॥ १०३ ॥
For Personal & Private Use Only
-*****-**-*-**-CHE
*+K+
द्वितीयः
प्रकाशः ।
Page #225
--------------------------------------------------------------------------
________________
त्रिवार्षिकाणि धान्यानि न हि जायन्त इत्यजाः । व्याख्याता गुरुणाऽस्माकं व्यस्मार्षीः केन हेतुना ॥ ३८॥ ततः पर्वतकोऽवादीदिदं तातेन नोदितम् । उदिताः किं त्वजा मेषास्तथैवोक्ता निघण्टुषु ॥ ३९ ॥ जगाद नारदोऽप्येवं शब्दानामर्थकल्पना । मुख्या गौणी च तत्रेह गौणी गुरुरचीकथत ॥४०॥ गुरुर्द्धर्मोपदेष्टैव श्रुति मात्मिकैव च । द्वयमप्यन्यथाकुर्वन्मित्र मा पापमर्जय ॥४१॥ साक्षेपं पर्वतोऽजल्पदजान्मेषान गुरुर्जगौ । गुरूपदेशशब्दार्थोलङ्घनाद्धर्ममर्जसि ॥ ४२ ॥ मिथ्याभिमानवाचो हि न स्युदण्डभयान्नृणाम् । स्वपक्षस्थापने तेन जिहाच्छेदः | पणोऽस्तु नः ॥४३॥ प्रमाणमुभयोरत्र सहाध्यायी वसुनृपः । नारदः प्रतिपेदे तन्न क्षोभः सत्यभाषिणाम् ॥४४॥ रहः पर्वतमूचेऽम्बा गृहकर्मरताऽप्यहम् । अजास्त्रिवार्षिकं धान्यमित्यौपं भवत्पितुः ॥ ४५ ॥ जिहाच्छेदं पणेऽकार्यद्दत्तिदसाम्प्रतम् । अविमृश्य विधातारो भवन्ति विपदा पदम् ॥ ४६ ।। अवदत्पर्वतोऽप्येवं कृतं तावदिदं मया । यथातथाकृतस्याम्ब करणं न हि विद्यते ॥ ४७॥ साऽथ पर्वतकापायपीडया हृदि शल्यिता । वसुराजमुपेयाय पुत्रार्थे क्रियते न किम् ॥ ४८ ॥ दृष्टः क्षीरकदम्बोऽध यदम्ब त्वमसीक्षिता । किं करोमि प्रयच्छामि किं चेत्यभिदधे वसुः॥४६ । साऽवादीद्दीयतां पुत्रभिक्षा मह्यं महीपते । धनधान्यैः किमन्यैर्मे विना पुत्रेण पुत्रक ॥ ५० ॥ वसुरूचे मम मातः पान्यः पूज्यश्च पर्वतः। गुरुवद्गुरुपुत्रेऽपि वर्जितव्यमिति श्रुतिः ॥५१॥ कस्याद्य पत्रमुत्तिप्तं कालेनाकालरोषिणा । को जिघांसुभ्रातरं मे बेहि मातः किमातुरा ॥५२॥ अजव्याख्यानवृत्तान्तं
१ कोषेषु.
Jain Education internapr
For Personal & Private Use Only
Page #226
--------------------------------------------------------------------------
________________
योग
द्वितीयः
शास्त्रम्
प्रकाशः।
॥१०४॥
स्वपुत्रस्य पणं च तम् । त्वं प्रमाणीकृतश्चासीत्याख्यायार्थयते स्म सा ॥ ५३॥ कुर्वाणो रक्षणं भ्रातुरजान्मेषानुदीरय । पाणैरप्युपकुर्वन्ति महान्तः किं पुनर्गिरा ॥ ५४॥ अवोचत वसुर्मातमिथ्या वच्मि वचः कथम् । प्राणात्ययेऽपि शंसन्ति नासत्यं सत्यभाषिणः ॥ ५५ ॥ अन्यदप्यभिधातव्यं नासत्यं पापभीरुणा । गुरुवागन्यथाकारे कूटसाक्ष्ये च का कथा ॥ ५६ ॥ बहूकुरु गुरोः सुनुं यद्वा सत्यव्रताग्रहम् । तया सरोषमित्युक्तस्तद्वचोऽमंस्त पार्थिवः॥ ५७ ॥ ततः प्रमुदिता क्षीरकदम्बगृहिणी ययौ । आजग्मतुश्च विद्वांसौ तत्र नारदपर्वतौ ॥८॥ सभायाममिलन सभ्या माध्यस्थ्यगुणशालिनः। वादिनोः सदसद्वादक्षीरनीरसितच्छदाः ॥ ५९॥ आकाशस्फ| टिकशिलावेदिसिंहासनं वसुः । सभापतिरलञ्चक्रे नभस्तलमिवोडुपः॥६० ।। ततो निजनिजव्याख्यापकं नारदपर्वतौ । कथयामासतू राज्ञे सत्यं ब्रहीति भाषिणौ ॥६॥ विप्रवृढेरथोचे स विवादस्त्वयि तिष्ठते । प्रमाणमनयोः साक्षी त्वं रोदस्योरिवार्यमा ॥६॥ घटप्रभृतिदिव्यानि वर्तन्ते हन्त सत्यतः । सत्याद्वर्षेति पर्जन्यः सत्यात्सिद्ध्यन्ति देवताः ॥ ६२॥ त्वयैव सत्ये लोकोऽयं स्थाप्यते पृथिवीपते । त्वामिहार्थे महे कि हि सत्यव्रतोचितम् ॥ ६४ ॥ वचोऽश्रुत्वैव तत्सत्यप्रसिद्धिं स्वां निरस्य च । अजान्मेषान् गुरुर्व्याख्यदिति साक्ष्यं वसुर्व्यधात् ॥ ६॥ असत्यवचसा तस्य क्रुद्धास्तत्रैव देवताः। दलयामासुराकाशस्फटिकासनवोदिकाम् ॥६६॥ वसुर्वसुमतीनाथस्ततो | वसुमतीतले। पपात सद्यो नरकपातं प्रस्तावयन्निव ॥६७।। कूटसाक्ष्यं प्रदातुस्ते श्वपचस्येव को मुखम् । पश्येदिति वसुं निन्दनारदः स्वास्पदं ययौ ।। ६८॥ देवताभिरसत्योक्तिकुपिताभिर्निपातितः। जगाम घोरं नरकं नरनाथो वसुस्ततः ॥ ६६ ॥ यो यः सूनुरुपाविचद्राज्ये तस्यापराधिनः । प्रजघ्नुर्देवतास्तं तं यावदष्टौ निपातिताः ॥७॥
॥१०
in Education inter
!
For Personal & Private Use Only
Page #227
--------------------------------------------------------------------------
________________
। इति वसुनृपतेरसत्यवाचः, फलमाकर्ण्य जिनोक्तिविद्धकर्णः । कथमप्युपरोधतोऽपि जन्पे-दनृतं प्राणितसंशयेऽपि नैव ॥ ७१ ॥६०॥
॥ इति नारदपर्वतकथानकम् ॥ सद्भयो हितं सत्यमिति व्युत्पत्या अवितथमपि परपीडाकरं वचनमसत्यमेवाहितत्वादिति सत्यमपीदृशं न | भाषेतेत्याह
न सत्यमपि भाषेत परपीडाकरं वचः। लोकेऽपि श्रूयते यस्मात् कौशिको नरकं गतः ॥६॥ ___सत्यमवितथं लोकरूढथा परमार्थतस्तु परंपीडाकरत्वादसत्यमेवेत्यर्थः, तन्न भाषेत; तद्भाषणानरकगमनश्रुतेः। अत्रार्थे लौकिकं दृष्टान्तमाह-लोकेऽपि समयान्तरेऽपि श्रूयते निशम्यते परपीडाकरसत्यभाषणेन कौशिको नरकं गत इति । कौशिकस्तु संप्रदायगम्यः स चायम्
आसीत्सत्यधनः कोऽपि कौशिको नाम तापसः। अपास्य ग्रामसंवासमनुगङ्गमुवास सः ॥१॥ कन्दमूलफलाहारो निर्ममो निष्परिग्रहः । सत्यवादितया प्राप प्रसिद्धिं परमामसौ ॥२॥ मुषित्वा ग्राममन्येार्दस्यवस्तस्य पश्यतः । आश्रमं निकषा जग्मुर्वनं बिलमिवोरगाः ॥ ३॥ तेषामनुपदिनस्तु ग्राम्याः पप्रच्छुरेत्य तम् । सत्यवाद्यसि तहि तस्कराः कुत्र वव्रजुः ॥ ४॥ धर्मतत्त्वानभिज्ञोऽथ कथयामास कौशिकः। घने तरुनिकुञ्जस्मिन् दस्यवः प्राविशन्निति ॥ ५॥ तस्योपदेशात्सब्रह्य ग्रामीणाः शस्त्रपाणयः। वनं प्रविश्य निर्जघ्नुर्दस्यून् व्याधा ]
Jan Education internation
For Personal & Private Use Only
Page #228
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥१०५॥
मृगानिव ॥ ६ ॥ ऋतमप्यनृतं परव्यथा-करणेनेदमुदीरयन् वचः । परिपूर्य निजायुरुन्वणं, नरकं कौशिकतापसो द्वितीयः ययौ ।। ७ ।। ६१॥
प्रकाशः। अन्पमप्यसत्यवचनं प्रतिषेधितुं महदसत्यं वदतः परिदेवयतेअल्पादपि मृषावादाद्रौरवादिषु संभवः। अन्यथा वदतां जैनी वाचं त्वहह का गतिः॥ ६२॥ ___ अल्पादप्यहिकार्थविषयत्वेन स्तोकादपि मृषावादादसत्याद्रौरवादिषु रौरवमहारौरवप्रभृतिषु नरकावासेषु सं-! भव उत्पत्तिः, लोकप्रसिद्धत्वाद्रौरवग्रहणम् । अन्यथा सर्वनरकेष्वित्युच्येत । अन्यथा विपरीतार्थतया जैनी वाचं वदतामतीवासत्यवादिनां कुर्तीथिकानां स्वयथ्यानां च निह्ववादीनां का गतिर्नरकादप्यधिका तेषां गतिः प्रामोतीत्यर्थः । अहहेति खेदे अशक्यप्रतीकाराः परिदेवनीयाः खल्वेत इति । यदाह
अहह सयलनपावाहिं वितहपन्नवणमणुमवि दुरंतं । जं मिरिइभवतदजियदुक्कयअवसेसलेसवसा ॥१॥ सुरथुयगुणो वि तित्थंकरो वि तिहुयणअतुल्लमल्लो वि । गोवाइहिं वि बहुसो कत्थिो तिजयपहु तं सि ॥२॥ थीगोबंभणभूणंतगा वि केवि इह दिढपहाराई । बहुपावा वि पसिद्धा सिद्धा किर तम्मि चेव भवे ॥ ३॥ ६२॥
(१) अहह सकलान्यपापेभ्यो वितथप्रज्ञापनमण्वपि दुरन्तम् । यन्मरीचिभवतदर्जितदुष्कृतावशेषलेशवशात् ॥ १॥ (२) सुरस्तुतगुणोऽपि तीर्थकरोऽपि त्रिभुवनातुल्यमलोऽपि । गोपादिभिरपि बहुशः कदर्थितः त्रिजगत्प्रभुस्त्वमसि ॥२॥ (३) स्त्रीगोब्राह्मणभ्रुणान्तका अपि केऽपि इह दृढप्रहार्यादयः । बहुपापा अपि प्रसिद्धाः सिद्धाः किल तस्मिन्नेव भवे ॥३॥
Jain Education internat
For Personal & Private Use Only
Page #229
--------------------------------------------------------------------------
________________
Jain Education Inter
सत्यवादिनो निन्दित्वा सत्यवादिनः स्तौति-.
ज्ञानचारित्रयोर्मूलं सत्यमेव वदन्ति ये । धात्री पवित्रीक्रियते तेषां चरणरेणुभिः ॥ ६३ ॥
ज्ञानचारित्रयोर्ज्ञानक्रिययोर्मूलं कारणं यत्सत्यं तदेव वदन्ति ये, ज्ञानचारित्रग्रहणं 'नाण किरियाहिं मोक्खो ' इति भगवद्भाष्यकारवचनानुवादार्थ ज्ञानग्रहणेन दर्शनमप्याक्षिप्यते । दर्शनमन्तरेण ज्ञानस्याज्ञानत्वात् मिथ्यादृष्टि सवासवे वैपरीत्येन जानाति, भवहेतुश्च तज्ज्ञानं यदृच्छया चार्थनिरपेचमुपलभ्यते, न च ज्ञानफलमस्य । यदाह
सेयसय विसेसणाओ भवहेउं जइच्छचोपलंभाओ । नायफलाभावाओ मिच्छदिट्ठिस्स अाणं ॥ १ ॥ स्पष्टमन्यत् ।। ६३ ।।
सत्यवादिनामैहिकमपि प्रभावं दर्शयति
अलीकं ये न भाषन्ते सत्यव्रतमहाधनाः । नापराद्दुमलं तेभ्यो भूतप्रेतोरगादयः ॥ ६४ ॥ भूता भूतोपलक्षिता व्यन्तराः प्रेताः पितरो ये स्वसंबन्धिनो मनुष्यान् पीडयन्ति भूतप्रेतग्रहणं भुवनपत्यादीनाम्नुपलक्षणार्थम् । उरगाः सर्पाः आदिग्रहणाद् व्याघ्रादीनां परिग्रहः ।
(१) " ज्ञानक्रियाभ्यां मोक्षः "
(२) सदसदविशेषणात् भवहेतुर्यदृच्छोपलम्भात् । ज्ञानफलाभावान्मिथ्यादृष्टेरज्ञानम् ॥ १ ॥
For Personal & Private Use Only
*108+0.K+-*03 - 0
Page #230
--------------------------------------------------------------------------
________________
द्वितीय प्रकाशः।
योग
अत्रान्तरे श्लोकाःशास्त्रम् ||
अहिंसापयसः पालिभूतान्यन्यव्रतानि यत् । सत्यभङ्गात्पालिभङ्गेऽनर्गलं विमवेत तत् ॥१॥ सत्यमेव वदे
त्याज्ञः सर्वभूतोपकारकम् । यद्वा तिष्ठेत् समालम्ब्य मौनं सर्वार्थसाधकम् ॥ २ ॥ पृष्टेनापि न वक्तव्यं वचो वैरस्य ॥१०६॥
कारणम् । मर्माविकर्कशं शङ्कास्पदं हिंस्रमसूयकम् ॥ ३॥ धर्म,से क्रियालोपे स्वसिद्धान्तार्थविप्लवे । अपृष्टेनापि शक्तेन वक्तव्यं तनिषेधितुम् ॥ ४ ॥ चार्वाकैः कौलिकैविप्रैः सौगतैः पाश्चरात्रिकैः । असत्येनैव विक्रम्य जगदेतद्विडम्बितम् ॥ ५॥ अहो पुरजलस्रोतःसोदरं तन्मुखोदरम् । निःसरन्ति यतो वाचः पङ्काकुलजलोपमाः ॥ ६॥ दावानलेन ज्वलता परिप्लुष्टोऽपि पादपः । सान्द्रीभवति लोकोऽयं न तु दुर्वचनाग्निना ॥ ७॥ चन्दनं चन्द्रिकाचन्द्रमणयो मौक्तिकस्रजः । आहादयन्ति न तथा यथा वाक् सूनृता नृणाम् ॥ ८॥ शिखी मुण्डी जटी नमश्चीवरी यस्तपस्यति । सोऽपि मिथ्या यदि ब्रूते निन्द्यः स्यादन्त्यजादपि ॥६॥ एकनासत्यजं पापं पापं निःशेषमन्यतः । द्वयोस्तुलाविधृतयोराद्यमेवातिरिच्यते ॥१०॥ पारदारिकदस्यूनामस्ति काचित्प्रतिक्रिया । असत्यवादिनः पुंसः प्रतीकारो न विद्यते ॥ ११॥ ___ कुर्वन्ति देवा अपि पक्षपातं, नरेश्वराः शासनमुद्वहन्ति ॥ शीतीभवन्ति ज्वलनादयो य-तत् सत्यवाचां | फलमामनन्ति ॥ १२ ॥ इति द्वितीयं व्रतम् ॥ ६४ ॥
इदानीं तृतीयमस्तेयव्रतमुच्यते । तत्रापि फलानुपदर्शनेन न स्तेयाविवर्त्तत इति फलोपदर्शनपूर्व स्तेयनिवृत्तिमाह
॥१०६॥
in Education international
For Personal & Private Use Only
Page #231
--------------------------------------------------------------------------
________________
Jain Education Inter
-*-*-*
दौर्भाग्यं प्रेष्यतां दास्यमङ्गच्छेदं दरिद्रताम् । श्रदत्तात्तफलं ज्ञात्वा स्थूलस्तेयं विवर्जयेत् ॥ ६५ ॥ दौर्भाग्यमुद्वेजनीयता, प्रेष्यता परकर्मकरत्वं दास्यमङ्कपातादिना परायत्तशरीरता, अङ्गच्छेदः करचरणादिच्छेदः, दरिद्रता निर्धनत्वं एतानीहामुत्र चादत्तादानफलानि शास्त्रतो गुरुमुखाद्वा ज्ञात्वा स्थूलं चौरादिव्यपदेशनिबन्धनं स्तेयं विवर्जयेच्छ्रावकः ॥ ६५ ॥
स्थूलस्तेयपरिहारमेव प्रपञ्चयति —
पतितं विस्मृतं नष्टं स्थितं स्थापितमाहितम् । अदत्तं नाददीत स्वं परकीयं क्वचित्सुधीः ॥६६॥ पतितं गच्छतो वाहनादेष्टं विस्मृतं कापि मुक्तमिति स्वामिना यन्न स्मर्य्यते, नष्टं क्वापि गतमिति स्वामिना यन्न ज्ञायते, स्थितं स्वामिपार्श्वे यदवस्थितं स्थापितं न्यासीकृतं, आहितं निधीकृतं, तदेवंविधं परकीयं खं धनमदत्तं सन्नाददीत कचिद्रव्य क्षेत्राद्यापद्यपि सुधीः प्राज्ञः ॥ ६६ ॥
इदानीं स्तेयकारिणो निन्दति —
श्रयं लोकः परलोको धर्मो धैर्यं धृतिर्मतिः । मुष्णता परकीयं स्वं मुषितं सर्वमप्यदःः ॥६७॥ परकीयं स्वं धनं मुष्णता अपहरता सर्वमप्यद एतत् स्वं स्वकीयं मुषितं स्वशब्दस्योभयत्र संबन्धात् । किं तदित्याह, अयं लोकः अयं प्रत्यक्षेणोपलभ्यमानो लोक इदं जन्मेत्यर्थः, परलोको जन्मान्तरं, धर्मः पुण्यं, धैर्यमापत्स्वप्यवैक्लव्यं, धृतिः स्वास्थ्यं, मतिः कृत्याकृत्यविवेकः ॥ ६७ ॥
For Personal & Private Use Only:
→→→→→→****@*******
*103410841
Page #232
--------------------------------------------------------------------------
________________
बाग
द्वितीयः प्रकाशः।
शास्त्रम्
अथ हिंसाकारिभ्योऽपि स्तेयकारिणो बहुदोषत्वमाह* एकस्यैकं क्षणं दुःखं मार्यमाणस्य जायते । सपुत्रपौत्रस्य पुनर्यावज्जीवं हृते धने ॥ ६८॥ ॥१०७॥
एकस्य न तु बहूनां, एक क्षणं न तु बहुकालं, दुःखमसातं, मार्यमाणस्य हिंस्यमानस्य । स्तेयकारिणा त्वपहृते धने परस्य सपुत्रपौत्रस्य, न त्वेकस्य, यावजीवं न त्वेकं क्षणं, दुःखं जायत इति संबन्धः ।। ६८॥
उक्तमपि स्तेयफलं प्रपञ्चेनाहचौर्यपापद्रुमस्येह वधवन्धादिकं फलम् । जायते परलोके तु फलं नरकवेदना ॥६९॥
चौउत्पापं तदेव दुमस्तस्येह लोके फलं वधबन्धादिकं, परलोके तु फलं नरकभाविनी वेदना ॥ ६ ॥ ___ अथ कदाचित्यमादात् स्तेयकारी नृपतिभिर्न निगृह्येत तथाप्यस्वास्थ्यलक्षणमैहिकं फलमवस्थितमेव इत्याहदिवसे वारजन्यां वा स्पन्ने वा जागरेऽपि वा। सशल्य इव चौर्येण नैति स्वास्थ्यं नरःक्वचित ॥७॥
स्वनः स्वापः, जागरो निद्राया अभावः, चौर्येण हेतुना कचिदपि स्थाने ॥ ७० ॥
न केवलं स्तेयकतुः स्वास्थ्याभाव एव किन्तु बन्धुभिः परित्यागोऽपीत्याह--- भित्रपुत्रकलत्राणि भ्रातरः पितरोऽपि हि। संसजन्ति क्षणमपि न मलेच्छरिव तस्करैः ।।७१॥
पिता जनकः, पितृतुल्याः पितरः, पिता च पितरश्च पितरः न संसजन्ति न मिलन्ति पापभयात् । यदाहुःब्रह्महत्या सुरापाणं स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहुरतसंसर्ग च पञ्चमः ॥ १॥
१०७
For Personal & Private Use Only
Page #233
--------------------------------------------------------------------------
________________
राजदण्डभयावा । यदाहु:चौरश्चौरापको मन्त्री भेदज्ञः काणकऋयी । स्थानदो भक्तदश्चैव चौर: सप्तविधः स्मृतः॥१॥ तस्करैरिति तदेव चौर्य कुर्वन्तीत्येवंशीलास्तस्करास्तैः ॥ ७१॥
स्तेयप्रवृत्तानां तन्निवृत्तानां च दोषान् गुणांश्च प्रत्येकं दृष्टान्तद्वारेणाहसंबन्ध्यपि निगृह्येत चौर्यान्मण्डिकवन्नृपः।चौरोऽपि त्यक्तचौर्यः स्यात्स्वर्गभानौहिणेयवत्७२
दृष्टान्तद्वयमपि संप्रदायगम्यं । स चायम्
अलब्धमध्यमम्भोधेरिवाम्भो बहरत्नमः। अस्तीह पाटलीपुत्रं नाम गौडेषु पत्तनम् ॥१॥ कलाकलापनिलयः साहसस्यैकमन्दिरम् । राजपुत्रो मूलदेवस्तत्र मूलं धियामभूत् ॥ २॥ स धृतविद्यैकधर्वः कृपणानाथवान्धवः । कूटचेष्टामधुरिपू रूपलावण्यमन्मथः ॥३॥चौरे चौरः साधौ साधुर्वक्रे वक्र ऋजाजुः । ग्राम्ये ग्राम्यश्छेके
छेको विटे विटो भटे भटः॥४॥ द्यूतकारे द्यूतकारो वार्तिके वार्तिकश्च सः। तत्कालं स्फटिकाश्मेव जग्राह पररूपताम् ॥ ५॥ चित्रैः कौतूहलैस्तत्र लोकं विस्माययनसौ । विद्याधर इव खैरं चचार चतुराग्रणीः॥६॥ द्यूतैकव्यसनासक्तिदोषात्पित्राऽपमानितः। घुसत्पुरश्रीजयिन्यामुञ्जयिन्यां जगाम सः॥ ७॥ गुलिकायाः प्रयोगेण स भूत्वा कुब्जवामनः । पौरान विसाययंस्तत्र कलाभिः ख्यातिमासदत् ॥ ८॥ तत्रासीद्रुपलावण्यकलाविज्ञानको
१ धवः पतिः ।
Education inte
For Personal Private Use Only
Page #234
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥ १०८॥
शलैः । दत्तत्रपा रतेर्देवदत्तेति गणिकोत्तमा ॥९॥ गुणः कलावतां यो यः प्रकृष्टा तत्र तत्र सा। छकाया रञ्जने द्वितीयः तस्याः प्रतिच्छेको न कोऽप्यभूत् ॥१०॥ मूलदेवस्ततस्तस्याः क्षोभार्थ तद्गृहान्तिके । प्रभाते गातुमारेभे प्रत्यक्ष प्रकाशः। इव तुम्बरुः ॥ ११ ॥ आकर्ण्य देवदत्ताऽपि कोऽप्येष मधुरो ध्वनिः । कस्येति विस्मयादास्याऽन्वेषयामास तं बहिः ॥ १२ ॥ शशंसागत्य सा देवि गन्धर्वः कोऽपि गायति । मृत्यैव वामनः पूर्णैर्गुणैः पुनरवामनः ॥१३॥ देवदत्ता ततः कुब्जा माधवीं नाम चेटिकाम् । प्रजिघाय तमाहातुं प्रायो वेश्याः कलाप्रियाः ॥ १४ ॥ सा गत्वा तं जगादेदं महाभाग कलानिधे । देवदत्ता स्वामिनी मे त्वामायति गौरवात् ॥ १५॥ मूलदेवोऽवदद्गच्छ नागमि| प्यामि कुब्जिके । कुट्टिनीवश्यवेश्यानां स्ववशो वेश्म को विशेष ॥ १६ ॥ व्याघुटन्तीं विनोदेच्छुः कलाकौशलयोगतः । स प्रास्फाल्य ऋजूचक्रे तां कुब्जीमब्जनालवत् ॥ १७॥ वपुर्नवमिवासाद्य सानन्दा साऽपि चेटिका । उपेत्य देवदत्तायै तच्चष्टितमचीकथत् ॥ १८॥ देवदत्तवरेणेव देवदत्ताऽपि तेन ताम् । कुब्जामृतां वीक्ष्य परमं प्राप विसयम् ॥१६॥ देवदत्ता ततोऽवादीदीदृक्षमुपकारिणम् । निजाङ्गुलिमपि च्छित्वा तमेकच्छेकमानय | ॥ २० ॥ ततो गत्वा समभ्यर्थ्य चाटुभिश्चतुरोचितैः । अचालि वेश्माभिमुखं धुतराजो भुजिष्यया ॥ २१ ॥ तया निर्दिश्यमानाध्वा प्रविवेश निवेशनम् । ततोऽसौ देवदत्ताया राधाया इव माधवः ॥ २२ ॥ तं वामनमपि प्रेक्ष्य कान्तिलावण्यशालिनम् । सा मन्वाना सुरं छन्नमुपावेशयदासने ॥ २३ ॥ मिथो हृदयसंवादिसंलापसुभगा ततः। तयोः प्रववृते गोष्ठी तुन्यवैदग्ध्यशालिनोः ॥ २४ ॥ अथाऽऽगाचत्र कोऽप्येको वीणाकारः प्रवीणधीः । वीणामवीवदत्तेन देवदत्ताऽतिकौतुकात ॥२५॥ वल्लकी वादयन्तं च व्यक्तग्रामश्रुतिस्वराम् । धनयन्ती शिरो देवदत्ताऽपि P॥१०८॥
Latin Education inter
For Personal & Private Use Only
Page #235
--------------------------------------------------------------------------
________________
प्रशशंस तम् ॥ २६ ॥ सित्वाऽवदन्मूलदेवोऽप्यहो उज्जयिनीजनः । जानात्यत्यन्तनिपुणो गुणागुणविवेचनम् ॥ २७ ॥ साशङ्का साऽप्युवाचैवं किमत्र शुणमस्त्यहो । छेकछेकप्रशंसायामुपहासं हि शङ्कते ॥२८॥ सोऽप्याचचचे किं क्षुणमस्ति कापि भवादृशाम् । सगर्मा किन्त्वसौ तन्त्री किञ्च बंशोऽपि शल्यवान् ॥ २६ ॥ कथं ज्ञायत इत्युक्तस्तयाऽऽदाय स वल्लकीम् । वंशादश्मानमाकृष्य तन्त्र्याः केशमदर्शयत् ॥ ३० ॥ समारचय्य तां वीणां ततः स्वयमवादयत् । श्रोतृकर्णेषु पीयूषच्छटामिव पारीचपन् ॥ ३१॥ देवदत्ताऽब्रवीत्रैव सामान्यस्त्वं कलानिधे । नररूपं प्रपेदाना साचादसि सरस्वती ॥ ३२॥ वीणाकारश्चरणयोः प्रणिपत्येत्यवोचत । स्वामिन् शिवे भवत्पार्वे वीणावाद्यं प्रसीद मे ॥ ३३ ॥ मूलदेवो जगादैवं सम्यग् जानामि न ह्यहम् । किन्तु जानामि तान् ये हि सम्यग् जानन्ति वनकीम् ॥ ३४॥ के नाम ते क सन्तीति पृष्टोऽसौ देवदत्तया । अवोचदस्ति पूर्वस्यां पाटलीपुत्रपत्तनम् ॥ ३५ ॥ तस्मिन् विक्रमसेनोऽस्ति कलाचार्यो महागुणः । मूलदेवोऽहं च तस्य सदाप्यासन्नसेवकः ॥ ३६ ॥ अत्रान्तरे विश्वभूति ट्याचार्यः समागतः । साक्षाद्भरत इत्यस्मै कथितो देवदत्तया ॥ ३७ ॥ मूलदेवोऽप्येवरचे सत्यमेवायमीदृशः । ग्राहिताभिः कलां युष्मादृशीभिरपि लक्ष्यते ॥ ३८॥ विश्वभूतिरुपक्रान्ते विचारे भारते ततः । तं खर्व इत्यवाझासीद्वाद्यार्थज्ञा हि तादृशाः ॥ ३९ ॥ मेने च धूर्तराजेन विद्वन्मान्ययमस्य तत् । ताम्रखर्णालङ्करणस्येवान्तर्दयाम्यहम् ॥ ४० ॥ खच्छन्दं भरते तस्य गल्भमानस्य धूर्तराद् । पूर्वापरविरोधाख्यं व्याख्याने दोषमग्रहीत् ॥ ४१॥ विश्वभूतिस्ततः कोपादसंबद्धमभाषत । प्राज्ञैः पृष्टा - पाध्यायाश्छादयन्त्यज्ञता रुषा ॥ ४२ ॥ त्वमेवं नाटयेर्नाट्याचार्य नारीषु नान्यतः । हसितो मूलदेवेन तूष्णीकः
Jain Education intem
For Personal & Private Use Only
Page #236
--------------------------------------------------------------------------
________________
योगशास्त्रम् । ॥१६॥
द्वितीयः प्रकाशः
सोऽप्यजायत ॥ ४३ ॥ स्मेराक्षी देवदत्ताऽपि पश्यन्ती वामनं मुदा । उपाध्यायस्य वैलक्ष्यमपनेतुमवोचत ॥४४॥ इदानीमुत्सुका यूयमुपाध्यायाः क्षणान्तरे । परिभाव्याभिधातव्यं प्रश्ने विज्ञानशालिनाम् ॥ ४५ ॥ देवदत्ते वयं यामो नाट्यस्यावसरोऽधुना। सज्जस्व त्वमपीत्युक्त्वा विश्वभूतिस्ततो ययौ ॥ ४६॥ देवदत्ताऽप्यथादिक्षदावयोः स्नानहेतवे । अङ्गमर्दो 'निर्विमद कश्चिदाहूयतामिति ॥ ४७ ।। अजल्पद्धतराजोऽपि व्याहार्षीर्माऽङ्गमर्दकम् । सुभ्रू यद्यनुजानासि तवाभ्यङ्गं करोमि तत् ॥ ४८ ॥ किमेतदपि वेत्सीति तयोक्तः प्रत्युवाच सः। न जानामि स्थितः किन्तु तज्ज्ञानामहमन्तिके ॥ ४६॥ आदेशाद्देवदत्तायाः पक्कतलान्यथाययुः । अभ्यङ्गं कर्तुमारेभे स मायावामनस्ततः ॥ ५० ॥ मृदुमध्यदृढं स्थानौचित्यात् पाणिं प्रसारयन् । अङ्गे तस्या मृलदेवः सुखमद्वैतमादधे ॥ ५१ ॥ सर्वार्थेषु कलादाक्ष्यमीदृग्नान्यस्य कस्यचित् । न सामान्योऽयमित्यंयोः पतित्वा साब्रवीदिति ॥ ५२ ॥ गुणैरपि त्वमाख्यातः कोऽप्युत्कृष्टः पुमानिति । मयूरव्यंसकात्मानं किं गोपयसि मायया ॥ ५३ ।। प्रसीद दर्शयात्मानं किं मोहयसि मां मुहुः । भक्तानामुपरोधेन साक्षात्स्युर्देवता अपि ।। ५४ ॥ अाकृष्य गुलिकामास्याद् रूपं तत्परिवर्त्य सः । प्रतिपेदे निजं रूपं शैलूष इव तत्क्षणात् ।। ५५ ॥ अनङ्गमिव जाताङ्गं तं लावण्यैकसागरम् । उद्वीक्ष्य विस्मिता सोचे प्रसादः साधु मे कृतः॥५६॥ तस्यापयित्वा स्नानीयं पोतं प्रीता स्वपाणिना । अङ्गाभ्यङ्गं व्यरचयदेवदत्ताऽनुरागिणी ॥ ५७।। खलिप्रक्षालनापूर्व पिष्टातकसुगन्धिभिः । कवोष्णवारिधाराभिस्ततो द्वावपि सस्मतुः ।। ५८ । देवदृष्ये देवदत्तोपनीते पर्यधत्त सः । सुगन्ध्याढ्यानि भोज्यानि बुभुजाते समं च तो
(१) निर्विमर्दः इति वा पाठः. (२) वस्त्रम् ।
॥१०६।
Jain Education inter
For Personal & Private Use Only
Page #237
--------------------------------------------------------------------------
________________
में हृदयं त्वया । गुणला निकेतने ॥ ३२ ॥ गो निर्धनेऽपि चेत् ।
॥ ५६ ।। रहाकलारहस्यानि वयस्यीभूतयोस्तयोः । मिथः कथयतोरेकः चणः सुखमयो ययौ ॥६० ॥ ततः सा व्याजहारैवं हृतं मे हृदयं त्वया । गुणैर्लोकोत्तरैर्नाथ प्रार्थयेऽहं तथाऽप्यदः ॥ ६१॥ यथा पदमकार्षीस्त्वं हृदये मम सुन्दर । विदधीथास्तथा नित्यमस्मिन्नेव निकेतने ॥ ३२ ॥ मृलदेवोऽप्युवाचैवं निर्धनेषु विदेशिषु । अस्मादृशेषु युष्माकमनुबन्धो न युज्यते ।। ६३॥ गुणानां पक्षपातेनानुरागो निधनेऽपि चेत् । वेश्यानामर्जनाभावात्कुलं सीदेत्तदाखिलम् ॥ ६४ ॥ वभाष देवदत्ताऽपि को विदेशो भवादृशाम् । सर्वः स्वदेशो गुणिनां नृणां केसरिणामिव ॥६५॥ श्रात्मानमर्थयन्त्यर्थैर्मर्खा हि बहिरेव नः प्रवेशं न लभन्तेऽन्तर्विना त्वां गुणमन्दिर ॥६६॥ सर्वथा प्रतिपत्तव्यं त्वया सुभग मद्वचः । इत्युक्ते मूलदेवेनाप्यामेति जगदे वचः ॥ ६७ ।। ततश्च क्रीडतोः स्नेहाद्विनोदैर्विविधैस्तयोः। राजद्वाःस्थोऽब्रवीदेत्यागच्छ प्रेक्षाक्षणोऽधुना ॥ ६८॥ छन्नवेषं मूलदेवं सा नीत्वा राजवेश्मनि । राज्ञोऽग्रे नृत्यमारेभे रम्भव करणोज्ज्वलम् ॥ ६६ ॥ शक्रपाटहिकसमः पाटप्रकटने पटुः । मूलदेवोऽपि निपुणोऽवादयत्पटहं ततः ॥ ७० ॥ राजाऽरज्यत नृत्तेन तस्याः करणशालिना । प्रसादं मार्गयेत्यूचे तं च न्यासीचकार सा॥ ७१ ॥सा मूलदेवसहिता जगौ चानु ननर्च च । ददौ चास्यै नृपस्तुष्टः स्वाङ्गलग्नं विभूषणम् ॥ ७२ ॥ पाटलीपुत्रराजस्य राजदौवारिकस्ततः । हृष्टो विमलसिंहाख्य इत्युवाच महीपतिम् ॥ ७३ ॥ अयं हि पाटलीपुत्रे मूलदेवस्य धीमतः। कलाप्रकर्षोऽमुष्या वा न तृतीयस्य कस्यचित् ॥७४॥ ततः प्रदीयतां देव मूलदेवादनन्तरम् । विज्ञानिषु च पट्टोऽस्यै पताका नर्तकीषु च ॥ ७५ ॥ ततो राज्ञा तथा दत्ते साब्रवीदेष मे गुरुः । ततः प्रसादमा
(१) पाटो विस्तारः।
Education International
For Personal Private Use Only
Page #238
--------------------------------------------------------------------------
________________
द्वितीयः प्रकाश:।
योग- दास्ये स्वामित्रस्याभ्यनुज्ञया ।।७।। राजाऽप्यवोचत्तदियं महाभागानुमन्यताम् । धृतॊऽप्यवादीद्यद्देव आज्ञापयति शास्त्रमा
तत्कुरु ॥ ७७ ।। अत्रान्तरे धृतराजा वीणां स्वयमवादयत् । हरन्मनांसि विश्वेषां विश्वावसुरिवापरः ॥ ७ ॥
ततो विमलसिंहेन बभाषे देव खन्वयम् । मृलदेवश्छन्नरूपो नापरस्सेदृशी कला ॥ ७९ ॥ विज्ञानातिशयस्यास्य ॥११०॥ प्रयोक्ता नापरः क्वचित् । मूलदेवं विना देव सर्वथाऽसौ स एव तत् ॥८०॥ राजा जगाद यद्येवं तदाहो स्वं
| प्रदर्शय । दर्शने मूलदेवस्य रत्नस्येवास्मि कौतुकी ॥८१॥ गुलिका मूलदेवोऽपि मुखादाकृष्य तत्क्षणात् । व्य
तोऽभूत्कान्तिमान्मेघनिर्मुक्त इव चन्द्रमाः ॥८२ ॥ साधु ज्ञातोऽसि विज्ञानिनिति सप्रेमभाषिणा । ततो विमलसिंहेन धूर्तसिंहः स सस्वजे ॥८३॥न्यपतन्मूलदेवोऽपि नृदेवस्य पदाब्जयोः। राजापि तं प्रसादेन सगौरवमपूजयत् ॥८४ ॥ एवं च देवदत्ताऽपि तस्मिन्नत्यनुरागिणी । पुरूरवस्युर्वशीवान्वभूद्विषयजं सुखम् ।।८५ ॥ अतिष्ठन्मूलदेवोऽपि न विना द्यूतदेवनम् । भवितव्यं हि केनापि दोषेण गुणिनामपि ॥८६॥ ययाचे देवदत्तापि घिग् द्यूतं त्यज्यतामिति । नात्यजन्मूलदेवस्तत्प्रकृतिः खलु दुस्त्यजा ॥ ८७॥ तस्यां नगर्यामासीच धनेन धनदोपमः। सार्थवाहोऽचलो नाम माऽपर इव स्मरः ॥ ८८ ॥ आसक्तो देवदत्तायां मूलदेवाग्रतोऽपि सः । कृतस्वीकरणो भाट्या बुभुजे तां निरन्तरम् ।। ८६ ॥ ईयां स मूलदेवाय महतीं वहति स्म च। अन्विष्यति स्म तच्छिद्राण्युपद्रवचिकीर्षया ॥ १०॥ तच्छङ्कया मूलदेवोऽप्यगात्तद्वेश्मनि च्छलात् । पारवश्येऽप्यविच्छिन्नो रागःप्रायेण रागिणाम् ॥६१ ॥ देवदत्तां जनन्यूचे धुतामृगधृतकम् । निर्धनं द्यूतकारं च मूलदेवं सुते त्यज ॥१२॥ प्रत्यहं विविधं द्रव्यं यच्छत्यस्मिन् रमस्व तत् । अचले निश्चलरती रम्भेव धनदात्मजे ॥६३ ॥ देवदत्ता प्रत्युवाच मातरेकान्ततो
समूलदेवालात् । पारवा मते त्यज ।
॥११०॥
in Education Inte
**
For Personal & Private Use Only
Page #239
--------------------------------------------------------------------------
________________
यहम् । बनानुरागिणी नाम्मि कि यस्मि गुणरागिणी । अमुष्य घृतकारस्य गुणास्तिष्ठन्ति कीदृशाः । इति कोपाजनन्योक्ता देवदलेल्यमापत ।।९।। धीर वदान्यो विद्याबिन रागी स्वयं गुणी विशेषज्ञः शरण्योऽयं नाम त्यच्यामि त खलु ॥१६॥ ततश्च कुट्टिनी रुमा कुटजष्टानचक्रमे । उचालयितुं तनयां स्वरिखी वरिणीमिव ।। ६७ ।। माऽदात्तयार्थिते माल्ये निर्माल्यं शरके पयः । इक्षुखण्डे वंशवण्ड श्रीखरे नीपखाडलम् ।। ९८ ।। सकोपं देवदत्तोक्ता कुट्टिनी कुटिलाब्रवीत् । मा कुपः पुत्रि यादक्षा यक्षस्तावलिः किल ।। ६६ । लतेव कण्टकितरं किमालम्ब्य स्थितास्यमुम् । सर्वथा मूलदेवं तत्यजापात्रभिमं पतिम् ॥ १०॥ अवादीदेवदत्तवं मातः | किमिति मुह्यसि । पुमान पात्रमपात्रं वा किमुच्येतापरीक्षितः ॥ १॥ परीक्षा क्रियतां तहत्युिक्ता साक्षेपमम्बया । मुदिता देवदत्तेवमादिदेश स्वचेटिकाम् ॥ २॥ यदिक्षी देवदत्ताया अभिलापोऽद्य विद्यते । प्रेष्यन्तामिक्षवः सार्थवाहाचल ततस्त्वया ॥ ३ ॥ तयोक्तः सार्थवाहोऽपि धन्यमानी प्रमोदतः । शकटानीचपूर्णानि प्रेषयामास तत्क्षणात् ॥४॥ हृष्टा कुट्टिन्युवाचैवमचलस्वामिनो हले । अचिन्तनीयमादाय पश्य चिन्तामणेरिख ॥ ५॥ विषामा देवदत्तोचे किमम्बाऽस्मि करेणुका । भक्षणायेक्षवः क्षिप्ता यत्समूलदलायकाः ॥ ६॥ आदिश्यतां मूलदेवोऽप्य स्मिन्नर्थे भुजिष्यया । विवेके ज्ञायते मातयोरपि यथाऽन्तरम् ।। ७ ।। मूलदेवोऽपि चेट्योक्त इचूनादाय पञ्चषान् । मूलाग्राणि त्यजन्म निस्ततक्ष विचक्षणः ॥८॥ कठोरत्वेन दुश्चर्वपर्वग्रन्थीन् परित्यजन् । द्वन्यङ्गला गण्डिकाश्चक्रे पीयूषस्येव कुण्डिकाः ॥ ६॥ चतुर्जातेन संस्कृत्य कपूरेणाधिवास्य च । शूलप्रोता वर्द्धमानसंपुटे प्राहिणोत्स ताः ॥१०॥ देवदत्ताऽपि ताः प्रेक्ष्य बभाष शम्भलीमिति । धूर्त्तशाचलयोः पश्य स्वर्णयोरिवान्तरम् ॥११॥
in Education International
For Personal & Private Use Only
Page #240
--------------------------------------------------------------------------
________________
शास्त्रम्
११११॥
कुट्टिन्यचिन्तयरहो महामोहान्धमानसा । मृगीच मृगतृष्णामो पूर्वमा जुधापति ।। १२ । य को 'गुमायः । द्वितीय क्रियते येन निष्काम्पते पुरात । अत्युग्णाजलसेकेन बिलादिव महारण ।। १३ ।। कुट्टिनी मूलदेवस्याबाट
प्रकाशः। नायाचलं जी । कर्नव्यः कृत्रिम ग्रामगमनोपक्रम त्वया ॥ १४ ॥ ग्रामे यास्यामीत्यलीक सार्थवाह त्वमञ्जना । कथयेदेवदताया विश्रधा सा यथा भवेत् ॥ ५॥ ततो ग्रामान्तरमन श्रुत्या त्यां धर्तगांवनः । निःश देवदत्तायाः स समीपमुपैष्यति ॥ १९ ॥ देवदत्ताान्तके मूलदेवं दीयति निभैरम् । आगच्छ सर्वसामय्या मत्सङ्केतेन सुन्दर ।। १७ ।। ततस्तथा कथमपि त्वमेनमवमानयः । यथैतां न भजेद्यस्तित्तिरीमिर तित्तिरः ॥ १८ । तत्तथा प्रतिपद्याय यास्वामि ग्राममित्यमौ । आख्याय देवदत्ताया द्रव्यं दत्वा च निर्ययौ ॥ १२ ।। ततस्तया निरातई मूलदेवे प्रवेशिते । आहास्त कुट्टिन्य चलं कुट्टा. | कभटवेष्टितम् ।। २० ।। देवदत्ता च सहसा प्रविशन्तं ददशं तम् । मूलदेवं च खवाञ्चो न्यधापत्रकाण्डवत ।। २१ । तथास्थितं मूलदेवं कुट्टिन्या ज्ञापितो चलः । पर्यके कृतपर्यङ्को निषसाद स्मिताननः !। २२ ।। अयोचदचलस्तत्र कुर्वन् कैतवनाटितम् । देवदत्ते वयं श्रान्ताः मास्वाम. प्रगुलीमव ।। २३ ।। देवदत्ताऽब्रवीदेवं विलक्षवितथस्मिता । स्नानयोग्यासने तर्हि स्नातुं पादोऽवधार्यताम् ।। २४ ।। एवमुत्थाप्यमानोऽपि सादरं देवदत्तया । विशेषतोऽभूत खवायामचलो निश्चलासनः ॥ २५ ।। शशाक धुत्तेराजोपि स्थातुं गन्तुं च नो तदा । प्रायेण विगलन्त्येवावस्थे मनसि शक्तयः ॥ २६ ॥ अवोचदचलो देवदत्ते स्वप्नो मोक्षितः । पर्यङ्केऽस्मिन् कृताभ्यङ्गः सचेलनातवानहम् ॥ २७ ॥ स्वमं सत्यापयिष्यामि तदर्थनहमागमम् । सत्यीकृतो ह्ययं स्वप्न शुभोदीय जायते ॥११॥
in Education International
For Personal & Private Use Only
Page #241
--------------------------------------------------------------------------
________________
[03/1908-1...
Jain Education Internation
॥ २८ ॥ कुट्टिन्यवोचदादेशः प्रमाणं जीवितेशितुः । पुत्रि किं न श्रुतं स्वामी यदिच्छति करोति तत् ॥ २६ ॥ देवदत्ताऽब्रवीदार्य किमेतदुचितं तव । श्रदृष्यदेवदृष्येयं तूलिका यद्विनश्यति ॥ ३० ॥ अचलोऽप्यवदद्भद्रे कार्पण्यं किमिदं तव । शरीरमपि यच्छन्ति पत्यर्थे त्वादृशः स्त्रियः ॥ ३१ ॥ किं तेऽन्यास्तूलिका न स्युः पतिर्यस्याः किलाचलः । लवणेन स किं सीदेद्यस्य रत्नाकरः सखा ।। ३२ ।। ततो भाटीविवशया कारितो देवदत्तया । अभ्यङ्गोद्वर्त्तनादीनि पर्यङ्कस्थित एव सः ॥ ३३ ॥ स्वप्यमाने ततस्तस्मिन्नीशे खलिजलादिना । मूलदेवचंण्ड इव श्रियते स्म समन्ततः ॥ ३४ ॥ आजुहावाचलभटान् कुट्टिनी दृष्टिसंज्ञया । निदिदेशाचलं चाशु धूर्त्ताकर्षण कर्मणे || ३५ ॥ को पाटो समाविष्टो मूलदेवं ततोऽचलः । चकर्ष धृत्वा केशेषु द्रौपदीमिव कौरवः || ३६ || तं चोवाच नयज्ञोऽसि विद्वानसि सुधीरसि । कर्मणोऽस्यानुरूपोऽद्य ब्रूहि कस्तेऽस्तु निग्रहः || ३७ ॥ धनाधीनशरीरेयं वेश्या तां चेद्रिससे। ग्रामपट्टकवद्भूरिधनेन न किमग्रहीः || ३८ || मूलदेवोऽपि निष्पन्दस्तदा मुकुलितेक्षणः । विफलीभूतफालस्योदुवाह द्वीपिनस्तुलाम् ।। ३९ ।। एवं च चिन्तयामास सार्थवाहपतिस्ततः । न निग्राह्यो महात्माऽसौ देवादेवं दशां गतः ॥ ४० ॥ इति चोवाच मुक्तोऽद्य त्वमस्मादागसो मया । कृतज्ञोऽस्युपकर्त्तव्यं त्वयाऽपि समये मम ॥ ४१ ॥ मुक्तोऽथ तेन धूर्चेशो वेश्मतो निर्ययौ ततः । तूर्णं तूर्णं परिक्रामन् रणाद्भग्न इव द्विपः ॥ ४२ ॥ गत्वा पुरीपरिसरे सयौ सरसि विस्तृते । शरत्काल इव भेजे तत्क्षणात् चालिताम्बरः ॥ ४३ ॥ अचलस्यापकर्तुं चोपकर्तुं स धूर्त्तराद् | मनोरथरथारूढोऽचलद्वेखातटं प्रति ॥ ४४ ॥ द्वादशयोजनायामां स श्वापदकुलाकुलाम् | दुर्दशायाः
१ ईश्वरस्य गणः - सेवकः चण्डनामा ।
For Personal & Private Use Only
Page #242
--------------------------------------------------------------------------
________________
योगशास्त्रम्
द्वितीयः प्रकाश।
॥११२॥
प्रियसखीमिव प्राप महाटवीम् ॥४५॥ पारावारमिवापारां तितीर्घस्तां महाटवीम् । सहायं चिन्तयामास तरण्डमिव धृत्तेराद् ॥ ४६ ।। कस्मादप्यागतोऽकस्मादभ्रादिव परिच्युतः । शम्बलस्थगिका बिभ्रत्कोऽपि टक्को द्विजस्तदा ॥ ४७ ॥ असहायः सहायीयं तं विप्रं क्षिप्रमागतम् । वृद्धो यष्टिमिव प्राप्य मूलदेवो मुदं ययौ ॥ ४८ ॥ जगाद मूलदेवस्तं ममारण्ये प्रपेतुषः । आत्मच्छायाद्वितीयस्य दिष्ट्या मिलितवानसि ॥४६॥ स्वच्छन्दं वार्तयिष्यावस्तदावा द्विजसत्तम । मार्गखेदापहरणी विद्या वार्ता हि या पथि ॥ ५० ॥ दूरे कियति गन्तव्यं स्थाने जिगमिषा क ते । कथ्यतां भो महाभाग मार्गमैत्री वशीकुरु ॥ ५१ ॥ विनोऽप्याख्यद्गमिष्यामि पारेऽरण्यमिव स्थितम् । स्थानं वीरनिधानाख्यं ब्रूहि त्वं कुत्र यास्यसि ।। ५२ ॥ मृलदेवोऽब्रवीद्यास्याम्यहं वेणातटे पुरे । विप्रोऽप्यूचे तदेहि त्वमेकोऽध्वा दूरमावयोः ॥५३।। ललाटन्तपतपने मध्याह्नेऽथ समागते । मिलिताभ्यां च गच्छद्भयां ताभ्यां प्रापि महासरः ॥५४॥पाणिपादमुखं मूलदेवः प्रक्षाल्य वारिणा । निरन्तरतरुच्छाये भूतले समुपाविशत् ।।५५॥ स्थगिकायाः समाकृष्य सक्तूनालोड्य वारिणा । एकोऽपि भोक्तुमारेभे टक्को रक इव द्रुतम् ॥ ५६॥धूर्तोऽप्यचिन्तयदसौ नाऽऽदौ मे भोजनं ददौ । अतिक्षुधाऽऽतुरो भुङ्क्ते भुक्तः सन् खलु दास्यति ॥५७॥ भुक्त्वा तत्रोत्थिते विप्रे बना(न)ति स्थगिकामुखम् । दध्यौ धूर्तोऽपि यद्यद्य नादात्तच्चः प्रदास्यति ॥५८॥ तस्मिन्नदत्त्वा भुञ्जाने मूलदेवस्तदाशया । त्रीवासरानगमयन्नृणामाशा हि जीवितम् ।।५९॥ अटवीं तां परित्यज्य धूर्तराज द्विजोऽवदत् । स्वस्ति तुभ्यं महाभाग यास्याम्यहमितोऽधुना ॥६०॥ तमूचे मूलदेवोऽपि त्वत्साहाय्यादियं मया । द्वादशयोजनायामा कोशवल्लविताऽटवी ॥६१॥ वेणातटे गमिष्यामि मूलदेवाभिधोऽस्म्यहम् । तत्र मे कथयेः कार्य कथ्यतां किं च नाम ते ॥२॥ लोकैनिघणशर्मेति
॥११२॥
Lain Education internal
For Personal & Private Use Only
Page #243
--------------------------------------------------------------------------
________________
विहितापरनामकः। विप्रोऽहं सदडो नामेत्युक्त्वा टक्कस्ततो ययौ॥६३॥ गच्छता मेलदेवेन ततो वेणातटं प्रति । दृष्टः
संवसथः कश्चिद्वसंदावसथः पथि ॥६४॥ प्रविष्टस्तत्र भिक्षार्थ क्षामकुक्षिर्बुभुक्षया । भ्रमन्नासादयामास कुन्माषान् al कुत्रचिद्गहे ।। ६५ ॥ ग्रामानिष्कामतस्तस्याभिमुखः कोऽप्यभून्मुनिः। मासक्षपणपुण्यात्मा पुण्यपुज इवाङ्गवान्
॥ ६६ ॥ तं दृष्ट्वा मुदितः सोऽभूदहो मे सुकृतोदयः। यन्मयाप्तमिदं पात्रं यानपात्रं भवोदधो ॥ ६७ ॥ साधोः कुन्माषदानेन रत्नत्रितयशालिनः । उन्मीलतु चिरादद्य मद्विवेकतरोः फलम् ॥ ६८ ॥ कुन्माषान् साधवे दत्त्वा मूलदेवः पपाठ च । धन्यास्ते खलु येषां स्युः कुल्माषाः साधुपारणे ॥ ६९ ।। तस्य भावनया हृष्टा बभाषे व्योम्नि देवता । अर्द्धश्लोकेन याचस्व भद्र किं ते प्रदीयताम् ।। ७० ॥ प्रार्थयामास सद्यस्ता मूलदेवोऽपि देवताम् । गणिकादेवदत्तेभसहस्रं राज्यमस्तु मे ॥ ७१ ।। एवमस्त्विति देव्यूचे मृलदेवोऽपि तं मुनिम् । वन्दित्वाऽथ ग्राममध्ये भित्तित्वा बुभुजे स्वयम् ।। ७२ ॥ मार्ग क्रामन् क्रमेणासौ प्राप वेणात पुरम् । सुष्वाप पान्थशालायां निद्रासुखमवाप च ।। ७३ ॥ यामिन्याः पश्चिमे यामे स सुप्तः स्वममैक्षत । यत्पूर्णमण्डलश्चन्द्रः प्रविवेश मुखे मम ॥ ७४ ॥ तमेव स्वममद्राक्षीकोऽपि कार्पटिकस्तदा । अन्यकापटिकानां च प्रबुद्धस्तम कथत् ।। ७५ ॥ तेषु कार्पटिकेष्वेकः स्वममेवं व्यचारयत् । अचिरेण लप्स्यसे त्वं सखण्डघृतमण्डकम् ॥ ७६ ॥ हृष्टः कार्पटिकः सोऽभूदेवं भूयादिति ब्रुवन् । जायेत बदरेणापि शृगालस्य महोत्सवः ॥ ७७॥ स्वप्नं नाचीकथत्तेषामज्ञानां धूर्तराट् निजम् । मृर्खा हि दर्शिते रत्ने दृषत्खण्डं प्रचक्षते।।७८|| मण्डकं कर्पटिः प्राप गृहाच्छादनपर्वणि । प्रायेण
(१) ग्रामः । (२) वसतां प्राणिनामावसथो विश्रामस्थानम् ।
sain Education intere
For Personal & Private Use Only
Page #244
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥११३॥
भोजयित्वा च गौरवात् । पारस
किं न हि ॥८५
न्यको तामुपायत ।
फलति स्वप्नो विचारस्यानुसारतः ॥ ७९ ॥ धृत्तॊऽपि प्रातरारामे गत्वा पुष्पोच्चयादिना । अप्रीणान्मालिक द्वितीय लोकंपृणं कर्मापि तादृशाम् ।।८०॥ गृहीत्वा मालिकात्तस्मात्स पुष्पाणि फलानि च । शुचिर्भूत्वा ययौ वेश्म * प्रकाश स्वप्नशास्त्रविपश्चितः ।।८१॥ मूलदेवस्ततो नत्वा दत्त्वा पुष्पफलानि च । उपाध्यायाय तज्ज्ञाय शशंस स्वप्नमात्मनः ॥ ८२ ॥ मुदितः सोऽवदद्विद्वान्वत्स स्वप्नफलं तव । मुमुहूर्ते कथयिष्याम्यद्यास्माकं भवातिथिः ।। ८३ ।। मूलदेवं स्नपयित्वा भोजयित्वा च गौरवात् । परिणाययितुं कन्यामुपाध्याय उपानयत् ॥८४ ॥ बभाप मूलदेवोऽपि ताताज्ञातकुलस्य मे । कन्यां प्रदास्यसि कथं विचारयसि किं न हि ॥८५ ॥ उपाध्यायोऽप्युवाचैवं त्वन्माऽपि कुलं गुणाः । ज्ञातास्तत्सर्वथा कन्या ममेयं परिणीयताम् ॥ ८६ ॥ तद्वाचा मूलदेवोऽपि कन्यकां तामुपायत । कार्यसिद्धेभविष्यन्त्याः प्रादुर्भूतमिवाननम् ॥८७॥ मध्ये दिनानां सप्तानां त्वं राजेह भविष्यसि । इति तस्य स्वप्नफलमुपाध्यायो न्यवेदयत् ।। ८८॥ हृष्टस्तत्र वसन् धूर्तराजो गत्वा बहिः पुरात् । सुष्वाप चम्पकतले संप्राप्ते पश्चमेऽहनि ।। ८६ ।। तदा च नगरे तस्मिन्नग्रेतनमहीपतिः । अपुत्रो निधनं प्राप निष्पाद इव पादपः ॥ ६ ॥ मन्त्रोक्षिताः पुरीभाश्वच्छत्रभृङ्गारचामराः । भ्रमुः प्रापुर्न राज्याहं दुष्प्रापस्तादृशो जनः ॥३१॥ ततो बहिः पर्यटन्तो निकषा चम्पकद्रुमम् । अपश्यन्मूलदेवं ते नरदेवपदोचितम् ।।१२॥ हयेन हेषितं चक्रे गजेनोर्जितगर्जितम् । भृङ्गारेण च तस्याश्चामराभ्यां च वीजनम् ।। ६३ ॥ पुण्डरीकं स्वर्णदण्डमण्डितं तस्य चोपरि । शरदभ्रमिवा दभ्रतडिद्दण्डमजृम्भत ॥ १४ ॥ तं चाधिरोहयामास स्वस्कन्धे जयकुञ्जरः । स्वाम्याप्तिमुदितैलोकैश्चके जयजयारवः
(१) जनप्रीतिकरम् । (२) श्वेतच्छत्रम् ।
in Education Interna
For Personal & Private Use Only
Page #245
--------------------------------------------------------------------------
________________
॥ ६५ ॥ पुरं महातूर्यवैः पूर्यमाणदिगन्तरम् । तत्प्राविशन्मूलदेवो राजराज इवालकाम् || ६६ || उत्तीर्णो राजहर्म्येऽसौ सिंहासनमधिष्ठितः ॥ ६७ ॥ अथोचे देवता व्योम्नि देवतानां प्रसादतः । अयं विक्रमराजाख्यो राजा जज्ञे कलानिधिः ॥ ८ ॥ वर्त्तिष्यन्ते न येऽमुष्य शासने क्षितिशासितुः । तानहं निग्रहीष्यामि महीभृत इवाशनिः ॥ ६६ ॥ तद्गरा विस्मितं भीतं सर्व प्रकृतिमण्डलम् । यतेरिवेन्द्रियग्रामः सदा तस्य वशेऽभवत् ।। २०० ।। ततः स राजा विषयसुखान्यनुभवन् व्यधात् । प्रीतिमुञ्जयिनीशेन मिथः संव्यवहारतः ॥ १ ।। तदानीं देवदत्ताऽपि मूलदेवविडम्बनाम् । तादृक्षीं प्रेच्य साक्षेपा व्यत्रवीदचलं प्रति ॥ २ ॥ किं ज्ञाता द्रव्यदर्पान्ध त्वया कुलगृहिण्यहम् । मुमूर्षो मूर्ख महे व्यवाहापर्यदीदृशम् || ३ || त्वयाऽस्मदीयसदने नागन्तव्यमतः परम् । इति निष्कास्य तं गेहात्समीपे नृपतेरगात् ॥ ४ ॥ तया च याचितो राजा स बरो दीयतामिति । यथेच्छं ब्रूहि यच्छामि तं येनेत्यवदन्नृपः ॥ ५ ॥ सोचे मां प्रति नाज्ञाप्यो मूलदेवं विना पुमान् । वारणीयोऽचलश्चायमागच्छन्मम वेश्मनि ।। ६ ।। एवमस्त्विति राज्ञोक्ता ( जोक्त्वा ) हेतुः कोऽत्रेति पृष्टवान् । शशंस माधवी देवदत्तासंज्ञया ततः ॥ ७ ॥ जितशत्रुनृपः कोपाच्चलित भ्रूलतस्ततः । सार्थवाहं तमाहूय साचेपमिदमब्रवीत् ॥ ८ ॥ मत्पुरीमण्डनावेतौ रत्नभूतावरे त्वया । मूर्खेण धनमत्तेन ग्रावणीव निघर्षितौ ॥ ६ ॥ ततोऽमुष्यापराधस्य प्राणापहरणं तव । दण्डोऽस्त्विति नरेन्द्रोक्ते देवदत्ता न्यवारयत् ।। १० ।। त्वं यद्यप्यनयात्रातोऽधुना त्राणं तथापि ते । मूलदेवे समानीते भवेदित्यभ्यधान्नृपः ॥ ११ ॥ नृपं नत्वा ततो गत्वा सार्थवाहः प्रचक्रमे । नष्टरत्नमिवान्वेष्टुं मूलदेवं समन्ततः ॥ १२ ॥ मूलदेवमपश्यन् स भीतो न्यूनतया तथा ।
For Personal & Private Use Only
10-08-10
Page #246
--------------------------------------------------------------------------
________________
योग
द्वितीयः प्रकाशः।
शास्त्रम्
॥११४॥
भाण्डं भृत्वा ययौ शीघ्रं पारसकूलमण्डलम् ॥ १३ ॥ दध्यौ च मूलदेवोऽपि विना मे देवदत्तया । भोज्येनालवणेनेव प्राज्यराज्यश्रियाऽपि किम् ॥ १४ ॥ ततः से देवदत्ताया जितशत्रोश्च भूपतेः । चतुरं प्रेषयामास दूतं प्राभृतसंयुतम् ॥ १५ ॥ गत्वोजयिन्यां दूतोऽपि जितशत्रु व्यजिज्ञपट । देवतादत्तराज्यश्रीमलदेवो वदत्यदः ॥ १६ ॥ यथा मे देवदत्तायां प्रेम जानीथ तत्तथा । यद्यस्यै रोचते वोऽपि तदियं प्रेष्यतामिति ॥ १७ ॥ ततोऽवददवन्तीशस्तेनेदं कियदर्थितम् । राज्ञा विक्रमराजेन भेदो राज्येऽपि नास्ति नः ॥१८॥ आकार्य देवदचां च जगादोजयिनीपतिः । दिल्या जाताऽसि भद्रे त्वं चिरात् पूर्णमनोरथा ॥ १६ ॥ राजा जज्ञे मूलदेवो देवतायाः प्रसादतः। त्वामानेतुं च स प्रैषीत्प्रधानपुरुषं निजम् ॥२०॥ ततस्त्वं तत्र गच्छेति प्रसादाजितशत्रुणा । आदिष्टा देवदत्ताऽगाद्वेणातटपुरं क्रमात् ॥ २१॥ राजा विक्रमराजोऽपि महोत्सवपुरःसरम् । स्वचेतसीव विपुले स्ववेश्मनि निनाय ताम् ॥ २२ ॥ जिना मर्चतस्तस्य सम्यक् पालयतः प्रजाः। दीव्यतो देवदत्तां च त्रिवर्गोऽभूदवाधितः ।। २३ ॥ इतश्च पारसकूलाबह्वात्तकेयवस्तुकः । आययावचलस्तत्र जलपूर्ण इवाम्बुदः ॥ २४ ॥ लक्ष्मीमहत्वपिशुनैमणिमौक्तिकविद्रुमैः। भृत्वा विशालं स स्थालं महीनाथमुपास्थित ॥२५॥ अचलोऽयमिति चिप्रमुपलचितवान् नृपः। दृष्ट्वा प्रागजन्मसम्बन्धमपि प्राज्ञाः स्मरन्ति हि ॥२६।। राजानं मृलदेवोऽयमित्यज्ञासीत्तु नाचलः । आत्तवेषं नटमपि स्थूलप्रज्ञा न जानते ॥ २७ ॥ कुतस्त्वमिति राज्ञोक्तः पारसादित्युवाच सः। ययाचे पश्चकुलं च भाण्डालोकनकर्मणे ॥ २८॥ कौतुकात्स्वयमेष्याम इत्युक्तो भूभुजा स तु । महाप्रसाद इत्यूचे कोपं को वेत्ति तादृशाम् ॥ २६ ॥ ततः पञ्चकुलोपेतो ययौ राजा तदाश्रये । मञ्जिष्ठापट्टसूत्रादि सोऽपि भाण्डमदर्शयत् ॥ ३० ॥ भाण्डं
॥११४॥
in Education tema
For Personal & Private Use Only
Page #247
--------------------------------------------------------------------------
________________
किमवेद सत्यं ब्रूहीति भूभुजा । उक्त इत्युक्तवान् श्रेष्ठी सत्यमेतावदेव मे ।। ३१ ।। नृपेण पुनरप्यूचे सम्यग ज्ञात्वा निवेदय । अस्मद्राज्ये शुल्कचौरी यच्छरीरेण निग्रहः ।। ३२ । अवोचद चलोऽप्येवमस्माभिः कथ्यतेऽन्यथा | पुरतो ना परस्यापि स्वयं देवस्य किं पुनः || ३३ || राजेत्युवाच तर्ह्यस्य श्रेष्ठिनः सत्यभाषिणः । क्रियतामदानं च सम्यग्भाण्डं च वीच्यताम् ॥ ३४ ॥ ततः पञ्चकुलेनांहिप्रहाराद्वंशवेधतः । असारभाण्डमध्यस्थं सारभाण्डमश || २५ | जाताशस्ततो राजपुंभिर्विभिदिरे क्षणात् । शुल्कदस्युमनांसीव भाण्डस्थानानि सर्वतः ।। ३६ ।। तैर्यथा शङ्कितं भाण्डं वित्तशाख्यं तथाऽभवत् । परपुरान्तःप्रवेशकारिणो ह्यधिकारिणः ।। ३७ ॥ तज् ज्ञात्वा कुपितो राजा बन्धयामास तं क्षणात् । सामन्ता अपि बध्यन्ते राजादेशाद्वखिक कियान् ॥ २८ ॥ ततस्तं सदने नीत्वा छोटयित्वा च बन्धनम् । किं मां प्रत्यभिजानासि पप्रच्छेति महीपतिः || ३६ || अचलोऽपि जगादेव जगदुद्द्द्योतकारिणम् । भानुमन्तं भवन्तं च बालिशोऽपि न वेति कः ॥ ४० ॥ पर्याप्तं चावचनैः सम्यक्त्वं वेत्सि तद्वद । राज्ञेत्युक्तोऽचलोऽवोचत्तर्हि जानामि न ह्यहम् ॥ ४१ ॥ देवदनामथादूय भूपतिस्तमदर्शयत् । इष्टैर्दृष्टा कृतार्था स्यान्मनःसिद्धिर्हि मानिनाम् ॥ ४२ ॥ देवदत्तामसौ दृष्ट्वा ह्रीवः कष्टां दशां ययौ । अस्त्र्यपाना हि मृत्योरप्यधिका नृणाम् || ४३ || साऽप्यूचे मूलदेवोऽयमित्युक्तो यस्तदा त्वया । एवं कुर्या ममापि त्वं दैवाद्वयसमीयुः ॥ ४४ ॥ तदसि व्यसनं प्राप्तः प्राणसन्देहकारणम् । मुक्तोऽसि वार्यपुत्रेण नेटक्षाः क्षुद्रघातिनः ॥ ४५ ॥ ततो विलक्षः स वणिक् पतित्वा पादयोस्तयोः । ऊचे सर्वापराधान्मे तितिक्षध्वं तदा कृतान् ।। ४६ ।। रुष्टस्तेनापराधेन जितशत्रुर्महीपतिः । प्रवेशमुज्जयिन्यां मे युष्मद्वाचः प्रदास्यति ॥ ४७ ॥
२०
For Personal & Private Use Only
200
Page #248
--------------------------------------------------------------------------
________________
योग
द्वितीय, प्रकाशः।
शास्त्रम्
॥११॥
अथोचे मूलदेवोऽपि मया वान्तं तदैव ते । यदा प्रसादो विदधे देव्या श्रीदेवदत्तया ॥ ४८ ॥ ततः प्रसादं दत्त्वाचेदंतमेकं समर्प्य च । पुरीमुजयिनीं गन्तुं यिससर्जाचलं नृपः ॥ ४६॥ प्रवेशोऽवन्तिनाथेन तथावत्यामदीयत । मूलदेवस्य वचसा कोपस्तन्मूल एव यत् ॥५०॥ अन्येार्दुःखविधुराः प्रजाकार्यधुरन्धरम् । मिलित्वा वणिजो मूलदेवमेवं व्यजिज्ञपन् ॥ २१॥ जाग्रत्यपि प्रजास्त्रातुं त्वयि देव दिवानिशम् । अमुष्यतेदं नगरं परितः परिमोपिभिः ।। ५२ ।। कोला इव चिरं चौरा: पुरेऽस्मिन्मन्दिराणि नः । प्रतिक्षपं खनन्त्युञ्चारक्षा रक्षितुं चमाः ॥ ५३॥ अदृश्यमानाः केनापि कृतसिद्धाञ्जना इव । भ्राम्यन्ति चौराः खैरं नो गृहेषु स्वगृहेष्विव ।। ५४ ॥ अचिरान्निग्रहीष्यामि तस्करानयशस्करान् । मूलदेवोऽभिधायेवं वणिजो विससर्ज तान् ॥५५॥ आदिचन्नगराध्यवं साक्षेपं मापतिस्ततः । अन्विष्य तस्करान् सर्वान् गृहाण निगृहाण च ।। ५६ ॥ अथोवाच पुराध्यक्षः स्वामिनेकोऽस्ति तस्करः । असौ न शक्यते धुत्तु दृष्टनष्टः पिशाचवत् ।। ५७ ॥ जातामर्षस्ततो राजा महोजा निर्ययो | निशि । नीलाम्बरप्रावरणो नीलाम्बर इवापरः ॥ ५८ ॥ स्थानेषु शङ्कास्थानेषु बभ्राम स्थामधाम सः । दस्युं कमपि नापश्यदहेः पदमिवाम्भसि ।। ५६ ।। स सर्व नगरं भ्रान्तः श्रान्तः सुष्वाप कुत्रचित् । खण्डदेवकुले शैलगुहायामित्र केसरी ।। ६० ॥ निशाचर इबाकस्मानिशाचरणदारुणः । तस्कराग्रेसरस्तत्रोपासरन्मण्डिकाभिधः ॥६१॥ कोऽति व्याहरन्नुच्चैमेलिम्लुचपतिस्ततः । रुष्टः सुप्तमिव व्यालं पदा नृपमघट्टयत् ।। ६२ ॥ चेष्टां स्थानं च वित्तं च जिज्ञासुस्तस्य भूपतिः । ऊचे कार्पटिकोऽसीति कक निष्णा न तादृशाः ॥ ६३ ॥ एहि कार्पटिकाद्य वामदरिद्रीकरोम्यहम् । इत्यूचे तस्करो भूपं मदान्धानां धिगज्ञताम् ।। ६४ ॥ तमन्वचालीत्सोऽर्थेच्छः
in Education International
For Personal & Private Use Only
Page #249
--------------------------------------------------------------------------
________________
पत्तिवत्पृथिवीपतिः। ममर्द गर्दभस्यापि पादौ कार्याजनार्दनः॥६५॥ अजानानः स राजानं पार्थे मृत्युमिवात्मनः। जगाम धाम कस्यापि श्रेष्ठिनः श्रेष्ठसम्पदः ॥६६॥ तत्र खात्रं खनित्रेण पातयित्वा स वेश्मनः । जग्राह सारद्रविणं राहुः कुण्डात्सुधामिव ॥ ६७ ॥ अज्ञो राज्ञा समस्तं तद्वाहयामास तस्करः । उदरं दर्शयामास शाकिन्येव स मूढधीः ॥ ६८ ॥ तमुन्मूलयितुं मूलान्मूलदेव उवाह तत् । धृतो हि कारणोपात्तमार्दवाः कार्यराक्षसाः ॥ ६६ ।। जीर्णोद्यानं ततो गत्वा गुहामुद्राव्य सोऽविशत् । निनाय तत्र भूपं च च्छगणारोपितालिवत् ।। ७० ॥ आसीनागकुमारीव कुमारी तत्र तत्स्वसा। नवयौवनलावण्यपुण्यावयवशालिनी ॥ ७१॥ चालयास्यातिथेः पादावित्यादिष्टा स्वबन्धुना । सोपकूपं ततो भूपमुपावेशयदासने ॥७२॥ प्रक्षालयन्ती तत्पादकमले कमलेक्षणा । अनुभूय मृदुस्पर्श तं सर्वाङ्गसुदैवतं ॥ ७३ ।। अहो कोऽप्येष कन्दर्पः साक्षादिति सविस्मया । सानुरागा सानुकम्पा साऽब्रवीदिति भूपतिम् ।। ७४ ।। पादप्रक्षालनव्याजात्कूपेऽसिन्नपरे नराः । अपात्यन्त महाभाग तस्कराणां कुतः कृपा ॥७५ ॥ चेप्स्यामि नेह कूपे त्वां त्वत्प्रभाववशीकृता । महतामनुभावो हि वशीकरणमद्भुतम् ॥ ७६ ॥ ततो मदुपरोधेन सुन्दरापसर द्रुतम् । द्वयोरप्यन्यथा नाथ कुशलं न भविष्यति ॥७७॥ विमृश्याथ महीनाथो निर्जगाम द्रुतं ततः । धीमन्तो हि धिया प्रन्ति द्विषः सत्यपि विक्रमे ॥ ७८ ॥ गते नृपे तु व्याहारि तया गच्छत्यसाविति । स्वतणरक्षणार्थ हि प्रपश्चो धीमतामयम् ॥ ७९ ॥ कृष्टकङ्कासिजिहालो वेताल इव दारुणः । अनुभूपालमुत्तालो दधावे मण्डिकस्ततः ॥८० ॥ तं समासन्नमालोक्य भूपति(बृहस्पतिः । चत्वरोत्तम्भितग्रावस्तम्भेनान्तरितोऽभवत
(१) 'मर्दयामास ' इति प्रत्यन्तरपाठः साधीयान् । (२) अलिः वृश्चिकः ।
sain Education interme
For Personal & Private Use Only
Page #250
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥ ११६॥
Jain Education Internat
@*******OK
***+
॥ ८१ ॥ कोपान्धनयनश्चासौ स एवैष पुमानिति । कङ्कासिना दृषत्स्तम्भं च्छित्वाऽगाद्धाम मण्डिकः ||८२|| ययौ स्वं धाम राजाऽपि दृष्टचौरोपलम्भतः । प्राप्तः सौख्याय जायेत दोषकारी न कस्य वा ॥ ८३॥ राजा प्रातस्ततो राजपाटिकाव्याजतो बहिः। दस्युं विश्वमनोदस्युस्तं निरूपयितुं ययौ ॥ ८४॥ अथ वस्त्रापणद्वारे कुर्वाणं तुम्नकारताम्। पदैर्वेष्टितजङ्घोरुं किञ्चिदुद्घाटिताननम् ||८५|| तस्करं मेस्करलतोपेतं श्लथाकृतिम् | दृष्ट्वोपालचयत् चमापः क्षपादृष्टानुमानतः ||६|| (युग्मम्) गत्वा हर्म्य महीनाथोऽभिज्ञानानि निवेदयन् । पुरुषान् प्रेषयामास तस्याकारणहेतवे ॥८७॥ नहतः स पुमान्नूनं तद्विजृम्भितमित्यसौ । श्राहृतोऽमंस्त चौरा हि महाराजिकवेदिनः ॥ ८८ ॥ सोऽगात्ततो राजकुले राज्ञाऽस्यत महासने | महाप्रसादं कुर्वन्ति नीतिज्ञा हि जिघांसवः ॥ ८९ ॥ तं भूपतिरभाषिष्ट प्रसादमुखया गिरा । स्वस्वसा दीयतां मह्यं दातव्या एव कन्यका ॥ ६० ॥ दृष्टपूर्वी स्वसारं मे नापरो निरगात्ततः । श्रयं स एव राजेति निश्चिक्ये मण्डिको हृदि ॥ ६१ ॥ गृह्यतां मत्स्वसा देव देवकीयैव सा किल । मदीयमन्यदप्येवमवोचत स पार्थिवम् । ॥ ६२ ॥ तदानीमप्युपायंस्त रूपातिशयशालिनीम् । तस्य स्वसारं नृपतिः कंसारिरिव रुक्मिणीम् || ६३ || महामात्यपदे चक्रे तस्करं तं नरेश्वरः । को वेत्ति भूभुजां भावं मध्यं पत्युरिवाम्भसाम् ॥ ६४ ॥ तस्माद्भूषणवस्त्रादि तद्भगिन्यैव भूपतिः । नित्यमानाययदहो धूर्तो धूर्तैरधृष्यत । ॥ ६५ ॥ बहु यावत्समाकृष्टं द्रव्यं तावन्नृपेण सा । अभापि वित्तं त्वद्वन्धोः कियदद्यापि तिष्ठति ॥ ६६ ॥ वित्तमेतावदेवासीदस्य दस्योः स्वसाऽपि हि । एवं न्यवेदयद्राज्ञो गोप्यं प्रियतमे न हि ॥ ६७ ॥ विडम्बनाभिर्वीभिर्मण्डिकं चण्डशासनः । निजग्राह ततो ( १ ) ' दोषाकरः' इति पाठः संभवति । ( २ ) वंशलतोपेतम् ।
For Personal & Private Use Only
208
1.0.108...
द्वितीयः प्रकाशः ।
॥ ११६ ॥
Page #251
--------------------------------------------------------------------------
________________
-*O
k--*
+
+-+
राजा पापानां कुशलं कियत् ॥ ६॥
चौर्यात् श्वशुर्यमपि विक्रमराजराजः, आनीय मण्डिकमखण्डनयो जघान | स्तैन्यं न तेन विदधीत सुधीः कथञ्चिदत्रापि जन्मनि विरुद्धफलानुबन्धि ।। २६६ ॥
॥ इति मूलदेवमण्डिकयोः कथानकम् ॥ आसीद्राजगृहे सम्पन्जितामरपुरे पुरे । पादाक्रान्तनृपश्रेणिः श्रेणिको नाम पार्थिवः ॥ १॥ राज्ञस्तस्य च | तनयो नयविक्रमभाजनम् । नाम्नाऽभयकुमारोभूत् प्रद्युम्नः श्रीपतेरिव ।। २ ॥ इतश्च तस्मिन्नगरे वैभारगिरिकन्दरे । चौरो लोहखुराख्योऽभूद्रौद्रो रस इवाङ्गवान् ॥३॥ स तु राजगृहे नित्यं पौराणामुत्सवादिषु । लब्ध्वा छिद्राणि विदधे पिशाचवदुपद्रवम् ॥ ४ ॥ आददानस्ततो द्रव्यं भुञ्जानश्च परस्त्रियः । भाण्डागारं निशान्तं वा निजं मेने
स तत्पुरम् ॥ ५ ॥ चौर्यमेवाभवत्तस्य प्रीत्यै वृत्तिर्न चापरा । अपास्य व्यं ऋव्यादा भक्ष्यैस्तृप्यन्ति नापरैः ॥६॥ H तस्यानुरूपो रूपेण चेष्टया च सुतोऽभवत् । भार्यायां रोहिणीनाम्न्यां रौहिणेयोऽभिधानतः ॥७॥ स्वमृत्युसमये * प्राप्ते पित्राऽऽहूयेत्यभापि सः। यद्यवश्यं करोषि त्वमुपदेशं ददामि तत् ॥ ८॥ अवश्यमेव कर्त्तव्यमादिष्टं भवतां a मया । कः पितुः पातयेदाज्ञां पृथिव्यामित्युवाच सः॥१॥ प्रहृष्टो वचसा तेन चौरो लोहखुरस्ततः । पाणिना
संस्पृशन् पुत्रमभाषिष्टेति निष्ठुरम् ॥ १०॥ योऽसौ समवसरणे स्थितः सुरविनिर्मिते । विधत्ते देशनां वीरो मा औषीस्तस्य भाषितम् ॥ ११॥ अन्यत्तु खेच्छया वत्स कुर्यास्त्वमनियन्त्रितः । उपदिश्यति पञ्चत्वं प्राप लोहखुरस्ततः ॥ १२ ।। मृतकार्य पितुः कृत्वा रौहिणेयस्ततोऽनिशम् । चकार चौरिकां लोहखुरोऽपर इवोद्गतः ॥ १३ ॥
क+-+-
in Education international
For Personal & Private Use Only
Page #252
--------------------------------------------------------------------------
________________
खम्
'॥। ११७॥
Jain Education Intern
पालयन् पितुरादेशं जीवितत्र्यमिवात्मनः । स्वदासेरमिवामुष्णात् स राजगृहपत्तनम् || १४ || तदा च नगरग्रामाकरेषु विहरन् क्रमात् । चतुर्दशमहासाधुसहस्रपरिवारितः ।। १५ ।। सुरैः संचार्यमाणेषु स्वर्णाम्भोजेषु चारुषु । न्यस्यन् पदानि तत्रागाद्वीरवरमतीर्थकृत् ॥ १६ ॥ व्यन्तरैरसुरैज्योतिषिकैर्वैमानिकैरपि । सुरैः समवसरणं चक्रे जिनपतेस्ततः || १७ || आयोजनविसर्पिण्या सर्वभाषानुयातया । भारत्या भगवान् वीरः प्रारेभे धर्मदेशनाम् ॥ १८ ॥ तदानीं रौहिणेयोऽपि गच्छन् राजगृहं प्रति । मार्गान्तराले समवसरणाभ्यर्णमाययौ ।। १६ ।। एवं स चिन्तयामास पथाऽनेन व्रजामि चेत् । शृणोमि वीरवचनं तदाज्ञा भज्यते पितुः ।। २० ।। न चान्यो विद्यते पन्था भवत्वेवं विमृश्य सः । कर्णौ पिधाय पाणिभ्यां द्रुतं राजगृहं ययौ ॥ २१ ॥ एवमन्वहमप्यस्य यातायातकृतोऽन्यदा । उपसमवसरणं पादेऽभज्यत कण्टकः ।। २२ ।। औत्सुक्यगमनाद्गाढमग्नं पादे स कण्टकम् | अनुध्धृत्य समुद्धर्त्तुं न शशाक क्रमात् क्रमम् || २३ || नास्त्युपायोऽपरः कोऽपीत्याकृष्य श्रवणात्करम् । कर्षन् कण्टकम - श्रीदिति विश्वगुरोर्गिरम् ॥ २४ ॥ महीतलास्पर्शिपादा निर्निमेषविलोचनाः । अम्लानमान्या निःस्वेदा नीरजोऽङ्गाः सुरा इति || २५ || बहुश्रुतमिदं धिग् धिगित्याशुध्धृतकण्टकः । पिधाय पाणिना कर्णं तथैवापस - सारसः || २६ ॥ अथान्वहं मुष्यमाणे पत्तने तेन दस्युना । उपेत्य श्रेणिकं श्रेष्ठिश्रेष्ठा व्यज्ञपयन्निति ॥ २७ ॥ त्वयि शासति देवान्यन्न भयं द्रविणं तु नः । आकृष्य गृह्यते चौरैरदृष्टेटकैरिव ॥ २८ ॥ बन्धूनामिव तेषां तु गृहीतः पीडया ततः । सकोपाटोपमित्यूचे नृपतिर्दण्डपाशिकम् ॥ २६ ॥ किं चौरीभूय दायादीभूय वा मम (१) वैमानिकैज्योतिषि कैर्व्यन्तरैरसुरैरपि इति वा पाठः ।
For Personal & Private Use Only
मारुतर
द्वितीय:
प्रकाश: ।
॥११७॥
Page #253
--------------------------------------------------------------------------
________________
वेतनम् । गृहामि नौरंगृह्यन्ते यदेते त्वदुपेक्षितः ॥ ३० ॥ सौप्यूचे देव को ज्येष चौरः पौगन विलुण्टति । रौहिणेयाहयो धन दृष्टोऽपि न हि शक्यने ।। ३१ । विद्युदुत्क्षिप्तकरणे नोनप्लुत्यायं प्लवङ्गवत् । गेहाद्नेहं ततो वप्रमुल्लयति हेलया ॥ ३२॥ मार्गेण यामस्तन्मार्ग यावत्तावन्स नेच्यते । त्यक्तो धेकक्रमेणापि शतेन त्यज्यते कमैः ॥३३॥ न तं हन्तुं न वा धर्तुमहं शक्नोमि तस्करम् । गृह्णातु तदिमां देवो दाण्डपाशिकतां निजाम् ||३४|| नृपेणोल्लामिकभ्रमंज्ञया भाषितम्ततः । कुमारोऽभयकुमारस्तमूचे दाण्डपाशिकम् ॥३५॥ चतुरङ्ग चमं सजीकृत्य मुञ्च बहिष्पुरान् । यदान्तः प्रविशेनौर: पत्तनं वेष्टयेस्तदा ।।३६ ।। अन्तश्च वामितो विद्युदतक्षिप्तकरणेन सः । पतिष्यति बहिः सैन्ये वागुगयां कुरङ्गवत् ।। ३७ ।। प्रतिभूभिरिवानीतो निजादैस्ततश्च सः । ग्रहीतव्यो महान् दस्युरप्रमत्तैः पदातिभिः ॥३८॥ तथेत्यादेशमादाय निर्ययौ दाण्डपाशिकः । तथैव च चमं सजां प्रच्छन्नं निर्ममे सुधीः ॥३६।। तद्दिने रौहिणेयोऽपि नामान्तरसमागमात् । अजानानः पुरी रुद्धां वारी गज इवाविशत् ॥ ४० ॥ तैरुपायैस्ततो धृत्वा बध्ध्वा च स मलिम्लुचः । आनीय नृपतेदोंण्डपाशिकेन समर्पितः ॥ ४२ ॥ यथा न्याय्यं सतां त्राणमसतां निग्रहस्तथा । निगृह्यतामसौ तस्मादित्यादिक्षन्महीपतिः ॥ ४२ ॥ अलोत्रः प्राप्त इत्येष न हि निग्रहमहति । विचार्य निग्रहीतव्य इत्युवाचाभयस्ततः ।। ४३ ॥ अथ पप्रच्छ तं राजा कत्यः कीदृशजीविकः । कुतो हेतोरिहा
यातो रौहिणेयः स चासि किम् ।। ४४ ।। स्वनामशङ्कितः सोऽपि प्रत्युवाचेति भूपतिम् । शालिग्रामे दुर्गचण्डाHभिधानोऽहं कुटुम्बिकः ॥ ४५ ॥ प्रयोजनवशेनेहायातः संजातकौतुकात् । एकदेवकुले रात्रि महतीमस्मि च
स्थितः ॥४६॥ स्वधाम गच्छन्नारक्षराक्षिप्तो राक्षसैरिव । अलवयमहं वनं प्राणभीमेहती हि भीः ॥४७॥ मध्यारक्ष
का
in Education International
For Personal & Private Use Only
Page #254
--------------------------------------------------------------------------
________________
योगशाखम्
॥११॥
4-FADA
विनिर्यातो बाह्यारक्षगणेष्वहम् । कैवर्तहस्तविसस्तो जाले मत्स्य इवापतम् ॥४८॥ ततो निरपराधोऽपि बध्ध्वा चोर द्वितीयः इवाधुना । अहमेभिरिहानीतो नीतिसार विचारय । ४६॥ ततस्तं भूपतिर्गुप्तौ प्रेषयामास तत्क्षणात् । तत्प्रवृत्ति- प्रकाशः। ज्ञानहेतोस्तत्र ग्रामे च पूरुषम् ।। ५ ।। सोऽग्रेऽपि ग्राहितो ग्रामः सङ्केतं तेन दस्युना । चौराणामपि केषाश्चिच्चित्रमायतिचिन्तनम् ॥ ५१॥ तत्स्वरूपं राजपुंसा ग्रामः पृष्टोऽब्रवीदिदम् । दुर्गचण्डोत्र वास्तव्यः परं ग्रामान्तरं गतः ॥५२॥ तत्रार्थे तेन विज्ञप्ते दध्यौ श्रेणिकमूरिदम् । अहो सुकृतदम्भस्य ब्रह्माऽप्यन्तं न गच्छति ॥ ५३ ।। अभयोऽसजयदथ प्रासादं सप्तभूमिकम् । महार्यरत्नखचितं विमानमिव नाकिनाम् ॥ ५४ ॥ श्रियाऽप्सरायमाणाभी रमणीभिरलङ्कृतम् । दिवोऽमरावतीखण्डमिव भ्रष्टमतर्कि सः ॥५५॥ गन्धर्ववर्गप्रारब्धसङ्गी
तकमहोत्सवः। सोऽधादकस्मादुद्भूतगन्धर्वनगरश्रियम् ॥५६॥ ततोऽभयो मद्यपानमूढं निर्माय तस्करम् । परिधाप्य - | देवदूप्ये अधितल्पमशाययत् ॥५७।। मदे परिणते यावदुदस्थात्तावदैवत । सोऽकस्माद्विस्मयकरीमपूर्वी दिव्यसंपदम्
॥५८॥ अत्रान्तरेऽभयादिष्टैनरनारीगणैस्ततः । उदचारि जय जय नन्देत्यादिकमङ्गलम् ॥५६।। अस्मिन्महाविमाने त्वमुत्पन्नस्त्रिदशोऽधुना। अस्माकं स्वामिभूतोऽसि त्वदीयाः किङ्करा वयम् ॥ ६ ॥ अप्सरोभिः सहैताभी रमस्व स्वैरमिन्द्रवत् । इत्यादि चतुरं चाटुगर्भमचे च तैरसौ ॥६१॥ जातः सुरः किमस्मीति दध्यौ यावत्स तस्करः । संगीतकार्थ तावत्तैः प्रदत्तः समहस्तकः ।। ६२ ॥ उपेत्य पुंसा केनापि स्वर्णदण्डभृता ततः । सहसा भोः किमारब्धमेतदेवमभाष्यत ॥ ६३ ॥ ततः प्रतिवभाषे तैः प्रतिहार निजप्रभोः । प्रदर्शयितुमारब्धं स्वकं विज्ञानकौशलम् । ॥६४॥ सोऽप्युवाच स्वनाथस्य दर्श्यतां निजकौशलम् । देवलोकसमाचारं कार्यतां किं वसाविति ॥६५॥ तैरुक्तं ॥११८॥
मुदे परिणश्रयम् ॥५६॥
सत्पन्नत्रिदोऽभयादिना
माकमङ्गलम् ॥EMA दिव्यसंपदम ।
For Personal & Private Use Only
Page #255
--------------------------------------------------------------------------
________________
कीडगाचार इति शुमार पूरुषः : साजेपमित्यमापिष्ट किमेतदपि विस्मृतम् ।। ६६ । इहात्पद्यते देवः सवे मुकृतदुष्कृते याव्यानि प्राक्तने स्वर्गभोगाननुभवेत्ततः ॥६७!! विस्मृतं स्वामिलाभेन सर्वमेतन्प्रसीद नः।। देवलोकस्थिति देवः कार्यतामिति तेजवन !! म रोहिणेयमित्युचे निहन्त शुभाशुभे । प्राक्तने शंस नः स्वर्गमोगान् भुन्य नतः परम् ।। ६९।। ततः सोचिन्नयद्दप्यु किमेतत् सत्यमीदृशम् । मां ज्ञातुमभयेनैप प्रपञ्चो रचितोऽयवा ।। ७०॥जयं कथमेतदिति ध्यायता तेन संम्मृतम् । कण्टकोद्धरणकालाकर्णितं भगवद्वचः ।। ७१ ।। * देवस्वरूपं श्रीबीराच्छ्रतं चेत् संवदिष्यति । तत्सत्यं कथयिष्यामि करिष्याम्यन्यथोत्तरम् ।। ७२ ।। इति वुझ्या स तानीक्षाञ्चक्रे क्षितितजम्पृशः प्रस्वेदमलिनान् म्लानलान्यानिमिपदीक्षणान् ॥ ७३ ।। तत्सर्व कपटं ज्ञात्वाचिन्तयत् दस्युरुत्तरम् । तेनोचे कथ्यतां देव लोकसर्वोऽयमुत्सुक ।। ७४ ।। रौहिणे यस्ततोऽवादीन्मया पूर्वत्र जन्मनि । अदीयन नुसत्रेभ्यो दानं चैत्यानि चक्रिरे । ७५ ॥ प्रत्यष्ठाप्यन्त बिम्बानि पूजितान्यष्टधार्चया। विहितास्तीर्थयात्राश्च गुरवः पर्युपासिताः ॥ ७ ॥ इत्यादि सदनुष्ठानं मया कृतमिति ब्रुवन् । ऊचे दण्डभृता
शंस दुश्चरित्रमपि स्वकम् ।। ७७ ।। रोहिणेयोऽप्युवाचेदं साधुसंसर्गशालिना। कदाचिदप्याचरितं किञ्चिन्नाII शोभनं मया ।। ७८॥ व्याजहार प्रतीहारो जन्म नैकस्वभावतः । याति तत्कथ्यतां चौर्यपारदारिकतादिकम्
॥ ७९ ॥ रौहिणेयोऽभ्यवत्त किमेवंविधचेष्टितः । स्वर्लोकं प्राप्नुयादन्धः किमारोहति पर्वतम् ॥८० ॥ गत्वा ततस्तैस्तत्सर्वमभयाय निवेदितम् । अभयेन च विज्ञप्तं श्रेणिकस महीपतेः ।। ८१॥ एवंविधैरुपायैर्यश्चौरो ज्ञातुं न शक्यते । स चौरोऽपि विमोक्तव्यः शक्या नीतिन लचितुम् ।। ८२॥ अभयः पार्थिवादेशाद्रोहिणेयमथामुचत् ।
in Education International
For Personal & Private Use Only
Page #256
--------------------------------------------------------------------------
________________
द्वितीय
प्रकाशः
॥१६॥
वश्यन्ते वञ्चनादतेदे दा अपि कदाचन ।। ८३ ततः सोचिन्तयनोगे धिमादेशं पितुर्मम । वञ्चितोजस्मि चिरं येन भगवद्वचनामृतात् ।। ८४॥ नागमिष्यत् प्रभुवचो यदि मे कर्णकोटरम् । तदा विविधमारणागमिष्यं यमगाचरम ८५ ! अनिच्छयापि हि तदा गृहीनं भगवद्वचः । मम जीवातवे जज्ञे भैपच्यमिव रोगिणः ।। ८६ ॥ त्यक्त्वाईद्वचनं हा धिक् चौरवाईचे रतिर्मया। अाम्राज्यपास्य निम्बेषु काकेनेव चिरं कृता ।।८७ उपदेशैकदेशोऽपि यदीयः फलतीदृशम् । तस्योपदेशः सामन्यात् मेवितः किं करिष्यति ।। ८८ ।। एवं विमृश्य मनसा ययौ भगवतोऽन्तिके पादाम्बुजे च नत्वैवं रौहिणेयो व्यजिज्ञपत् ।। ८६ ॥ भवाब्धौ प्राणिनां घोरविपन्नकालाकुले । महायोतायते ते गीरायोजनविसर्पिणी ॥२०॥ निषिद्धस्त्वद्वचः श्रोतुमनाप्तेनाप्तमानिना । इयत्कालमहं पित्रा वञ्चितस्तजगद्गुरो ।। ६१॥ त्रैलोक्यनाथ ते धन्याः श्रद्दधानाः पिबन्ति ये । भवचनपीयूषं कर्णाञ्जलिपुटैः सदा ।।१२। अहं तु पापोऽशुश्रूषुर्भगवन् भवतो वनः । पिधाय कणों हा कष्टमिदं स्थानमलङ्घयम् ।। ९३ ।। एकदानिच्छताऽप्येकं श्रुतं युष्मद्वचो मया । तेन मन्त्राक्षरेणेव रक्षितो राजराक्षसात् ।।१४। यथाऽहं मरणावातस्तथा त्रायस्व नाथ माम् । संसारसागरावर्ने निमजन्तं जगत्पते ॥६५॥ ततस्तत्रुपचा स्वामी निर्वाणपददायिनीम । विशुद्धां विदधे साधु साधुधर्मस्य देशनाम् ।।१६।। ततः प्रबुद्धः प्रणमन् रौहिणेयोनवीदिदम। यतिधर्मस्य योग्योऽस्मि न वेत्यादिश मां प्रभो ॥ १७ ॥ योग्योऽसीति स्वामिनोक्ते, ग्रहीष्यामि विभो व्रतम् । परं किञ्चिद्वदिष्यामि श्रेणिकेनेत्युवाच सः ।। ६८। निर्विकल्पं निर्विशकं स्ववक्तव्यमुदीरय । इत्युक्तः श्रेणिकनृपेणोचे लोहखुरात्मजः || 88 1 इह देव भवद्भिर्यः श्रुतोऽहं लोकवार्नया । स एप रौहिणेयोऽस्मि भवत्पत्तन
॥११॥
in Education International
For Personal & Private Use Only
Page #257
--------------------------------------------------------------------------
________________
मोपकः ।। १० ।। भगवद्वचसकेन दुर्लक्या लङ्घिता मया । प्रज्ञाऽभयकुमारस्य तरण्डेनेव निम्नगा ॥१॥ अशेपमेतन्मुपितं पत्तनं भवतो मया । नान्वेषणीयः कोऽप्यन्यस्तस्करो राजभास्कर ॥२॥ कमपि प्रपय यथा तल्लोप्नं दर्शयाम्यहम् । करिष्ये सफलं जन्म ततः प्रवज्यया निजम् ।। ३ ।। अभयोऽथ समुत्थाय श्रेणिकादेशतः स्वयम् । कौतुकात्पौरलोकश्च सहागात्तेन दस्युना ।। ४ ।। ततो गिरिणदीकुञ्जश्मशानादिषु तद्धनम् । स्थगित दर्शयामास सोऽथ श्रेणिकसूनवे ॥५॥ अभयोऽपि हि यद्यस्य तत्तस्य धनमार्पयत् । नीतिज्ञानामलोभानां मन्त्रिणां नापरा स्थितिः ॥६॥ परमार्थ कथयित्वा प्रबोध्य निजमानुपान् । श्रद्धालुर्भगवत्पार्श्वे रौहिणेयः समाययौ ॥ ७ ॥ ततः श्रेणिकराजेन कृतनिष्क्रमणोत्सवः । स जग्राह परिव्रज्यां पार्वे श्रीवीरपादयोः ।।८।। ततश्चतुर्था-10 दारभ्य षण्मासान् यावदुग्ज्वलम् विनिममे तपःकमे कमेनिर्मूलनाय सः ॥६॥ तपोभिः कृशितः कृत्वा भावसंलेखनां च सः। श्रीवीरमापृच्छय गिरौ पादपोपगमं व्यधात् ॥१०॥ शुभध्यानः स्मरन् पञ्चपरमेष्ठिनमस्कियाम् । त्यत्वा देहं जगाम द्यां रौहिणेयो महामुनिः ॥११॥ रौहिणेय इव चौर्यनिवृत्तः, स्वर्गलोकमचिरादुपयाति । तत्सुधीन विदधीत कथञ्चिच्चौरिकामुभयलोकविरुद्धाम् ॥ ११२ ॥ इति रौहिणेयकथानकम् ।। ७२ ।।
स्तेयस्यातिपरिहरणीयतामाहदूरे परस्य सर्वस्वमपहर्तुमुपक्रमः । उपाददीत नादत्तं तृणमात्रमपि कचित् ॥ ७३ ॥
रे आस्तां तावत्परस्य सर्वस्वं निःशेषधनम्, अपहर्तुमुपक्रमः प्रारम्भः, अदत्तं स्वामिना तृणमात्रमपि नोपाददीत न गृहीयात् न तदर्थ यत्नं कुर्यादिति यावत् ।। ७३ ॥
in Education International
For Personal & Private Use Only
Page #258
--------------------------------------------------------------------------
________________
योगशाखम्
॥१२॥
स्तेयनिवृत्तानां फलं श्लोकद्वयेनाह
द्वितीयः परार्थग्रहणे येषां नियमः शुद्धचेतसाम् । अभ्यायान्ति श्रियस्तेषां स्वयमेव स्वयम्वराः ॥७॥ प्रकाशः।
परार्थग्रहणे परधनहरणे येषां नियमो निवृत्तिः शुद्धचेतसां निर्मलचित्तानां न तु बकवृत्तीनां कश्मलमनसा तेषामभ्यायान्ति अभिमुखमायान्ति श्रियः सम्पदः, स्वयमेव न तु परप्रेरणया व्यवसायेन वा । स्वयंवरा इत्युपमानगर्भम् । स्वयम्बरा इव कन्याः ॥ ७४ ॥ तथाअनर्था दूरतो यान्ति साधुवादःप्रवर्त्तते। स्वर्गसौख्यानि ढौकन्ते स्फुटमस्तेयचारिणाम् ॥७५॥ ____ अनर्था विपदः, दूरतो यान्त्यासन्ना अपि न भवन्ति; साधुरयमिति प्रवादः साधुवादः श्लाघा, प्रवर्त्तते प्रसरति, एतावदैहिकं फलम्। स्वर्गसौख्यानीति तु पारलौकिकम्, अस्तेयव्रतेनावश्यं चरन्तीत्यस्तेयचारिणस्तेषाम् । अत्रान्तरश्लोकाः
वरं वह्निशिखा पीता सर्पास्य चुम्बितं वरम् । वरं हालाहलं लीढं परस्वहरणं न तु ॥१॥ प्रायः परस्वलुब्धस्य निःशूका बुद्धिरेधते । हन्तुं भ्रातृन् पितृन् दारान् सुहृदस्तनयान गुरुन् ॥ २॥ परस्वं तस्करो गृहन् ||| वधबन्धादि नेक्षते । पयःपायीव लगुडं बिडाल उपरिस्थितम् ॥३॥ व्याधधीवरमार्जारादिभ्यश्चौरोऽतिरिच्यते । निगृह्यते नृपतिभिर्यदसौ नेतरे पुनः ॥ ४॥ स्वर्णादिकेऽप्यन्यधने पुरःस्थे, सदा मनीषा दृषदीव येषाम् । सन्तोषपीयूपरसेन तृप्तास्ते द्यां लभन्ते गृहमेधिनोऽपि ॥ ५ ॥ ७५ ॥
॥१२॥
in Education International
For Personal & Private Use Only
Page #259
--------------------------------------------------------------------------
________________
इदानीममित्तिमुद गृहस्थोचित ब्रह्मचर्यव्रतमाह पण्डत्वमिन्द्रियच्छेदं वीच्या
सुधी तू स्वदारसन्तुष्टोऽन्यदारान् या विवर्जयेत् ॥७६॥ षण्त्वमामुष्मिकं परदाररताना फलं, इन्द्रियच्छेदव राजादिकृत ऐहिकं श्रब्रह्मणः प्रतिषिद्धस्य मैथुनस्य, are शास्त्रात्प्रत्या ज्ञात्वा स्वदारेषु धर्मपत्न्यां सन्तुष्टो भवेदित्येकं गृहस्थमचर्यम्, अन्यदारान् परसम्बन्धिनीः स्त्रियो विवर्जयेत् । स्वस्त्रीसाधारणस्त्रीसेवीत्यर्थः इति द्वितीयम् ॥ ७६ ॥
गृहस्थस्य प्रतिपन्नं व्रतमनुपालयतो न तादृशः पापसम्बन्धोऽस्ति तथापि यतिधर्मानुरको यतिधर्मप्राप्तेः पूर्व गार्हस्थ्येऽपि कामभोगविरक्तः सन् श्रावकधर्म परिपालयति इति तं वैराग्यकाष्ठामुपनेतुं सामान्येनात्रह्मदोषानाहरम्यमापातमात्रे यत् परिणामेऽतिदारुणम् । किंपाकफलसंकाशं तत्कः सेवेत मैथुनम् ॥७७॥
आपातमात्रे प्रथमारम्भमात्रे, रम्यं मनोहरं, परिणामे प्रारम्भादुत्तरोत्तरावस्थायां, दारुणं रौद्रं, किंपाकफलसंकाशं किपाको वृक्षविशेषस्तत्फलसदृशं, किंपाकफलं ह्यापाते रम्यं परिणामे दारुणं मारणात्मकत्वात् यदाहपड्ढा हेलहलया दीसन्ता दिन्ति हिययपरिश्रसं । किंपागफला पुत्तय यासायन्तो वियाणिहिसि ॥ १ ॥ एवंविधं यन्मैथुनं मिथुन कर्म तत्कः सेवेतेति सम्बन्धः । यदाह
( १ ) वर्णाद्याः कौतुका दृश्यमाना ददति हृदयपरितोषम् । किंपाकफलानि पुत्रक आस्वादमानो विज्ञास्यसि ॥ १ ॥ (२) "तुमलग्मि को उए हलहलं” इति श्रीहेमचन्द्राचार्याः देशीनाममालायां अष्टमवर्गे अनेकार्थप्रकरणे ७४ छोके व्याचख्युः ।
२.
For Personal & Private Use Only
Page #260
--------------------------------------------------------------------------
________________
सानम्
+
१२१॥
+
यद्यपि निपेव्यमाणा मनसः परितुष्टिकारका विषया। किंपाकालादनपद भवन्ति पचादतिदुरन्ताः ॥२७७: 11 द्वितीय मैथुनस्व परिणामदारुणत्वमाद
प्रकाशा कम्पः स्वेदःश्रमो मूभ्रिमिग्लानिर्वनन्नयः। राजयक्ष्मादिरोगाश्च भवेयुमैथुनोत्थिताः ॥७॥ ___कम्पो वेपथुः, स्वेदो धर्मः, प्रमः नमः मूर्छा मोहः, भ्रमित्रमः, ग्लानिरङ्गपादः, बलत्रयः शक्तिनाशः, राजयक्ष्मा क्षयरोगः, स आदिर्येषां कासधामादीनां रोगाणां ते तथा मैथुनोत्थिना मैथुनप्रभवाः ।! ७E !!
अहिंसापरिवारत्वाच्छेपवतानां मैथुने अहिंसाया एवाभावमाह --- योनियन्त्रसमुत्पन्नाः सुसूक्ष्मा जन्तुराशयः। पीड्यमाना विस्यन्ते यत्र तन्मैथुनं त्यजेत् ॥७९॥ __ योनिः प्रसवमार्गः सैव यन्त्राकारत्वाद्यन्न, तत्र समुत्पन्नाः संमूर्छननोत्पन्नाः, ते च न चक्षुह्या इत्याहसुसूक्ष्माः, जन्तुराशयो जन्तुसमूहाः, पीड्यमाना मृद्यमानाः पुंध्वजेनेति शेषः, रूतनालिकायां तप्तायःकणकप्रवेशे रूतानीव, विपद्यन्ते विनश्यन्ति, यत्र मैथुने तन्मैथुनं त्यजेत् ।। ७६ ।। योनौ जन्तुसद्भावं संवादेन द्रढयति----
जन्तुसद्भावं वात्स्यायनोऽप्याह । वात्स्यायनः कामशाखकारः । अनेन च वात्स्यायनसंवादाधीनमस्य प्रामाण्यमिति नोच्यते, न हि जैन शासनमन्यसंवादाधीनप्रामाण्यं किन्तु येऽपि कामप्रधानास्तैरपि जन्तुसद्भावो नापन्हुत इत्युच्यते ।
||१२१॥
in Education International
For Personal & Private Use Only
Page #261
--------------------------------------------------------------------------
________________
Jain Education Internati
*%*७१*+
वात्स्यायन श्लोको यथा
रक्तजाः कृमयः सूक्ष्मा मृदुमध्याधिशक्तयः । जन्मवर्त्मसु कण्डूर्ति जनयन्ति तथाविधाम् ॥८०॥ रक्तजा रक्तोद्भवाः, कृमयो जन्तुविशेषाः, सूक्ष्मा श्रप्रत्यचाः, मृदुमध्याधिशक्तयः मृदुशक्तयो मध्यशक्तयो - घिशक्तयश्च, तथाविधां मृदुमध्याधिमात्रशक्त्यनुरूप. मृदुशक्तयो मृद्रीं, मध्यशक्तयो मध्यां, अधिकशक्तयोऽधिकां कण्डूर्ति कण्डूं जन्मवर्त्मसु योनिषु जनयन्ति ॥ ८० ॥
कामज्वरचिकित्सार्थमौषधमिव मैथुनसेवनमिति यो मन्यते तं प्रत्याह
स्त्रीसम्भोगेन यः कामज्वरं प्रतिचिकीर्षति । स हुताशं घृताहुत्या विध्यापयितुमिच्छति ॥ ८१ ॥
प्रतिचिकीर्षति प्रतिकर्तुमिच्छति, विध्यापयितुं शमयितुम्, अयमर्थो - नायं कामज्वरस्य प्रतीकारो ऽनुगुखः, अपि तु वृद्धिहेतुः, न हि हुताशे घृताहुतिप्रचेपस्तच्छान्त्यै भवति किन्तु तद्वृद्ध्यै । बाह्या श्रप्याहु:
न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते ॥ १ ॥ किन्तु कामज्वरप्रतीकारा ईषत्करा वैराग्यभावनाप्रतिपचसेवाधर्मशास्त्र श्रवणादयः, तदेतेषु कामज्वरप्रशान्त्युपायेषु सत्सु किं भवभ्रमणहेतुना मैथुनसेवनेन ॥ ८१ ॥
एतदेवाह -
वरं ज्वलदयस्तम्भपरिरम्भो विधीयते । न पुनर्नरकद्वाररामाजघनसेवनम् ॥ ८२ ॥
For Personal & Private Use Only
30-03-2014-03-10-1
2083
Page #262
--------------------------------------------------------------------------
________________
योगशास्त्रम् |
॥१२२॥
अयमर्थः-भवतु कामज्वरोपशमहेतुमैथुनं परं नरकहेतुत्वान प्रशस्यम् ॥ २॥
द्वितीयः अपि च स्त्रीसम्बन्धनिबन्धनं निधुवनं, स्त्रियश्च स्मृता अपि सकलगुणगरिमविघातहेतव इत्याह
प्रकाशः। सतामपि हि वामभूर्ददाना हृदये पदम् । अभिरामं गुणग्रामं निर्वासयति निश्चितम् ॥८३॥ |
सतामपि हि महात्मनामपि वामधूर्विरचितलोचनविकारा, हृदये पदं ददाना स्मृतिमात्रेणापि सन्निधापिता, अभिरामं रमणीय, गुणग्रामं गुणसमूह, निर्वासयति उद्वासयति । श्लेषच्छाया चेयम् । यथा कुनियोगी कश्चिद्देशमध्ये पदं ददान एव रक्षितव्यान् ग्रामान् लोभमोहादिनोद्वासयति, एवं हृदये लब्धपदा कामिन्यपि पालनीयं गुणग्राममुच्छेदयति । अथवा सतामपि गुणग्राम सतामेव हृदये पादं दत्त्वा वामभूनिर्वासयति ॥ ८३ ॥
हृदयसन्निधापनमपि स्त्रीणां बहुदोषत्वाद्गुणहानिहेतुः किं पुना रमणमित्येतदेवाहवञ्चकत्वं नृशंसत्वं चञ्चलत्वं कुशीलता। इति नैसर्गिका दोषा यासां तासु रमेत कः॥४॥
वञ्चकत्वं मायाशीलता, नृशंसत्वं क्ररकर्मकारिता, चञ्चलत्वं कुत्राप्यवस्थितचित्तत्वाभावः, कुशीलता दुःस्वभावता, उपस्थसंयमाभावो वा, इत्येते नैसर्गिकाः स्वाभाविका दोषा न त्वौपाधिकाः, तासु को रमेत ॥८४॥
न चेयन्त एव दोषा किन्त्वपरिसंख्याता इत्याहप्राप्तुं पारमपारस्य पारावारस्य पार्यते । स्त्रीणां प्रकृतिवक्राणां दुश्चरित्रस्य नो पुनः ॥८५॥
पारावारस्य समुद्रस्य, अपारस्यादृष्टपारस्य, पारं परतीरं, प्राप्तुं पार्यते शक्यते, न पुनः स्त्रीखां प्रकृतिवक्राणां ॐ॥१२२॥
Iain Education Intema
For Personal & Private Use Only
Page #263
--------------------------------------------------------------------------
________________
स्वभावकुटिलचरित्राणां, दुश्चरित्रस्य दुष्टचेष्टितस्य, पारं पर्यन्तः प्राप्तुं पार्यत इति ॥ ८५॥
दुश्चरित्रमेवाहनितम्बिन्यः पतिं पुत्रं पितरंभ्रातरं क्षणात् । श्रारोपयन्त्यकार्येऽपि दुर्वृत्ताः प्राणसंशये ॥८६॥
नितम्विन्य इति योवनोन्माददर्शनार्थम् । अत एव स्त्रीति नोक्तम् । दुवृत्ता दुष्टशीलाः, अकार्येऽपि प्रयोजनमन्तरेणापि, अथवा कार्येऽल्पे प्रयोजने नञोऽल्पार्थत्वात्, प्राणसंशये प्राणसन्देहे उपलक्षणं चैतत् । प्राणनाशेऽपि आरोपयन्ति आरोहयन्ति । कमित्याह-पतिं भर्तारम् । सूर्यकान्तेव प्रदेशिराजम् । यदाह
भजा वि इन्दियविगारदोसनडिया करेइ पइपावम् । जह मो पएसिराया सूरियकताइ तह वहि ओ॥१॥ पुत्रं तनयम् । चुलनीव ब्रह्मदत्तम् । यदाहमाया नियगमइविगप्पियम्मि अत्थे अपूरमाणम्मि । पुत्तस्म कुगाइ वसणं चुलणी जह बंभदत्तस्स ॥२॥ पितरं जनकं, भ्रातरं सोदरम् । जीवयशा इव जरासन्धं, कालादींश्च भ्रातृन् ।। ८६ ।।
अत एवभवस्य बीजं नरकद्वारमार्गस्थ दीपिका। शुचां कन्दः
नां खानिरङ्गना ॥८॥ (१) भार्याऽपि इन्द्रियविकारदोषनटिता करोति पतिपापम् । यथा स प्रदेशिराजः सूर्यकान्तया तथा वधितः ॥१॥ (२) माता निजकमतिविकल्पिते अर्थे अपूर्यमाणे । पुत्रस्य करोति व्यसनं चुलनी यथा ब्रह्मदत्तस्य ॥२॥
Education Interations
For Personal & Private Use Only
Page #264
--------------------------------------------------------------------------
________________
गाम
प्रकामा
।।१२३ ।।
भवन्य ममारस्याङ्करम्यंत्र चीनं तत्कारणत्वात्यसारस्व. नरकद्वारं नरकप्रवेशः, नत्र या माग पन्थाम्नत्र दीषिकेत्र दीपिका ताकाशकत्वात. शुचा शोकानां वल्लीनामिव कन्दस्तत्प्ररोहहेतुत्वात . कलेः कलहस्य तरारिव मृलं पादो वृदिहेतुत्वान्, दुःखानां शारीरमानसानां लवणादानामिव खानिराकरस्तत्समुन्धत्वात दुम्वानां, काउसो ? अङ्गना । एवं तावद्यतिधमानुरक्त गृहम्थं प्रति सामान्येन मथुनदोषाः खीदोपाश्चोक्ताः । ।
सम्प्रति वदारसन्तुष्टान् गृहस्थानधिकृत्य साधारणसीदोषाः श्लोकपश्चकेनोच्यन्त.... मनस्यन्यदचस्यन्यक्रियायामन्यदेव हि। यासां साधारणस्त्रीणां ताः कथं मुग्वहेतवः ।।८८॥
मनसि चित्तेऽन्यत् वचःक्रिययोर्विलक्षणं, वचमि वचनेऽन्यत मनःक्रिययोर्विलक्षणं, क्रियायां चेष्टितऽन्यत वाशनसोविसंवादि. यासां साधारणस्त्रीणां वेश्यानां, ता विसंवादिप्रेमाणः कथं मुम्बम्म विश्वासैकनिबन्धनस्य हेतवः । यदाह
अन्यस्मै दत्तसङ्केता याचतेन्यं स्तुते परम् । अन्यश्चित्ते परः पार्श्वे गणिकानामहो नरः ॥ १॥ ८ ॥
तथामांसम्बिध सुरामिश्रमने कविटचुम्बितम् । को वेश्यावदनं चुम्बेदुच्छिष्टमिव भोजनम् ॥८९॥
मांसेन जलस्थल खचारिजीवजाङ्गलेन मिश्रमामगन्धि, मांसादित्वाद्वेश्यानां, सुरया काष्ठपिष्टादिमय्या मदिरया मिश्रं व्याप्तं. सुरापाणप्रसक्तत्वात् । अनेकविटैर्बहुभिर्विटरित्यर्थः, चुम्बितमास्त्रादितम्, प्रायो विटास
in Education International
For Personal & Private Use Only
Page #265
--------------------------------------------------------------------------
________________
I! क्तत्वात्, एवंविधं वेश्यानां वदनं कथुम्बेन्न कश्चिचेतनशुम्बेदित्यर्थः । उच्छिष्टमिव भोजनमित्युपमानमनेकवि
टचुम्बितवेश्यावदनस्योपमेयस्य । अथवा मांसमिश्रत्वं सुरामिश्रत्वं चोच्छिष्टभोजनेऽपि योज्यम् ॥ ८६ ॥ तथाअपि प्रदत्तसर्वस्वात् कामुकात् क्षीणसम्पदः। वासोऽप्याच्छेत्तुमिच्छन्ति गच्छतः पण्ययोषितः।
प्रदत्तसर्वस्वादपि महाधनावस्थायां, पुण्यचयात्वीणसम्पदः कामुकात्तत एव गच्छतः स्वगृहं प्रति, वासोऽपि परिधानवस्त्रमपि, आच्छेत्तुं बलाद् ग्रहीतुमिच्छन्ति, पण्यं मन्यं तत्प्रधाना योषितो वेश्या, अनेन कृतनत्वं तासामाह । यदाह___उपचरिताऽप्यतिमात्रं प्रकटवधूः चीणसम्पदः पुंसः। पातयति दृशं व्रजतः स्पृहया परिधानमात्रेऽपि॥१॥६०॥ ||
तथान देवान्न गुरून्नापि सुहृदो न च वान्धवान् । असत्सङ्गरतिनित्यं वेश्यावश्यो हि मन्यते॥१॥
वेश्यावश्यः पुमान देवादीन्मन्यते, कृतः असत्सङ्गरतिनित्यं असद्भिविटादिभिः सङ्गो असत्सङ्गस्तत्र रतिर्यस्य । | वेश्यावश्यस्य हि मुलमा एवासत्सङ्गाः ॥ ६१ ॥ तथाकुष्ठिनोऽपि स्मरसमान् पश्यन्ती धनकाङ्क्षया। तन्वन्तीं कृत्रिमस्नेहं निःस्नेहां गणिकां त्यजेत् ९२ | कुष्ठिनः कुष्ठिरोगिणोऽप्यत्यन्तमनुपादेयान्, सरसमान् कन्दर्पतुन्यान् , धनकासया हेतुभूतया पश्यन्ती, महत्या प्रतिपच्या प्रतिपादयन्ती, न च स्नेहमन्तरेण कुष्ठिनोऽपि सकाशाडनावाप्तिरिति । तन्वन्तीं विस्तारयन्ती,
Jain Education Internatio
For Personal & Private Use Only
Page #266
--------------------------------------------------------------------------
________________
योगशास्त्रम्
कृत्रिममपचरितं स्नेहं प्रेम, परमार्थतस्तु निःस्नेहां गणिका वेश्या, त्यजेत् । एवं तावत्स्वदारसन्तुष्टस्य पण्याङ्ग- द्वितीया नागमने दोषाः प्रतिपादिताः॥२॥
प्रकाशा इदानीं परदारगमनदोषानाह-. नासक्त्या सेवनीया हि स्वदारा अप्युपासकैः। श्राकरः सर्वपापानां किं पुनः परयोषितः॥३॥ ___ सर्वविरतिलालसः खलु देशविरतिपरिणाम इति गार्हस्थ्येऽपि वैराग्यातिशयादुपासकैरमतिषिद्धाः स्वदारा । a अप्यासक्त्या गर्द्धन न सेवनीयाः, किं पुनः परयोषितः १ ता अत्यन्तमसेवनीया इत्यर्थः, यत आकरः खानिः
सर्वपापानां मायामृषावादादीनाम् , हिशब्दो यस्मादर्थे, यसात् स्वदारानपि नासक्त्या सेवन्ते उपासकाः, ततः कथं परदारेषु प्रसजेयुरित्यर्थः ॥ १३॥ ___ परस्त्रीणां पापकारित्वमेव दर्शयतिस्वपति या परित्यज्य निस्त्रपोपपतिं भजेत्। तस्यां क्षणिकचित्तायां विश्रम्भः कोऽन्ययोषिति ।९४
तस्यां चणिकचित्तायां चलितचित्तायामन्ययोषिति, को विश्रम्भः को विश्वासः ! न कश्चिदित्यर्थः । विश्र*म्भाधीनं च सुखं तदपि नास्तीत्यर्थः । या किं, या स्वपतिं देवतारूपं ' भर्तृदेवता हि स्त्रियः' इति श्रुतेः, परित्यज्य पाणिगृहीत्यपि त्यक्त्वा, निस्त्रपा लज्जारहिता, त्रपा हि भूषणं स्त्रीणाम् : उपपति पत्यन्तरं, भजेत् ॥९४॥ ITI इदानीं परस्त्रीप्रसक्तोऽनुशिष्यते
॥१२४॥
Jain Education intemandal
For Personal & Private Use Only
Page #267
--------------------------------------------------------------------------
________________
भीरोराकुलचित्तस्य दुःस्थितस्य परस्त्रियाम् । रतिर्न युज्यते कर्तुमुपशूनं यशोरिक ॥ ९५ ॥
परस्त्रियां रतिः प्रीतिः, कर्तुं न युज्यने, भीरोः पतिराजादिभीतस्य, अत एवाकुलचित्तस्य अनेन दृष्टोऽनेन ज्ञातोऽहमिति उपसर्पतीति व्याकुलचित्तस्य, दुःस्थितस्य खण्डदेवकुलादौ शय्यासनादिरहितम्य, कस्येव, पशोरिव वध्यस्य, उपशूनं शूनासमीपे ॥६५॥ तस्मात् प्राणसन्देहजननं परमं वैरकारणम् । लोकद्वयविरुद्धं च परस्त्रीगमनं त्यजेत् ॥ ९६ ।।
परस्त्रियां गमनं सम्भोगस्तत्यजेत , प्राणानां जीवितव्यस्य सन्देहो नाशशङ्का, तं जनयतीति प्राणसन्देहजननं, परस्त्रीषु प्रसक्तस्य हि प्रायण परैः प्राणाः प्रणाश्यन्ते कदाचिन्नेति प्राणसन्देहः, परमं प्रकृष्टं वैरस्य विरोधस्य कारणम् यदाह-" बद्धमूलस्य मूलं हि महद्वरतरोः स्त्रिय" इति । लोकद्वयमिहलोकपरलोकलक्षणं, तस्य विरुद्धं प्राणसन्देहजननत्वाद्वैरकारणत्वाल्लोकद्वयविरुद्धत्वादिति परस्त्रीगमनन्यागे हेतुत्रयं विशेषणद्वारेण ॥१६॥
लोकद्वयविरुद्धं चेति विशेषणमस्फुटं स्फुटयतिसर्वस्वहरण बन्धं शरीरावयवच्छिदाम् । मृतश्च नरकं घोरं लभते पारदारिकः ॥ ९७ ।।
सर्वधनापहार, रज्ज्वादिना बन्ध, शरीरावयवः पुंध्वजादिस्तस्य च्छिदां छदं लभत इतीहलोकविरोधः । मृतश्च नरकं घोरं लभते इति परलोकविरोधः । परदारान् गच्छतीति पारदारिकः ।। ६७ ॥
उपपत्तिपूर्व परस्त्रीगमनप्रतिषेधमाह
in Education International
For Personal & Private Use Only
Page #268
--------------------------------------------------------------------------
________________
द्वितीयः प्रकाशः।
योग
खदाररक्षणे यत्नं विदधानो निरन्तरम् । जानन्नपि जनो दुःखं परदारान् कथं व्रजेत ॥९॥ शास्त्रम् ____ जाननपि अनुभवनपि, दुःखं मनःपीडा, परदारप्रसङ्गे, परदाराः परेषां दाराः परदाराः, अतः स्वदारप्रसक्तेषु
* परेषु दुःखमनुभवत्येव । अत्र हेतुमाह । स्वदाररक्षणे, स्वकलवरचणे यत्नमादरं, भित्तिवरण्डकप्राकारमाहरिका॥ १२५॥
| दिभिर्विदधानः कुर्वन् , निरन्तरं दिवानिशं, स्वदाररक्षणपरिक्लेशशाली जनो जानात्येव स्वस्मिन् दुःखं इत्यात्मानुभवेन परेष्वपि दुःखं पश्यन् कथं परदारान् व्रजेत् ? ॥ १८ ॥ ___आस्तां परस्त्रीषु रमणं रमणेच्छाऽपि महतेऽनायेति आहविक्रमाक्रान्तविश्वोऽपि परस्त्रीपु रिरंसया । कृत्वा कुलक्षयं प्राप नरकं दशकन्धरः ॥ ९९॥
परस्त्रीविषये रमणाभावेऽपि रिरंसामात्रेण हेतुना, दशकन्धरो रावणो, नरकं प्राप इति पारलौकिकं फलम् । ऐहिकमाह-कृत्वा कुलक्षयं, यद्यपि कुलक्षयस्तस्य रामादिभिः कृतो न तेन, तथापि तदीयपरदाररिरंसापूर्वकत्वादिभिस्तत्वतस्तत्कृत उच्यते । ननु पारलौकिकं फलं नरकगमनरूपमास्तां, ऐहलौकिकं तु बलवतां कुतस्त्यं भवेदित्याह । विक्रमाक्रान्तविश्वोऽपि, न हि दशकन्धरादन्यो बलवान्, यो विक्रमेण विश्वमप्याक्रान्तवान् सोऽपि यद्यनर्थमश्नुते तदा परस्य का मात्रेति ॥ 8 ॥
अयं चार्थः सम्प्रदायगम्यः, स चायम् ।अस्ति त्रिकूटशिरसि शिरोमणिरिव चितेः । रक्षोद्वीपे हिरण्याङ्का लङ्केति प्रथिता पुरी ॥ १॥ विद्याधरनृप
॥
१
in Education interna IK
For Personal & Private Use Only
Page #269
--------------------------------------------------------------------------
________________
स्तस्यां पुलस्त्यकुलकौस्तुभः । अजायत महावीर्यो रावणो विश्वरावणः ॥२॥ प्रभूतां भ्रातरौ तस्य निःसीमस्थामशोभिनौ । अपराविव दोःस्तम्भौ कुम्भकर्णविभीषणौ ॥३॥ देवतामिव कुलस्य स्वपूर्वपुरुषार्जिताम् ।
गृहे नवमहारत्नस्रजं सोऽपश्यदन्यदा ॥ ४ ॥ श्रयन्ते द्वादशादित्या नवादित्या इमे पुनः । दृश्यन्ते कथमित्येत| वृद्धान् पप्रच्छ तत्र सः॥५॥ अथाचचतिरे तस्मै त्वत्पूर्वपुरुषैः पुरा । वरलब्धा महासाराऽनयेयं रखमालिका
॥६॥ इमां क्षिपेत यः कण्ठे स्यात्सोऽर्द्धभरतेश्वरः । इत्याम्नायात्तवाम्नाये पूज्यते पूर्वजैरसौ ॥ ७॥ ततस्तां सोऽक्षिपत्कण्ठे तद्रलेषु नवस्वपि । सक्रान्तास्यतया चासौ दशास्य इति पप्रथे ।।८॥ ततो जनैर्जयजयेत्यारावैरभिनन्दितः । सोऽभान्मूर्त इबोत्साहो जगद्विजयहेतवे ॥६॥ तस्यानवद्या विद्यास्ताः प्रज्ञप्तीप्रमुखाः सदा । असाध्यसाधनप्रौढाः पार्श्वे सेना इवावसन् ॥ १०॥ ततो भरतवर्षाई स एकग्रामलीलया । दुःसाधं साधयामास दोःकण्डून त्वपूर्यत ॥ ११ ॥ पासीदितश्च वैताढयगिरौ विद्याधरेश्वरः । इन्द्रनामा पूर्वजन्मानुभूतेन्द्रपदस्थितिः ॥ १२ ॥ विश्वैश्वर्यबलोद्रेकादिन्द्रत्वाभ्यासतोऽपि च । इन्द्रमात्मानमेवायममंस्तेन्द्रं तु नापरम् ॥ १३ ॥ शचीति स स्वमहिषीं स्वमस्त्रं वज्रमित्यपि । पट्टेभमैरावण इत्यश्वमुच्चैःश्रवा इति ॥ १४ ॥ सारथि मातलिरिति चतुरोऽ न्यान्महाभटान् । सोमो यमः पाशधरः कुबेर इति चाभ्यधात् ॥ १५॥ मन्यमानस्तृणायान्यानिन्द्रमन्यः स दोर्मदी । नाजीगणद्रावणमप्यत्यन्तरणदारुणम् ॥ १६ ॥ तस्मै ततः प्रकुपितः कृतान्त इव दारुणः । रावणः श्रावणाम्भोदगर्जगजबलोऽचलत् ॥ १७॥ विद्यावलात्ससैन्योऽपि लङ्घयामास सोऽर्णवम् । विद्याधरास्तुल्ययाना भुव्यम्भसि नभस्यपि ॥ १८॥ स दिशश्छादयन् सैन्यवात्योधृतै रजश्चयैः । वैताढयं प्राप कल्पान्तमहावात इव
सेना इवावसन् ॥ १९॥ यागिरी विद्याधरेश्वरः । इन्दना तु नापरम् ॥ १३ ॥ Mmss
Education Interation
For Personel Private Use Only
Page #270
--------------------------------------------------------------------------
________________
मोग
द्रुतम् ॥ १९॥ श्रुत्वा रावणमायान्तमिन्द्रोऽपि द्रुतमभ्यगात् । पुंसां मैत्र्यां च वैरे च संमुखोत्थानमादिमम् । | द्वितीयः शास्त्रम् ॥२०॥ दुरादपि दशास्येन प्रहितो महितौजसा । अथ दूतोऽभ्युपेत्येन्द्रमित्युवाच ससौष्ठवम् ॥ २१ ॥ ये प्रकाशः। ॥१२६ ॥
। केचिदिह राजानो विद्यादोर्वीर्यदर्पणः । तैरुपेत्योपायनाद्यैः पूजितो दशकन्धरः ॥ २२ ॥ दशकण्ठस्य विस्मृत्या
भवतश्चार्जवादयम् । इयान कालो ययौ तस्मिन् भक्तिकालस्तवाधुना ॥ २३ ॥ भक्तिं दर्शय तत्तस्मिन् शक्तिं वा । दर्शयाधुना । भक्तिशक्तिविहीनश्चेदेवमेव विनश्यसि ॥ २४ ॥ इन्द्रोऽपि निजगादेवं वराकैः पूजितो नृपः । रावणस्तदयं मत्तः पूजां मत्तोऽपि वाञ्छति ॥२५॥ यथा तथा गतः कालो रावणस्य सुखाय सः। कालरूपस्त्वयं | कालस्तस्सेदानीमुपस्थितः ।। २६ ॥ गत्वा स्वस्वामिनो भक्ति शक्तिं वा मयि दर्शय । स भक्तिशक्तिहीनश्चेदेवमेव विनश्यति ॥ २७ ॥ तेनागत्य विज्ञप्ते रावणः क्रोधदारुणः । चचालानन्तसैन्योर्मिः क्षयोद्धान्त इवार्णवः
॥२८॥ तयोर्चलानामन्योऽन्यं संफेटः शस्त्रवर्षिणाम् । संवर्तपुष्करावर्त्तवारिदानामिवाभवत् ॥ २९ ॥ रावणं | रावणिर्नत्वा युद्धायेन्द्रमथाहत । रणक्रीडासु वीरा हि नाग्रं ददति कस्यचित् ॥ ३० ॥ ततश्चैकाङ्गविजयाकाङ्कि
णाविन्द्ररावणी। सैन्यान्यपास्यायुध्येता द्वन्द्वयुद्धेन दुर्द्धरौ ॥ ३१ ॥ मिथः प्रतिहतास्त्रौ तौ रणपारयियासया । युयुधाते नियुद्धेन मदान्धौ सिन्धुराविव ॥ ३२ ॥ रावणिः किमधोऽथेन्द्र ऊर्ध्वमिन्द्रोऽथ रावणिः । नालक्ष्यत तयोयक्तिगाद्विपरिवर्तिनोः ॥ ३३ ॥ विजयश्री क्षणेनेन्द्रे मेघनादे क्षणेन च । यातायात व्यधागीतेवोभयोरपि भीमयोः॥ ३४ ॥ असौ मशक इत्यस्थाद्यावद्गण वज्रभित् । तावत्सौजसा मेघनादस्तं समुपाद्रवत् ।। ३५ ।। पातयित्वा झगित्येव तं वबन्ध दशास्यमः । जिगीषणां जये हेतुः प्रथमो द्याशुकारिता ॥३६ ॥ मेघनादः am१२६॥
Lain Education inte
For Personal & Private Use Only
Page #271
--------------------------------------------------------------------------
________________
K-84
---
सिंहनादैनदियन् रोदसी अपि। पितुः समर्पयामास मुर्तवमिवाय तम् ।। ३७ ।। प्रबलारक्षगुप्तायां तं गुप्तौ रावणोऽक्षिपत् । द्वयं विधते हि वली निहन्त्यपि बहत्यपि ॥ ३८ ॥ सोमो दण्डधरः पाशी कुवेरश्च समेत्य ते। दशास्यमिन्द्रग्रहणात्नुहा करूधिरे खतः ॥ ३२ ॥ जितकाशी दशास्योऽपि भूत्वोत्साहाचतुर्गुणः । योधयामास संग्रामचतुरचतुरोऽपिवान् ॥१. | सोऽभासीदण्डिनो दण्डं चुक्षोद गदिनो गदाम् । पाशिनोत्रोटयत्पाशान् पनुः सोमस्य चाच्छिदद ।।१। अपातयत्प्रहारैस्तान्महेभः कलभानिव । अग्रहीद्रावणो वध्ध्वा वैरिविद्रावणः क्षणात् ॥ ४२ ॥ सप्ताङ्गराज्यसहितमुपादाय पुरन्दरम् । पाताललङ्कां लकेशो विजेतुमगमत्ततः ॥ ४३ ॥ इत्वा चन्द्रोदरं तत्र तद्राज्यं खां च सोदरीम् । सोऽदात्खराय त्रिशिरोपणज्यायसे ततः ॥ ४४ ॥ चन्द्रोदरस्य निःशेपं खरः खरबलो ग्रहीत् । एका तु गुर्विणी राज्ञी प्रणश्य क्वचिदप्यगात् ।। ४५॥ ततः पाताललङ्कातो लङ्कां लङ्कापतिर्ययौ । तत्र निष्कण्टकं राज्यं चक्रे विष्टपकण्टकः ॥४६॥ सोऽन्येयुः पुष्पकारूढः क्रीडयेतस्ततो भ्रमन् । मरुत्तभूपप्रारब्धमीक्षाञ्चके महामखम् ।। ४७ ॥ ततो विमानादुत्तीर्णो दशास्यस्तद्दिदृक्षया । आनचे भूभुजा तेन पाद्यसिंहासनादिना ॥४८॥ ततो मरुत्तभूपालं जगादैवं दशाननः । अरे किमेष कियते नरकाभिमुखैमखः॥ ४६॥ धर्मः प्रोक्तो ह्यहिंसातः सर्वज्ञैत्रिजगद्धितः । पशुहिंसात्मकाद्यज्ञात्स कथं नाम जायते ॥ ५० ॥ लोकद्वयारिं तद्यज्ञं मा काश्चित्करिष्यसि । मद्गुप्ताविह ते वासः परत्र नरके पुनः ।। ५१ ॥ विससर्ज मख सद्यो मरुत्तनृपतिस्ततः । अलक्या रावणाज्ञा हि विश्वस्यापि भयङ्करा ।। ५२॥ प्रभञ्जन इवौजस्वी मरुत्तमखभञ्जनः। ततोऽगाचैत्ययात्रार्थ सुमेर्वष्टापदादिषु । ५३॥ विधाय यात्रा चैत्येषु कृत्रिमाकृत्रिमेषु सः। आजगाम निज धाम पुनरेव दशाननः॥५४॥
.07
२२
in Education International
For Personal & Private Use Only
Page #272
--------------------------------------------------------------------------
________________
शास्त्रम् ॥ १२७॥
इतवासदियोध्यायां पुर्यामकमहारथः। राजा दशरथो नाम धाम निःसीमसम्पदाम् ॥ ५५ ॥ पल्यः द्वितीय कौशल्याकैकेयीसुमित्रासुप्रभाभिधाः । प्रियाश्वतम्तस्यासन्मूतों इव दिशां श्रियः ।। ५९ ।। कौसल्या सुपुवे रामप्रकाश: कैकयी भरतं सुतम् । मुमित्रा लक्ष्मणं नाम शत्रुघ्नं सुप्रभाऽभिधा ।। ५७ ॥ रामलक्ष्मणभरतशत्रुमास्तस्य रेजिरे । चत्वारः मूनवो दन्ता इव त्रिदशदन्तिनः ॥ ५८ जनकस्य सुतां सीतां भामण्डलसहोदरीम् । कार्मुकारोपणपणां रामभद्र उपायत ।। ५६ । जिनेन्द्रविन्बस्नपनजलं मङ्गलहेतवे । चतसृणां च राजीनां नृपः प्रेषयदन्यदा ।। ६०॥ तत्तोयमागतं पश्चादिति रोपमुपेयुपीम् । अनुनेतुं स्वयं राज्ञी सुमित्रामगमन्नृपः ॥ ६१ ॥ घण्टान्तालिकालोलदशनं चलिताननम् । श्वेतसर्वाङ्गरोमाणं भूरोमच्छन्नलोचनम् ॥६२० पदे पदे प्रस्खलन्तं याचमानं च पञ्चताम् । गतस्तत्र ददर्शकं जरत्कञ्चुकिनं नृपः॥ ६३ ॥ तं दृष्ट्वा चिन्तयद्राजा सो यावन्नेदृशा वयम् । चतुर्थपुरुषार्थाय तावद्धि प्रयतामहे ॥ ६४ ।। व्रतं जिघृक्षुः स ततो राज्ये स्थापयितुं निजे । अबायाबाययामास तनयो रामलक्ष्मणौ ॥६५॥ भरतस्य जनन्याऽथ कैकेय्या मन्थरागिरा । बरौ प्राक्प्रतिपन्नो स याचितः सत्यसङ्गरः ॥६६॥ वरेणार्थित एकेन स तदा रघुपुङ्गवः । प्रतिपन्नस्थिरो राज्यं भरताय समापयत् ॥ ६७ ॥ चतुर्दशसमा यावद्वनवासाय चादिशत् । ससीतालक्ष्मणं रामं वरेणान्येन चार्थितः ॥ ६८॥ ससीतालक्ष्मणो रामः सद्योऽगाद्दण्डकावनम् । पञ्चवट्याश्रमे चावतस्थेऽसौ सत्यसङ्गरः ।। ६६ ॥ तत्रायातौ चारणी राघवाभ्यां नमस्कृतौ । सीताऽऽन
ईतिथीभूतौ श्रद्धालुः शुद्धभिक्षया ॥ ७० ॥ ततो गन्धोदकैवृष्टिरमरैर्विदधे तदा । तद्गन्धादाययौ तत्र जटायुर्नाम गृध्रराट् ।।७१।। तौ मुनी देशनां तत्र चक्रतुः स व्यबोधि च । संजातजातिस्मरणोऽवतस्थे चानुजानकि ।। ७२ ॥ ॥ १२७ ।।
in Education International
For Personal & Private Use Only
Page #273
--------------------------------------------------------------------------
________________
K+-+
A
तस्थास्ता रामस्य फलाद्य बाहिर्गतः । ददर्श लत्मणः खङ्गमग्रहीच कुतूहलात् ॥ ७३ ॥ तत्तीच्णत्वपरीक्षार्थ तत्क्षयं तेन लक्ष्मणः । अभ्यणस्था वंशजाली नालला लुलाव च ।। ७४ ॥ वंशजालान्तरस्थस्य कृतं कस्यापि देहिनः । अथैकं मौलिकमलं सोऽपश्यत्पतितं पुरः ।। ७५ ॥ अयुध्यमानोऽशस्त्रश्च पुमान् कोऽपि हतो मया । अमुना कर्मणा धिग्मामित्यान्मानं निनिन्द सः ॥ ७॥ गत्वा च रामभद्राय तदशेषमचीकथत् । असिं च दर्शयामास रामोऽप्येवमभाषत ।। ७७ ॥ असावसिः सूर्यहासः साधकोऽस्य त्वया हतः । अस्य सम्भाव्यते नूनं * कश्चिदुत्तरसाधकः ॥ ७८ ॥ अत्रान्तरे दशग्रीवस्वसा चन्द्रणखाऽभिधा । खरभार्या ययौ तत्र ददर्श च हतं सुतम् ॥ ७६ । कासि हा वत्स शम्बूक शम्बूकेति रुदत्यसौ । अपश्यलक्ष्मणस्यांहिन्यासपङ्क्तिं मनोहराम ||८०॥ मम सूनुहतोऽनेन यस्येयं पदपद्धतिः । पदपक्तिपथेनैव ततश्चन्द्रणखाऽव्ययौ ॥ ८१ ॥ यावकिश्चिदगासावत्ससीतालक्ष्मणं पुरः । नेत्राभिरामं रामं साऽपश्यत्तरुतले स्थितम् ॥८२॥ निरीक्ष्य राम सा सद्यो रिरंसाविवशाऽभवत् । कामावेशः कामिनीनां शोकोद्रेकेपि कोऽप्यहो ॥ ८३ ॥ स्वं रूपं चारु कृत्वाऽथ रन्तुं रामस्तयार्थितः। हसन्नूचे सभार्योऽहममार्य भज लक्ष्मणम् ॥ ८४ ॥ तयार्थितस्तथैवैत्य लक्ष्मणोऽप्येवभत्रवीत् । आर्य गता त्वमार्येव तदलं वार्तयाऽनया ॥ ५॥ सा याञ्चाखण्डनात्पुत्रवधाच्च | रुपिताऽधिकम् । आख्यद्गत्वा खरादीनां तत्कृतं तनयक्षयम् ॥८६॥ विद्याधरसहस्रेस्ते चतुर्दशभिरावृताः । ॥ ततोऽभ्येयुरुपद्रोतुं रामं शैलमिव द्विपाः ॥ ८७ ॥ किमार्यः सत्यपि मयि योत्स्यते स्वयमीदृशैः ।
इति राममयाचिष्ट तेषां युद्धाय लक्ष्मणः ॥ ८८ ॥ गच्छ वत्स! जयाय त्वं यदि ते सङ्कटं भवेत् । सिंहनादं
in Education international
For Personal & Private Use Only
Page #274
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
॥ १२८
ममाहूत्यै कुर्या इत्वन्वशात् स तम् ।। ८९ ॥ रामाज्ञा प्रतिपद्योचैर्लक्ष्मणोऽथ धनुःसखा । गत्वा प्रववृते हन्तुं स 8 द्वितीय तांस्तार्क्ष्य इवोरगान् ॥ ३० ॥ प्रवर्द्धमाने तयुद्धे स्वभर्तुः पाणिवृद्धये । गत्वा त्वरितमित्यूचे रावणं रावणस्वसा
प्रकाशः। ॥३१॥ आयातौ दण्डकारण्ये मनुष्यौ रामलक्ष्मणौ । अनात्मज्ञौ निन्यतुस्ते यामेयं यमगोचरम् ॥ १२ ॥ श्रुत्वा
स्वसृपतिस्ते तु सानुजः सबलो ययौ । तत्र सौमित्रिणा सार्द्ध युद्ध्यमानोऽस्ति संप्रति ॥ ६३ ॥ कनिष्ठभ्रातृवीर्येण al स्ववीर्येण च गर्वितः । परतोऽस्ति स्थितो रामो विलसन् सीतया सह ॥ १४ ॥ सीता च रूपलावण्यश्रिया सी1मेव योषिताम् । न देवी नोरगी नापि मानुष्यन्यैव कापि सा ॥६५॥ तस्या दासीकृताशेषसुरासुरवधूजनम् ।
त्रैलोक्येऽप्यप्रतिच्छन्दं रूपं वाचामगोचरम् ॥६६॥ समुद्रममुद्राक्ष ! यानि कान्यपि भूतले । तवैवाईन्ति रत्नानि तानि सर्वाणि बान्धव ! ॥१७॥ दृशामनिमिषीकारकारणं रूपसम्पदा । स्त्रीरत्नमेतद्गृह्णीया न चेत्तन्नासि रावणः॥१८॥ आरुह्य पुष्पकमथादिदेश दशकन्धरः । विमानराज! त्वरितं याहि यत्रास्ति जानकी ॥६६॥ ययौ चात्यन्तवेगेन विमानमनुजानकि । स्पर्द्धयेव दशग्रीवमनसस्तत्र गच्छतः ॥ १०॥ दृष्ट्वाऽपि रामादत्युग्रते
जसो दशकन्धरः । विभाय रे तस्थौ च व्याघ्रो हुतवहादिव ॥ १ ॥ इति चाचिन्तयदितः कष्टं रामो दुरासदः । 1. इतश्च सीताहरणमितो व्याघ्र इतस्तटी ॥२॥ विमृश्य च ततो विद्यामस्मार्षीदवलोकनीम् । उपतस्थे च सा मङ्क्षु किङ्करीव कृताञ्जलिः ॥३॥ ततश्चाज्ञापयामास तत्कालं तां दशाननः । कुरु साहाय्यमवाय मम सीता हरिष्यतः ॥ ४ ॥ साध्वोचद्वासुकेौलिरत्नमादीयते सुखम् । न तु रामसमीपस्था सीता देवासुरैरपि ॥५॥ उपायः किन्त्वसावस्ति यायाद् येनैष लक्ष्मणम् । तस्यैव सिंहनादेन सङ्केतो बनयोरयम् ॥६॥ एवं कुर्विति तेनोक्ता ||१२८॥
in Education inte
For Personal & Private Use Only
Page #275
--------------------------------------------------------------------------
________________
अजित्वा परतस्ततः । सा साचादिव सौमित्रिः सिंहनादं विमिमे ॥ ७॥ तं श्रुत्वा मैथिली तत्र मुक्त्वा रामो ययौ द्रुतम् । महतामपि मोहाय भवेन्माया हि मायिनाम् ॥ ८॥ अथोत्तीर्य दशग्रीवः सीतामारोप्य पुष्पके । त्वां हरन् रावणोऽस्मीति कथयन्नभसा ययौ ॥ ६ ॥ हा नाथ विद्विषन्माथ राम हा वत्स लक्ष्मण । हा तातपाद हा भ्रातामण्डल महाभुज ॥१०॥ सीता वो हियतेऽनेन काकेनेव बलिश्छलात् । एवं सीता रुरोदोच्चै रोदयन्तीव रोदसीम् ॥ ११॥ मा भैषीः पुत्रि मा भैषीःकरे यासि निशाचर । रोषादिति वदन् दूराज्जटायुस्तमधापत ॥ ॥ १२ ॥ भामण्डलानुगश्चैकः कोऽपि विद्याधराग्रणीः। डुढौके दशकण्ठं रे तिष्ठ तिष्ठेति तर्जयन् ॥ १३ ॥ L4 जटायुर्विकटाटोपकरजत्रोटिकोटिमिः । प्रणिहन्तुं दशग्रीवोरसि प्रववृते ततः ॥१४॥ रे जीवितस्य तृप्तोऽसि जरगृध्रेति विब्रुवन् । दशास्यश्चन्द्रहासासिमाकृष्य निजघान तम् ॥ १५ ॥ तस्य विद्याधरस्यापि विद्या दशमुखोऽहरत् । निकृत्तपक्षः पचीव सोऽपविद्योऽपतद्भुवि ॥ १६ ॥ रावणोऽगात्ततो लवां सीता चोपवनेमुचत् । तां प्रलोभयितुं तत्र त्रिजटामादिदेश च ॥ १७ ॥ रामस्यापि हतामित्रः सौमित्रिः संमुखोऽभवत् । आर्यामार्य ! विमुच्यैकां किमागा इति चाब्रवीत् ॥ १८॥ आइतः सिंहनादेन तव वैधुर्यलक्ष्मणा। लक्ष्मणाहमिहायातो व्याजहारेति राघवः ॥ १६ ॥ लक्ष्मणोऽप्यवदच्चक्रे सिंहनादो मया न हि । श्रुतश्चार्येण तन्नूनं वयं केनापि वञ्चिताः ॥ २०॥ अपनेतुं सत्यमार्यामपनीतोऽस्युपायतः । सिंहनादस्य करणे शङ्के स्तोकं न कारणम् ॥ २१ ॥ ब्रुवन् साध्विति रामोऽपि स्वस्थानेऽगात्सलक्ष्मणः । सीतामपश्यन् कासीति विलपन्मूञ्छितोऽपतत् । २२ ॥ तं लब्धसंझं सौमित्रिरित्यूचे रुदितैरलम् । पौरुषं पुरुषाणां हि व्यसनेषु प्रतिक्रिया ॥ २३ ॥
in Education
For Personel Private Use Only
Page #276
--------------------------------------------------------------------------
________________
योगशास्त्रम् ॥ १२६॥
---*THAN
द्वितीयः प्रकाश
अत्रान्तरे पुमानेकः कश्चिदेत्य ननाम तौ । ताभ्यां पृष्टः स्ववृत्तान्तमेवं व्यज्ञपयच्च सः ॥ २४ ॥ हत्वा पाता- ललङ्केशं तातं चन्द्रोदरं मम | अश्वस्येव पदे तस्य खरं खररथोऽकरोत् ।। २५ ॥ गुवी च नष्टा मन्माता विराध नाम मां सुतम् । अन्यत्रासूत तस्याश्च कश्चिदाख्यदिदं मुनिः ॥ २६ ॥ यदा दाशरथिर्हन्ता खरादींस्त्वत्सुतं तदा । पाताललङ्काधिपतिं करिष्यति न संशयः ॥ २७ ॥ तदद्य समयं लब्ध्वा युष्मानस्मि समाश्रितः । पितृवैरिवधक्रीतं पत्तिं जानीथ मां निजम् ॥ २८ ॥ रामस्ततोऽदात्पाताललकां तस्मै महाभुजः । फलन्ति समयज्ञानां स्वामिनः स्वयमेव हि ॥ २६ ॥ तं च स्थापयितुं तत्र गच्छन् रामः सलक्ष्मणः । हृतविद्यं पुरोऽपश्यद्भस्थं भामण्डलानुगम् ॥ ३० ॥ अथ दाशरथी नत्वा स वृत्तान्तं व्यजिज्ञपत् । आत्मनश्च जटायोश्च सीताया रावणस्य च ॥३१॥ अथ पाताललङ्कायां ययौ रामः सलक्ष्मणः । सत्यसन्धो विराधं च पि(पै)त्र्ये राज्ये न्यवेशयत् ॥ ३२ ॥
इतश्च साहसगतिर्नाम विद्याधराग्रणीः। खे भ्रमन्नधिकिष्किन्धाधित्यकं समुपाययौ ॥ ३३ ॥ ययौ तदा च किष्किन्धाधिपतिः क्रीडितुं बहिः। सुग्रीवः सपरीवारो राज्ञां हि स्थितिरीदृशी ।। ३४ ॥ ददर्श साहसगतिस्तदा
चान्तःपुरस्थिताम् । सुग्रीवस्य प्रियां नाम्ना तारां तारविलोचनाम् ॥ ३५॥ तस्यां लावण्यकूलिन्यां स चिक्री| डिषुरुच्चकैः । इयेष नान्यतो गन्तुं धर्मार्त इव कुञ्जरः ।। ३६ ॥ सोऽस्थात्तथैव तत्रैव निषिद्धगमनः क्षणात् । तां मूर्तामिव कामाज्ञामुन्नवयितुमक्षमः ॥ ३७॥ रमणी रमणीयेयं रमणीया मया कथम् । इतीच्छाव्याकुल: सोऽप्युपायं क्षणमचिन्तयत् ॥ ३८॥ सहसा साहसगतिस्ततः सुग्रीवरूपताम् । स कुशीलत्वकुशलः कुशीलव इवाददे ॥ ३९ ॥ अथासौ विटसुग्रीवः सुग्रीव इति मानिभिः । अङ्गरक्षरस्खलितः सुग्रीवभवनेऽविशत्
।१२।।
in Education internal
For Personal & Private Use Only
Page #277
--------------------------------------------------------------------------
________________
कुन
॥४०॥ अन्तःपुरगृहद्वारं स ययी यावत्सुकः । तावदयाघुव्य सुग्रीव खवेश्मद्वारमाययौ ॥४१॥ मुग्रीवस्य प्रवेष्टुं न द्वारं प्राहरिका ददुः । अग्रे प्रविष्टो राजास्ति त्वमन्योऽसीति वादिनः ।। ४२ ।।
ततश्च सत्यसुग्रीवे स्खल्यमाने खवेत्रिभिः । अतुलस्तुमुलो जज्ञे मथ्यमान इबाणवे ।।४३ ।। सुग्रीवद्वितयं al दृष्ट्वा सन्देहाद्वालिनन्दनः । शुद्धान्तविप्लवं वातुं तद्वारं त्वरितो ययौ ।। ४४ ॥ शुद्धान्ते विटसुग्रीवः
प्रविशन् बालिमू नुना । मार्गाद्रिणा सरित्पूर इव प्रस्खलितस्ततः ॥ ४५ ॥ अथामिलन् सैनिकानामक्षौहिण्यश्चतुर्दश । चतुर्दशजगत्सारसर्वस्वानीव सर्वतः ॥ ४६॥ द्वयोरपि तयोर्भेदमजानन्तोऽध सैनिकाः सत्यसुग्रीवतोऽर्दैढे विटसुग्रीवतोऽभवन् ॥४७॥ ततः प्रववृते युद्धं सैन्ययोरुभयोरपि । कुन्तपातैर्दिवं कुर्वदुल्कापातमयीमिव ॥४८॥ युयुधे सादिना सादी निषादी च निपादिना । पदातिना पदातिश्च रथिको रथिकेन च ।। ४६॥ चतुरङ्गचमूचक्रविमदादथ मेदिनी। अबाप कम्पं मुग्धेव प्रौढप्रियसमागमात् ॥१०॥ एह्येहि रे परगृहप्रवेशश्वन्निति ब्रुवन् । विटसुग्रीवमुद्रीवः सुग्रीवो योधुमावत ।। ५१ ॥ ततश्च विटसुग्रीवो मत्तेभ | इव तर्जितः । ऊर्जितं गर्जितं कुर्वन् संमुखीनो युधेऽभवत् ।। ५२ ॥ युयुधाते महायोधौ तौ कोधारुणलोचनौ । विदधानौ जगत्त्रासं कीनाशस्येव सोदरौ ।। ५३ ॥ तौ निशातैर्निशातानि शस्त्रैः शस्त्राण्यथो मिथः । चिच्छेदाते तृणच्छेदं रणच्छेकावुभावपि ॥ ५४॥ शस्त्रखण्डैरुच्छलद्भिर्दुद्रुवे खेचरीगणः। महायुद्धे तयोवृक्षखण्डो महिषयोखि ॥५॥ तौ छिन्नास्त्रावथान्योन्यममर्षणशिरोमणी । मल्लयुद्धेनास्फलता पर्वताविव जङ्गमौ ॥५६॥ उत्पतन्तौ
परगृहप्रवेशे सारमेयसदृश ! ।
नाथ मेदिनी। अपनपादिना । पदानि
बनिति भुवन
in Education International
For Personal & Private Use Only
Page #278
--------------------------------------------------------------------------
________________
CIO
शाखम
॥ १३० ॥
किष्किन्धापुरा दावा समग्रही
वाइयोनि निपतन्तौ क्षणाद्भुवि । ताम्रवृडाविनाभातां वीरचूडामणी उभो ॥ | तो द्वावपि महाप्राणीमियो जेतुमीश्वरी । अपत्य च दूरेपुनर्युद्धेन सुग्रीवः शिवः वितनुस्ततः । बहिर्नि विस्तस्थापस्वस्थ मानमः। अन्तःपुरप्रवेशं तु न लेने वाल नन्दनात् ॥ ६ ॥ सुग्रीवो न्यञ्चिदथैव पचिन्तयन्। यो स्त्रीलम्पट पडु प्येष नो द्विप ॥ ६१ आत्मीया अध्यनात्मीया द्विषन्मायावशीकृताः । अहो वन्दो निजैर्देयैः ||६२|| सायापर कमोत्कृष्टः कथं वध्यो द्विपन् मया । धिग्मां पराक्रमभ्रष्टं वालिनाम्नाकरम् || ६३ || धन् महाबली वाली योग्ख/पुरुषव्रतः । राज्यं तृणमित्र त्यक्त्वा यथ भेजे परं पदम् ।। ६४ । चन्द्ररश्मिः कुमारो मे बलीयान् जगतोऽयमी किं तु द्वयोरभेदज्ञः कं रचतु निहन्तु कम् || ६५ ॥ इदं तु विदधे साधु साध्वहो चन्द्ररश्मिना । तस्य पायो रुद्धं शुद्धान्ते यत्प्रवेशनम् ||६६|| वधाय वलिनोऽमुष्य बलीयांसं श्रयामि कम् । यद् घात्या एवं रिपवः स्वतोऽपि परतोऽपि वा ॥ ६७॥ भूर्भुवः स्वस्त्रयीवीरं मरुत्तमखभजनम् । भजामि विद्विपद्यातहेतवे किं दशाननम् ||६८|| असौ किं तु प्रकृत्सा स्त्रीलोलस्त्रैलोक्यकण्टकः । तं च मां च निहत्याशु तारामादास्यते स्वयम् ।। ६६ ।। ईदृशे व्यसने प्राप्ते साहाय्यं कर्तुमीश्वरः । आसीत् खरः खरतरो राघवेण हतः स तु ।। ७० ।। तावेव रामसौमित्री गत्वा मित्रीकरोमि तत् । तत्कालोपनतस्यापि यौ विराधस्य राज्यदौ ।। ७१ ।। तौ तु पाताललङ्कायामलं कर्मी दोर्बलौ । विराधस्योपरोधेन तथैवाद्यापि तिष्ठतः ॥ ७२ ॥ एवं विमृश्य सुग्रीवोऽनुशिष्य रहसि स्वयम् । विराधपुर्यां विश्वासभूतं दूतं न्ययोजयत् ॥ ७३ ॥ गत्वा पाताललङ्कायां विराधाय प्रणम्य सः । स्वामिव्यसनवृत्तान्तं कथयित्वाऽब्रवीदिदम् ॥ ७४ ॥
For Personal & Private Use Only
द्वितीय
Page #279
--------------------------------------------------------------------------
________________
महति व्यसने स्वामी पतितो नस्तदीदृशे । राघवौ शरणीकत्तुं तव द्वारेण वाञ्छति ॥ ७५ ॥ द्रुतमायातु सुग्रीवः सतां सङ्गो हि पुण्यतः । तेनेत्युक्तो दूत एत्य सुग्रीवाय शशंस तत् ।। ७६ ॥ प्रचचालाथ सुग्रीवोऽश्वानां ग्रैवेयकस्वनैः । दिशो मुखरयन् सर्वा वेगादरमदयन् ॥ ७७॥ पाताललङ्कां स प्रापक्षणेनाप्युपवेश्मवत् । विराधं
चोपतस्थेऽसावभ्युत्तस्थौ स चापि तम् ॥ ७८ ॥ विराधोऽपि पुरोभूय रामभद्राय तायिने । तं नमस्कारयामास । तदुःखं च व्यजिज्ञपत् ॥ ७९ ॥ सुग्रीवोऽप्येवमूचेऽस्मिन् दुःखे त्वमसि मे गतिः । नुते हि सर्वथा मृढे शरणं मा तरणिः खलु ॥ ८० ॥ स्वयं दुःख्यपि तदुःखच्छेदं रामोऽभ्युपागमत् । स्वकार्यादधिको यत्नः परकार्ये महीयसाम्
॥१॥ सीताहरणवृत्तान्तं विराधेनावबोधितः । रामं विज्ञपयामास सुग्रीवोऽथ कृताञ्जलिः॥२॥त्रायमाणस्य 1 ते विश्वं तथा द्योतयतो रखे। न कापि कारणापेक्षा देव वच्मि तथाप्यदः ॥ ८३ ॥ त्वत्प्रसादात् क्षतारिः सन्
ससैन्योऽपि तवानुगः । आनेष्यामि प्रवृत्तिं च सीताया नचिरादहम् ॥ ८४ ॥ ससुग्रीवः प्रतस्थे च किष्किन्धा प्रति राघवः । विराधमनुगच्छन्तं संबोध्य विससर्ज च ॥८५॥ रामभद्रेऽथ किष्किन्धास्कन्धावारमधिष्ठिते । सुग्रीवो विटसुग्रीवमाह्वास्त रणकर्मणे ॥ ८६ ॥ निनदन् विटसुग्रीवोऽप्यागादाह्वानमावतः । रणाय नालसाः शूरा भोजनाय द्विजा इव ॥ ८७॥ दुर्द्धरैश्चरणन्यासैः कम्पयन्तौ वसुन्धराम् । तावुभावप्ययुध्येतां मत्ताविव वनद्विपौ ॥८८ ॥ रामः सरूपौ तौ दृष्ट्वा कोऽस्मदीयः परश्च कः। इति संशयतस्तस्थावुदासीन इव क्षणम् ॥ ८६ ॥ भवत्वेवं तावदिति विमृशन् रघुपुङ्गवः । वज्राव भिधधनुष्टङ्कारमकरोत्ततः॥४०॥ धनुष्टकारतस्तस्मात्सा साहसगतेः का क्षणात् । रूपान्तरकरी विद्या हरिणीव पलायत ॥ ६१ ॥ विमोद्य मायया सर्व परदार रिरंससे । पापारोपय रे
For
a
Private Use Only
Page #280
--------------------------------------------------------------------------
________________
शासम्
चापमिति समस्ततर्जतम्। एकेनापीमा प्राणांस्तस्याहाद्रिधुद्वहः । न द्वितीया चपटा हि हरहारण- द्वितीय मारणे ॥१३॥ विराधमिव सुग्रीवं रामो राज्ये न्यवेशयत् । सुग्रीवोऽपि स्वलोकेन प्राग्वदेवानमस्यत ।। ६४ ॥ प्रकाश
इतश्च रामकार्यायागाद्विराधः समं दलैः । स्वामिकृत्यमकृत्वा हि कृतज्ञा नासते मुखम् ।। ६५ ।भामण्डलोऽपि तत्रागाद् विद्याधरचमृवृतः । प्रभुकार्य कुलीनानामुत्सवो [त्सवादपि ।। ६६ ॥ जाम्बुवद्धनुमन्नीलनला दीन विदितौजसः । सुग्रीवश्च स्वसामन्तान् समन्तादप्यजूहवत् ॥ १७ ॥ विद्याधरचमूचकेवायातेष्वथ सर्वतः । उपेत्य रामं सुग्रीवः प्रणम्यैवं व्यजिज्ञपत् ।। ६८ ॥ हेनूमानाञ्जनेयोऽयं विजयी पावन जयिः । सीताप्रवृत्त्यै लङ्कायां त्वदादेशाद् व्रजिष्यति ॥ 8 ॥ रामेणाज्ञापितो दचा स्वमभिज्ञानमूर्मिकाम् । नभस्वानिव नभसा नभस्वत्तनयो ययौ । २०० ॥ सोऽगात्क्षणेन लङ्कायामुद्याने शिंशपातले । सीतामपश्यद्ध्यायन्तीं नाम रामस्य मन्त्रवत् ॥१॥ तरुशाखातिरोभृतः सीतोत्सङ्गेऽङ्गुलीयकम् । हनूमान् पातयामास तदृष्ट्वा मुमुदे च सा ॥२॥ तदैव गत्वा त्रिजटा दशकण्ठं व्यजिज्ञपत् । इयत्कालं विषामाऽऽसीत् सानन्दा त्वद्य जानकी ॥ ३ ॥ मन्ये विस्मृतरामेयं रिम्सुमयि संप्रति । तद्गत्वा बोध्यतामित्यादिक्षत् मन्दोदरी स तु ॥४॥ ततश्च पत्युत्येन तत्र मन्दोदरी ययौ । प्रलोभनकृते सीतां विनीता सेत्यवोचत ॥ ५॥ अद्वैतैश्वर्यसौन्दर्यवर्यस्तावद्दशाननः । त्वमप्यप्रतिरूपैव रूप लावण्यसम्पदा ॥६॥ यद्यप्यज्ञेन देवेन युवयोरुभयोरपि : न व्यधाय्युचितो योगस्तथापि ह्यस्तु संप्रति ॥७॥
(१) हनुमानिति सर्वत्र पाठः ।
in Education internal
For Personal & Private Use Only
Page #281
--------------------------------------------------------------------------
________________
उपत्य भजनीयं तं भजन्तं भज रावणम् । श्रहमन्याश्च तद्राज्यस्त्वदाज्ञा सुध्रुविभ्रतु ।। ८॥ सीतायवाचदा । पापे पतिदयविधायिनि । वर्तुरिव वीक्षेत मुखं दुर्मुस कस्तव ॥ ६ ॥ रामस्य पार्च मां विद्धि सौमित्रिमिह चागतम् । खरादीनिव हन्तुं द्राक धवं तव सबान्धवम् ।। १० ।। उत्तिष्ठोत्तिष्ठ पापिष्ट वच्मि नातः परं त्वया। सीतया तर्जिनेचं सा सकोपा प्रययौ ततः ॥ ११ ॥ अथावतीर्य हनुमान सीतां नत्वा कृताञ्जलिः । इत्यूचे देवि जयति दिया रामः सलक्ष्मणः ॥ १२ ॥ त्वत्प्रवृत्तिकृते रामेणादिष्टोऽहमिहागमम् । मयि तत्र गते राम इहैष्यति रिपुच्छिदे ।। १३ ॥ पतितं हनुमन्तमभिज्ञानसमपकम् । प्रीता सीताऽप्यथाशीभिरमोघाभिरनन्दयत् ॥ १४ ॥ हनूमदुपरोधेन रामोदन्तमुदा च सा । एकोनविंशत्युपवासान्ते व्यधित भोजनम् ॥ १५ ॥ प्राभञ्जनिः प्रभञ्जन इवोद्यानस्य भञ्जने । प्रवृत्तो दशकण्ठस्य बलालोकनकौतुकात् ॥ १६ ॥ भज्यमानं तदुद्यानं तेन मानमिवोच्चकैः । उपत्य दशकण्ठस्याशंसन्नुद्यानपालकाः ॥ १७ ॥ आरक्षा रावणादिष्टास्तं निहन्तुं समागताः । हता हनूमतैकेन | विचित्रा हि रणे गतिः ॥ १८ ॥ आदिष्टो दशकण्ठेन साटोपः शक्रजित्ततः । तद्बन्धायामुचत्पाशान् पाशैः स्वं सोऽप्यबन्धयत् ।। १६ । नीतश्चाग्रे दशास्यस्य दलयन् मुकुटं पदा । उत्पपातापास्तपाशस्तडिदण्ड इवानिलिः
॥ २० ॥ हन्यतां गृह्यतां चैप इति जल्पति रावणे । अनाथामिव सोऽभाक्षीतत्पुरी पाददर्दरैः ॥२१ ।। क्रीडां TI । कृत्वैवमुत्पत्य सुपर्ण इब पावनिः । एत्य रामं नमस्कृत्य तं वृत्तान्तं व्यजिज्ञपत् ।। २२ ॥ रामस्तं गाढमापीड्यो
रसा सुतमिवौरसम् । लङ्काविजययात्रायै सुग्रीवादीनथादिशत् ॥ २३ ॥ समुद्रं रावणारखं बद्धवा सेतुं च राघवः । PA लङ्कापुरी विमानस्थः सुग्रीवाद्यैः समं ययौ ॥ २४ ॥ निवेश्य कटकं रामो हंसद्वीपान्तरे ततः । अबवेष्टबलैर्लङ्का
-----**-*-*-iftink :
in Education International
For Personal & Private Use Only
Page #282
--------------------------------------------------------------------------
________________
प्राग
शास्त्रम्
॥ १३२ ॥
+19
मेकपाटकलीलया ॥ २५ ॥
व
अत्रान्तरे दशग्रीवं प्रणम्योचे विभीषणः । निस्यापि मे स्वामिन्नये वचनं कुरु ॥ २६ ॥ श्रयातो रामभद्रो निजां जायां व याचते । अयेत तदसौ सीता धर्मोऽप्येवं न वाध्यते ॥ २७ ॥ प्रथो रोपाद्रे विपि विभीषण । तदेवमुपदेशं मे दमे कापुरुपचितम् ॥ २८ ॥ fastest serve दूरे रामः सलक्ष्मणः । तत्पत्तिरेको हनुमान् दृष्टो देवेन किं न हि ॥ २० ॥ अस्मद्वेषी विपक्षानुरागी ज्ञातो याहि रे । इति निर्वासितस्तेन ययौ रामं विभीषणः ॥ ३० ॥ लङ्काधिपत्यमेतस्मै रामोऽपि प्रत्यपद्यत । न ह्यचित्ये विमु ह्यन्ति महात्मानः कदाचन ॥ ३१ ॥ बहिर्निर्गत्य लङ्केशसेना राघवमेनया । कांस्यताल कांस्यता लेनेवास्फलदथोन्वणम् || ३२ || प्राण सर्वस्वदेविन्योमिथश्रम्वोगतागतम् । जयश्रीः श्रीरिवाक, पंदितमधमर्णयोः || ३३ || रामसंज्ञयाऽऽज्ञप्ता हनुमत्प्रमुखास्ततः । जगाहिरे द्विपत्सैन्यं सुरा इव महोदधिम् ।। ३४ ।। दताः केऽपि धृताः केsपि नाशिताः केऽपि राक्षसाः । प्रसरी रामवीरे दुवरिवरि रिव ।। ३५ ।। कुम्भकर्णस्तदाकर्ण्य क्रुद्धो वह्निरिव ज्वलन् । मेघनादश्च सावेशः प्रविवेश रणाङ्गणम् || ३६ || तावापतन्तौ कन्पान्तपवनज्वलनाविव । न हि सोढुमशक्येतां रामसैन्यैर्मनागपि ।। ३७ ।। सुग्रीवोऽथ रुपोत्पाट्य शिलामिव शिलोच्चयम् । अक्षिपत्कुम्भकर्णाय सोऽपि तं गदयाऽपिषत् ॥ ३८ ॥ पुनर्गदाप्रदारेण पातयित्वा कपीश्वरम् । कक्षायां न्यस्य पौलस्त्यो लङ्कां प्रत्यचलततः ।। ३६ ।। मेघवभिनदन्मेघनादोऽपि मुदितस्ततः । वङ्गान सावयामास निशातशरवृष्टिभिः ||४०|| डुढौके तिष्ठ तिष्ठेति भाषमाणोऽरुणेक्षणः । रामोऽथ कुम्भकर्णाय मेघनादाय लक्ष्मणः ॥ ४१ ॥ सुग्रीवोऽप्युत्प
For Personal & Private Use Only
द्वितीया
प्रकाशः ।
॥ १३२ ॥
Page #283
--------------------------------------------------------------------------
________________
KKK********
पाताथ कृत्वौजो रावणानुजात् । मुष्टौ धृतः कियत्कालं ननु तिष्ठति पारदः । ४२ ।। चलितः कुम्भकर्णोऽपि रामेण युयुधे ततः । सौमित्रिणा मेघनादोऽप्रमादः चोभयन् जगत् ॥ ४३ ॥ मिलितौ रामपौलस्त्यावधी पूर्वापराविव । प्रभातामुत्तरापाच्याविव लक्ष्मणरावणी ॥ ४४ ॥ रावणावरजं रामो रावणि लक्ष्मणः पुनः । पात यित्वाऽग्रहीत्सत्यं रक्षसामपि राक्षसः || ४५ ।। रावणैरावणो रोपादशेषकपिकुञ्जरान् । पिपन्नथाययौ युद्धभु भुवनभीषणः || ४६ || अलमार्य ! स्वयं युद्धेनेति रामं निवारयन् । सौमित्रिरभ्यमित्रीणो वभृवाम्फालयन् धनुः ॥ ४७ ॥ चिरं युद्धवाऽखिलैरस्त्रैरस्त्रविद्रावणस्ततः । जघानामोघया शक्त्या मक्षु वक्षसि लक्ष्मणम् ॥ ४८ ॥ शक्त्या मिन्नोऽपतत्क्षोण्यां लक्ष्मणस्तत्क्षणादपि । तथैव सद्यो रामोऽपि बलवच्छोकशङ्कुना ॥ ४६ ॥ कृत्वा वप्रान् भटैरष्टौ प्राणैरपि हितैषिणः । सुग्रीवाद्यास्ततो रामं सलक्ष्मणमवेष्टयन् ।। ५० ।। मरिष्यत्यय सौमित्रिस्तदभावे तदग्रजः । किं मुधा मे रणेनेति रावणोऽगात्पुरीं ततः ॥ ५२ ॥ राघवं परितो जाते वप्रद्वारचतुष्टये । सुग्रीवप्रमुखास्तस्थुरारक्षीभूय ते निशि ॥ ५२ ॥ भामण्डलमथोपेत्य दक्षिणद्वाररक्षणम् । पूर्वसंस्तुत इत्यूचे कोऽपि विद्याधराग्रणीः ॥५३॥ अयोध्याया योजनेषु द्वादशस्वस्ति पत्तनम् । कौतुकमङ्गलमिति तत्र द्रोणघनो नृपः ॥ ५४॥ कैकेयी भ्रातुरस्यास्ति विशल्या नाम कन्यका । तस्याः स्नानाम्भसः स्पर्शे शन्यं निर्याति तत्क्षणात् ।। ५५ ।। प्रत्यूपाल्लक्ष्मणश्चेत्तत्स्नानपयसोच्यते । गतशल्यस्तदा जीवेदन्यथा तु न जीवति ॥ ५६ ॥ ततो मत्प्रत्ययाद्रामभद्रं विज्ञपय द्रुतम् । कस्यापि दापयादेशं तदानयनहेतवे ॥ ५७ ॥ त्वतां स्वामिकार्याय प्रत्यूषे किं करिष्यथ । उदस्ते शकटे हन्त किं कुर्वीत गणाधिपः ॥ ५८ ॥ भामण्डलस्ततो गत्वा तद्रामाय व्यजिज्ञपत् ।
२३
For Personal & Private Use Only
←→←→←→→TOKOK →Hote→→→
Page #284
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥१३३॥
*****~IKX001+0
आदितत्तत्कृते रामस्तमेत्र हनुमद्युतम् ॥ ५९ ॥ ईयतुस्तौ विमानेनायोध्यां पवनरंहसा । प्रासादाङ्के दहशतुः शयानं भरतं ततः ।। ६० ।। भरतस्य प्रबोधाय तौ गीतं चक्रतुः कलम् | राजकार्येऽपि राजान उत्थाप्यन्ते छुपायतः ॥ ६१ ॥ विबुध्य भरतेनापि दृष्टः पृष्टः पुरो नमन् । ऊचे भामण्डलः कार्यं नाप्तस्यप्तेि प्ररोचना || ६२ ।। सेत्स्यत्येतन्मया तंत्रयुपैति भरतस्ततः । तद्विमानाधिरूढोऽगात्पुरं कौतुकमङ्गलम् || ६३ || भरतेन द्रोणघनो विशन्यामथ याचितः । स होद्वाह्य स्त्रीसहस्रसहितां तामदत्त च ॥ ६४ ॥ भामण्डलोऽप्ययोध्यायां मुक्वा भरतमुत्सुकः । श्रययौ सपरीवारविशल्यासंयुतस्ततः ।। ६५ ।। ज्वलदीप विमानस्थो भीतैः सूर्योदय भ्रमात् । क्षणं दृष्टो निजैः सोऽधाद्विशल्यामुपलक्ष्मणम् || ६६ ।। तया च पाणिना स्पृष्टालक्ष्मणात्तत्क्षणादपि । निःसृत्य काप्यगाच्छक्तिर्यष्टिने महोरगी ।। ६७ ।। तस्याः स्नानाम्भसाऽन्येऽपि रामादेशादथोचिताः । निःशल्या जज्ञिरे सैन्याः पुनर्जाता इव क्षणात् || ६८ ॥ अस्याः स्नानाम्भसा सेक्तुं कुम्भकर्णादयोऽपि ते । श्रानीयतामिहेत्युच्चैरादिदेश रघूद्वहः ॥ ६६ ॥ तदानीमेव तैर्देव प्रव्रज्या जगृहे स्वयम् । इति विज्ञपयामासुरारक्षा लक्ष्मणाग्रजम् ॥ ७० ॥ वन्द्यास्तेय महात्मानो मोच्या मुक्तिपथस्थिताः । इति रामगिराऽऽरचैर्नत्वाऽमुच्यन्त ते क्षणात् ॥ ७१ ॥ विशन्यां कन्यकास्ताश्च तदोपायंस्त लक्ष्मणः । रावणोऽपि रणायागादमर्पणशिरोमणिः ।। ७२ ।। प्रणम्य रामं सौमित्रिरुत्तस्थेऽधिज्यकार्मुकः । विवाहाद्युत्सवेभ्योऽपि वीराणामुत्सवो रणः ॥ ७३ ॥ यद्यदत्रं दशग्रीवो विससर्जातिदारुणम् । तत्तच्चिच्छेद सौमित्रिरत्रैः कदलिकाण्डवत् ॥ ७४ ॥ अस्त्रच्छेदादथ क्रुद्धचक्रं चिक्षेप १ हिते जने हितजनस्य प्ररोचना न भवति । २ ह इति स्फुटार्थेऽव्ययम् ।
For Personal & Private Use Only
द्वितीय
प्रकाशः ।
॥१३३॥
Page #285
--------------------------------------------------------------------------
________________
रावणः । तल्लक्ष्मणोरस्यपतच्चपेटावन्न धारया ॥ ७५॥ तदेवादाय सौमित्री रावणस्याच्छिदच्छिरः । निजाश्वैर-| प्यवस्कन्दः पतेत् स्वस्य कदापि हि ॥ ७६ ॥ सीता स्वर्णशलाकेव निर्मला शीलशालिनी। रामेण जगृहे लङ्काराज्ये न्यस्तो विभीषणः ॥ ७७॥ शत्रु निहत्य ससहोदरदारमित्रो, रामो ययावथ निजां नगरीमयोध्याम् । उत्पन्नया परकलत्ररिरंसयापि, कृत्वा कुलक्षयमगानरकं दशास्यः ॥ २७८ ॥
॥ इति सीतारावणकथानकम् ॥ ६ ॥ तस्मात् । लावण्यपुण्यावयवां पदं सौन्दर्यसम्पदः । कलाकलापकुशलामपि जह्यात्परस्त्रियम् ॥१०॥
दुस्त्यजामपि परस्त्रियं जह्यात्परिहरेत् । दुस्त्यजत्वे हेतूनाह-लावण्यपुण्यावयवां लावण्यं स्पृहणीयतारूपादिभ्योऽतिरिक्तं तेन पुण्याः पवित्रा अवयवा यस्यास्ता, पदं स्थानं सौन्दर्यसंपदो रूपसम्पदः, कला द्वासप्ततिलेखाद्याः स्त्रीजनोचिताः तासां कलापः समृहस्तत्र कुशला प्रवीणाम् । लावण्यं, रूपं, वैदग्ध्यं च परदाराणां दुस्त्यजत्वे A हेतुः । अपिशब्दस्त्रिष्वपि हेतुषु सम्बन्धनीयः॥१०॥
परस्त्रीगमने दोषानभिधाय परस्त्रीविरतान् प्रशंसतिअकलङ्कमनोवृत्तेः परस्त्रीसन्निधावपि । सुदर्शनस्य किं ब्रूमः सुदर्शनसमुन्नतेः ? ॥ १०१ ॥
परस्त्रीसन्निधानेऽपि निष्कलङ्कचेतोवृत्तेः सुदर्शनाभिधानस्य महाश्रावकस्य किं ब्रूमः का स्तुतिं कुर्महे ? ।
Jain Education internal
For Personal & Private Use Only
Page #286
--------------------------------------------------------------------------
________________
योगशास्त्रम् ॥१३४॥
द्वितीयः प्रकाशः।
वचनगोचरातीता स्तुतिरित्यर्थः । सुदर्शनस्य विशेषणं सुदर्शनसमुन्नतेः शोभना दर्शनसमुन्नतिर्यस्मात्तस्य, सुदर्शनप्रभावकस्येत्यर्थः।।
सुदर्शनश्च संप्रदायगम्यः । स चायम्
अस्त्यङ्गदेशेऽत्यलकापुरी चम्पेति तत्र च। दधिवाहन इत्यासीद्राजाप्रतिनरवाहनः ॥१॥ अभूत्तस्याभया नाम कलाकौशलशालिनी । महादेवी स्वलावण्यावज्ञातत्रिदशाङ्गना ॥२॥ इतो नगर्या तस्यां च समग्रवणिगग्रणीः। श्रेष्ठी वृषभदासोऽभूदासीनः श्रेष्ठकर्मणि ॥३॥ यथार्थनामिका जैनधर्मोपासनकर्मणा। अर्हद्दासीति तस्यासीद् वल्लभा शीलशालिनी ॥ ४ ॥ श्रेष्ठिनस्तस्य महिषीरक्षोऽभूत्सुभगाभिधः । अनैषीन्महिषीनित्यं स तु चारयितुं वने ॥ ५॥ वनानिवृत्तः सोऽन्येार्माघमासे दिनात्यये । अपश्यदप्रावरणं कायोत्सर्गस्थितं मुनिम् ॥६॥ अस्यां हिमनिशि स्थाणुरिव यः स्थास्यति स्थिरम् । असौ धन्यो महात्मेति चिन्तयन् स गृहं ययौ ॥७॥ महामुनिमवज्ञातहिमानीपातवेदनम् । तमेव चिन्तयनामना रात्रिं निनाय सः ॥८॥ अविभातविभावगृहीत्वा महिषीस्ततः । स ययौ तत्र यत्रासीत् स मुनिः प्रतिमास्थितः ॥ ६॥ कल्याणीभक्तिरानम्योपासाञ्चके सतं तदा । अहो नैसर्गिकः कोऽपि विवेकस्तादृशामपि ॥१०॥ अत्रान्तरे चण्डरोचिरारोहदुदयाचलम् । श्रद्धया तमिव द्रष्टुं कायोत्सर्गस्थितं मुनिम् ॥११॥ स नमो अरिहन्ताणमिति वाचमुदीरयन् । द्वितीय इव चण्डांशुरुत्पपात नभस्तले ॥ १२ ।। आकाशगामिनी नूनमियं विद्येति बुद्धितः । नमस्कारपदं तं तु सुभगो निदधे हृदि ॥१३॥ जाग्रत्स्वपनटस्तिष्ठन्दिवा निशि गृहे बहिः। तदपाठीत स उच्छिष्टोऽप्येकग्राहा हि तादृशाः ॥१४॥
॥१३॥
in Education inte
For Personal & Private Use Only
Page #287
--------------------------------------------------------------------------
________________
ततः पप्रच्छ तं श्रेष्ठी विश्वोत्कृष्टप्रभावभृत् । प्राप्तं पञ्चपरमेष्ठिनमस्कारपदं कुतः ।। ५ ।। अशेष महिषीपालः कथयामास तत्ततः। साधु भोः साधु भद्रेति शंसन श्रेष्ठी जगाद तम् ।।१६।। अाकाशगमने हेतुरसी विद्या न केवलम् । किन्तु हेतुरसावेव गतौ स्वर्गापवर्गयोः ।। १७ ।। यत्किश्चित्सुन्दरं वस्तु दुष्प्रापं भुवनत्रये । लीलया प्राप्यते सर्व तदमुष्य प्रभावतः ॥ १८ ॥ अस्य पञ्चपरमेष्ठिनमस्कारस्य वैभवम् । परिमातुं न शक्तोऽस्मि वारि वारिनिधेरिख ॥ १६ ॥ साधु प्राप्तमिदं भद्र तत्त्वया पुण्ययोगतः । किन्तूच्छिष्टैग्रहीतव्यं गुरुनाम न जातुचित् ॥ २० ॥ व्यसनी व्यसनमिव न त्यक्तुं क्षणमप्यदः । अलमस्मीति तेनोक्तः श्रेष्ठी हृष्टोऽब्रवीदिदम् ।। २९॥ तदधीष्वाखिला पञ्चपरमेष्ठिनमस्क्रियाम् । कन्याणानि यथा ते स्युः परलोकेहलोकयोः ॥ २२ ॥ ततोऽशेषनमस्कारं लब्धार्थमिव तद्धनः । परावयताजस्रं सुभगः सुभगाशयः ।। २३:: महिपीपालास्यास्य हुत्तृष्णावेदनाहरः । परमेष्ठिनमस्कारः प्रकामं समजायत ॥२४॥ एवं तस्य नमस्कारपाठव्यसननिनः सतः । कियत्यपि गते काले वर्षाकालः समाययो ॥ २५ ॥ धारानाराचधोरण्या प्रसर्पिण्या निरन्तरम् । अकीलयदिव द्यावापृथिव्यौ नव्यवारिदः ॥२६।गृहाद्गहीत्वा महिषीः सुभगोऽपि बहिर्गतः। विनिवृत्तोऽन्तराऽपश्यद्घोरपूरां महानदीम् ।।२७।। तां दृष्ट्वा स मनाम् भीतस्तस्थौ किश्चिद्विचिन्तयन् । नदी तीवा परक्षेत्रे महिष्यः प्राविशंस्ततः ॥ २८ ॥ नमस्कारं पठन् व्योमवानविद्याधिया ततः । उत्पपात कृतोत्फालो मध्येनदि पपात च ।।२०।। तत्रान्तःकर्दमं मग्नः खरः खदिरकीलकः । कृतान्तदन्तसोदर्यो हृद्यस्य प्रविशेश च ॥ ३० ॥ तथैवावर्तयन् पञ्चपरमेष्ठिनमस्क्रियाम् । तदा मर्माविधा तेन कालधर्ममियाय सः ॥३१॥ श्रेष्ठिपत्न्यास्ततः सोर्हद्दास्याः कुक्षाववातरत् । नमस्काररतानां हि सद्गतिर्न विसंवदेत् ।।३२॥ तस्मिन्
For Personal Private Use Only
Page #288
--------------------------------------------------------------------------
________________
योगशास्त्रम्।
E
ग.
॥१३॥
गर्भस्थिते मासि तार्तीयीके व्यतीयुपि । श्रेष्ठिनी श्रेष्ठिने स्वस्य दोहदानित्यचीकथत् ॥३३॥ गन्धोदकैः स्नपयितुं वि- *I
द्वितीयः लेप्तं च विलेपनैः । अर्चितुं कुसुमैरिच्छाम्यहतां प्रतियातनाः॥३४॥ प्रतिलम्भयितुं साधनिच्छाम्याच्छादनादिभिः । प्रकाशा संघं पूजयितुं दातुं दीनेभ्यश्च मतिर्मम ॥ ३५ ॥ इत्यादिदोहदास्तस्याः श्रुत्वा मुदितमानसः। चिन्तामणिरिव श्रेप्रिशिरोमणिरपूरयत ॥३६॥ ततो नवसु मासेषु दिनेष्वोष्टमेषु च । गतेषु श्रेष्ठिनी पुत्रमसूत शुभलक्षणम् ॥३७॥ सद्यो महोत्सवं कृत्वा श्रेष्ठी हृष्टः शुभे दिने । सूनोः सुदर्शन इति यथार्थ नाम निर्ममे ॥ ३८ ॥ बर्द्धमानः क्रमात्पित्रोर्मनोरथ इवोच्चकैः । सुदर्शनो यथौचित्यं जग्राह सकलाः कलाः ॥ ३९ ॥ कन्यां मनोरमां नाम मनोरमकुलाकृतिम् । साक्षादिव रमा श्रेष्ठी तेन तां पर्यणाययत् ॥ ४०॥ सौम्यमूर्तिः स हर्षाय पित्रोरेव न केवलम् । जज्ञे राज्ञोऽपि लोकस्य सर्वस्य च शशाङ्कवत् ।। ४१ ॥ इतो नगर्यो तत्राभूपतेर्हृदयङ्गमः । पुरोधाः कपिलः प्राप्तरोधा विद्यामहोदधेः ॥ ४२ ।। समं सुदर्शनेनास्य मन्मथेन मधोरिव । अजायत परा प्रीतिः सर्वदाप्यविनवरी ॥ ४३ ।। (युग्मम् ) प्रायः सुदर्शनस्यैव स पुरोधा महात्मनः । रौहिणेय इबोष्णांशोः परिपार्श्वमवर्तत ॥४४॥ कपिलं कपिला नाम भार्याऽपृच्छत्तमन्यदा। विस्मरन्नित्यकमाणि कियत्कालं नु तिष्ठसे । ॥४५॥ पार्वे सुदर्शनस्याहं तिष्ठामीति तदीरिते। कोऽसौ सुदर्शन इति तयोक्तः प्रत्युवाच सः ॥ ४६॥ मम मित्रं सतां धुर्य विश्वकप्रियदर्शनम् । सुदर्शनं न चेद्वेत्सि तवं वेत्सि न किश्चन ॥ ४७ ॥ तं ज्ञापयाधुनापीति तयोक्तः कपिलोऽवदत् । असावृषभदासस्य श्रेष्ठिनस्तनयः सुधीः॥४८॥ एष रूपेण पश्चेषुः (१) प्रतिमाः (१) प्राप्तपारः
११३५॥
For Personal & Private Use Only
wrane.lainelibrary.org
Education Interation
Page #289
--------------------------------------------------------------------------
________________
कान्त्येन्दुस्तेजसा रविः । गाम्भीर्येण महाम्भोधिः क्षमया मुनिसत्तमः ।। ४६ ।। दानैकचिन्तामाणिक्यं गुणमाणिक्यरोहणः । प्रियालापसुधाकुण्डं वसुधामुखमण्डनम् ॥ ५० ॥ खलूक्त्वा खलु यद्वाऽस्य निखिलानपरान् गुणान् । गुणचूडामणेः शीलं यस्य न स्खलति कचित् ॥ ५१ ॥ कपिला कपिलाच्छुत्वा तद्गुणान् कामविह्वला । चक्रेऽनुरागं चपलाः प्रायेण द्विजयोषितः ॥ ५२ ॥ सुदर्शनाभिसरणोपायं प्रतिदिनं ततः । कपिला चिन्तयामास परं ब्रह्मेव योगिनी १५३ || परेद्युर्नृपदेशाद्रामान्तरमुपेयुषि । कपिले कपिलेयाय सुदर्शननिकेतनम् ॥ ५४ ॥ सा मायाविन्यवोचत्तमद्य त्वत्सुहृदो महद | शरीरापाटवं तेन हेतुना नायवाविह ॥ ५५ ॥ पाटवं त्वद्विरहाद्वपुषो द्विगुणं यतः । अतस्त्वामहमाह्वातुं प्रेषिता सुहृदा तब || ३६ || नैतज्ज्ञातं मयेत्युक्त्वा तदैवात् तद्गृहम् । नान्यमायां हि शङ्कन्ते सन्तः स्वयममायिनः ॥ ५७ ॥ स तत्र प्रविशन्नूचे के नाम सुहृदस्ति मे । सोवाच गम्यतामग्रे शयानः सुहृदस्ति ते । ५= ॥ किञ्चिच परिसृप्याग्रे पुनः प्रोचे सुदर्शनः । अत्रापि कपिलो नास्ति किमन्यत्र च ।। ५६ । सोचे स्थितो निवातेऽस्ति शरीरापाटवादसी । मूलापवरकं गच्छ वयस्यं तत्र पश्य च ।। ६० ।। तत्रापि प्रविवेशायमपश्यन् सुहृदं ततः । कपिले ! कपिलः कास्तीत्युवाच सरलाशयः ॥ ६१ ॥ अवरुद्ध्य ततो द्वारं मदनोद्दीपनानि सा । किञ्चित्प्रकाश्य स्वाङ्गानि च्छादयन्त्यच्छवाससा ।। ६२ ।। दृढबन्धामपि नीवीं श्लथयित्वाऽभिवघ्नती | विलोललोचनाऽवोचद्रोमाञ्चोदश्चिकञ्चुका ।। ६३ ।। (युग्मं ) नास्तीह कपिलस्तस्मात्कपिलां प्रतिजागृहि । विभेदो भवतः को वा द्वयोः कपिलयोर्ननु || ६४ ।। प्रतिजागरितव्यं किं कपिलाया इति ब्रु( १ ) अलम् |
For Personal & Private Use Only
Page #290
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥१३६॥
Jain Education Internati
4-10-04-10.K+1084 208-03
वन् । सुदर्शनो निजगदे पुनः कपिलभार्यया ॥ ६५ ॥ त्वद्वयस्यः शशंस त्वां यदाऽद्भुतगुणं मम । ततः प्रभृति मामेष दुनोति मदनज्वरः || ६६ || दिव्या मे विरहार्त्तायामनाऽपि त्वदागमः । भुवो ग्रीष्माभितप्ताया इव मेघसमागमः ॥ ६७ ॥ अद्य नाथामि तन्नाथ ! मन्मथोन्माथ विह्वलाम् । निजाश्लेषसुधावर्षैराश्वासय चिराय माम् ॥ ६८ ॥ प्रपञ्चः कोऽप्यसावस्या दुर्विचिन्त्यो विधेरपि । धिक् स्त्रीरिति विचिन्त्योचे स प्रत्युत्पन्नधीरिदम् ॥ ६६॥ यूनां युक्तमिदं किन्तु पण्डकोऽहमपण्डिते ! | मुधा पुरुषवेषेण मदीयेनासि वञ्चिता ॥ ७० ॥ ततो विरक्ता सद्यः सायाहि याहीति भाषिणी । द्वारमुद्घाटयामास निर्ययौ च सुदर्शनः ॥ ७१ ॥ स्तोकेन मुक्तो नरकद्वारादस्मीति चिन्तयन् । श्रेष्ठिनुद्भुतपदं प्रपेदे निजमन्दिरम् ।। ७२ ।। श्रतिराचसयः कूटादतिशाकिनय छलात् । श्रतिविद्युतश्वापलाद्दारुणाः किमपि स्त्रियः ॥ ७३ ॥ एताभ्यो भीरुरस्मीति प्रत्यश्रौषद्विमृश्य सः । नातः परं परगृहे यास्या मि क्वचिदेककः || ७४ || निर्मिमाणः स धर्म्याणि कर्माणि शुभकर्मठ: । सतां मूर्त्त इवाचारो नावद्यं किञ्चिदाचरत् ॥ ७५ ॥ एकदा तु यथाकालं पुरे तस्मिन्नवर्त्तत । समग्र जगदानन्दपदमिन्द्रमहोत्सवः ॥ ७६ ॥ सुदर्शनपुरोधोभ्यां सहोद्यानं ययौ नृपः । साचादिव शरत्कालश्चन्द्रागस्तिविराजितः ॥ ७७ ॥ इतः कपिलया युक्ताऽभया भूपतिमन्वगात् । समारूढा याप्ययाने विमान इव नाकिनी ॥ ७८ ॥ सुदर्शनस्य भार्याऽपि षड्भिः पुत्रैर्मनोरमा । तत्रागाद्यानमारुह्य सतीधर्म इवाङ्गवान् ॥ ७६ ॥ तां दृष्ट्वा कपिलाऽपृच्छत्यं स्वामिनि ! वर्णिनी । रूपलावण्य - सर्वस्वभाण्डागार इवाग्रतः || ८० ॥ ततस्तामभयाऽवादीन्न ज्ञातेयमपि त्वया । सुदर्शनस्य गृहिणी गृहलक्ष्मीरिव ( १ ) क्लीबः । ( २ ) देवी ।
For Personal & Private Use Only
1089108+++10+-+0.04108
द्वितीयः
प्रकाशः
॥१३६॥
Page #291
--------------------------------------------------------------------------
________________
स्वयम् ॥८१॥ तच्छ्रत्वा विस्मिता स्माह कपिला देवि ! यद्यसौ । सुदर्शनस्य गृहिणी तदस्याः कौशलं महत् ।। ८२॥ किमस्याः कौशलमिति रायोक्ता साब्रवीत्पनः । इयन्ति पुत्रभाण्डानि यदसौ समजीजनत् ॥८३॥ स्वाधीनपतिका पुत्रानङ्गना जनयद्यदि । तर्तिक कौशलमित्युक्ताऽभयया कपिलाऽवदत् ॥ ८४ ॥ एवं देवि ! भव- ITI त्येव पतिर्यदि पुमान् भवेत् । सुदर्शनः पुनरयं पण्डः पुरुषवेषभृत् ॥ ८५॥ कथमेतत्त्वया ज्ञातं राश्येति गदिता ततः । सा सुदर्शनवृत्तान्तं खानुभूतमचीकथत् ॥ ८६ ॥ अभयाऽप्यब्रवीदेवं यद्येवं वश्चिताऽसि तत् । मूढे ! पण्डः परस्त्रीषु न त्वयं निजयोषिति ॥७॥ ततो विलक्षा कपिला प्रललापेत्यमूयिता । वञ्चिता यद्यहं मूढा प्राज्ञाया कि तवाधिकम् ।।८। अनयोचे मया मुग्धे! रागतः पाणिनाधृतः। द्रवेद्यावाऽपि निःसंज्ञःससंज्ञः किं पुनः पुमान् ॥८६॥ सासूयमूचे कपिलाऽप्येवं मा गर्वमुद्ह । गर्व वहसि चेद्देवि ! रम्यतां तत्सुदर्शनः ॥ १० ॥ व्याजहाराभया देवी साहङ्कारमिदं ततः । हला ! रमितमेवैनं मया विद्धि सुदर्शनम् ॥ ११॥ रमणीभिर्विदग्धाभिः कठोरा वनवासिनः। तपस्विनोऽपि रमिताः कोऽसौ मृदुमना गृही॥ १२॥ रमयामि न यद्येनं प्रविशामि तदाऽनलम् । इत्यालपन्त्यावुद्यानं प्रपेदाते क्षणन ते ॥१३॥ तत्रारमयतां स्वैरं नन्दनेऽप्सरसाविव । अभयाकपिले श्रान्ते स्वं स्वं धाम गते ततः ॥९४ ॥ अथ तत्राभया रात्री स्वप्रतिज्ञामजिज्ञपत् । धात्रिका पण्डितां नाम सर्वविज्ञानपण्डिताम् ।। ६५ ॥ पण्डिताऽवोचदाः ! पुत्रि! न युक्तं मन्त्रितं त्वया । अज्ञेऽद्यापि न जानासि धैर्यशक्ति महात्मनाम् ॥६६॥ जिनेन्द्रमुनिशुश्रूषानिष्कम्पीकृतमानसः । सुदर्शनः खन्वसौ तत्प्रतिज्ञां धिगिमां तव ॥ १७॥ अन्योऽपि श्रावको नित्यं परनारीसहोदरः। किमुच्यते पुनरसौ महासत्त्वशिरोमणिः॥१८| ब्रह्मचर्यधना नित्यं गुरवो यस्य साधवः।
in Education
Fer Personal Private Use Only
Page #292
--------------------------------------------------------------------------
________________
योग
14
द्वितीय
शास्त्रम्
.
.
११३७॥
डता। यद्ययं परमानेतव्योऽन्यथा ॥५॥
कय कायतमोऽब्रह्म गुरुशीलाद्युपासक ||६|| सदा गुरुकुलासीन। ध्यानमानाश्रितः सदा । आनतमभिसर्ने वाम कथं नाम शक्यते ॥१०० बरं फगिकणारन्नग्रहणाय प्रतिथयः । कदापि न पुस्तस्य शीलोखडकमये ॥१॥ अथाभयाचे कयमप्येकवारं दमानय । तत ऊध्वमहं सब करिष्यामि न त यलम् ॥२॥ विचिन्त्य चतमा किनिदित्यवोचत पण्डिता। यद्ययं निश्चयम्ते तदस्त्युपायोऽयमेककः ।।३। पवादे शून्यगेहादी कायोन्म करोति सः । तथास्थितो यदि परमानेतन्योऽन्यथा तु न ॥४॥ उपायः साधुरपोऽस्मिन यतितव्यं त्वयाऽन्वहम् । इत्युक्तवत्यां तात्पादेव्यामोमित्युवाच ना ॥५॥ ततः परं व्यतीतेपु दिवसेषु कियत्स्वपि । विश्वानन्दकृत्कौमुदीमहोत्सव उपाययो ॥६॥ अथ राजोत्सवात्सेकविधिसोत्सुकचेतसा ।
आरक्षकाः समादिष्टाः पटहेनेत्यधोपयन् ।। ७॥ मर्वा सवलोकेन कौमुद्युत्सवमीक्षितुम् । अद्योद्यानेsभिगन्तव्यमिति वो राजशासनम् ॥ ८॥ प्रातरेप्यञ्चतुर्मासधर्मकमक्रियोन्मनाः । श्रुत्वा सुदर्शनस्तत्तु विपादादित्यचिन्तयत् ।।९।। मनः प्रेहमिदं प्रातश्चैत्यवन्दनकर्मणे । उथानगतये चैतत्प्रचण्डं राजशासनम् ।।१०। क उपायो भवत्वेवं तावदित्यभिचिन्त्य सः । समर्योपायनं भूमिपतिमेवं व्यजिज्ञपत् ॥ ११ ॥ प्रातः पर्वदिनं युष्मत्प्रसादाद्विदधाम्यहम् । देवार्चादीनि (ति) तेनोक्तोऽनुमेने तन्महीपतिः ॥ १२॥ द्वितीयेऽति जिनेन्द्राणां भक्त्या स्नानं विलेपनम् । अचां च रचयंश्चैत्यपरिपाट्यां चचार सः ।। १३ ।। ततः सुदर्शनो रात्री गृहीत्वा पौपधव्रतम् । कायोत्सर्गेण कसिंश्चित्तस्थौ नगरचत्वरे ।। १४ । पण्डिताऽप्यभयामूचे कदाचिते मनोरथाः । पूर्वेन्ते परमुद्या
१ प्रतिज्ञा । २ उत्सुकम् ।
॥१३॥
in Education International
For Personal & Private Use Only
Page #293
--------------------------------------------------------------------------
________________
नमय त्वमपि मा गमः।।१५।। शिरो मे बाधत इति कृत्वोत्तरमिलापतेः । तस्थौ राशी प्रपञ्चे हि मिद्धसारस्वताः स्त्रियः ॥ १६ ॥ ततो लेप्यमयी काममूर्तिमाच्छाद्य वाससा । याने कृत्वा पण्डिताऽगात्प्रवेष्टुं राजवेश्मनि ॥ १७ ॥ किमेतदिति पृच्छद्भित्रिभिः स्खलिता तु सा । इत्यूचे पण्डिता भाण्डागारिकी कूटसम्पदाम् ।। १८॥ शरीरकारमाद्देवी नाद्योद्यानं ययौ ततः । पूजां स्मरादिदेवानां वेश्मन्येव करिष्यति ।। १६ ।। इयं प्रवेश्यते तस्माप्रतिमा पुष्पधन्वनः । अप्यन्यासां देवतानां प्रवेश्या ह्यद्य मूर्तयः ॥ २० ॥ तदिमां दर्शयित्वैव याहीति द्वाःस्थभाषिता । सा काममूर्तिमुद्घाट्यादर्शयच्च जगाम च ॥ २१ ॥ सा प्रतीहारमोहाय गृहीताऽपरमूर्तिका । द्विस्त्रिश्च प्रविवेशाहो नारीणां छद्मकौशलम् ॥ २२॥ याने सुदर्शनं त्यस्योत्तरीयेण पिधाय च । द्वाःस्थैरस्खलिताsनीयाभयायाः पण्डिताऽऽर्पयत् ।। २३॥ आविविकारा साऽनेकप्रकारं मदनातुरा । अभया संक्षोभयितुमित्यभाषत तं ततः ॥ २४ कन्दो मां दुनोत्येष निःशकं निशितैः शरैः । कन्दर्पप्रतिरूपस्तच्छ्रितोऽसि शरणं मया ॥ २५॥ शरण्यः शरणायातामाता त्रायस्व नाथ ! माम् । परकार्ये महीयांसो धकार्यमपि कुर्वते ।।२६। आनी
तरछद्मनाऽसीति कार्यः कोपस्त्वया न हि । कार्ये त्राणे यदात्तानां गृह्यते न खलु च्छलम् ।। २७ ॥ ततः सुददर्शनोऽप्युच्चैः परमार्थविचक्षणः । देवताप्रतिमेवास्थात्कायोत्सर्गेण निश्चलः ॥ २८ ।। पुनरप्यभयाऽवादीद्भावहाव
मनोहरम् । नाथ ! सम्भाषमाणां मां तूष्णीकः किमुपेक्षसे ॥ २६ ॥ व्रतकष्टमिदं मुश्च मा कृथास्त्वमतः परम् । मत्संप्राप्त्या व्रतफलं विद्धि संसिद्धमात्मनः ॥ ३० ॥ ताम्यन्तीं याचमानां मां नम्रा मानय मानद ! । दैवात्पतितमुत्सङ्गे रत्नं गृह्णासि किं न हि ॥ ३१ ॥ कियदद्यापि सौभाग्यगर्वमुन्नाटयिष्यसि । इत्यालपन्त्या जगृहे तया
in Education International
For Personal & Private Use Only
Page #294
--------------------------------------------------------------------------
________________
द्वितीय प्रकाशः।
पाणी स पाणिना ।। २२ ।। निबिर्ड मण्डलीमृतपीनो तुजस्तन तया। भुजाभ्यां पमिनोनालमृदुलान्यास सबजे शाखम् । ।।२३।। एवं तदपमर्गेपु निसर्गेण सधीरधीः । धर्मध्याने निश्चलो भृत कि चलन्यचलः कचित्।। ३४॥ स ११३८॥
दध्या चेति चेन्मुच्ये कथञ्चिदहमेतया । पारयामि तदोत्सर्गमन्यथाऽनशनं मम । ३३ ॥ अमानिताज्य घटित
कुटि कुटिलाशया । अभया भारयितुमित्यभापत निर्भया ।। ३३ ।। मुमृों ! मुखमा कापीमन्याया मेडवमाननाम् । न वेत्सि मानिनी नृणां निग्रहानुग्रहक्षमा ॥३७॥ मनोभवशाया में वशमाविश रेजड! । नो चेद्यमवशं यास्यस्यत्र नास्त्येव संशयः ।। ३-- ॥ इति संरम्भकाष्टायां साऽरोह यथा यथा । धर्मध्याने महास्मासावारुरोह तथा तथा ॥ ३६ ।। एवं कदार्थितो रात्रि तया ध्यानान्न सोऽचलत् । किं चुभ्यते महाम्भोधिः क्वापि नौदण्डताडनैः ॥ ४० ॥ ततः प्रेक्ष्य प्रभातं सा स्वं लिलेख नखैर्वपुः । कोऽप्यसौ में बलात्कारकारीत्युच्चै ररास च ॥ ४१ ॥ ततः प्राहरिकास्तत्र संभ्रान्ता यावदागमन् । कायोत्सर्गस्थितं तावद्ददृशुस्ते सुदर्शनम् । ४२।।
ओस्मन्न सम्भवत्येतदिति द्रुतमुपेत्य तैः । विज्ञप्तो भूपतिस्तत्राययौ पप्रच्छ चाभयाम् ॥ ४३ ।। सोचे संपृच्छय 18| देव ! त्वामहं यावदिह स्थिता । एपोऽकस्मादिहायातो दृष्टस्तावत्पिशाचवत् ॥ ४४ ॥ एप मेप इवोन्मत्तो मन्मथ
व्यसनी ततः। रिरंसामयाचिष्ट पापिष्ठश्चाटुकोटिभिः ॥ ४५ ॥ ऊचे मयैप रे मैपीरसतीवत्सतीरपि । शक्यन्ते हि चणकवन्मरिचानि न चर्वितुम् ।। ४६॥ ततः परं बलात्कारादेष एवं चकार मे । मया च पूत्कृतमन्यदबलानां बलं न हि ॥४७॥ अस्मिविदमसम्भाव्यमिति मत्वा महीपतिः । किमेतदिति पप्रच्छ बहुधैव सुदर्शनम् ।। ४८ ।। पृष्टोऽपि राज्ञा कृपया किञ्चिन्नोचे सुदर्शनः । परतापोपशान्त्य हि निघृष्टमपि चन्दनम्
॥१३८॥
in Education International
For Personal & Private Use Only
Page #295
--------------------------------------------------------------------------
________________
KR1X
॥ ४६ ॥ ततः सम्भावयामास दापं तस्यापि भूपतिः पारदारिकदस्यूनां तूणीकत्व हि लचणम् ॥ ४० ॥ इत्यादिदेश कोकलेऽप्यत्र पत्तने । दोषप्रख्यापनां कृत्वा पाप एष निगृयताम् ॥ ५१ ॥ भारवपुरुपैद स धृत्वोत्पादितस्तत | वचसा सिद्धयो राज्ञां मनसेव दिवौकसाम् ॥ ५२ ॥ स मण्डितमुखे मध्य शरीरे रक्तचन्दनैः । करवीरस्रजा झुण्डे कण्ठे कोशकमालया ॥ ५३ ॥ स्वरमारोप्य विधृतसूत्रः तैस्ततः वाद्यमानेनानकेनारेभे श्रमथितुं पुरे || ५४ || कृतापराधः शुद्धान्ते बध्यतेऽसौ सुदर्शनः । नात्र दोषो नृपस्येति चक्रुराघोषणां च ते ॥५५॥ न युक्तं सर्वथाऽप्येतन्नेह सम्भवतीदृशम् । इति लोकप्रघोषोऽभूद् हाहारवयुतस्ततः ॥ ५६ ॥ एवं च भ्रम्यमाणोऽगाद् द्वारदेशे स्ववेश्मनः । श्रदृश्यत महासत्या स मनोरमयाऽपि च ॥५७॥ चिन्तयामास सा चैवं सदाचारः पतिर्मम | भूपतिश्च प्रियाचारो दुराचारो विधिर्ध्रुवम् ॥ ५८ ॥ इदमप्यसदथवा ध्रुवमस्य महात्मनः । उपस्थितं फलमिदं प्राक्तनाशुभकर्मणः ॥ ५६ ॥ कोऽपि नास्य प्रतीकारस्तथाप्येष भविष्यति । निश्चित्येति प्रविश्यान्तर्जिनाचः साऽर्च्चयचतः ॥ ६० ॥ कायोत्सर्गेण च स्थित्वा सोचे शासनदेवताः । भगवत्यो मम पत्युर्दोषसम्भावनाऽपि न ॥ ६१ ॥ परमश्रावकस्यास्य सान्निध्यं चेत्करिष्यथ । तदाऽहं पारयिष्यामि कायोत्सर्गमिमं खलु ॥ ६२ ॥ अन्यथैवंस्थिताया मे भवत्वनशनं ध्रुवम् । धर्मध्वंसे पतिध्वंसे किं जीवन्ति कुलखियः १ ॥६३॥ इतश्च न्यधुरारचाः शूलिकायां सुदर्शनम् । अलङ्घनीया भृत्यानां राजाझा हि भयङ्करा ॥ ६४ ॥ स्वर्णाब्जासनवां मेजे शूलाऽप्यस्य महात्मनः । देवतानां प्रभावेन यमदंष्ट्राऽपि कुण्ठति ।। ६५ ।। वधाय तस्य चारचैर्दृढं व्यापारितः शितः । करवालोऽपतत्कण्ठे पुष्पमाला च सोऽभवत् ॥ ६६ ॥ तद्द्दृष्ट्वा चकितैरेत्य विज्ञप्तस्तैर्महीपतिः । श्रारुझ इस्तिनीं वेगाद्य
१४
For Personal & Private Use Only
Page #296
--------------------------------------------------------------------------
________________
शाखम #73 11
यात्रावसुदर्शनम् ॥६७॥ तमालि महीपालो गुवापादितः द्वितीय: ॥ ६८ ॥ मया हि तावत्पापेन किं राज्ञाऽसि विनाशितः । नाथः सतामनाथानां धर्मो जागतिं सर्वथा ॥ ६६ ॥ ॐ प्रकाशः atri मायाप्रधानानां प्रत्ययाच्चां निहन्ति यः। अविमृश्यकरः पापो नाप दधिवाहनात् ॥ ७० ॥ किंच भाज्यस्मि कारितः । यन्मया साधी ! तदा पृष्टोऽपि नावदः ॥ ७१ ॥ एवमालपता राज्ञा करिष्यामधिरोप्य सः । नीत्वा स्वम् पितचन्दनेच विलेपितः ।। ७२ ।। वस्त्रालङ्कारजातश्च परिधाय सुदर्शनः । राज्ञा पृष्टो रात्रिवृत्तं यथातथमचीक || ७३ ॥ अथ राज्ञीं प्रति क्रुद्धो भूपतिर्निग्रहोद्यतः । सुदर्शनेन व्यापे शिरः प्रक्षिप्य पादयोः ॥ ७४ ॥ ततः श्रेष्ठी नृपेणेनमारोप्य पुरमध्यतः । महाविभूत्वा तद्वेश्म नावितो न्यायतायिना || ५|| अभयाऽप्येतदाकयध्यात्मानं व्यश्यत । परद्रोहकराः पापाः स्वयमेव पतन्ति हि ॥७६॥ पण्डिता प्रणश्यागात्पाटलीपुत्रपत्तनम् | अवसदेवदत्ताया गणिकायाथ सन्निधौ ॥ ७७ ॥ तत्रापि पण्डिता नित्यं तथाऽशंसत्सुदर्शनम् । दर्शनेऽस्य यथा देवदत्ताऽभूद्भृशमुत्सुका ॥ ७८ ॥ सुदर्शनोऽपि संसारविरक्तो व्रतमग्रहीत् । उपसृत्य गुरोः पार्श्वे रत्नमम्भोनिधेरिव ।। ७९ ।। तपः कृशाङ्ग एकाङ्गविहारप्रतिमास्थितः । स क्रमा द्विहरन् प्राप पाटलीपुत्रपत्तनम् ॥ ८० ॥ भिक्षार्थं पर्यटस्तत्र दृष्टः पण्डितया च सः । कथितो देवदत्तायाः सा तथा समजूहवत् ॥ ८१ ॥ भिक्षाव्याजात्तयाऽऽहूतस्तत्रापि स मुनिर्ययौ । विमर्शमविधायैव सापायनिरपाययोः ॥ ८२ ॥ देवदत्ता ततो द्वारं पिधाय तमनेकधा । दिनं कदर्थयामास चुलोभ स मुनिर्न तु ॥ ८३ ॥ अथ मुक्तोनया सायमुद्यानं गतवानसौ । तत्रापि दृष्टोऽभयया व्यन्तरीभूतया तया ॥८४॥ कदर्थयितुमारेभे प्राकर्मस्मरणादसौ
For Personal & Private Use Only
॥ १३३ ॥
Page #297
--------------------------------------------------------------------------
________________
ऋणं वैरं च जन्तूनां नश्यजन्मान्तरेऽपि न ॥ ५॥ क्लिश्यमानो बहु तथा महासत्त्वः सुदर्शनः । आरोहत क्षपकश्रेणिमपूर्वकरणक्रमात् ।। ८६ ॥ ततः स भगवान् प्राप केवलज्ञान मुज्ज्वलम् । तस्य केवलमहिमा सद्यश्चक्रं सुरासुरैः ।। ८७ ।। उदिधीपुवाजन्तून् स चक्रे धर्मदेशनाम् । लोकोदयायाभ्युदयस्तादृशानां हि जायते ।८८॥ तस्य देशनया तत्राबुढयन्तान्ये न केवलम् । देवदत्ता पण्डिता च व्यन्तरी च व्यबुद्धयत हा स्त्रीसन्निधावपि तेदेवमदृषितात्मा, जन्तून् प्रबोध्य शुभदेशनया क्रमेण । स्थानं सुदर्शनमुनिः परमं प्रपेदे जैनेन्द्रशासनजुषां न हि तद्दरापम् ।। १६० ॥
॥ इति सुदर्शनऋषिकथानकम् ।। १०१ ॥ धर्म्य कर्मणि न पुरुपा एवाधिक्रियन्ते किन्तु स्त्रीणामप्यधिकारश्चतुर्वर्णे सद्धे तासामप्यङ्गभूतत्वात् ततः पुरुपस्य परदारप्रतिषेधवत् स्त्रीणां परपुरुषगमनं प्रतिषेधयतिऐश्वर्यराजराजोऽपि रूपमीनध्वजोऽपि च।सीतया रावण इव त्याज्योनार्या नरः परः ॥१०२॥
ऐश्वर्येण विभवेन, राजराजो धनदः स इव राजराजः, प्रास्तामितरः । रूपेण सौन्दर्येण, मीनध्वजोऽपि स्मरोऽपि, आस्तामन्यः । त्याज्यः परिहरणीयः नार्या स्त्रिया परः स्वपतेरन्यो नरः पुरुषः, क इव कया, सतिया रावण इव । सीताचरितमुक्तमेव ।। १०२ ॥
स्त्रीपुंसयोर्द्वयोरपि परकान्तासक्तत्वस्य फलमाहनपुंसकत्वं तिर्यक्त्वं दौर्भाग्यं च भवे भवे । भवेन्नराणां स्त्रीणां चान्यकान्तासक्तचेतसाम् ॥१०३॥
in Education International
For Personal & Private Use Only
Page #298
--------------------------------------------------------------------------
________________
बास्त्रम्
प्रकाशन
॥ १४
॥
नपुंसकत्वं षण्डत्वं, तिर्यकत्वं तिर्थमात्र , दीर्भाग्यमनादेयता, भवे भवे जन्मनि जमनि, भवेत् जायत, नराणां स्त्रीणां च । अन्यकान्तासक्तचेतसामिति श्लिष्टं द्वयोर्विशेषणम् यदा पुरुषाणां तदा अन्यस्य कान्ता भार्या अन्यकान्ता तदासक्तचेतसाम् । यदा तु स्त्रीणां तदा अन्यः पत्युरपरः स चासौ कान्तश्च कामयिता तबासनचेतसाम् ।।१२३॥
अब्रह्मनिन्दा कन्या ब्रह्मचर्यस्यैहिकं गुणमाहप्राणभूतं चरित्रस्य परब्रह्मैककारणम्। समाचरन् ब्रह्मचर्य पूजितैरपि पूज्यते ॥ १०४ ।।
प्राणभूतं जीवितभूतं, चरित्रस्य देशचारित्रस्य सर्वचारित्रस्य च, परब्रह्मणो मोदस्य, एकमद्वितीयं , कारणं समाचरन् पालयन् , ब्रह्मचर्य जितेन्द्रियस्योपस्थनिरोधलक्षणं पूजितैरपि सुरासुरमनुजेन्द्र न केवलमन्यै पूज्यते मनोवाकायोपचारपूजामिः ॥ १०४ ॥
ब्रह्मचर्यस्य पारलौकिकं गुणमाहचिरायुषः सुसंस्थाना दृढसंहनना नराः । तेजस्विनो महावीर्या भवेयुर्ब्रह्मचर्यतः ॥ १०५ ।।
चिरायुषो दीर्घायुषोऽनुत्तरसुरादिषूत्पादात , शोभनं संस्थानं समचतुरस्रलक्षणं येषां ते सुसंस्थानाः अनुत्तरसुरादिपूत्पादादेव, दृढं बलवत् संहननमस्थिसञ्चयरूपं वज्रऋषभनाराचाख्यं येषां ते दृढसंहननाः, एतच्च मनुजLAI भवेषूत्पद्यमानानां देवेषु संहननाभावात् , तेजः शरीरकान्तिः प्रभावो वा विद्यते येषां ते तेजस्विनः, महावीर्या
बलवत्तमाः तीर्थकरचक्रवादित्वेनोत्पादाद , भवेयुर्जायेरन् , ब्रह्मचर्यतो ब्रह्मचर्यानुभावात् ॥
in Education International
For Personal & Private Use Only
Page #299
--------------------------------------------------------------------------
________________
-
--
अत्रान्तर लोका:
पश्यन्ति कृष्णकुटिला कबरीव योषिताम् तदभिष्वङ्गजन्मान न दुष्कर्मपरम्पराम् ।।, सामन्तिीनां मीमन्तः पूर्ण सिदररेगुना । पन्धा! मीमन्तकाव्यस्य नरकस्यनि लन्यताम् ।। 5वल्लरी वर्णिनीनां वर्णयन्ति न जानने । मोक्षाध्वनि प्रस्थितानां पुगेगामुरगीमिमाम् ।।३। महरानयनापाङ्गानानानां निरीतते । हतबुद्धिने तु निजं भङ्गरं हन्त जीवितम् ॥ ४॥ नामावंशं प्रशंसन्ति खीमा सरलमुन्नतम् । निजवंशं न पश्यन्ति भ्रश्यन्तमनुरागिणः ।। ५!! खीणां कपोले संक्रान्तमात्मानं वीच्य हृष्यति । संसारमरसीपङ्के मजन्तं वेत्ति नो जडः ॥६॥ पिबन्ति रनिसर्वस्ववुझ्या बिम्बाधरं खियाः । न बुध्यन्ते यत्कृतान्तः पियत्यायुर्दिवानिशम् ।। ७। योषितां दशनान कुन्दमोदरान वह मन्यते । स्वदन्तभङ्ग नेक्षन्ते तरसा जरसा कृतम् ॥ ८॥ स्मरदोलाधिया कर्णपाशान पश्यति योषिताम् । कण्ठोपकण्ठलुठितान कालपाशांस्तु नात्मनः ।।६। योषितां प्रोषितमतिर्मुखं पश्यत्यनुनखम् । क्षणोऽपि हन्त नास्त्यस्य कृतान्तमुखवीक्षणे ॥ १० ॥ नरः स्मरपराधीनः स्त्रीकण्ठमवलम्बते । नात्मनो वेच्यसूनद्य श्वो वा कण्ठावलम्बिनः ।। ११ । स्त्रीणां भुजलताबन्धं बन्धुरं बुध्यते कृधीः । न कर्मबन्धनद्धमात्मानमनुशोचति ॥ १२॥ धत्ते खीपाणिभिः स्पृष्टो हृष्टो रोमाश्चकण्टकान् । स्मारयन्ति न किं तेऽस्य कूटशाल्मलिकण्ट कान् ॥ १३ ॥ कुचकुम्भौ समालिङ्गय स्त्रियाः शेते सुखं जडः। विस्मृता नूनमेतस्य कुम्भीपाकोद्भवा व्यथा ॥१४ ।। मध्यमध्यासते मुग्धा मुग्धाक्षीणां क्षणे चणे । एतन्मध्यं भवाम्भोधेरिति नैते विविञ्चते ॥१५॥ धिग
( १ ) नष्टमतिः ।
*:-*- -*-*-*-*-*--*-*-*
Education international
For
a
Private Use Only
Page #300
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥१४१॥
अनानां त्रिवलीतराहियते जनः । विवलीछाना ह्येतनन वैतरणीत्रयम् ॥ १६ ॥ स्मरान मजति मनः पुंसां द्वितीय स्त्रीनाभिवापिषु। प्रमादेनापि किं नेदं साम्याम्भसि मुदास्पदे ॥१७॥ स्मरारोहणनिःश्रेणी स्त्रीणां रोमलतां विदुः।।
प्रकाशः। नराःसारकारायां न पुनर्लाहशृङ्खलाम् ॥ १८ ॥ जघन्या जघनं स्त्रीणां भजन्ति विपुलं मुदा । संसारसिन्धोः पुलिनमिति नूनं न जानते ॥१६॥ भजते करभोरूणामरूनल्पमतिर्नरः। अनूरूक्रियमाणं तैः सद्गतौ स्वं न बक्ष्यते ॥२०॥ स्त्रीणां पादैईन्यमानमात्मानं बहु मन्यते । हताशो न तु जानाति क्षेप्यमाणमधोगतौ ।। २१॥ दर्शनात स्पर्शनाच्छलेषाद या हन्ति शमजीवितम् । हेयोग्रविषनागीव वनिता सा विवेकिभिः ॥ २२ ॥ इन्दुलेखेव कुटिला सन्ध्येव क्षणरागिणी । निम्नगेव निम्नगतिर्वजनीया नितम्बिनी ।। २३ ॥ न प्रतिष्ठां न सौजन्यं न दानं न च गौरवम् । न च स्वान्यहितं वामाः पश्यन्ति मदनान्धलाः॥२४॥ निरक्शा नरे नारी तत्करोत्यसमञ्जसम् । यत्क्रुद्धाः सिंहशादलव्याला अपि न कुर्वते ॥२५॥ दूरतस्ताः परित्याज्याः प्रादर्भावितदुर्मदाः। विश्वोपतापकारिण्यः करिण्य
इव योषितः॥२६॥ स कोऽपि स्मर्यतां मन्त्रःस देवः कोऽप्युपास्यताम् । न येन स्त्रीपिशाचीयं ग्रसते शीलजीवितम H॥२७॥ शास्त्रेषु श्रूयते यच्च यच्च लोकेषु गीयते । संवादयन्ति दुःशीलं तन्नार्यः कामविह्वलाः ॥२८॥ संपिण्ड्ये
वाहिदंष्ट्राग्नियमजिह्वाविषाकुरान् । जगजिघांसुना नार्यः कृताः क्रूरेण वेधसा ॥ २६ ॥ यदि स्थिरा मवेद्विद्युत्तिठन्ति यदि वायवः । देवात्तथापि नारीणां न स्थेम्ना स्थीयते मनः॥३०॥ यद्विना मन्त्रतन्त्राद्यैर्वञ्च्यन्ते चतरा अपि । इन्द्रजालमिदं हन्त नारीभिः शिक्षितं कुतः ॥३१॥ अपूर्वा वामनेत्राणां मृषावादेषु वैदुषी । प्रत्यक्षाण्यप्यकत्यानि यदपढ्नुवते चणात् ।। ३२॥ पीतोन्मतो यथा लोष्टं सुवर्ण मन्यते जनः । तथा स्त्रीसङ्गजं दुःखं सुखं In
For Personal Private Use Only
Education tema
wrane.lainelibrary.org
Page #301
--------------------------------------------------------------------------
________________
मोहान्धमानसः ॥ ३३ ॥ जटी मुण्डी शिखी मौनी नग्नो वल्की तपस्यथ । ब्रह्माऽप्यब्रह्मशीलश्चेत्तदा मद्यं न रोचते ।। ३४ ।। कण्डूयन् कच्छुरः कच्छू यथा दुःखं सुखीयति । दुर्वारमन्मथावेशविवशो मैथुनं तथा ।। ३५ ।। नार्यो यैरुपमीयन्ते काश्चनप्रतिमादिभिः । आलिङ्गथालिङ्गय तान्येव किमु कामी न तृप्यति ।। ३६ ॥ यदेवाङ्गं कुत्सनीयं गोपनीयं च योषिताम् । तत्रैव हि जनो रज्येत् केनान्येन विरज्यताम् ।। ३७ ॥ मोहादहह नारीणामङ्मासास्थिनिर्मितैः । चन्द्रेन्द्रीवरकुन्दादि सदृक्षीकृत्य क्षितम् ३८ ॥ नारी नितम्बजघनस्तनभूरिभारा-मारोपयन्त्यरसि मढधियो रताय । संसारवारिनिधिमध्यनिमज्जनाय जानन्ति तां न हि शिलां निजकण्ठबद्धाम् ।। ३६ ।। भवोदन्वद्वेलां मदनमृगयुव्याधहरिणी, मदावस्थाहालां विषयमृगतृष्णामरुभुवम् । महामोहध्वान्तोच्चयबहुलपक्षान्तरजनीम्, विपत्खानि नारी परिहरत हे श्राद्धसुधियः । ॥ ४० ॥ १०५ ।।
संप्रति मूर्छाफलमुपदर्शयंस्तनियन्त्रणारूपं पञ्चममणुव्रतमाहअसन्तोषमविश्वासमारम्भं दुःखकारणम्। मत्वा मूर्छाफलं कुर्यात्परिग्रहनियन्त्रणम् ॥१०॥
दुःखकारणमित्यसन्तोषादिभित्रिभिः प्रत्येकमभिसंबध्यते । असन्तोषादीनि दुःखकारणानि माया गर्द्धस्य फलत्वेन विज्ञाय मृाहेतोः परिग्रहस्य नियन्त्रणं नैयत्यमुपासकः कुर्यादिति योगः। तत्रासन्तोषस्तृप्त्यभावः, स दुःखकारणम् । मृच्छवान् हि बहुभिरपि धनैने संतुष्यति, उत्तरोत्तराशाकदर्थितो दुःखमेवानुभवति । परसंप
(१) काम एव मृगयुः व्याधः तस्य व्याधे वेधने हरिणीम् ।
- तस्य व्याधे वेध लागण्यति, उत्तरोत्तराशादिति योगः। तत्रान माया गर्दा
in Education International
For Personal & Private Use Only
Page #302
--------------------------------------------------------------------------
________________
योग
द्वितीयः प्रकाशः।
शास्त्रम्
॥१४२॥
दुत्कर्षश्च हीनसंपदमसन्तुष्टं दुःखाकरोति । यदाह
असन्तोषवतां पुंसामपमानः पदे पदे । सन्तोषैश्वर्यसुखिनां रे दुर्जनभूमयः ॥१॥
अविश्वासः खल्वपि दुःखकारणम् , अविश्वस्तो ह्यशङ्कनीयेभ्योऽपि शङ्कमानः स्वधनस्य रक्षां कुर्वन्न कचिद्विश्वसिति । यदाह
उक्खणइ खणइ निहणइ रतिं न सुबइ दिआ वि अ ससंको। लिंपइ ठवेइ सययं लंछियपडिलंछियं कुणह॥१॥ म परिगतश्चारम्भं प्राणातिपातादिकं प्रतिपद्यते । तथाहि
तनयः पितरं पिता च तनयं भ्राता च भ्रातरं हिनस्ति, गृहीतलञ्चश्च कूटसाक्षित्वदायी बहनृतं भाषते, बलप्रकर्षात्पथिकजनं मुष्णाति, खनति खात्रं, गृह्णाति विन्दं, धनलोभात् परदारानभिगच्छति, तथा सेवाकृषिपाशुपाल्यवाणिज्यादि च करोति । मम्मणवणिगिव नद्यादिषु प्रविश्य काष्ठान्याकर्षति । ननु दुःखकारणं मूर्छाफलं ज्ञात्वा परिग्रहनियन्त्रणं कुर्यादिति केयं वाचो युक्तिः। उक्तमत्र-मूर्छाकारणत्वात् परिग्रहोऽपि मुथैव, अथवा "मूर्छा परिग्रहः" इति सूत्रकारवचनात् मूच्र्छव परिग्रह इति निश्चयनयमतेनोच्यते, मूछामन्तरेण धनधान्यादेरपरिग्रहत्वात् । यदाह
अपरिग्रह एव भवेद्वस्त्राभरणाघलङ्कृतोऽपि पुमान् । ममकारविरहितः सति ममकारे सङ्गवानग्नः ॥१॥ तथा
(१) उत्खनति खनति निहन्ति रात्रिं न स्वपिति दिवाऽपि च सशङ्कः । लिम्पति स्थापयति सततं लाञ्छितप्रतिलाञ्छितं करोति ॥ १॥ (२) 'बन्दं ' इति प्रत्यन्तरपाठः साधीयान् ।
॥१४॥
Jain Education intematarel
For Personal & Private Use Only
Page #303
--------------------------------------------------------------------------
________________
ग्रामं गेहं च विशन् कर्म च नोकर्म चाददानोऽपि । अपरिग्रहोऽममत्वोऽपरिग्रहो नान्यथा कश्चित् ॥१॥ तथा
'जं पि वत्थं व पायं वा कंबलं पायपुंछणं । तं पि संजमलजट्ठा धारंति परिहरंति ॥१॥ नै सो परिग्गहो वुत्तो नायपुत्तेण ताइणा । मुच्छा परिग्गहो वुत्तो इइ वृत्तं महेसिणा ॥२॥
इति सर्वमवदातम् ॥ १०६ ॥ प्रकारान्तरेण परिग्रहनियन्त्रणमाहपरिग्रहमहत्त्वाद्धि मज्जत्येव भवाम्बुधौ। महापोत इव प्राणी त्यजेत्तस्मात् परिग्रहम्॥१०७॥ ॐ
परिगृह्यत इति परिग्रहो धनधान्यादिस्तस्य महत्त्वं निरवधित्वं तस्माद्धेतोः मन्जत्येव, अवश्यमेव मजति, प्राणी शरीरी, भवे संसारे क इव क ? अम्बुधौ समुद्रे महापोत इव महायानपात्रमिव, यथा निरवधिधनधान्यादिमाराकान्तः | पोतः समुद्रे मजति, तथैवापरिमितपरिग्रहः प्राणी नरकादौ निमजति । यदाहु:
“महारंभयाए महापरिग्गयाए कुणिमाहारेणं पंचिंदियवहेणं जीवा नरयाउयं अजंति"। तथा बहारम्भपरिग्रहत्वं च नारकस्यायुष इति यस्मादेवं तस्मात्त्यजेनियन्त्रयेत परिग्रहं धनधान्यादिरूपं मृ.रूपं वा ॥१०७॥
(१) यदपि वस्त्रं वा पात्रं वा कम्बलं वा पादप्रोञ्छनम् । तदपि संयमलज्जार्थ धारयन्ति परिभुञ्जते च ॥१॥ (२) न स परिग्रह उक्तः ज्ञातपुत्रेण तायिना | मूर्छा परिग्रह उक्तः इत्युक्तं महर्षिणा ॥ २॥ (१) महारम्भतया महापरिग्रहतया कुणिमाहारेण पञ्चेन्द्रियवधेन जीवा नरकायुष्कमर्जन्ति ।
Jan Education inten
For Personal & Private Use Only
Page #304
--------------------------------------------------------------------------
________________
योग
शास्रम्
॥ १४३ ॥
Jain Education Intern
*0-104-11 सत्र
सामान्येन परिग्रहदोषानाह -
त्रसरेणुसमोऽप्यत्र न गुणः कोऽपि विद्यते । दोषास्तु पर्वतस्थूलाः प्रादुष्षन्ति परिग्रहे ॥१०८॥
त्रसरेणवो गृहजालान्तःप्रविष्टसूर्यकिरणोपलच्याः सूक्ष्मा द्रव्यविशेषास्तत्समोऽपि तत्प्रमाणोऽपि अत्र परिग्रहे न कश्चन गुणोऽस्ति, न हि परिग्रहबलादामुष्मिकः पुरुषार्थः सिद्ध्यति । यस्तु भोगोपभोगादिः स न गुणः प्रत्युत गर्द्धहेतुत्वाद्दोष एव । योऽपि जिनभवनविधानादिलचणः परिग्रहस्य गुणः शास्त्रे वर्ण्यते न स गुणः, किं तु परिग्रहस्य सदुपयोगव्यावर्णनं न तु तदर्थमेव परिग्रहधारणं श्रेयः । यदाहुः
धर्मार्थं वित्तस्यानीहा गरीयसी । प्रचालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥ १ ॥ तथा'कंचणमणिसोवाणं थंभसहस्सोसियं सुवष्पतलं । जो कारिज जिणहरं तच वि तवसंजमो अहिओ* ॥ १ ॥ व्यतिरेकमाह — दोषास्तु दोषाः पुनः पर्वतस्थूला अतिमहान्तो वक्ष्यमाणाः परिग्रहे सति प्रादुष्यन्ति प्रादुर्भवन्ति ।। १०८ ।। दोषास्तु पर्वतस्थूला इति यदुक्तं तत् प्रपञ्चयति –
(१) काञ्चनमणिसोपानं स्तम्भसहस्त्रोच्छ्रितं सुवर्णतलम् । यः कारयेज्जिनगृहं ततोऽपि तपःसंयमोऽधिकः ॥ १ ॥ (२) ' अनंतगुणो ' इति प्रत्यन्तरे * संबोधसत्तरिवृत्तौ तुकंचणमणिसोवाणे थम्भ सहस्सूसिए सुवन्नतले । जो कारवेज्ज जिणहरे तओवि तवसंजमो अनंतगुणो ति ॥ एवं पाठो दृश्यते ।
For Personal & Private Use Only
द्वितीयः प्रकाशः ।
॥ १४३ ॥
Page #305
--------------------------------------------------------------------------
________________
| सङ्गाद्भवन्त्यसन्तोऽपि रागद्वेषादयो द्विषः।मुनेरपि चलेच्चेतो यत्तेनान्दोलितात्मनः॥१०९॥
सङ्गात्परिग्रहाद्धेतोर्भवन्ति प्रादुर्भवन्ति असन्तोऽपि उदयावस्थामप्राप्ता अपि रागद्वेषप्रभृतयः शत्रवः । सङ्गवतो हि तन्निवन्धनो रागः प्रादुर्भवति । सङ्गप्रतिपन्थिषु च द्वेषः, एवं मोहभयादयो वधबन्धादयो नरकपातादयश्च द्रष्टव्याः। तदिदं पर्वतस्थूलत्वं दोषाणाम् । कथमसन्तोऽपि रागादयो भवन्तीति ? उच्यते-यत यस्सान्सुनेरपि प्रास्तामन्यस्य चले प्रशमावस्थायाश्यवेत् चेतो मनः तेन सङ्गेन आन्दोलितात्मनः अस्थिरीकुतात्मनः। मुनिरपि हि सङ्गानङ्गीकुर्वन्मुनित्वाद् भ्रश्यत्येव । यदाह
'छेओ भेओ वसणं आयासकिलेसभयविवागो अ। मरणं धम्मभंसो अरई अत्थाओ सव्वाइं ॥१॥ दोससयमूलजालं पुवरिसिविवज्जियं जई वंतं । अत्थं वहसि अणत्थं कीस निरत्थं तवं चरसि ॥२॥ वैहबंधणमारणसेहणाओ काो परिग्गहे णत्थि। जब परिग्गहो चिय जइधम्मो तो णा पवंचो॥३॥१०॥
सामान्येन परिग्रहस्य दोषानभिधाय प्रकृतेन श्रावकधर्मेणामिसंबनातिसंसारमूलमारम्भास्तेषां हेतुः परिग्रहः । तस्मादुपासकः कुर्यादल्पमल्पं परिग्रहम् ॥११०॥ |
(१) छेदो भेदो व्यसनं आयासक्लेशभयविपाकाश्च । मरणं धर्मभ्रंशः अरतिरर्थात् सर्वाणि ॥१॥ (२) दोषशतमूलजालं पूर्वर्षिविवर्जितं यदि वान्तम् । अर्थ वहसि अनर्थ कस्मानिरर्थे तपश्चरसि ॥ २॥ (३) वधबन्धनमारणसेघनाः काः परिग्रहे न सन्ति । तद् यदि परिग्रह एव यतिधर्मस्ततो ननु प्रपश्चः ॥ ३॥
Jain Education inter
For Personal & Private Use Only
Page #306
--------------------------------------------------------------------------
________________
योग
शाखम्
॥ १४४ ॥
-19-04
रम्भाः प्राप्युपमर्दादयस्ते संसारस्य मूलम् एतदविवादसिद्धं ततः किं तेषामारम्भाणां हेतुः कारणं ? परिग्रहः, यत एवं तस्मादुपासकः साधूपासकः परिग्रहं धनधान्यादिकमल्पमन्यं नियतपरिमाणं कुर्यात् ॥ ११० ॥ पुनरपि सिंहावलोकितेन परिग्रहदोषानाह -
मुष्णन्ति विषयस्तेना दहति स्मरपावकः । रुन्धन्ति वनिताव्याधाः सङ्गैरङ्गीकृतं नरम् ॥ १११ ॥
सङ्गैर्धनधान्यहिरण्यादिपरिग्रहैरङ्गीकृतं वशीकृतं यथा बहुपरिग्रहं कान्तारगतं पुरुषं चौरा मुष्णन्ति तथा संसारकान्तारगतं विषयाः शब्दादयः संयम सर्वस्वापहारेण मुष्णन्ति निर्द्धनीकुर्वन्ति । यथा वा बहुपरिग्रहं नष्टुमशक्नुवन्तं दीप्तो दवाग्निर्दहति तथा संसारकान्तारगतं मन्मथाग्निचिन्तादिना दशप्रकारेण विकारेण ददत्युपतापयति । यथा वा बहुपरिग्रहं कान्तारगतं व्याधा लुब्धका धनशरीरलोमेन रुन्धन्ति पलायितुमपि न ददति, तथा भवकान्तारगतं वनिताः कामिन्यो धनार्थिन्यः शरीरभोगार्थिन्यश्च स्वातन्त्र्यवृत्तिनिषेधेन रुन्धन्ति । अपि च बहुनापि परिग्रहेण काङ्क्षावतां न तृप्तिः सम्भवति अपि त्वसन्तोष एव वर्द्धते । यन्मुनयः --
सुवरुपस्सय पच्वया भवे सिया हु केलाससमा असङ्ख्या ।
नरस्स लुद्धस्स न तेहि किंचि इच्छा हु आगाससमा अति ।। १ ।।
( १ ) सुवर्णरूप्यस्य च पर्वता भवे स्युः खलु कैलाससमा असङ्ख्यकाः । नरस्य लुब्धस्य न तैः किञ्चित् इच्छा खलु आकाशसमाऽनन्ति ॥ १ ॥
For Personal & Private Use Only
4-08-0
द्वितीय:
प्रकाश: ।
॥ १४४ ॥
Page #307
--------------------------------------------------------------------------
________________
पुढवी साली जवा चेव हिरणं पसुभिस्सह । पडिपुर्ण नालमेगस्स इइ विजा तवं चरे ॥२॥ कवयोऽप्याहु:__ तृष्णा खनिरगाधेयं दुष्पूरा केन पूर्यते । या महद्भिरपि चितैः पूरणैरेव खन्यते ॥ १॥
तथा। तेहा अखंडिअ चिय विहवे अच्चुत्रए वि लहिऊण । सेलं पि समारुहिऊण किं व गयणस्स भारूढं ॥१॥१११॥
एतदेवाहतृप्तो न पुत्रैः सगरः, कुचिकर्णो न गोधनैः। न धान्यैस्तिलकश्रेष्ठी, न नन्दः कनकोत्करैः॥११२॥
सगरो द्वितीयश्चक्रवर्ती, न षष्टिसहस्रसंख्यैः पुत्रैः सन्तुष्टस्तृप्तोऽभवत् । कुचिकर्णो नाम कश्चित् स बहुमिरपि गोधनैने उसः । तिलको नाम श्रेष्ठी न धान्यैस्तृप्तः। न वा नन्दनृपतिः कनकराशिभिस्तृप्तः ततोऽसन्तोषहेतुरेव परिग्रहः । सम्प्रदायगम्याश्च सगरादयः ।
स चायम्
पासीत्पुर्यामयोध्यायां जितशत्रुर्महीपतिः । युवराजः सुमित्रोऽभूदुमाववनिमावतुः॥१॥ जितशत्रोरभूत्यूनुरजितस्वामितीर्थकत् । सगरश्चक्रवर्ती च सुमित्रस्य महाभुजः॥२॥ जितशत्रुसुमित्रौ च व्रतं जगृहतुस्ततः ।
(१) पृथ्वी शालयो यवा एव हिरण्यं पशुभिः सह । प्रतिपूर्ण नालमेकस्य इति विदित्वा तपश्चरेत् ।। २॥ (२) तृष्णा अखण्डिता एव विभवान् अत्युन्नतान् अपि लब्ध्वा । शैलमपि समारुह्य किं वा गगनस्य आरूढम् ॥१॥
Jain Education internations
२५
For Personal & Private Use Only
Page #308
--------------------------------------------------------------------------
________________
योगशास्त्रम् ॥१४॥
द्वितीयः प्रकाशः।
राजाभृदजितस्वामी सगरो युवराट् पुनः । ३।। प्रवत्राजाजितस्वामी गते काले कियत्यपि । राजाऽभूत्सगरश्चक्रवर्ती ऋषभमूनुवत् ॥ ४ ॥ अथ षष्टिसहस्राणि जज्ञिरे तस्य सूनवः । खेदच्छिदः संश्रितानां शाखा इव महातरोः ॥॥ ज्येष्ठो जहनुः कुमारोऽभूत्तेषां सगरजन्मनाम् । तेनैकदा तोपितोऽदाद्देवतेव पिता वरम् ।। ६ ॥ त्वत्प्रसादेन दण्डादिरत्नैः सह सबान्धवः । महीं विचरितुं वाञ्छामीति जनुरयाचत ॥७॥ तद्दत्वा सगरेणापि विसृष्टः प्राचलत्ततः। जह्नुहृतसहस्रांशुः सहस्रै'छत्रमण्डलैः॥ ८॥ ऋडया महत्या भक्त्या चार्हचैत्यानि पदे पदे । सोर्चयन् विचरन्नुवीं ययावष्टापदं क्रमात् ॥ ६॥ तमष्टयोजनोच्छ्रायं चतुर्योजनविस्तृतम् । आरोहत्सह सोदर्यै जह्नुर्मितपरिच्छदः ॥ १०॥ तत्रैकयोजनायाममर्द्धयोजनविस्तृतम् । त्रिगव्यूत्युन्नतं चैत्यं चतुरं विवेश सः॥११॥ बिम्बानि स्वस्वसंस्थानमानवर्णानि तत्र सः। अर्हतामृपभादीनां यथावत्पर्यपूजयत् ॥ १२ ।। ववन्दे भरतभ्रातृशतस्तूपांश्च पावनान् । किश्चिद्विचिन्त्य श्रद्धालुरुचरेवमुवाच च ॥१३॥ अष्टापदसमं स्थानं मन्ये क्वापि न विद्यते । कारयामो वयं यत्र चैत्यमेतदिवापरम् ॥ १४ ॥ मुक्तोऽपि भरतं भुक्ते भरतश्चक्रवर्त्य हो । शैले भरतसारेऽस्मिश्चैत्यव्याजादवस्थितः ॥१।। एतदेव कृतं चैत्यमस्माभिश्चेद्विधीयते । भविष्यत्पार्थिवैरस्य लुप्यमानस्य रक्षणम् ॥१६॥ ततःसुरसहस्राधिष्ठितमादाय पाणिना। स दण्डं भ्रामयामास परितोष्टापदाचलम् ॥१७॥ चले योजनसहस्रदीर्णा कृष्माण्डवन्मही। भ्राम्यता तेन भिन्नानि नागानां भुवनानि च ॥१८॥ तैर्भीतैःशरणं भेजे स्वस्वामी ज्वलनप्रभः। सज्ञात्वाऽवधिनोपेत्य जनुमित्यब्रवीत् क्रुधा ॥१६॥ अनन्तजन्तुनिर्घातकारणं किमकारणं । भवद्भिर्विदधे मर्दारुणं भूमिदारणम् ॥२०॥ अजितस्वामिभ्रातृव्यैः पुत्रैः सगरचक्रिणः। किमेतक्रियते पापमरे रे। कुलपासनाः॥२१॥
॥१४॥
in Education International
For Personal & Private Use Only
Page #309
--------------------------------------------------------------------------
________________
जनुरूचे मया चैत्य चैत्यं त्रातुमदः कृतम् । युष्मद्भवनभङ्गोऽभूद्यदज्ञानात्स सह्यताम् ।।२२।। अज्ञानकृतमागोद सोढं ते मा कृथाः पुनः । इत्युदीर्य मिजं धाम जगाम ज्वलनप्रभः ।। २३ । सानुजोऽचिन्तयञ्जन्हुः कृतेय परिखा परम् । परिपूरिष्यते पांशु रे कालेन गच्छता ॥ २४ ॥ ततः स कृष्ट्वा दण्डेन गङ्गां तत्राक्षिपद्भशम् । उपद्रुतानि तत्तोयैः पुनर्वेश्मानि भोगिनाम् ।। २५ ।। द्धोऽथैत्य समं नागकुमारचलनप्रभः । तान् दृष्ट्वा भस्मसाच्चके दवानल इव दुमान् ॥ २१॥ धिग्धिग्नः स्वामिनः प्तुष्टाः क्लीवानामिन पश्यताम् । हियेत्ययोध्यासविधे तस्थुरागत्य सैनिकाः ॥२७॥ म्वं मुखं दर्शयिष्यामो वक्ष्यामोदः कथं प्रभोः । इति मन्त्रयतां तेषां कोऽप्येत्येत्यवदद् द्विजः ॥२-11 कयापियाम्बदो राज्ञो न च मोहो भविष्यति । उत्तरिष्यत्यवचं वो मा भूत व्याकुला ननु ॥२६॥ इत्युक्या मृतकं कश्चिदादायानाथमभ्यगात् । राजद्वारे मृतापत्य इस सव्यलपततः ॥३०॥ राज्ञाप्रच्छि ततोऽवादीदयमेकः सुनो मन । दष्टः सर्पण निश्चेष्टस्तदेवो जीवयतमुम् ॥ ३१ ॥ अथादिष्टैनरेन्द्रेण नरेन्द्रमन्त्र कौशलम् । निजं प्रयुक्तं तत्राभूत्तद्भस्मनि हुतोपमम् ।।१२!! मृतो जीवयितुं शक्यो नायं तावविजोऽप्ययम् । कथं नु छान्दसो बोध्य इत्यालोच्योचिरेऽथ ते ॥ ३३ ॥ यस्मिन् वेश्मनि नो कोऽपि मृतः पूर्व ततोऽधुना। भृशमानीयतां रक्षा जीवयामस्तया त्वमुम् ।। ३४ ॥ ततो द्वाःस्थैर्नृपादेशात्पुर्या ग्रामेषु चेक्षितम् । गृहं न दृष्टं तरिकश्चिन्मृतो यत्र न कश्चन ॥ ३५ ॥ राजाऽप्यूचे मदीयेऽपि कृले कुलकरा मृताः । भगवानृषभस्वामी भरतश्च
क्रवर्त्यपि ।। ३६ । राजा बाहुबलिः सूर्ययशाः सोमयशा अपि । अन्येऽप्यनेकशः केपि शिवं केऽपि दिवं ययुः। H॥३७ ।। जितशत्रुः शिवं प्राप सुमित्रस्त्रिदिवं ततः । सर्वसाधारणं मृत्यु स्वमूनोः सहसे न किम् ।। ३८ ॥
in Education International
For Personal & Private Use Only
Page #310
--------------------------------------------------------------------------
________________
होग
शास्त्रम्
१४६ ।।
विमोऽप्यचे सत्यमेतत्तथाऽप्येको हि मे सुतः । रक्षणीयस्त्वया दीनानाथा सर्वात २० ॥ अथोचे aai isो वाण मा मुह शरणं मरणास हि भववैराग्यभावना ॥ ४० ॥ व्याजहार द्विजोऽप्येवं यद्येवं साधु बुद्ध महीश ! मा मुहः पष्टिसहस्रसुतमृत्युना ॥ ४ ॥ ततः स यावद्वषो हाकिमेतदित्यचिन्तयत् । are infoताः सैन्याः सर्वमाख्यन्नुपेत्य ते ॥ ४२ ॥ उदन्तेन ततस्तेन दारुणेनाथ मूर्कितः । पपात भूपतिर्भूमौ पर्वतः पविनेव सः ॥ ४३ ॥ लब्धसंज्ञस्वतो राजा रुदित्या जनवत्क्षणम् । भेजे संसारवैराग्यं चिन्तयामास चेत्यसौ ॥ ४४ ॥ अन्वयं मण्डविष्यन्ति प्रीणविष्यन्ति मां सुता । इत्याशा विममामारं संसारं जानतो प्यभूत् ।। ४५ ।। द्वित्रैस्त्रिचतुरैः पञ्चपैर्वाऽन्येषां भवेत्कथम् । पुत्रैस्तृप्तिरियन्मात्रैरपि यन्मे व ४६ ॥ तृि कथम कुर्युस्तन्ममात्मजाः । ईदृग्नतिमकाण्डेऽयुवृप्ताः प्राणितस्य ते ॥४७॥ इत्थं विचिन्याथ सुतैरवृतिकः, स तत्क्षये जनुसुतं भगीरथम् । राज्ये निवेश्याजितनाथसन्निधौ, प्रव्रज्य वव्राज तदचयं पदम् ॥ ४८ ॥ ॥ इति सगरचक्रिकथानकम् ॥
ग्रामः सुघोषो नामाऽभून्मध्ये मगधनीवृतः । कुचिकर्णाभिधानश्च ग्रामणीस्तत्र विश्रुतः ॥ १ ॥ गवां शतसहस्राणि तस्य संजज्ञिरे क्रमात् बिन्दुना बिन्दुना इन्त म्रियते हि सरोवरम् || २ || गोपालानां पालनाय सोऽर्पयामास गास्ततः । भव्या मम न ते भव्या इत्ययुध्यन्त ते बहिः ।। ३ ।। कुचिकर्णो विभज्यैता आर्पयत् कस्यचित् सिताः । कृष्णाः कस्यापि कस्यापि रक्ताः पीताश्च कस्यचित् ॥ ४ ॥ पृथक् पृथगरण्येषु गोकुलानि न्यवेशयत् । भुञ्जानो दधिपयसी सोऽवसत्तेषु च क्रमात् ॥ ५ ॥ अन्वहं वर्द्धयामास गोष्ठे गोष्ठे स गोधनम् ।
For Personal & Private Use Only
द्वितीय
प्रकाशः ॥
॥१४६॥
Page #311
--------------------------------------------------------------------------
________________
अतृप्तो दघिपयसोः सुराया इव दुर्मदः ॥ ६॥ तस्याभवदथाजीर्णमध ऊर्ध्व सरद्रसम् । प्रदीपनान्तःपतितस्येव दाहो महानभूत् ॥ ७॥ हा धेनवो हा नवतर्णकाश्च, हा शाक्करा वः कदा च लप्स्ये । स गोधनैरेवमतृप्त एव. मृत्वाऽथ तिर्यग्गतिमाससाद ॥८॥ ॥ इति कुचिकर्णकथानकम् ।
श्रेष्ठ्यासीतिलको नाम पुरेऽचलपुरे पुरा । असौ पुरेषु ग्रामेषु चाकरोद्धान्यसंग्रहम् ॥ १।। माषमुद्गतिलब्रीहिगोधूमचणकादिकम् । ददौ साड़िकया धान्यं काले सार्द्ध च सोऽग्रहीत् ॥२॥ धान्यैर्धान्यं धनैर्धान्यं धान्यं जीवधनैरपि । उपायैश्चाग्रहीद्धान्यं ध्यायन् धान्यं स तत्त्ववत् ॥ ३॥ दुर्भिक्षकाले धान्येभ्यः प्रत्युपातैर्महाधनैः । बभार परितो धान्यैरिवासौ धान्यकोष्ठकान् ॥ ४॥ पुनः सुभिक्षे धान्यं स क्रीत्वा क्रीत्वा समग्रहीत् । लब्धास्वादः पुमान् यत्र तत्रासक्तिं न मुश्चति ॥ ५॥ कीटकोटिवधं नैपोऽजीगणत् कणसंग्रहे । पीडां पञ्चेन्द्रियाणामप्यतिभाराधिरोपणात् ।। ६ ।। नैमित्तः कोऽपि तस्याख्यद्भाविदुर्भिक्षमैषमः । सर्वस्वेनाथ सोऽक्रीणाकणान पुन रवृप्तिकः ॥ ७॥ वृद्ध्योऽपि द्रव्यमाकृष्याग्रहीद्धान्यमनेकधा । स्थानाभावे गृहेऽक्षप्सीत् किं न कुर्वीत लोभवान् ॥ ८॥ असौ जगदमित्रस्य मित्रस्येवोन्मनास्ततः । दुर्भिक्षस्यैष्यतो मार्गमीक्षाश्चक्रे दिने दिने ॥ ६ ॥ अथ वर्षाप्रवेशेऽपि ववर्षोपेत्य सर्वतः । धारासारैनस्तस्य हृदयं दारयन्निव ॥ १० ॥ गोधूममुद्रकलमाश्चणका मकुष्टा, माषास्तिलास्तदपरेऽपि कणा विनश्य । यास्यन्ति संप्रति हहेति स तैरतृप्तो, हृत्स्फोटजातमरणामरकं प्रपेदे ॥११॥
इति तिलकश्रेष्ठिकथानकम् ।। (१) वृषभाः । (२) जीवा गवादयः त एव धनानि तेः ।
in Education International
For Personal & Private Use Only
Page #312
--------------------------------------------------------------------------
________________
बाग
शास्त्रम्
॥ १४७॥
महेन्द्रनगरीप्रतिविम्बमिवोचरैः । आख्या पाटलीपुत्रमित्यपि ॥ प्रामीत्राति सुत्रामा वर्ग । त्रिखण्ड सुधाधीशां नन्दो नाम नरेश्वरः || २ || सोकराणां करें चक्रे सकराणां महाकरम् । महाकराणामपि न किचित्रे करान्तरम् ॥ यं को निभ्यो धनमग्री | छल वहति भूपानांत नेति न वदन ॥ ४ ॥ सर्वोन चोकानिपः स उपाददे । अपामना पात्र नान्य इति च ॥ ५ । तथा सोऽग्रह लोकालोको निर्धनो यथा भूमावतीयां न खलु प्राप्यते तृणम् || ६ | हिरण्यनाणकाख्याऽपि तेन लोकेषु नाशिता । प्रवृत्तो व्यवहारोजी चर्मणो नायकैस्तदा ॥७॥ पाखण्डashtra यसवर्थमदण्डपत हुताशनः सर्वभक्षी न हि किञ्चिद्विति ॥ ॥ श्रीवीरमोक्षादेकोनविंशत्यब्दशतेषु यः साग्रेषु भावी किं सोऽयं कन्कीति जन्यागभूत् ॥ ॥ आकांशान् पश्यतोऽप्यस्य भूमिभाजनभोजनः । जनो ददौ गतभयो, भयं भवति भाजने ॥ १० ॥ स स्वर्णेः पर्वतां पूरयामास चावटान भाण्डागाराणि चापूरि पूर्णकामस्तु नाभवत् ॥ ११ ॥ आर्य तत्तथाऽयोध्यानाथनाथ हितैषिणा । तं प्रबोधयितुं वाग्मी दूतः प्रेषित आगमत् ॥ १२ ॥ सर्वतोऽप्याहृतश्रीकं निःश्रीकं तं तथापि हि। दूतो भूपमथापश्यन्नत्वा चोपाविशत्पुरः ॥ १३ ॥ सोऽनुज्ञातो नृपेोचे श्रुत्वा मत्स्वामिवाचिकम् । कोपितव्यं न देवेन न हिताचादुभाषिणः || १४ || अवर्णवादो देवस्य यः परम्परया श्रुतः । स प्रत्यक्षीकृतो ह्यद्य न निर्मूला जनश्रुतिः ।। १५ ।। अन्यायतोऽर्थलेशोऽपि राज्ञः सर्वयशश्विदे । अप्येकं तुम्बिकाबीजं गुडभारान् विनाशयेत् ।। १६ ।। श्रात्मभूताः प्रजा राज्ञो राजा न छेत्तुमर्हति । क्रव्यादा अपि न क्रव्यं निजमश्नन्ति जातुचित् ॥ १७ ॥ प्रजाः पुषाण पुष्ण
For Personal & Private Use Only
द्वितीय
प्रकाशः ।
॥ १४७ ॥
Page #313
--------------------------------------------------------------------------
________________
न्ति पोषित एव ता नृपम् । वाही दते दुग्धमपोषिता ॥ १८ ॥ सर्वदोषभो लोभः सर्व गुणापहः । लोभस्तच्यज्यतामेतवहितो वक्ति मत्प्रभुः ॥ १० ॥ नन्दोऽपि तहिरा दावदग्धभूरिव वारिणा । अत्युष्णवाष्पमुमुचद् दग्धुकाम इवाशुतम् ॥ २० ॥ राजदौवारिको जातु न वध्य इति नन्दरात् । उत्थाय गर्भवेश्मान्तः सशिरोऽरिवाविशव || २२ || नासौ सदुपदेशानां जवामक इवाम्भसाम् योग्य इत्यामृशन्तोऽ प्यात स्वस्वामिनोऽन्तिकम् ।। २२ ।। नन्दोऽप्यन्यायपापोन्थैर्वेदनादानदारुणैः । संगैरिहापि संप्राप्तः परमधार्मि कैरिव ।। २३ ।। वेदनाभिर्दारुणाभिः पीड्यमानो यथा यथा । नन्दकन्द लोको भूखातानन्दस्तथा तथा ||२४|| पच्यमानो भुज्यमानो दह्यमान इव व्यथाम् । अवाप नन्दः स्तोकं हि सर्व वाहतपाप्मनः || २५ || ये भूतले विनिहिता गिरिवच्च कूटीभूताश्र येज्य मम काश्वनराशयस्ते कस्य स्युरित्यभिगृणन्नवितृप्त एव, मृत्वा निरन्तभवदुःखमवाप नन्दः ।। २६ ।।
इति नन्दकथानकम् ।। ११२ ।।
अपि च योगिनामपि परिग्रहमुपगृहां लाभमिच्छतां मूलक्षतिरायातेत्याह-
तपः gautari शमसाम्राज्यसंपदम् । परिग्रहग्रहग्रस्तास्त्यजेयुर्योगिनोऽपि हि ॥ ११३ ॥ योगो रत्नत्रयप्राप्तिस्तद्वन्तो योगिनस्तेऽपि आतां पृथग्जनाः परिग्रह एव ग्रहस्तद्भस्ताः पिशाचकिन इव शमसाम्राज्य संपदं स्वाधीनामपि त्यजेयुः, शमस्य वितृष्णतायाः साम्राज्यं परमैश्वर्य, तद्रूपा सम्पत् ताम् । साम्राज्यं च नैकाकिनो भवतीत्याह -- तपः श्रुतपरीवारां तपश्चारित्रं श्रुतं सम्यग्ज्ञानं, ते एव परीवारः परिच्छदो
For Personal & Private Use Only
***1-1.KK04-0
Page #314
--------------------------------------------------------------------------
________________
गोरखा
शाकम्
१४८॥
यस्यास्त' तथाविधाम रामसाम्राज्यद स्वाधीन परित्यज्य सुखार्थिन परिग्रहवाि तः । ११३ ॥
saram पदर्शनपूर्वकं सन्तोषफलमाह - अन्ततः सौख्यं न शक्रस्य चक्रिणः। जन्तोः सन्तोषभाजो यद्यस्येव जायते ||११४|| सन्तोषरहितस्य तत्फलभूतं सौख्यं न शक्रस्य देवराजस्य नापि चक्रिणो मनुजराजस्य, यत्सौख्यं सन्तोषवतो जन्मिनो जायते । कस्येवेत्याह--अभयस्य अभयकुमारम्य श्रेणिकराजपुत्रस्य । स हि पित्रोपनीतमपि राज्यं परि हृत्य शमसाम्राज्यसम्पदं परिगृहीतवानिति ।
कथानकं च सम्प्रदायगभ्यम् । स चायम् -
स्तीह भरतक्षेत्रे केदारमिव सुन्दरम् विशालशालिकमले नाम्ना राजगृहं पुरम् | १ तत्र प्रसेनजिनाम नामिताशेषभूपतिः । पतिर्वारामिवालब्धमध्योऽभूत्पृथिवीपतिः ॥ २ ॥ श्रीमत्पाश्चजिनाधीशशासनाम्भोजषट्पदः । सम्यग्दर्शन पुण्यात्मा सोऽणुव्रतधरो भवत् || ३ || श्रोजसा तेजसा कान्त्या जितामरकुमारकाः । कुमारास्तस्य बहवो बभूवुः श्रेणिकादयः || ४ || को राज्ययोग्य इत्येषां परीक्षार्थं महीपतिः । एकत्र पायसस्थालान्यशनायैकदाऽऽर्पयत् ॥ ५ ॥ ततो भोक्तुं प्रवृत्तानां कुमाराणाममोचयत् । व्याघ्रानिव व्यात्तवक्त्रान् सारमेयान् स सारधीः ।। ६ ।। कुमारा द्रुतमुत्तस्थुरापतत्सु ततः श्वसु । एकस्तु श्रेणिकस्तस्थौ धियां धाम तथैव हि ॥ ७ ॥ सोऽन्यस्थालात्पायसान्नं स्तोकं स्तोकं शुनां ददौ । यावल्लिलिहिरे श्वानस्तावच्च बुभुजे स्वयम् ॥ ८॥ येन केनाप्युपायेन निषे
For Personal & Private Use Only
द्वितीय:
प्रकाश है।
॥ १४८ ॥
Page #315
--------------------------------------------------------------------------
________________
| धिष्यत्यरीनयम् । भोक्ष्यते च स्वयं पृथ्वी राजा तेनेति रञ्जितः ॥ ६ ॥ राजा पुनः परीक्षार्थ सुतानामन्यदा
ददौ । मोदकानां करण्डांश्च पयस्कुम्भांश्च मुद्रितान् ॥ १०॥ इमां मुद्रामभञ्जन्तो भुञ्जीवं मोदकानमून् । पयः पिबत मा कृवं छिद्रमित्यादिशन्नृपः ॥ ११॥ विना श्रेणिकमेतेषां कोऽपि नामुक्त नापिवत् । बुद्धिसाध्येषु कार्येषु कुर्युसर्जस्विनोऽपि किम् ? ॥ १२ ॥ चलयित्वा चलयित्वा श्रेणिकोऽथ करण्डकम् । बुभुजे मोदकक्षोदं शलाकाविवरच्युतम् ॥ १३ ॥ रौप्यशुक्क्या घटस्याघो गलद्वार्बिन्दुपूर्णया । स पयोऽपि पपी किं हि दुःसाधं सुधियां धियः ॥ १४ ॥ तत्प्रेक्ष्य नृपतिः प्रीतो जातेऽन्येयुः प्रदीपने । यो यद्हाति मद्दहात्तत्तस्येत्यादिशत्सुतान् ॥ १५॥ सर्वे गृहीत्वा रत्नानि कुमारा निर्ययुस्ततः । आदाय भम्भां त्वरितः श्रेणिकस्तु विनिर्ययौ ॥ १६ ॥ किमेतत्कृष्टमित्युक्तो नृपेण श्रेणिकोऽवदत् । जयस्य चिहं भम्भेयं प्रथमं पृथिवीभुजाम् ॥ १७॥ अस्याः शब्देन । भूपानां दिग्यात्रामङ्गलं भवेत् । रचणीया चमापालैः स्वामिस्तदियमात्मवत् ॥१८॥ ततः परीक्षानिर्वाहज्ञातबुद्धिर्महीपतिः । तस्य प्रीतो ददौ भम्भासार इत्यपराभिधाम् ॥ १६॥ राज्याईमानिनो मैनं राज्याई सूनवोऽपरे। ज्ञासिषुरित्यवाज्ञासीच्छेणिकं पृथिवीपतिः ॥२०॥ पृथक् पृथक् कुमाराणां ददौ देशानरेश्वरः। न किञ्चिच्छ्रेणिकस्यास्तु राज्यमस्यायताविति ॥ २१ ॥ ततोऽभिमानी स्वपुरात्कलभः काननादिव । निःसृत्य श्रेणिकोऽगच्छतुर्म वेणातटं पुरम् ॥ २२ ॥ तत्र च प्रविशन् मद्राभिधस्य श्रेष्ठिनोऽथ सः । कर्म लाभोदयं मूर्तमिवोपाविशदापणे ॥ २३ ॥ तदा च नगरे तस्मिन् विपुलः कश्चिदुत्सवः । नव्यदिव्यदुक्लाङ्गरागपौराऽऽकुलोऽभवत् ॥२४॥ प्रभूतक्रायकैरासीत् स श्रेष्ठी व्याकुलस्तदा । कुमारोऽप्यार्पयवद्ध्वाऽमै पुटीपुटिकादिकम् ॥ २५ ॥ द्रव्यं कुमार
कस्यास्त तर पुरम
Lain Education interese
For Personal & Private Use Only
Page #316
--------------------------------------------------------------------------
________________
योगशास्रम्
॥१४॥
#माहात्म्याच्छेष्ठी भूयिष्ठमा यत् । पुण्यपुंसां विदेशेऽपि सहचर्यो ननु श्रियः ॥ २६ ॥ अद्यावितथपुण्यस्य द्वितीयः कस्यातिथिरसीत्यथ । श्रेणिका श्रेष्ठिना पृष्टो भवतामित्यभाषत ॥ २७॥ नन्दायोग्यो वरो दृष्टः स्वमेऽद्य निशि*
प्रकाशः। यो मया । असौ साक्षात् स एवेति श्रेष्ठी चेतस्यचिन्तयत् ।। २८ ॥ सोऽभाषिष्ट च धन्योऽस्मि यद्भवस्यतिथिमम । असावलसमध्येन ननु गङ्गा समागता ॥ २६ । संवृत्याद्वं ततः श्रेष्ठी तं नीत्वा निजवेश्मनि । स्नपयित्वा परिधाप्य सगौरवमभोजयत् ॥ ३० ॥ एवं च तिष्ठस्तद्गहे श्रेणिकः श्रेष्ठिनाऽन्यदा । कन्यां परिणयेमां मे नन्दा नाम्नेत्ययाच्यत ॥३१।। ममाज्ञातकुलस्यापि कथं दत्से सुतामिति । श्रेणिकेनोक्त ऊचे स ज्ञातं तव गुणैः कुलम् ॥३२॥ ततस्तस्योपरोधेनोदधेरिव सुतां हरिः । श्रेणिकः पर्यणैषीत्तां भवद्भवलमङ्गलम् ।।३३।। भुञ्जानो विविधान भोगान सह वलभया तया । प्रतिष्ठच्छेणिकस्तत्र निकुञ्ज इव कुञ्जरः॥३४॥श्रेणिकस्य स्वरूपं तद्विवेदाशु प्रसेनजित । सहस्राक्षा हि राजानो भवन्ति चरलोचनैः॥३५॥ उग्रं प्रसेनजिद्रोगं प्रापाथान्तं विदनिजम् । सुतं श्रेणिकमानेतुं शीघ्रानादिचदौष्टिकान् ॥३६॥ औष्टिकेभ्यो ज्ञातयाऽऽतः पितुरत्यर्तिवार्त्तया। नन्दा संबोध्य सस्नेहं प्रतस्थे श्रेणिकस्ततः ॥३७॥ वयं पाण्डुरकुड्या गोपाला राजगृहे पुरे । आहानमन्त्रप्रतिमान्यक्षराणीति चार्पयत् ॥ ३८॥ माऽन्या तातस्य रोगार्तेर्मदार्ति दिति द्रुतम् । उष्ट्रीं श्रेणिक आरुह्य ययौ राजगृहं पुरम् ।। ३६ ॥ तं दृष्ट्वा मुदीतो राजा हर्षनेत्राश्रुभिः समम् । राज्येऽभ्यषिञ्चद्विमलैः सुवर्णकलशाम्बुभिः॥४०॥ राजाऽपि संस्मरन् पार्श्व जिनं पञ्चनमस्कियाम्। चतुःशरणमापनो विपद्य त्रिदिवं ययौ ॥४१॥ विश्वं विश्वम्भराभारं बभार श्रेणिकस्ततः । तेन सा गुर्विणी मुक्का गर्भ नन्दापि दुर्वहम् ।।४२।। तस्या दोहद इत्यासीद्गजारूढा शरीरिणाम् । महाभूत्योपकुवाणा भवाम्यभयदा यदि ॥४॥ ॥१४॥
in Education interna
For Personal & Private Use Only
Page #317
--------------------------------------------------------------------------
________________
•1 *••*1*<*←--*←---*-*-+-**
विज्ञपय्याथ राजानं तत्पित्रापूरि दोहदः । पूर्णे काले च साऽसूत प्राची रविमिवार्भकम् || ४४ || दोहदार्थानुसारेण तस्याथ दिवसे शुभे । चकराभयकुमार इति मातामहोऽभिधाम् ॥ ४५ ॥ स क्रमाद्ववृधे विद्या निरवद्या: पपाठ च । अष्टवर्षोऽभवद्दचो द्वासप्तत्यां कलासु च ॥ ४६ ॥ सवयाः कलहे कोऽपि तं कोपादित्यतर्जयत् । किं त्वं जल्पसि यस्याहो पिता विज्ञायते न हि ॥ ४७|| ऊचे भयकुमारस्तं ननु मद्रः पिता मम । पिता भद्रो भवन्मातुः प्रत्युवाचेति सोऽभयम् ॥ ४८ ॥ नन्दां प्रत्यभयोऽप्यूचे मातः ! को मे पितेत्यथ । अयं तव पिता भद्रः श्रेष्ठी नन्देत्यचीकथत् ॥ ४६ ॥ भद्रस्तव पिता शंस मदीयं पितरं ननु । पुत्रेणेत्युदिता नन्दा निरानन्देदमब्रवीत् ॥ ५० ॥ देशान्तरादागतेन परिणीताऽस्मि केनचित् । मम च त्वयि गर्भस्थे तमीयुः केचिदौष्ट्रिकाः ॥ ५१ ॥ रहः स किञ्चिदुत्वा तैः सदैव कचिदप्यगात् । श्रद्यापि तं न जानामि कुतस्त्यः कश्चिदित्यहम् ॥ ५२ ॥ स यान् किश्चिजजल्प स्वामिति पृष्टाभयेन सा । अक्षराण्यर्पितान्येतानीति पत्रमदर्शयत् ॥ ५३ ॥ तद्विभाव्याभयः प्रीतोऽब्रवीन्मम पिता नृपः । पुरे राजगृहे तत्र गच्छामो ननु संप्रति ॥ ५४ ॥ आपृच्छय श्रेष्ठिनं भद्रं सामग्री संयुतस्ततः । नान्देयो नन्दया सार्द्धं ययौ राजगृहं पुरम् ।। ५५ ।। मातरं बहिरुद्याने विमुच्य सपरिच्छदाम् । तत्र स्वल्पपरीवारः प्रविवेशाभयः पुरे ।। ५६ ।। इतव मेलितान्यासंस्तदा श्रेणिकभूभुजा । शतानि पञ्चैकोनानि मन्त्रिणां मन्त्रसत्रिणाम् ॥ ५७ ॥ मन्त्रिपञ्चशत पूर्णां कर्त्तुं नरपतिस्ततः । लोके गवेपयामास कञ्चिदुत्कृष्टरुपम् ।। ५८ ।। ततश्च तत्परीक्षार्थं शुष्ककूपे निजोर्मिकाम् । प्रचिक्षेप क्षितिपतिर्लोकानित्यादिदेश च ॥ ५६ ॥ आदास्यति करेगौतामूर्मिकां यस्तटस्थितः । तस्य धीकौशलकीता मदीया मन्त्रिधुर्यता ॥ ६० ॥ तेऽप्यूचुर्यदशक्यानुष्ठानमादेशामिदम् । ताराः करेण यः
For Personal & Private Use Only:
11. K
Page #318
--------------------------------------------------------------------------
________________
पोगशास्त्रम्
कत 4 इमामूर्मि कामपि ॥ ६१ ॥ ततो भपकुमारो पि सत्रामस्तर साग्मितम् । ऊचे कि गृह्यते नेपाल द्वितीय: किमतदपि दुष्करम् ।। ६२॥ तं दृष्ट्वा च चना दयुः कोऽप्यसावतिशायिधीः । समये मुखमनी हि नृणामान्याति पौरुषम् ।। ६३ ।। ऊचुच ते महाभाग ! त्वं गृहाणेत्यमुर्मिकाम् । ऊर्मिकाकर्षणपणां धुर्यतां चैपु मन्त्रिषु ।।६४|| ततोऽभयकुमारस्तार्मिकों कूममध्यगाम् । आगोमयपिण्डेन निजधानोपरि स्थितः ।। ६५ ।। प्रक्षिप्योपरि तत्कालं ज्वलन्तं तृणपूल कम् । सद्यः संशोषयामास गोमयं तन्महामतिः ॥६६॥ नन्दाया नन्दनः पद्य कारयित्वाऽथ मारणिम् । बारिणापूरयत् कूपं विस्मयेन च तं जनम् ।। ६७ ।। तद्गोमयं श्रेणिकम् : करण तरसाददे । धीमद्भिः सुप्रयुक्तस्य किमुपायस्य दुष्करम् ? ।। ६८ तस्मिन् स्वरूप चारक्षार्पिज्ञप्ले जातविम्मयः । नृपो भयकुमारं द्रागाहावात्मसन्निधौ ।। ६६ ॥ अभयं श्रेणिकः पुत्रप्रतिपच्याथ सस्वजे ! बन्धुरज्ञायमानोऽपि रयो मोदयते मनः ॥७॥ कुतस्त्रमागतोऽसीति पृष्टः श्रेणिकभूभुजा। वेणातटादागतो हमिति चाभिदधे भयः ।।७॥ राजा पृच्छ. | द्रमुख ! कि भद्र इति विश्रुतः । श्रेष्ठी तत्रास्ति तस्यापि नन्दानाम्नी च नन्दना ।। ७२ ॥ अस्त्येव सम्यगित्युक्ते तेन भूयोऽपि भूपतिः । ऊचे नन्दोदरिण्यासीरिकमपत्यमजायत? ॥७३॥ अथाख्यत्कान्तदन्ताशुश्रेणिः श्रेणिकसूरिदम् । देवाभयकुमाराख्यं सा नन्दनमजीजनत् ।। ७४ ॥ किंरूपः किंगुणः सोऽस्तीत्युदिते सति भूभुजा । ऊचेऽभयः स एवाई स्वामिन्नस्मीति चिन्त्यताम् ॥ ७५ ॥ परिष्वज्याङ्कमारोप्य समाघ्राय च मूर्द्धनि । स्नेहात् स्नपयितुमिव सिषेच नयनाम्बुभिः।।७६॥ कुशलं वत्स ! ते मातुरिति पृष्टे महीभुजा । इति विज्ञपयामास बद्धाञ्जलिपुटोड भयः ॥७७॥ अनुस्मरन्ती भृङ्गीव त्वत्पादाम्भोजसङ्गमम् । म्वामिन्नायुष्मती मेम्बा बाझोद्याने स्ति संप्रति ॥७॥
in Education internations
For Personal & Private Use Only
Page #319
--------------------------------------------------------------------------
________________
ततो नन्दा समानेतममन्दानन्दकन्दल न्ययुत सर्वसामग्रीमग्रेकृत्य नमोऽभयम् ।। ७ ।। तक स्वयमाम प्राज्योत्कण्ठोल्लिखितमानसः। नन्दामभिययो राजा राजहंस इवाजिनीम ८०॥ शिथिलीभूतवलयां कपाललालतालकाम्। अनञ्जनानी कबरीधारिणी मलिनांशुकाम् ॥८॥ तनास्तनिम्ना दधनी द्वितीयेन्दुकलातुलाम् । ददर्श राजा सानन्दो नन्दासुद्यानवासिनीम् ॥८२ । (युग्मम् ) नन्दामानन्ध नृपतिर्नीन्वा च स्वं निकेतनम् ! पट्टराज्ञीपदेऽकापीत सीतामिव रघूद्वहः ॥८३॥ भक्तितः पितरि स्वस्य पदातिपरमागुताम् । मन्वानः साधयामास दुःसाधान् भूभुजोऽभयः ।। ८४|| अन्यदोजयिनीपुर्याश्चण्डप्रयोतभूपतिः । चलितः सर्वसामग्या रोधुं राजगृहं पुरम् ।।८।। प्रद्योतो बद्धमुकुटाश्चतुर्दश परे नपाः । तत्रायान्तो जनैदृष्टाः परमाधार्मिका इब ।।६।। पाद पट(टैः)प्लुतैरश्वैः पाटयनिव मेदिनीम् । आगच्छन् प्रणिधिभ्योऽथ शुश्रुवे श्रेणिकेन सः । ८७॥ किश्चिच्च चिन्तयामास प्रद्योतोऽद्य समापतन् । क्रूरग्रह इस क्रुद्धः कार्यों हतबलः कथम् ? ॥८॥ ततो भयकुमारस्यौत्पत्तिक्यादिधियां निधेः । नृपतिर्मुखमैक्षिष्ट सुधामधुरया दृशा ॥८६॥ यथार्थनामा राजानमभयोऽथ व्यजिवपत् । का चिन्तोजयिनीशोऽद्य
भूयाद्युडातिथिर्मम ।।६०|| यदि वा बुद्धिसाध्येऽर्थे शस्त्राशस्त्रिकथा वृथा । बुद्धिमेव प्रयोक्ष्ये तद्बुद्धिर्हि जयकामधुक HIN६१।। अथ बाह्ये रिसैन्यानामावासस्थानभूमिषु। लोहसंपुटमध्यस्थान् दीनारान् स न्यचीखनत् ।।१२।। प्रद्योतनृपतेः
सैन्यैस्ततो राजगृहं पुरम् । पर्यवेष्ट्यत भूगोलः पयोधिसलिलैरिव ।। ६३ ।। अथेत्थं प्रेषयामास लेखं प्रद्योतभूपतेः। अभयो गुप्तपुरुषैः परुपेतरभाषिभिः ।।१४॥ शिवादेवीचेल्नणयोर्भेदं नेक्षे मनागपि । तन्मान्योऽसि शिवादेवीस
(१) गच्छद्भिः.
in Education International
For Personal & Private Use Only
Page #320
--------------------------------------------------------------------------
________________
द्वितीय
शासम
.
-..
-
विधिनापि सर्वदा ।। ६५ ॥ तदवन्तीश ! वच्मि त्वामेकान्तहितकाझ्या । सर्वे श्रेणिकराजन मंदितास्तव भृमुजः
॥ दीनाराः प्रेषिताः सन्ति तेभ्यस्तान् कर्तुमात्मसात् । ते तानादाय बध्ध्या वामपयिष्यन्ति मत्पितु: ॥१७॥ तदाबासेपु दीनारा निखाताः सन्ति तत्कृते। खानयित्वा पश्य को वः दीपे सत्यग्निमीक्षते ||८|| विदित्वैवं स भूपस्यैकस्यावासमचीखनत् । लब्धास्तत्र च दीनारास्तान् दृष्ट्वाऽऽशु पलायत ।।२६॥ नटे तत्र तु तत्सैन्यं विलोड्याब्धिमिवाखिलम् । हस्त्यश्वाद्याददे सारं मगधेन्द्रः समन्ततः ।। १ ।। नासारूढेन जीवेन वायुवाजेन वाजिना । ततः प्रद्योतनृपतिः कथञ्चित् स्वां पुरी ययौ ॥ १॥ ये चतुर्दश भूपाला ये चान्येऽपि महारथाः । तेऽपि नेशुः काकनाशं हतं सैन्यं ह्यनायकम् ॥२॥ असंयतलुलत्केशै छत्रशुन्यैश्च मौलिभिः । राजानमनुपान्तस्तेऽप्यापुरुज्जयिनी पुरीम् ॥ ३॥ अभयस्यैव मायेयं वयं नेदृशकारिणः । प्रत्यायितः सशपथं तैरथोजयिनीपतिः ॥४॥ कदाचिदूचेऽवन्तीशो मध्येसभममर्पणः । योऽर्पयत्यभयं बध्ध्वा मम सम्पत्स्यते स किम् ॥५॥ पता हस्तमुक्षिप्य काऽप्येका गणिका ततः। व्यजिज्ञपदवन्तीशमलमस्मीह कर्मणि ।६। तामादिदेशावन्तीशो यद्येवमनुतिष्ठ तत् । करोम्यादिसाहाय्यं ब्रूहि किं तव संप्रति ? ॥७॥ सा च दध्यौ यदभयो नोपायैगृह्यतेऽपरैः। धर्मच्छद्म तदादाय साधयामि समीहितम् ॥८॥ अयाचत ततश्च द्वे द्वितीयवयसौ स्त्रियौ। ते तदैवार्पयद्राजा ददौ द्रव्यं च पुष्कलम् ॥ ६॥ कृतादराः प्रतिदिनमुपास्योपास्य संयताः । बभूवुरुत्कटप्रज्ञास्तास्तिस्रोऽपि बहुश्रुताः ॥१०॥ तास्तिस्रोऽपि ततो जग्मुः श्रेणिकालङ्कृतं पुरम् । जगत्रयीं वश्चयितुं मायाया इव मूर्तयः ॥११॥ बाह्योद्याने कृतावासा सा पणस्त्रीमतल्लिका । पत्तनान्तर्ययौ चैत्यपरिपाटीचिकीर्षया ।। १२॥ सा विभूत्याऽतिशा-
KaHamaart
१५१॥
in Education Internatio
For Personal & Private Use Only
Page #321
--------------------------------------------------------------------------
________________
विन्या चैत्ये नृपतिकारिते। प्रविवेश समं तान्या कृत्या नैधिकीयम् ।। १३॥ मालवकैशिका पुरुण भागामधुम्मा । गिरा देवं वन्दितुमारंभे मपयो विश्वय्य मा॥१४॥ तत्राभयकुमारोपि ययौ देवं विवन्दिपुः आत्मतृतीय तामग्रे वन्दमानां ददर्शन । १५ ॥ देवदर्शनविनोऽस्या मा भूत्प्रविशता मया । द्वार्यवेत्यभयस्तम्थी मण्डपान्त विवेशन ॥१६॥ प्रणिधानस्तुतिं कृत्वा सा मुक्ताशुक्तिमुद्रया। यावदुत्तम्थुषी तावदभयोऽभ्याजगाम ताम् ।। १७ ।। तादृशी भावना तस्यास्तं वे प्रशमं च तम् । अभयो वर्णयामास सानन्दं च जगाद ताम् ।। १ ।। दिष्या भद्रधुना त्वामाधर्मिकसमागमः । साधर्मिकात्परो बन्धुने संसारे विवे किनाम् । १६ ।।
का त्वं किमागमः का वा वासभूमिरिमे च के । यकाभ्यां स्वातिराधाभ्यामिन्दुलेखेव शोभसे ।२०। | व्याजहाराथ सा व्याजश्राविकाऽवन्तिवासिनः । महेभ्यवणिजः पाणिगृहीती विधवा वहम् ।। २१॥ इमे च मम पुत्रस्य कलत्रे कालधर्मतः । विच्छाय्यभूतां विधवे भरवृचे लते इव ।। २२ । व्रतार्थमापपृच्छात उभे अपि तदैव माम् । विपन्नपतिकानां हि सतीनां शरणं व्रतम् ॥ २३ ॥ मया प्युक्ते ग्रहीप्यामि निर्वीरा-हमपि व्रतम् । गार्हस्थ्यस्य फलं किन्तु गृह्यतां तीर्थयात्रया ॥ २४ ॥ व्रते हि भावतः पूजा युज्यते द्रव्यती न तु । इत्यहं तीर्थयात्रार्थमेताभ्यां सह निर्ययौ ॥२।। अथेत्थमभयोवोचदतिथीभवताद्य नः। आतिथ्यं सतीयानां तीर्थी-1 दप्यतिपावनम् ॥२६॥ प्रत्युवाचाभयं साऽपि युक्तमाह भवान् परम् । कृततीर्थोपवासाऽहं भवाम्यद्यातिथिः कथम् ? ॥२७॥ अथ तनिष्ठया हृष्टोऽभयस्तामवदत्पुनः। अवश्यं मम तत्प्रातरागन्तव्यं निकेतने ।।२८। साऽप्यूचे यत्क्षणेनापि जन्मिनो जन्म पूर्यते । अहं प्रातरिदं कर्ताऽस्मीति जल्पेत्कथं सुधीः ? ॥२६॥ अस्त्विदानीमियं भूयः श्वो निमन्त्र्यदि
CASHARAD intern..--**-->
Jan Education International
For Personal Private Use Only
Page #322
--------------------------------------------------------------------------
________________
शास्त्रम्
११५२॥
/
E
चिन्तयन् तांविनायधत्यं पन्दिया बगृहं ययौ ३०॥ता निमन्व्याभयः प्रानगृह चन्यान्यवन्दयन मोजयानाम च प्राज्यवस्त्रदानादि च व्यधात् । ३१॥ निमन्वितस्तयाऽन्ये युर्मितीभूयाभयोऽप्यगात् साधर्मिकोफोन कि न कुर्वन्ति नाशा? ३२।। तया च विविधैर्भोरभयोऽकारि भोजनम् । चन्द्रहामसुरामियानकानि च पायितः ॥३३मुन्नोस्थिय तत्कालं सुधार अंणिकान्मजः । आदिमा मद्यपानम्ब निद्रा सहचरी बनु । ३४ । तं रथेन स्थाने स्थाने स्थापितैश्वापर स्थैः । अवन्ती प्रापयामास दुर्लच्यच्छद्मसम सा ॥३५॥ ततो भयान्वेपणार अंगिकेन नियोजिताः । स्थाने स्थानेऽन्वेपयतस्तत्रापीयुर्गवेषकाः ।। ३६ ॥ किमिहामय आयात इत्युका तैरुवाच सा । इहाभयः समायातः परं पातस्तदैव हि ॥ ३७ । पचनप्रत्ययातम्या अन्यत्रेनषेपकाः । स्थाने स्थाने स्थापिताश्वः नाऽप्यवन्ती समाययौ ।। ३ ।। मा प्रचण्डाऽभयं चण्डप्रद्योतस्यार्पयत्ततः । अभयाऽऽनयनोपायस्वरूपं च व्यजिज्ञपन् ।। ३६ ।। तां प्रद्योतोऽप्युवाचवं न साधु विहितं त्वया । यदमुं धर्मविश्रब्धं त्वं धर्मच्छअनाऽऽनयः ।। ४० ।। कथासप्ततिसंशंसी मार्जार्येव शुकोऽनया । नीतिज्ञोऽपि गृहीतोऽसि जगादेत्यभयं च सः ॥४१अभयोऽप्यत्रवीदेवं त्वमेव मतिमानसि। यस्यैवंविधया बुद्ध्या राजधर्मः प्रवर्द्धते ।।४२।। लजितः कुपितश्चाथ चण्डप्रद्योतभूपतिः । राजहंसमिवावैप्सीदभयं काष्ठपञ्जरे ।। ४३ । अग्निभीरू रथो देवी शिवा नलगिरिः वारी । लोहजङ्घो लेखबाहो राज्ये रत्नानि तस्य तु ॥४४ : लोहजच नृपः प्रैपीभृगुकच्छे मुहुर्मुहुः । तद्गतागतसंक्लिष्टा
स्तत्रत्या इत्यमन्त्रयन् ॥ ४५ ॥ आयात्ययं दिनेनापि पञ्चविंशतियोजनीम् । असकृयाहरत्यस्मान् हन्मः संप्रत्यमुं * ततः ॥ ४६॥ ते विमृश्येत्यदुस्तस्य शम्बले विपमोदकान् । तद्भत्राशम्बलं चान्यत्समन्तादप्यपाहरन् ॥४७॥
in Education International
For Personal & Private Use Only
Page #323
--------------------------------------------------------------------------
________________
कश्चित्पन्थानमुलवन्य नदीरोधसि शम्बलम् । तद्रोक्तमवतस्थे सोऽभूवनशकुनान्यथ ।। ४८॥ शकुनज्ञस्तु साऽभुक्त्वात्थाय दुर यो नतः । धितो भोक्तकामस्तद्वारितः शकुनः पुनः ।।8।। दरं गत्वा भोकक्तामः शकुनेवारितः पुनः । गनी गन्वा स तत्सर्व प्रद्योतस्य न्यवेदयत् ।। ५० ॥ ततो राज्ञा समाहृय तत्पृष्टः श्रेणिकात्मजः । | पाथेयभखामाघ्राय जगाद मतिमानिदम ॥१॥ ५१ ॥ अस्ति दृष्टिविषोऽवाहिद्रव्यसंयोगसंम्भवः ! असो दग्धो भवेन्नूनं भस्रामुद्घाटयेद्यदि ॥॥ ततः पराङ्मुखोऽरण्ये मोच्य इत्यभयोदिते । तथैव मुमुचे सद्यो दग्धा वृक्षा मृतश्च सः ।। ५३ । विना बन्धनमोक्षं त्वं वरं याचस्व मामिति । नृपेणोक्तेऽभयोऽवादीन्यासीभूतोऽस्तु मे वरः ॥ ५४॥ अन्यदालानमुन्मूल्य पातयित्वा निपादिनी । स्वैरं नलगिरिभ्रोम्यन क्षोभयामास नागरान् ॥ १५ ॥ असाववशगो हस्ती वशं नेयः कथं न्विति । राज्ञा पृष्टोऽभयोऽशंसदायन्नुदयनो नृपः ।। ५६ ॥ पुच्या वासवदत्ताया गान्धयाँधीतये धृतः। जगावुदयनस्तत्र समं वासवदत्तया ।। ५७॥ तद्गीताकर्णनाक्षिप्तो बद्धो नलगिरिः करी । पुनदेदो वरं राजा न्यासीचक्रेऽभयस्तथा ॥ ५८ ॥ अभूदवन्त्यामन्येधुनिर्विच्छेदं प्रदीपनम् । पृष्टश्च तत्प्रतीकारं प्रद्योतेनाभयोऽवदत् ।। ५६ || विपस्येव विषं बहिरेव यदौषधम् । तदन्यः क्रियता वह्निर्यथा शाम्येन पदीपनम् ।। ६० ॥ तत्तथा विदधे राज्ञाऽशाम्यत्तच्च प्रदीपनम् । तृतीयं च वरं सोऽदान्यासी चक्रेऽभयश्च तम् ॥ ६१ ॥ अशिवं महदन्येधुरुज्जयिन्यां समुत्थितम् । तत्प्रशान्त्यै नरेन्द्रेण पृष्ट इत्यभयोऽब्रवीत् ॥ ६२ ॥ श्रागच्छन्त्वन्तरास्थानं देव्यः सर्वा विभूषिताः । युष्मान् जयति या दृष्ट्या कथनीया तु सा मम ॥६३॥ तथैव विदधे राज्ञा राज्योऽन्या विजिता दृशा। देव्या तु शिवया राजा कथितं चाभयाय तत् ॥ ६४ ॥
पा नेयःलायत्वा निपानिमामिति । नादत । तथैव
in Educatiemation
For Personal & Private Use Only
Page #324
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
।।१५३||
KOIR
***************
अमापनाभोऽप्येवं महाराज्ञी शिवा स्वयम् । करोतु क्रूरवलिना भूतानामर्चनं निशि ॥ ६५ ॥ यद्भुत शिवारूपेण तिष्ठत्यथ वासते । तस्य तस्य मुखे देव्या क्षेत्यः क्रूरवलिः स्वयम् || ६६ ॥ विदधे शिवया तचाशिशान्तिभूव च तु चादावरं राजा ययाचे चाभयोऽप्यदः ॥ ६७ ॥ स्थितो नलगिरी मठीभूतं त्वयि शिवाङ्कः । श्रहं विशाम्यग्नि भीरुरथदारुकृतां चिताम् ॥ ६८ ॥ ततो विषणः प्रद्योतो वरान् दातुमशक्नुवन् । मिर्जाञ्जलिं कृत्वा कुमारं मगधेशितुः ॥ ६६ ॥ आशुश्रावाभयोऽप्येवं त्वयाऽऽनीतश्ललादहम् | दिवा रटन्तं पूमध्ये त्वां तु नेष्याम्यसावहम् || ७० || ततोऽभयकुमारोऽगात् क्रमाद्राजगृहे पुरे । कथमप्यवतस्थे च कचित्काल महामतिः ||७१ | गृहीत्वा गणिकापुत्र्यौ रूपवत्यावथाभयः । वणिग्वेषोऽगादवन्त्यां राजमार्गेऽग्रहीम् ॥ ७२ ॥ प्रद्योतेनेक्षिते ते च दारिके पथि गच्छता । ताभ्यां च सविलासाभ्यां प्रद्योतोऽपि निरीक्षितः ॥ ७३ ॥ प्रयोतेन गृहे गत्वा रागिणा प्रेषिता ततः । दूतिकाऽनुनयन्त्याभ्यां क्रुद्धाभ्यामपहस्तिता ॥ ७४ ॥ द्वितीयस्मिन्नपि दिनेऽर्थयमाना नृपाय च । ताभ्यां शनैः सरोषाभ्यामवामन्यत दूतिका ।। ७५ ।। तृतीयेऽप्यह्नि निर्वेदादेत्य ते याचितेऽनया । ऊचतुश्च सदाचारो भ्राता नावेष रक्षति ॥ ७६ ॥ ततो बहिर्गते मुष्मिन् सप्तमेऽह्नि समागते । इहायातु नृपञ्छन्नस्ततः सङ्गो भविष्यति ॥ ७७ ॥ ततोऽभयेन प्रद्योतसहगेकः पुमान्निजः । उन्मत्तो विदधे तस्य प्रद्योत इति नाम च ॥ ७८ ॥ ईदृशोऽयं मम भ्राता भ्राम्यतीतस्ततस्ततः । रक्षितव्यो मया हा किं करोमीत्यवदजने || ७६ ॥ तं वैद्यसद्मनयनच्छद्मना प्रत्यहं बहिः । रटन्तं मञ्चकारूढं निनायार्त इवाभयः ॥ नीयमानश्च ( १ ) प्रतिज्ञां चकार ।
For Personal & Private Use Only
-*•*•ON
द्वितीय:
प्रकाश
॥१५३॥
Page #325
--------------------------------------------------------------------------
________________
तेनोच्चैः स उन्मत्तचतुष्पथे । प्रद्योतोऽहं हियेऽनेनेत्युदयुवदन ॥ ५१ ॥ सप्तमे नृपोऽप्यकस्त स्कूल आययौ । कामान्धः सिन्धुरइव बद्धश्वाभयपुरुपैः ॥ ८२ ॥ नीयतेऽसौ वैद्यवेश्मेत्यभयेनाभिभाषिणा । पर्यकेन समं जुड़े पुरान्तः स रतन दिवा ॥ ८३ ॥ क्रोशे क्रोशे पुरा मुक्तै रथैरथ सुवाजिभिः । पुरे राजगृहे नैपीत्प्रयो तमभयोभयः ॥ ८४ ॥ ततो निवाय प्रद्योतं श्रेणिकस्य पुरोभयः । दधावे खगमाकृप्य तं प्रति श्रेणिको नृपः || = || ततोऽभयकुमारेण बोधितो मगधेश्वरः । संमान्य वस्त्राभरणैः प्रद्योतं व्यसृजन्मुदा || ६ || अन्यदा गणभृदेव सुधर्मस्वामिनोऽन्तिके । प्रव्रज्यामग्रहीत्कोsपि विरक्तः काष्ठभारिकः ॥ ८७ ॥ विहरन ने पुरे परे: पूर्वावस्थाऽनुवादिभिः । अभय तो पाहस्यता गतापि पदे पदे ॥ नावज्ञां सोमीशोऽत्र विहरामि तदन्यतः इति व्यज्ञपयत् स श्रीसुधर्मस्वामिनं ततः ॥ ८९ ॥ सुधर्मस्वामिनाऽन्यत्र विहारक्रमहेतवे । आपृच्छ्यताभयः पृच्छन् ज्ञापितस्तच्च कारणम् ॥ ६० ॥ दिनमेकं प्रतीक्षध्वमूर्वं यत्प्रतिभाति वः । तद्विधत्तेत्ययाचिष्ट प्रणम्य श्रेणिकात्मजः ।। ६१ ।। सोऽथ राजकुलात्कृष्ट्वा रत्नकोटित्रयीं बहिः । दास्याम्येतामेत लोकाः पटहेनेत्यघोषयत् ।। ६२ ।। ततश्चेयुर्जनाः सर्वेऽप्यवोचदभयोऽप्यदः । जलाग्निस्त्रीवर्जको यस्तस्य रत्नोच्चयोऽस्त्वयम् ॥ ९३ ॥ लोकोत्तरमिदं लोकः स्वामिन् ! किं कृर्त्तुमीश्वरः १ । इति तेष्वाभाषमाणेष्वभ्योऽपीत्यभाषत ॥ ६४ ॥ यदि वो नेदृशः कश्चिद्रत्नकोटीत्रयं ततः । जलाग्निस्त्रीमुचः काष्ठभारिणोऽस्तु महामुनेः ।। ९५ ।। सम्यगीदृगयं साधुः पात्रं दानस्य युज्यते । मुधाऽसौ जहसेऽस्माभिरिति तैर्जगदेऽभयः || ३६ || अस्य भर्त्योपहासादि न कर्त्तव्यमतः परम् | आदिष्टमभयेनैवं प्रतिपद्य ययुर्जनाः ॥ ६७ ॥ एवं बुद्धिमहाम्भोधिः पितृभक्तिपरोऽभयः । निरीहो धर्मसंसक्तो
For Personal & Private Use Only
Page #326
--------------------------------------------------------------------------
________________
चोग
शास्त्रम्
१९५४ ॥
(0) 000+ + +
राज्यमन्वशिपत्पितुः ॥ ३८ ॥ वर्त्तमानः स्वयं धर्मे स प्रजा अप्यवर्त्तयन् । प्रजानां च पशूनां च गोपायत्ताः प्रवृत्तयः ।। ६६ ।। राजा चक्रे जजागार यथा द्वादशधा स्थिते । तथा श्रावकधर्मेऽसावप्रमद्वरमानसः || २०० || बहिरङ्गान् यथाऽजैपीहुर्जयानपि विद्विषः । अन्तरङ्गानपि तथा स लोकद्वय साधकः ॥ १ ॥ तमूचे श्रेणिकोऽन्येयुर्वत्स ! राज्यं त्वमाश्रय | अहं श्रये श्रीवशुश्रूषासुखमन्वहम् || २ || पित्राज्ञाभङ्गसंसार भीरुरित्य भयोऽब्रवीत् । यदादिशत तत्साधु प्रतीक्षध्वं क्षणं परम् ॥ ३ ॥ इतश्च भगवान् वीरः प्रव्राज्योदायनं नृपम् । मरुमण्डलतस्तत्राभ्यागत्य समवासरत् || ४ || ततो गत्वाऽभयो नत्वा पप्रच्छ चरमं जिनम् । राजर्षिः कोऽन्तिमोऽथाख्यतत्रैवोदानं प्रभुः ||५|| गत्वोचे श्रेणिकं सोऽस्मि राजा चेन्न ऋषिस्तदा । श्रीवीरोऽन्तिमराजर्षिं शशंसोदायनं यतः ||६ ॥ श्रीवीरं स्वामिनं प्राप्य प्राप्य त्वत्पुत्रतामपि । नो वेत्स्ये भवदुःखं चेन्मत्तः कोऽन्योऽवमस्ततः ॥ ७॥ नाना - हमभयस्तात ! समयोऽस्मि भवाशम् । भुवनाभयदं वीरं तच्छ्रयामि समादिश ॥ ८ ॥ तदलं मम राज्येनाभिमानसुखहेतुना । यतः सन्तोषसाराणि सौख्यान्याहुर्महर्षयः || ६ || निर्बन्धाद्राह्यमाणोऽपि न यदा राज्यमग्रहीत् । तदाऽभयो व्रतायानुजक्षे राज्ञा प्रमोदतः ॥ १० ॥ राज्यं तृणमिव त्यक्त्वा सन्तोषसुखभागसौ । दीक्षां चरमतीर्थेशवीरपादान्तिकेऽग्रहीत् ॥ ११ ॥ संतोषमेवमभयः सुखदं दधानः, सर्वार्थसिद्धिसुरधाम जगाम मृत्वा । सन्तोषमेवमपरोऽप्यवलम्बमान -- स्तान्युत्तरोत्तरसुखानि नरो लभेत ।। २१२ ॥
॥ इति श्री अभयराजर्षिकथानकम् ॥ ११४ ॥
प्रकृतं सन्तोषमेव स्तौति
For Personal & Private Use Only
-*••*-*-*
*****
द्वितीयः प्रकाशः
॥ १५४॥
Page #327
--------------------------------------------------------------------------
________________
*
-*
- सन्निधौ निधयस्तस्य कामगव्यनगामिनी। अमरा:
किरायन्ते सन्तापो यस्य भूषणम् ॥११५॥ निधयो महापद्मादयः, सन्निधौ सन्निहिताः, कामगवी कामधेनुः. मा अनुगन्छतीत्येवंशीला अनुगामिनी, अमराः मुगः, किङ्करा इवाचरन्ति किङ्करायन्ते । तस्येति योगः। यस्य किम् ? यस्य पूंमः सनोपो भृपणमलङ्करणम् । तथाहि --सन्तुष्टा मुनयः शमप्रभावात्तृणाग्रादपि रत्नसमूहान् पातयन्ति, कामितफलदायिनश्च सुरेन्द्रेग्य
हमहमिकयोपचर्यन्त इत्यत्र कः सन्देहः । अत्रान्तरश्लोकाःम धनं धान्यं स्वर्गरूप्यकुप्यानि क्षेत्रवास्तुनी द्विपाचतुष्पाचेति स्युर्नव बाह्याः परिग्रहाः ॥१॥ रागद्वेषौ कषायाः
शुग्हासौ रत्यरती भयम् । जुगुप्सा वेदमिथ्यात्वे आन्तराः स्युश्चतुर्दश ॥२॥ वाह्यात परिग्रहात्प्रायः प्रकुप्यन्त्यान्तरा अपि । प्रावृषो मूषिकालर्कविपजोपद्रवा इव ॥३॥ प्राप्तप्रतिष्ठानपि च वैराग्यादिगहादुमान् । उन्मूलयति निर्मूलं परिग्रहमहाबलः ॥४॥ परिग्रहनिपावोऽपि योऽपवर्ग विमार्गति । लोहोडपनिविष्टोऽसौ पारावारं तितीपति ।।५।। बाह्याः परिग्रहाः पुंसां धर्मस्य ध्वंसहेतवः । तज्जन्मानोऽपि जायन्ते समिधामिव वयः।।६।। बाद्यानपि हि यः सङ्गान्न नियन्त्रयितुं क्षमः । जयेत् क्लीवः कथं सोऽन्तःपरिग्रहचमूममम् ॥७॥ क्रीडोद्यानमविद्यानां वारिधिर्व्यसनार्णसाम् । कन्दस्तृष्णामहावल्लेरेक एव परिग्रहः ।।८।। अहो आश्चर्यमुन्मुक्तसर्वसङ्गान्मुनीनपि । धनार्थित्वेन शङ्कन्ते धनरक्षापरायणाः ॥६॥ राजतस्करदायादववितोयादिभीरुभिः। धनकतानैर्धनिभिर्निशास्त्रापि न सुप्यते ॥ १ ॥ दुर्भिक्षे वा सुभिक्षे
(१) वायुः। (१) जलानाम् ।
TRE
AKI
Jan Education international
For Personal & Private Use Only
Page #328
--------------------------------------------------------------------------
________________
द्विती प्रकाश
शास्त्रमा
॥१५॥
वा वन जनपद पवा। शङ्काऽऽतङ्काकुल नया धनी मवरदाखितः ।। १२ । नदोषा वा सदापा वा मुख जाव- न्ति निर्धनाः । याभ्यन्ते धनिनो लोके दोषैल्पादितैरपि ।। १२ । अर्ज ने रक्षणे नाशे व्यये मत्रभा दबदम् धने कर्ण गृहीतारलभललीलां धनं नृगणाम् ॥ १३ ॥ विन्धनं धनवन्तो यदेकामिपजिवृद्धभिः । म्यजनैषि बाध्य न्ते शुनकाः शुनकैरिख ।। १४ ॥ इत्यमर्थ लभेयाहं रक्षयं वद्धयेय च । कृतान्तदन्तयन्त्रस्थोऽपन्याशां = त्यजे टूनी ।। १५ ।। पिशाचीव धनाशेयं यावदुन्छङ्गला भवेत् । तावत् प्रदर्शयेन्नृणां नानारूपां विडम्बना ।।१६।। यदीच्छमि सु धर्म मुक्तिसाम्राज्यमेव च । तदा परपरीहारादेकामाशां वशीकुरु !! १७ ।। स्वगापवानगरप्रवेशप्रतिरोधिनी । अभेद्या वनधाराभिराशैव हि महार्गला ॥ १८ ॥ आशैव राक्षसी पुंसामाशैव विपमरी आशैव जीणमदिरा धिगाशा सर्वदोषभूः ॥१६॥ ते धन्याः पुण्यभाजस्ते तैस्तीर्ण : क्लेशसागरः । जगन्संमोहजन: बैंगशा ऽऽशीविषी जिता ।।२०।। पापबल्ली दुःखखानि सुखाग्निं दोपमातरम् । आशा निराशीकुरुते यस्तिष्ठति मुखेन सः ॥२१॥ आशादवाग्नेमहिमा कोऽपि लोकपथातिगः । धर्ममेषं समाधि यो विध्यापयति तत्क्षणान् ॥ २२ ॥ दीनं जम्पन्ति गायन्ति नृत्यन्त्यभिनयन्ति च । आशापिशाचीविवशाः पुमांसो धनिनां पुरः ॥२३॥ न यान्ति वायवो यत्र नाप्यन्दुमरीचयः । आशामहोमयः पुंसां तत्र यान्ति निरर्गलाः ॥२४॥ येनाशाय ददे स्वाम्यं तेनात्तं दास्यमा
त्मनः । आशा दासीकृता येन तस्य स्वाम्यं जगत्रये ॥२शा नाशा नैसर्गिकी पुंसि या जीयति न जीर्यति । उत्पात एवं * कोऽप्येषा तस्यां सत्यां कुतः सुखम् ॥२६॥ वलयो वलयाः पुंसां पलितानि स्रजः कृताः। किमन्यन्मण्डनं कृत्वा कृतार्था
ऽऽशा भविष्यति ॥२७॥ प्राप्तेभ्योऽप्यतिरिच्यन्ते तेऑस्त्यक्ता य आशया । क्रोडीकरोति यानाशा ते तु स्वमेऽपि
Education International
For Personal & Private Use Only
Page #329
--------------------------------------------------------------------------
________________
Hदुर्लभाः॥२८॥ यानर्थान् बहुभिर्यत्नैरिच्छेत्साधयितुं नरः। अयत्नसिद्धा एवैते कृते ह्याशानिमीलने॥२६॥ पुण्योदयोऽ
स्ति चेव पुंसां व्यथैवाशापिशाचिका। अथ पुण्योदयो नास्ति व्यर्थैवाशापिशाचिका ॥३०॥ अधीती पण्डितःप्राज्ञः पापभीरुस्तपोधनः। स एव येन हित्वाऽऽशां नैराश्यमुररीकृतम् ॥३१॥ सुखं सन्तोषपीयूषजुषां यत् स्ववशात्मनाम् । तत्पराधीनवृत्तीनामसन्तोषवतां कुतः।। ३२॥ सन्तोषवर्मणि व्यर्था आशानाराचपतयः । ताः कथं प्रतिरोद्धव्या इति मा स्माकुलो भवः ॥ ३३ ॥ वाक्येनकेन तद्वच्मि यद्वाच्यं वाक्यकोटिभिः। आशापिशाची शान्ता च प्राप्तं च परमं पदम् ॥३४॥ तत्सन्त्यजाऽऽशावैवश्यं मितीकृतपरिग्रहः । भजस्व द्रव्यसाधुत्वं यतिधर्मानुरक्तधीः ॥३५।। मिथ्याग्भ्यो विशिष्यन्ते सम्यग्दर्शनिनो जनाः । तेभ्योऽपि देशविरता मितारम्भपरिग्रहाः ॥ ३६ ॥ यामन्यतीर्थिका यान्ति गति तीव्रतपोजुषः । उपासकाः सोमिलवत्तां विराद्धव्रता अपि ॥३७॥ मासे मासे हि ये बालाः कुशाग्रेणैव भुञ्जते । सन्तुष्टोपासकानां ते कलां नार्हन्ति षोडशीम् ॥ ३८॥ अप्यद्भुततपोनिष्ठस्तामलि: पूरणोऽपि वा । सुश्रावकोचितगतरतिहीनां गतिं ययौ ॥३६॥ आशापिशाचविवशं कुरु मा सचेतः, सन्तोषमुद्वह परिग्रहनिग्रहेण । श्रद्धा विधेहि यतिधर्मधुरीणताया-मन्तर्भवाष्टकमुपैषि यथाऽपवर्गम् ॥४०॥ ११५ ।।।
इति परमाईतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचिते अध्यात्मोपनिषत्रानि सञ्जातपट्टबन्धे श्रीयोगशास्त्रे स्वोपझं द्विवीयप्रकाशविवरणम् ।
पूरणोऽपि वा । सुश्राव
यतिधर्मधुरीणतायाचार्यश्रीहेमचन्द्रविरचिते
(१)' भावसाधुत्वं' इति प्रत्यन्तरम् ।
in Education Inter
For Personal & Private Use Only
Page #330
--------------------------------------------------------------------------
________________
योग
अहम् तृतीयः प्रकाशः।
तृतीयः प्रकाशा
शास्त्रम्
॥१५६॥
अथाणुव्रतव्यावर्णनानन्तरं गुणवतानामवसरस्तत्रापि प्रथमं गुणवतमाहदशस्वपि कृता दिक्षु यत्र सीमा न लभ्यते। ख्यातं दिग्विरतिरिति प्रथमं तद्गुणवतम्॥१॥
ऐन्द्री, आग्नेयी, याम्या, नैर्ऋती, वारुणी, वायव्या, कौबेरी, ऐशानी, नागी, ब्राह्मीति दश दिशस्तासु, अपिशब्दादेकद्विव्यादिदित्वपि, सीमा मर्यादा, कृता प्रतिपन्ना, यत्र व्रते सति, न लङ्घयते नातिक्रम्यते, तत्प्रथमं गुणव्रतम् । उत्तरगुणरूपं व्रतं गुणवतम् , गुणाय चोपकाराय अणुव्रतानां व्रतं गुणवतम्, ख्यातं प्रसिद्धं, तस्याभिधानं दिग्विरतिरिति ॥१॥
ननु हिंसादिपापस्थानविरतिरूपाणि युक्तान्यणुव्रतानि, दिग्व्रते तु कस्य पापस्थानस्य निवृत्तिर्येनास्य व्रतत्वमुच्यते ? । उच्यते-अत्रापि हिंसादीनामेव पापस्थानानां विरतिरेतदेवाहचराचराणां जीवानां विमर्दननिवर्त्तनात् तप्तायोगोलकल्पस्य सद्रतं गृहिणोऽप्यदः ॥२॥
चरास्त्रसा द्वीन्द्रियादयः, अचराः स्थावराः एकेन्द्रियाः; तेषां नियमितसीमावहिर्वर्तिनां जीवानां, यद्विमर्दनं यातायातादिना हिंसा, तस्य निवर्त्तनाद्धेतोरिदमपि हिंसाप्रतिषेधपरमेव गृहस्थस्यापि सद्वतम् । हिंसाप्रतिषेधपरत्वे
॥१५६॥
in Education International
For Personal & Private Use Only
Page #331
--------------------------------------------------------------------------
________________
च असत्यादिप्रतिषधपरताऽपि सुवचैव । यद्यत्र, साधूनामपि दिग्विरतिव्रतप्रसङ्ग इत्याह-- तप्तायोगोलकल्पस्येति । गृहस्थो धारम्भपरिग्रहपरत्वायत्र यत्र याति, भुङ्क्त, शेते, व्यापारान्तरं वा कुरुते, तत्र ततायोगोलक इव जीवोपमर्द करोति । गृहिणोऽपीत्यपिशब्दस्तप्तायोगोलकल्पस्यत्यत्र सम्बध्यते, तप्तायोगोलकल्पस्थापीत्यर्थे । यदाइ-- |
तत्तायगोलकप्पो पमनजीवोऽणिवारियप्पसरो । सव्वत्थ किं न कुजा पावं तकारणाणुगो ॥१॥ साधूनां तु समितिगुप्तिप्रधानव्रतशालिनां नायं दोष इति न तेषां दिग्विरतिव्रतम् ॥ २॥
लोभलक्षणपापस्थानविरतिपरमपि चैतद् व्रतमित्याहजगदाक्रममाणस्य प्रसरल्लोभवारिधेः । स्वलनं विदधे तेन येन दिग्विरतिः कृता ॥ ३ ॥
लोभ एव दुर्लक्ष यत्वाद्वारिधिः समुद्रः प्रसरंश्वासौ नानाविकल्पकल्लोलाकुलत या लोभवारिधिश्च, तस्य विशेषणं जगदाक्रममाणस्य । वारिधिपक्षे जगल्लोकः, लोभपक्षे तु निःशेषमेव भुवनत्रयम् । लोभवशगो हि ऊर्ध्वलोकगतां सुरसम्पदं मध्यलोकगतां च चक्रवादिसम्पदमधोलोकगतां च पातालप्रभुत्वादिसम्पदमभिलषत्रिभुवनमपि मनोस्थैराक्रामतीति लोभस्य जगदाक्रमणम् , तेन स्खलनं प्रसरनिरोधः, तद्विदधे, येन किं ? येन पुरुषेण दिग्विरतिर्विहिता । दिग्विरतो हि प्रतिज्ञातसीमातः परतोऽगच्छंस्तत्स्थसुवर्णरूप्यधनधान्यादिषु प्रायेण लोभं न कुरुते इति लोभलक्षणपापस्थानविरतिपरताऽस्य व्रतस्य । अत्रान्तरश्लोकाः
(१) तप्तायोगोलकल्पः प्रमत्तजीवोऽनिवारितप्रसरः । सर्वत्र किं न कुर्यात् पापं तत्कारणानुगतः ॥
Jain Education international
For Personal & Private Use Only
Page #332
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥१५७॥
तदेतद्यावञ्जीव वा सद्बत गृहमधिनाम् । चतुर्मासादिनियमादथवा स्वल्पकालिकम् ।। १॥ सदा सामायिक- तृतीयः * स्थानां यतीनां तु जितात्मनाम् । न दिशि वचन स्यातां विरत्यविरती इमे ।। २॥ चारणानां हि गमनं यदुर्द्ध में
प्रकाश:1 मेरुमूर्द्धनि । तियगुरुचकशैले च नैषां दिग्विरतिस्ततः ॥ ३॥ गन्तुं सर्वासु यो दिशु विदध्यादवधिं सुधीः । स्वगादी निरवधयो जायन्ते तस्य सम्पद: ।। ४ ।। ३ ।।
द्वितीयं गुणवतमाहभोगोपभोगयोः संख्या शक्त्या यत्र विधीयते। भोगोपभोगमानं तद द्वैतीयीकं गुणवतम् ॥
भोगोपभोगयोर्वक्ष्यमाणलक्षणयो संख्या परिमाणं यत्र व्रते विधीयते, कया ? शक्या शरीरमनसोरनाबाधया, तद्भोगोपभोगमानं नाम गुणवतं, द्वितीयमेव द्वैतीयीकम् ; स्वार्थे टीकण् ।। ४ ।।
भोगोपभोगयोर्लक्षणमाहसकृदेव भुज्यते यः स भोगोऽन्नस्रगादिकः । पुनःपुनः पुनर्भोग्य उपभोगोऽङ्गनादिकः ॥५॥
सकृदेव एकवारमेव, भुज्यते सेव्यते इति भोगः, अनमोदनादि, सग्माम्यं, आदिशब्दात्ताम्बूलविलेपनोद्वर्त्तनधूपनस्मानपानादिपरिग्रहः । पुनःपुनरनेकवारं, भोग्यः सेव्यः, अङ्गना वनिता, भादिशब्दाद्वस्त्रालङ्कारगृहशयनासनवाहनादिपरिग्रहः॥ ५॥
इदं च भोगोपभोगव्रतं भोक्तं योग्येषु परिमाणकरणेन भवति, इतरेषु तु वर्जनेनेति श्लोकद्वयेन तद्वर्जनीयानाह
॥१५७॥
in Education international
For Personal & Private Use Only
Page #333
--------------------------------------------------------------------------
________________
******14:K
***---
मद्यं मांसं नवनीतं मधूदुम्बरपञ्चकम् । अनन्तकायमज्ञातफलं रात्रौ च भोजनम् ।। ६ ।। श्राम गोरससंपृक्तं द्विदलं पुष्पितौदनम् । दध्यहर्द्वितयातीतं कुथितान्नं च वर्जयेत् ॥ ७ ॥
तत्र मद्यं द्विधा - काष्ठनिष्पन्नं, पिष्टनिष्पन्नं च मांसं त्रिधा - जलस्थलखचरमांसभेदेन । मांसग्रहणेन चर्मरुधिरमेदोमजानः परिगृह्यन्ते । नवनीतं गोमहिष्यजाऽविसम्बन्धेन चतुर्द्धा । मधु त्रेधा - माचिकं भ्रामरं, कौत्तिकं च । उदुम्बरपञ्चकादयो यथास्थानं व्याख्यास्यन्ते ॥ ६ ॥ ७ ॥
तत्र मद्यस्य वर्जनीयत्वहेतून दोपान् श्लोकदशकेनाह-
मदिरापानमात्रेण बुद्धिर्नश्यति दूरतः । वैदग्धीबन्धुरस्यापि दौर्भाग्येणेव कामिनी ॥ ८ ॥
वैदग्धीबन्धुरस्यापि छेकस्यापि पुंसो, मदिरापानमात्रेण बुद्धिर्नश्यति चयं याति दूरतो दूरं यावत् सर्वथा विनश्यतीत्यर्थः । अत्रोपमानं दौर्भाग्येणेव कामिनीति । वैदग्धीबन्धुरस्यापि दूरत इति चात्रापि सम्बध्यते । तेन यथा विदग्धस्यापि दौर्भाग्यदोषेण कामिनी नश्यति पलायते, दूरतो दूरादपि ॥ ८ ॥ तथा
पापा: कादम्बरीपानविवशीकृतचेतसः । जननीं हा प्रियीयन्ति जननीयन्ति च प्रियाम् ॥९॥ कादम्बरी मदिरा, जननीं मातरं, हा इति खेदे, प्रियीयन्ति प्रियामिव जायामिवाचरन्ति, प्रियां च जननी - यन्ति जननीमिवाचरन्ति । मदिरामदविह्वलत्वाज्जननीजाययोराचारव्यत्ययेन व्यवहरन्तीत्यर्थः ॥६॥ तथान जानाति परं स्वं वा मद्याच्चलितचेतनः । स्वामीयति वराकः स्वं स्वामिनं किङ्करीयति ॥ १०॥
For Personal & Private Use Only
11K0/
Page #334
--------------------------------------------------------------------------
________________
शास्त्रम्
॥१५॥
मद्याद्धेतोः चलितचेतनो नष्टचैतन्यः सन् , स्वमात्मानं, परं वा आत्मव्यतिरिक्तं, न जानाति । अत्र हेतुमाह
तृतीय: -यत आत्मानमजानन् स्वं स्वामिनामिवाचरति, वराकश्चैतन्यहीनत्वादनुकम्पनीयः । परमजानन् स्वामिनं नाथं
मप्रकाशा किङ्करमिवाचरति ॥१०॥ तथामद्यपस्य शवस्येव लुठितस्य चतुष्पथे । मूलयन्ति मुखे श्वानो व्यात्ते विवरशझ्या ॥११॥ ___ स्पष्टः ॥ ११॥ तथामद्यपानरसे मग्नो नग्नः स्वपिति चत्वरे । गूढं च स्वमभिप्रायं प्रकाशयति लीलया ॥१२॥
मद्यस्य पानं तत्र रस आसक्तिस्तत्र मग्नो निषमः, मद्यपानव्यसनीत्यर्थः । अत एव वस्त्रमपि सस्तमजानन् नग्नः स्वपिति चत्वरे, न तु गृह एव । दोषान्तरं च-गूढं केनाप्यविदितं, स्वमभिप्राय राजद्रोहादिकं प्रकाशयति प्रकटीकरोति लीलया बन्धनताडनादिव्यतिरेकेणापि ॥ १२ ॥ तथावारुणीपानतो यान्ति कान्तिकीर्तिमतिश्रियः। विचित्राश्चित्ररचना विलुठत्कजलादिव ॥१३॥ ... वारुणीपानतो मद्यपानात्, यान्त्यपगच्छन्ति, कान्तिः शरीरतेजः, कीर्यिशः, मतिस्तात्कालिकी प्रतिमा, ! श्रीः सम्पत् । विचित्रा इत्याद्युपमानं स्पष्टम् ॥ १३ ॥ तथाभूतात्तवन्नरीनति रारटीति सशोकवत् । दाहज्वरावभूमौ सुरापो लोलुठीति च ॥१४॥
भूतात्तो व्यन्तरविशेषपरिगृहीतः, त्रीण्यपि क्रियापदानि भृशाभीक्ष्णयोर्यङ्लुबन्तानि ॥ १४ ॥ तथा- ॥ १५॥
in Education Internatio
For Personal & Private Use Only
Page #335
--------------------------------------------------------------------------
________________
विदधत्यशैथिल्यं ग्लपयन्तीन्द्रियाणि च। नृच्छामतुच्छांयन्छन्ती हालाहालाहलोपमा ॥१५॥
हाला सुरा, हालाहलोपमा हालाहलो विपविशेषस्तत्सदृशी । साधारणधर्मानाह-विदधती कुर्वाणा प्रङ्गशथिन्यं शरीरविशंस्थुलत्वम् । ग्लपयन्ती कार्याक्षमाणि कुर्वती इन्द्रियाणि चक्षुरादीनि । मूछा चैतन्याभावम्तामतुच्छां प्रचुगं यच्छन्ती । अङ्गशैथिल्यादयो हालाहालाहलयोः साधारणा धर्माः ॥ १५ ॥ तथा-- विवेकः संयमो ज्ञानं सत्यं शौचं दया क्षमा। मद्यात्प्रलीयते सर्व तृण्या वहिकणादिव ॥१६॥
विवेको हेयोपादेयज्ञानं, संयम इन्द्रियवशीकारः, ज्ञानं शास्त्रावबोधः, सत्यं तथ्या भाषा, शौचमाचारशुद्धिः, दया करुणा, क्षमा क्रोधस्यानुत्पाद उत्पन्नस्य वा विफलीकरणम् । मद्यान्मद्यपानात प्रलीयते नाशमुपयाति |सर्व विवकादि । यथा वह्निकणात तृण्या तृणसमूहः । तृणानां समूहस्तृण्या, पाशादित्वाल्ल्यः ॥ १६ ॥ दोषाणां कारणं मद्यं मयं कारगामापदाम् । रोगातुर इवापथ्यं तस्मान्मद्यं विवर्जयेत।१७।।
दोषाणां चौर्यपारदारिकत्वादीनां कारणं हेतुः, मद्यपानरतो हि किं किमकार्य न करुते ? दोपकारणत्वादेव चापदां वधबन्धादीनां कारणं, तस्मान्मधं विवर्जयेदित्युपसंहारः रोगातुर इवापथ्यमित्युपमानम् । अत्रान्तरश्लोकाः
रसोद्भवाश्च भूयांसो भवन्ति किल जन्तवः । तस्मान्मयं न पातव्यं हिंसापातकभीरुणा ।। १॥ दत्तं न दत्तमात्तं च नातं कृतं च नो कृतम् । मृपोद्यराज्यादिव हा स्वरं वदति मद्यपः ॥२॥ गृहे बहिर्वा मार्गे वा परद्रव्याणि मूढधीः। वधबन्धादिनिर्भीको गृह्मात्याच्छिद्य मद्यपः । ३॥ बालिकां युवती वृद्धा ब्राह्मणी श्वपचीमपि ।
R
Education Interations
For Personal & Private Use Only
Page #336
--------------------------------------------------------------------------
________________
योगशास्त्रम्
तृतीयः प्रकाशः ।
॥१५॥
भुक्क्ते परखियं सद्यो मद्योन्मादकदर्थितः ॥४॥ रटन् गायन् लुठन् धावन् कुप्यंस्तुष्यन् रुदन् हसन् । स्तनमन् भ्रमंस्तिष्पन सुरापः पापराट नटः ॥५॥ श्रूयते किल शाम्बेन मद्यादन्धम्मविष्णुना । हतं वृष्णिकुलं सर्व सोषिता च पुरी पितः ॥ ६ ॥ पिबन्नपि मुहुर्मद्यं मद्यपो नैव तृप्यति । जन्तुजातं कवलयन् कृतान्त इव सर्वदा ॥७॥ लौकिका अपि मद्यस्य बहुदोषत्वमास्थिताः । यत्तस्य परिहार्यत्वमेवं पौराणिका जगुः ॥८॥ कश्चिदृषिस्तपस्तेपे भीत इन्द्रः सुरत्रियः । चोभाय प्रेषयामास तस्यागत्य च तास्तकम् ॥ ६॥ विनयेन समाराध्य वरदाभिमुखं स्थितम । जगुर्मा तथा मांसं सेवस्वाब्रह्म चेच्छया ॥१०॥ स एवं गदितस्तामिद्वेयोनेरकहेतुताम् । आलोच्य मद्यरूपं च शुद्धकारणपूर्वकम् ॥ ११॥ मद्यं प्रपद्य तद्भोगान् नष्टधर्मस्थितिमंदात् । विदंशार्थमजं हत्वा सर्वमेव चकार सः ॥ १२ ॥ अवद्यमूलं नरकस्य पद्धति, सर्वापदां स्थानमकीर्त्तिकारणम् । अभव्यसेव्यं गुणिभिविंगर्हितं, विवर्जयेन्मद्यमुपासकः सदा ॥ १३ ॥ १७ ॥
अथ मांसदोषानाह| चिखादिषति यो मांसं प्राणिप्राणापहारतः। उन्मूलयत्यसौ मूलं दयाऽऽख्यं धर्मशाखिनः॥१८॥
चिखादिषति खादितुमिच्छति, यः कश्चित्, मांसं पिशितं । असौ पुमान्, उन्मूलयति उत्खनति, किं तत् ? | मलं दयासंज्ञकं, कस्य ? धर्मशाखिनः पुण्यवृक्षस्य, । मांसखादने कथं धर्मतरोर्दयाख्यं मूलमुन्मृन्यते ? इत्याहप्राणिप्राणापहारतः प्राणिप्राणापहाराद्धेतोः, न हि प्राणिप्राणापहारमन्तरेण मांसं संभवतीति ॥१८॥
॥१५॥
Sain Education interre l
For Personal & Private Use Only
Page #337
--------------------------------------------------------------------------
________________
मांस चिखादिपनपि प्राणियां करिष्यतीत्याह
अशनीयन् सदा मांसं दयां यो हि चिकीर्षति । ज्वलति ज्वलने वल्लीं स रोपयितुमिच्छति ॥ १९ ॥
सदा सर्वदा, मांसमशनीयन् मांसमशनमिवाचरन् पुत्रीयति च्छात्रमितिवत् " आधाराच्चोपमानादाचारे ।। ३ ।। ४ ।। २४ ।। इति क्यनि रूपम्, दयां कृपां यः कश्चित् हि स्फुटं चिकीर्षति कर्तुमिच्छति । ज्वलतीत्यादिना निदर्शनम्. यथा ज्वलत्यग्नौ वल्लीरोपणमशक्यम्, तथा मांसमशनीयता दयाऽपि कर्तुमशक्येत्यर्थः ॥१६॥ नन्वन्यः प्राणिनां घातकोऽन्यश्च मांसभक्षक इति कथं मांसभक्षकस्य प्राणिप्राणापहरणमिति ? उच्यतेभक्षकोsपि घातक एवेत्याह
हन्ता पलस्य विक्रेता संस्कर्त्ता भचकस्तथा । क्रेताऽनुमन्ता दाता च घातका एव यन्मनुः ॥२०॥
हन्ता शस्त्रादिना प्राणिनां प्राणापहारकः, पलस्य विक्रेता यो मांसं विक्रीणीते । पलस्येत्युत्तरेष्वपि पदेषु सम्बन्धनीयम् । संस्कर्त्ता यो मांसं संस्करोति, भक्षकः खादकः क्रेता यो मांसं क्रीणाति, अनुमन्ता यः प्राणिहिंसया मांसमुत्पाद्यमानमनुमोदते, दाता यो मांसमतिथ्यादिभ्यो ददाति एते साक्षात्पारम्पर्येण वा घातका एवं प्राणिप्राणापहारका एव, यन्मनुरिति संवादार्थम् ॥ २० ॥
मानवमेवोक्तं दर्शयति
अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । संस्कर्त्ता चोपहर्त्ता च खादकश्चेति घातकाः ||२१||
For Personal & Private Use Only
**-**01*+--
****-1*--*-*-*
Page #338
--------------------------------------------------------------------------
________________
याग
शास्त्रम्
१६०॥
+*+*•**@******→
अनुमन्ता अनुमोदकः, विशमिता हतस्याङ्गविभागकरः, निहल्ला व्यापादकः क्रयविक्रयी क्रयविक्रयों विद्यते यस्य स तथा क्रेता विक्रेता चेत्यर्थः संस्कर्त्ता मांगपाचकः, उपहर्त्ता परिवेष्टा, खादको भक्षकः, एते सर्वे घातकाः ॥ २१ ॥ द्वितीयमपि मानवं श्लोकमाह-नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् । न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्जयेत् ||२२|| यावत्प्राणिनो न हतास्तावन्मांसं नोत्पद्यते, हिंसा चातिशयेन दुःखावहा, तस्मान्मां विवर्जयेत् उत्पद्यत इति मांसस्य हिंसानिमित्तत्वात् कर्तृव्यपदेश इति समानकर्तृकत्वमविरुद्धम् । न च स्वर्ग्य इति न वर्गानुत्पत्तिमात्रमभिप्रेतमपि तु नरकादिदुःखहेतुता ।। २२ ।।
इदानीमन्यपरिहारेण भचकस्यैव वधकत्वमाह -
ये भक्षयन्त्यन्यपलं स्वकीयपलपुष्टये । त एव घातका यन्न वधको भक्षकं विना ॥ २३ ॥ अन्य पलमन्यमांसं स्वमांसपुष्टये ये भक्षयन्ति त एव परमार्थतो घातका न तु हन्तृविक्रेतुप्रभृतयः । अत्र युक्तिमाह – यद्यस्मान्न भक्षकं विना वधको भवति, ततो हन्तुप्रभृतिभ्यो भक्षकः पापीयान् स्वकीयपलपुष्टय इति हिंसाभिप्रायं स्वपलपोषणमात्रप्रयोजनः कतिपयदिनजीवितः परजीवितप्रहाणं कुर्यात् । यदाह
हंतुणं परपाणे अप्पाणं जे कुणंति सप्पाणं । अप्पा दिवसाणं करण नार्सेति अप्पाणं ॥ १॥ तथा( १ ) हत्वा परप्राणान् आत्मानं ये कुर्वन्ति सप्राणम् । अल्पानां दिवसानां कृतेन नाशयन्ति आत्मानम् ॥
For Personal & Private Use Only
401.0
तृतीयः
प्रकाशः ॥
॥ १६०॥
Page #339
--------------------------------------------------------------------------
________________
******
एकस्स कए नियजीवियस्स बहुउ जीवकोडीओ । दुक्स्खे ठवंति जे केवि ताण किं * मामयं जीयं ? ॥ १ ॥ २३॥ एतदेव सजुगुप्समाह मिष्टान्नान्यपि विष्टासादमृतान्यपि मूत्रसात् । स्युर्यस्मिन्नङ्गकस्यास्य कृते कः पापमाचरेत् ? ॥२४॥ मिष्टान्नानि शालिमुद्रमाषगोधूमादीनि तान्यपि विष्टासाद्विष्टात्वेन स्युः संपद्येरन् । अमृतानि पयःप्रभृतीनि तान्यपि मूत्रसान्मूत्रत्वेन स्युः संपद्येरन् यस्मिन् ( अङ्गके ) । अस्य प्रत्यक्षस्य अङ्गकस्य कुत्सितस्य शरीरस्य, कृते निमित्तं कः सचेतनः पापं प्राणिघातलक्षणमाचरेत् विदधीत १ ।। २४ ।।
इदानीं मांसभक्षणं न दोषायेति वदतो निन्दति
मांसाशने न दोषोऽस्तीत्युच्यते यैर्दुरात्मभिः । व्याधगृधवृकव्याघ्रशृगालास्तैर्गुरुकृताः ॥२५॥ मांसभक्षणे न दोषोऽस्तीति यैरुच्यते दुरात्मभिर्दुःखभावैः, यथा -
" न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला
॥ १ ॥
इति । तैर्व्याधा लुब्धकाः, गृध्रा हिंस्राः पक्षिविशेषाः, वृका अरण्यश्वानः, व्याघ्राः शार्दूलाः, शृगाला जम्बुकाः, गुरूकृताः उपदेशकाः कृताः । न हि व्याधादीन् गुरून् विना कश्विदेवंविधं शिक्षयति, न चाशिक्षितं ( १ ) एकस्य कृते निजजीवितस्य बहुका जीवकोटीः । दुःखे स्थापयन्ति ये केऽपि तेषां किं शाश्वतो जीवः ? || ( * ) सासओ अप्पा | इतिप्रत्यन्तरे ।
For Personal & Private Use Only
*+
*4*6000/- *** -
Page #340
--------------------------------------------------------------------------
________________
योगशास्त्रम्
तृतीयः प्रकाशः।
॥१६॥
महाजनपूज्या एवमुपदिशन्ति । अपि च । निवृत्तिस्तु महाफलेति वदद्भिर्येषां निवृत्तिर्महाफला तेषां प्रवृत्तिर्न दोषवतीति खयमेव स्ववचनविरोध आविष्कृत इति किमन्य महे ॥ २५ ॥
निरुक्तबलेनापि मांसस्य परिहार्यत्वमाहमां स भक्षयिताऽमुत्र यस्य मांसमिहाझ्यहम् । एतन्मांसस्य मांसत्वे निरुक्तं मनुरब्रवीत्॥२६॥ ___मां स भवयितेति अत्र स इति सर्वनामसामान्यापेक्ष योग्येनार्थेन निराकासीकरोति-यस्य मांसमहमबि, इहेति इहलोके, अमुत्रेति परलोके, एतन्मासस्य मांसत्वे मांसरूपतायां, निरुक्तं नामधेयनिर्वचनं मनुरब्रवीत् ॥ २६ ॥
मांसभक्षणे महादोषमाहमांसास्वादनलुब्धस्य देहिनं देहिनं प्रति । हन्तुं प्रवर्त्तते बुद्धिः शाकिन्याइव दुर्धियः ॥२७॥ ___ मांसभक्षणलम्पटस्य देहिनं देहिनं प्रति यं यं पश्यति जलचरं मत्स्यादिकं, स्थलचरं मृगवराहादि अजाऽवि| कादि च, खेचरं तित्तिरिलावकादि, अन्ततो मूषिकाद्यपि तं तं प्रति हन्तुं हननाय बुद्धिःप्रवर्तते; दुर्धियो दुर्बुद्धेः। शाकिन्या इव-यथा हि शाकिनी यं यं पुरुषं त्रियमन्यं वा प्राणिनं पश्यति, तं तं हन्तुं तस्या बुद्धिः प्रवर्तते, तथा मांसास्वादनलुब्धस्यापीति ॥ २७॥ ___ अपि च मांसभक्षिणामुत्तमपदार्थपरिहारेण नीचपदार्थोपादानं महद्बुद्धिवैगुण्यं दर्शयतीति दर्शयन्नाहये भक्षयन्ति पिशितं दिव्यभोज्येषु सत्स्वपि। सुधारसं परित्यज्य मुञ्जते ते हलाहलम् ॥२८॥
॥१६॥
in Education interna
l
For Personal & Private Use Only
Page #341
--------------------------------------------------------------------------
________________
50
दियभोज्येषु सकलधातुवृंहकषु सर्वेन्द्रियप्रीतिप्रदेषु क्षीरचैरेयी किलाटी कूर्चिकार सालादध्यादिषु मोदकमण्डकमण्डिकाखाद्यकपर्पटिका घृतपूरादिषु इण्डेरिकापूरणवटकवटिकापर्पटादिषु इक्षुगुडखण्डशर्करादिषु द्राक्षासहकारकदलदाडिमनालिकेरनारङ्गखर्जूराचोटराजादनपनसादिषु च सत्स्वपि तान्यनादृत्य ये मूढा विस्रगन्धिजुगुप्साकरं rarararai वान्तिकरं मांसं मचयन्ति ते जीवितवृद्धिहेत्वमृतरसपरिहारेण जीवितान्तकरं हलाहलं त्रिपभेदं ra | बालोsपि हि पत्परिहारेण सुवर्णमेवादत्त इति बालादपि मांसभचिणो वालाः ॥ २८ ॥ भङ्गयन्तरेण मांसभक्षणदोषमाह -
न धर्मो निर्दयस्यास्ति पलादस्य कुतो दया । पललुब्धो न तद्वेत्ति विद्याद्वोपदिशेन्न हि ॥ २९ ॥
निर्दयस्य कृपारहितस्य, धर्मो नास्ति, धर्मस्य दया मूलमिति ह्यामनन्ति । ततः प्रस्तुते किमायातमत आहपलादस्य कुतो दया, पलादस्य मांसोपजीविनः कुतो दया ? नैव दयेत्यर्थः, भक्षकस्य वधकत्वेनोक्तत्वात्, वधकश्च कथं सदयो नाम इति पलादस्य निर्धर्मतालक्षणो दोषः । ननु सचेतनः कथमात्मनि धर्माभावं सहेत ? उच्यते - पललुब्धो न तद्वेत्ति मांसलोभेन न तत्पूर्वार्धोक्तं जानाति । अथ कथञ्चिद्विद्याजानीयात्तर्हि स्वयं मांसलुब्धो मांसनिवृत्तिं कर्तुमशक्नुवन् सर्वेऽपि मम सदृशा भवन्त्विति परेभ्यो मांसनिषेधं नोपदिशेदाजिणकवत् । श्रूयते हि कश्चिदाजिणको मार्गे गच्छन्नेकया सर्पिण्या भक्षितस्तत्सर्वेऽपि भक्ष्यन्तामनयेति बुद्ध्या परेभ्यो नाख्यातवानिति द्वितीयोऽपि तथैव दष्टो नान्येषां कथितवान् एवं यावत्सप्त दष्टाः । मांसभक्षकोऽपि मांसभक्षणात्स्वयं नरके पतन् " स्वयं नष्टा दुरात्मानो नाशयन्ति परानपि " इति न परेभ्य उपदिशति ॥ २६ ॥
For Personal & Private Use Only:
(a) -
Page #342
--------------------------------------------------------------------------
________________
योग
शास्त्रम् ॥ १६२॥
Jain Education Inter
इदानीं मांसभक्षकाणां मूढतामुपदर्शयति
केचिन्मांसं महामोहादश्नन्ति न परं स्वयम् । देवपित्रतिथिभ्योऽपि कल्पयन्ति यदूचिरे ॥३०॥ केचित् कुशास्त्रविप्रलब्धा महतो मोहान केवलं स्वयं मांसमश्नन्ति किन्तु देवेभ्यः पितृभ्योऽतिथिभ्यश्च कल्पयन्ति; यद्यस्मादूचिरे तद्धर्मशास्त्रकाराः ॥ ३० ॥
उक्तमेवाह
क्रीत्वा स्वयं वाऽप्युत्पाद्य परोपहृतमेव वा । देवान् पितॄन् समभ्यर्च्य खादन् मांसं न दुष्यति ॥३१॥
मृगपक्षिमांसविषयमेतच्छास्त्रं, तेन सूनापणमांसं विना व्याधशाकुनिकादिभ्यः क्रीत्वा मूल्येन । सूनापणमांसे तु देवपूजादावनधिकृतेः । तथा स्वयमुत्पाद्य - ब्राह्मणो याञ्चया, क्षत्रियो मृगयाकर्मणा, अथवा परेणोपहृतं ढौकितं तेन मांसेन देवानां पितॄणां चार्चनं कृत्वा मांसं खादन्न दुष्यति, एतच्च महामोहादिति वदद्भिरस्माभिर्दूषितमेव । स्वयमपि हि प्राणिघातहेतुकं मांसं भचयितुमयुक्तं किं पुनर्देवादिभ्यः कल्पयितुम् । देवा हि सुकृतसम्भारलब्धात्मानोऽधातुकशरीरा अकावलिकाहाराः कथं मांस भक्षयेयुः ? अभक्ष मयस्तत्कल्पनं मोह एव । पितरश्च स्वसुकृतदुष्कृतवशेन प्राप्तगतिविशेषाः स्वकर्मफलमनुभवन्तो न पुत्रादिकृतेनापि सुकृतेन तार्यन्ते किं पुनर्मासढौकनदुष्कृतेन ? । न च पुत्रादिकृतं सुकृतं तेषामुपतिष्ठते । न ह्याम्रेषु सेकः कोविदारेषु फलं दत्ते । अतिथिभ्यश्च सत्कारार्हेभ्यो नरकपातहेतोर्मांसस्य ढौकनं महते अधर्माय । एवं परेषां महामोहचेष्टितम् । श्रुतिस्मृ
For Personal & Private Use Only
*0****
तृतीयः
प्रकाश: ।
॥ १६२ ॥
Page #343
--------------------------------------------------------------------------
________________
-+1.03•*++*०*
तिविहितत्वादनोद्यमेतदिति चेन्न । श्रुतिभाषितेष्वप्रामाणिकेषु प्रत्ययस्य कर्तुमशक्यत्वात् । श्रूयन्ते हि श्रुतिचांसि - यथा पापघ्नो गोस्पर्शः, द्रुमाणां च पूजा; छागादीनां वधः स्वर्ग्यः । ब्राह्मणभोजनं पितृप्रीणनं, मायावीन्यधिदैवतानि वह्नौ हुतं देवप्रीतिप्रदम् । तदेवंविधेषु श्रुतिभाषितेषु युक्तिकुशलाः कथं श्रदधीरन् ? ।
यदाह
स्पर्शोऽमेध्यभ्रुजां गवामघहरो वन्द्या विसंज्ञा द्रुमाः, स्वर्ग वागवधाद्धिनोति च पितॄन् विप्रोपभुक्ताशनम् । आप्ताद्मपराः सुराः शिखिहुतं प्रीणाति देवान् हविः, स्फीतं फल्गु च वल्गु च श्रुतिगिरां को वेत्ति लीलायितम् १ || १ || तस्मान्महामोह एवायं मांसेन देवपूजाऽऽदिकमित्यलं विस्तरेण ॥ ३१ ॥
ननु मन्त्रसंस्कृतो वह्निर्न दहति पचति वा, तन्मन्त्रसंस्कृतं मांसं न दोषाय स्यात् । यन्मनुः -- असंस्कृतान् पशून्मन्त्रैर्नाद्याद्विप्रः कथञ्चन । मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिमास्थितः ॥ १ ॥ शाश्वतो नित्यो वैदिक इत्यर्थः । अत्राह - मन्त्रसंस्कृतमप्यद्याद्यवाल्पमपि नो पलम् । भवेज्जीवितनाशाय हालाहललवोऽपि हि ॥३२॥ मन्त्रसंस्कृतमपि मन्त्रपूतमपि, पलं नाद्यात्, न हि मन्त्रा अर्दहनशक्तिवन्नरकादिप्रापणशक्तिं मांसस्य प्रतिबध्नन्ति । तथा सति सर्वपापानि कृत्वा पापतमन्त्रानुस्मरणमात्रात् कृतार्थीभवेयुः । एवं च सर्वपापप्रतिषेधोऽपि
२८
***-*-*-*-*त्र.0+ 1.0+
For Personal & Private Use Only
Page #344
--------------------------------------------------------------------------
________________
योगशास्त्रम्
...
-+-+Moktr
निरर्थकः स्यात , सर्वपापानां मन्त्रादेव नाशप्रसक्तः । अथ यथा स्तोक मद्यं न मदयति तथा स्वल्पं मांस न तृतीय पापाय स्यात् । उच्यते- यवाल्पमपि यवतुल्य प्रमाण मपि नाद्यात् पलमिति संबध्यते, तदपि दोषाय, अत्रोत्तरार्द्धन | प्रकाशः । निदर्शनम् ॥ ३२॥ इदानीमनुत्तरं मांसस्य दोषमुपदर्शयन्नुपसंहरतिसद्यः संमूच्छितानन्तजन्तुसन्तानदूषितम्। नरकाध्वनि पाथेयं कोऽश्नीयात्पिशितं सुधीः?॥३३॥
सद्यो जन्तुविशसनकाल एव संमृछिता उत्पन्ना अनन्ता निगोदरूपा ये जन्तवस्तेषां सन्तानः पुनः पुन भवनं तेन दृक्षितम् । यदाह
आमासु अ पक्कासु अविपच्चमाणासु मंसपेसीसु । सययं चिय उववाओ भणिओ उ निगोअजीवाणं ॥१॥ तत एव नरकाध्वनि पाथेयम्, पिशितभक्षणस्य पाथेयत्वे पिशितमपि पाथेयमुक्तं, कोऽश्नीयात्पिशितं सुधीरित्युपसंहारः । अत्रान्तरश्लोकाः
मांसलुब्धैरमर्यादैर्नास्तिकैः स्तोकदर्शिभिः । कुशास्त्रकारवैयात्याद्गदितं मांसभक्षणम् ॥१॥ नान्यस्ततो गतघृणो नरकाचिष्मदिन्धनम् । स्वमांसं परमांसेन यः पोषयितुमिच्छति ॥२॥ स्वाङ्गं पुष्णन्नृगुथेन वरं हि गृहशूकरः । प्राणिघातोद्भवैमासन पुनर्निघृणो नरः ॥ ३॥ निःशेषजन्तुमांसानि भक्ष्याणीति य ऊचिरे । नृमांसं वर्जितं शङ्के
(१) आमासु च पक्कासु च विपच्य ानासु मांसपेशीषु । सततमेव उपपातो भणितस्तु निगोदनीवानाम् ॥१॥
+-+
+-
+-
+-
॥१६३॥
++
For Personal & Private Use Only
Education International
wrane.lainelibrary.org
Page #345
--------------------------------------------------------------------------
________________
स्ववधाशयैव तैः ॥ ४ ॥ विशेष यो न मन्येत नृमांसपशुमांसयोः । धार्मिकस्तु ततो नान्यः पापीयानपि नापरः ॥५॥ शुक्रशोणितसम्भूतं विष्टारसविवर्द्धिनम् । लोहितं स्त्यानतामाप्तं कोऽश्नीयादकृमिः पलम् ? ॥६॥ अहो द्विजातयो धर्म शौचमूलं वदन्ति च । सप्तधातुकदेहोत्थं मांसमश्नन्ति चाधमाः ॥७॥ येषां तु तुल्ये मांसाने सतणाभ्यवहारिणाम् । विपामृते समे तेषां मृत्युजीवितदायिनी ॥ ८॥ भक्षणीयं सतां मांसं प्राण्यङ्गत्वेन हेतुना । ओदनादिवदित्येवं ये चानुमिभते जडाः ।।६ ॥ गोसम्भवत्वात्ते मूत्रं पयोवन्न पिबन्ति किम् ? । प्राण्यङ्गतानिमित्ता च नौदनादिषु भक्ष्यता ।। १० । शङ्खादि शुचि नास्थ्यादि प्राण्यङ्गत्वे समे यथा । ओदनादि | तथा भक्ष्यमभन्यं पिशितादिकम् ।। ११॥ यस्तु प्राण्यङ्गमात्रत्वात् प्राह मांसौदने समे । स्त्रीत्वमात्रान्मातृपत्न्योः । | स किं साम्यं न कल्पयेत? ॥ १२ ।। पञ्चेन्द्रियस्यैकस्यापि वधे तन्मांसभक्षणात । यथा हि नरकप्राप्तिन तथा धान्यभोजनात् ॥ १३ ॥ न हि धान्यं भवेन्मांसं रसरक्तविकारजम् । अमांसभोजिनस्तस्मान्न पापा धान्यभोजिनः ॥१४॥ धान्यपाके प्राणिवधः परमेकोऽवशिष्यते । गृहिणां देशयमिनां स तु नात्यन्तबाधकः ॥१५॥ मांसखादकगतिं विमृशन्तः, सस्यभोजनरता इह सन्तः। प्राप्नुवन्ति सुरसम्पदमुच्चै-जैनशासनजुषो गृहिणोऽपि ॥१६॥३३॥
क्रमप्राप्तं नवनीतभक्षणदोषमाह| अन्तर्मुहूर्त्तात्परतः सुसूक्ष्मा जन्तुराशयः। यत्र मूर्छन्ति तन्नाद्यं नवनीतं विवेकिभिः ॥३४॥ __ अन्तर्मध्यं मुहूर्त्तस्य अन्तर्मुहूर्त, तसात् परत ऊर्ध्व, अतिशयेन सूक्ष्माः सुसूक्ष्माः, जन्तुराशयो जन्तुसमूहाः
कल्पयेत् ? ॥ १२॥ भवेन्मांसं रसरक्तविकारजमाना स तु नात्यन्तबाधकः ॥ ॥१६॥३३॥
in Education international
For Personal & Private Use Only
Page #346
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
॥१६४॥
* यस्मिन्नवनीते, मूर्च्छन्ति उत्पद्यन्ते, तनवनीतं, नाद्यं न भक्षणीयं, विवेकिमिः ॥ ३४ ॥
तृतीया एनमेवार्थ भावयति
प्रकाशः। एकस्यापि हि जीवस्य हिंसने किमचं भवेत् ?। जन्तुजातमयं तत् को नवनीतं निषेवते ? ॥३५॥ || ___ एकस्यापि हि जन्तोर्वधे किं निर्देष्टुमशक्यमघं पापं भवेत् तत्तसाजन्तुजातं प्रकृतमसिंस्तजन्तुजातमयं नवनीतं को निषेवते कः सविवेकोऽश्नाति ? ॥ ३५ ॥
क्रमप्राप्तान्मधुदोषानाहअनेकजन्तुसङ्घातनिघातनसमुद्भवम् । जुगुप्सनीयं लालावत् कः स्वादयति माक्षिकम् ? ॥३६॥
अनेकस्य जन्तुसङ्घातस्य यन्त्रिघातनं विनाशस्तस्मात समद्भवो यस्य तत्तथा। निघातनमिति हन्त्याश्चेति हन्तेथुरादिपाठात् णिजन्तस्य रूपम् । अयं परलोकविरोधो दोषः, जुगुप्सनीयं कुत्सनीयं, लालावल्लालामिव, अयमिहलोकविरोधो दोषः, कः सचेतनः, स्वादयति भक्षयति, मक्षिकाभिः कृतं माक्षिकं मधु । एतच्च भ्रामरादीनामुपलक्षणम् ॥ ३६ ॥ इदानीं मधुमक्षकाणां पापीयस्ता दर्शयतिभक्षयन्माक्षिकं तुद्रजन्तुलक्षक्षयोद्भवम् । स्तोकजन्तुनिहन्तृभ्यः शौनिकेभ्योऽतिरिच्यते ॥३७॥
क्षुद्रजन्तुरनस्थिः स्यादथवा क्षुद्र एव यः । शतं वा प्रसूतिर्येषां केचिदा नकुलादपि ॥१॥ तेषां चुद्रजन्तूनां लक्षाणि, लक्षग्रहणं बहुत्वोपलक्षणम् । तेषां चयो विनाशस्तसादुद्भवो यस्य तत्तथा, ॥१६४॥
in Education
For Personel Private Use Only
Page #347
--------------------------------------------------------------------------
________________
तद्भक्षयन् स्तोकपश्वादिजन्तुनिहन्तृभ्यः शौनिकभ्यः खट्टिकेभ्योऽतिरिच्यते अधिकीभवति; भक्षकोऽपि घातक इत्युक्तप्रायम् ॥ ३७॥
लौकिकानामप्युच्छिष्टभोजनत्याजिनामुच्छिष्टत्वान्मधु परिहर्त्तव्य मेवेत्याहएकैककुसुमक्रोडाद्रसमापीय मक्षिकाः। यद्वमन्ति मधूच्छिष्टं तदनन्ति न धार्मिकाः ॥३८॥
एकैकस्य कुसुमस्य यः क्रोड उत्सङ्गस्तस्माद्रमं मकरन्दमापीय पीत्वा, मक्षिकाः यदमन्ति उद्गिरन्ति, तच्छिष्ट मधुः धर्म चरन्ति धार्मिकास्ते नाश्नन्ति । अनुच्छिष्टभोजनं हि धर्मो लौकिकानाम् ॥ ३८॥
ननु त्रिदोषशमनं मधु' नातःपरमौषधमस्तीति रोगोपशान्तये मधुभक्षणे को दोष इत्याहअप्योषधकृते जग्धं मधु श्वभ्रनिबन्धनम्। भचितःप्राणनाशाय कालकूटकणोऽपि हि ॥३९॥
आस्तां रसास्वादलाम्पट्येन यावदोषधकृतेऽपि औषधनिमित्तमपि मधु जग्धं यद्यपि रोगापहारकं, तथापि श्वभ्रस्य नरकस्य निबन्धनम् ; हि यस्मात् प्रमादाजीवितार्थितया वा कालकूटस्य विषस्य कणोऽपि लवोऽपि भी क्षितः सन् प्राणनाशाय भवति ॥ ३९ ॥ ___ननु खर्जुरद्राक्षादिरसवन्मधु मधुरमिति सर्वेन्द्रियाप्यायकत्वात् कथं परिहार्य स्यादित्याहमधुनोऽपि हि माधुर्यमबोधैरहहोच्यते । प्रासाद्यन्ते यदास्वादाच्चिरं नरकवेदनाः ॥ ४० ॥
सत्यमस्ति मधुनो माधुर्य व्यवहारतः, परमार्थतस्तु नरकवेदनाहेतुत्वादत्यन्तकटुकत्वमेव । अबोधैरिति पर
Sain Education international
For Personal & Private Use Only
Page #348
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
।। १६५ ।।
Jain Education Internation
मार्थपरिशीलनाविकलैः, नरक वेदनाहेतोरपि मधुनो माधुर्यवर्णनमबोधानामित्यहहेत्यनेन विषादो द्योत्पते । यस् मधुन आस्वादान्नर कवेदनाश्चिरमासाद्यन्ते प्राप्यन्ते ॥ ४० ॥
पवित्रत्वात् मधु देवखानेोपयोगीति ये मन्यन्ते तानुपहसति
मक्षिकामुखनिष्ट्यूतं जन्तुधातोद्भवं मधु । श्रहो पवित्रं मन्वाना देवस्त्राने प्रयुञ्जते ॥ ४१ ॥ मक्षिकाणां मुखानि तैर्निष्ठयूतं वान्तं जन्तुघातात्प्राणिघातादुद्भवो यस्य तत्तादृशमपवित्रं मधु, पवित्रं शुचि मन्वाना अभिमन्यमानाः, देवानां शङ्करादीनां स्वाने स्वाननिमित्तं प्रयुञ्जते व्यापारयन्ति अहो इत्युपहासे ।
यथा
करभाणां विवाहे तु रासभास्तत्र गायनाः । परस्परं प्रशंसन्ति हो रूपमहो ध्वनिः ॥ १ ॥ ४१ ॥ क्रमप्राप्तान् पश्चोदुम्बरदोषानाह -
उदुम्बरवटप्लक्षकाकोदुम्बरशाखिनाम् । पिप्पलस्य च नाश्नीयात्फलं कृमिकुलाकुलम् ॥४२॥ उदुम्बरव टलक्ष काकोदुम्बरिकापिप्पलानां पञ्चोदुम्बरसंज्ञितानां फलं नाश्नीयात् । अनशने कारणमाहकृमिकुलाकुलं, एकस्मिन्नपि फले तावन्तः कृमयः सम्भवन्ति ये परिसंख्यातुमपि न शक्यन्ते ।
लौकिका अपि पेठुः
कोऽपि कापि कुतोऽपि कस्यचिदहो चेतस्यकस्माजनः, केनापि प्रविशत्युदुम्बरफलप्राणिक्रमेण चणात् । येना
For Personal & Private Use Only
40-40
2009 0.34043
तृतीयः प्रकाशः ।
।। १६५ ।।
Page #349
--------------------------------------------------------------------------
________________
32.*-*--*-*-
स्मिन्नपि पाटिते विघटिते वित्रासिते स्फोटिते, निम्पिष्टे परिगालिने विदलिते निर्यात्यसो वा न वा ।।१ इति ॥४२॥
पञ्चोदुम्बरफलविरतानां स्तुतिमाह-- अप्राप्नुवन्नन्यभक्ष्यमपि क्षामो बुभुक्षया ।न भक्षयति पुण्यात्मा पञ्चोदुम्वरजं फलम् ॥४३॥
यः पुण्यात्मा पवित्रात्मा पुरुषः, स पञ्चोदुम्बरजं फलं न भक्षयति, आस्तां सुलभधान्यफलसमृद्धे देशे काले वा, यावद्देशदोपात् कालदोपाद्वा अप्राप्नुवन्नप्यन्यभक्ष्यं धान्यफलादिभक्ष्यं; अपिशब्द उत्तरत्रापि सम्बध्यते; बुभुक्षया क्षामोऽपि कृशोऽपि; अबुभुक्षितस्य स्वस्थस्य व्रतपालनं नातिदुष्करम् ; यस्तु अप्राप्तभोज्यः शुक्षामश्च व्रतं , पालयति म पुण्यात्मति प्रशस्यते ।। ४३ ॥
क्रमप्राप्तमनन्तकायनियमं श्लोकत्रयेण दर्शयति-- आर्द्रः कन्दः समग्रोऽपि सर्वः किशलयोऽपि च ।स्नुही लवणवृक्षत्वक् कुमारी गिरिकर्णिका ॥४४॥ शतावरी विरूढानि गुडूची कोमलाम्लिका । पल्ल्यकोऽमृतवल्ली च वल्लः शूकरसंज्ञितः ॥४५ अनन्तकायाः सूत्रोक्ता अपरेऽपि कृपापरैः । मिथ्यादृशामविज्ञाता वर्जनीयाः प्रयत्नतः ॥४६॥ ___आद्रोऽशुष्कः, शुष्कस्य तु निर्जीवत्वादनन्तकायत्वं न भवति, कन्दो भूमिमध्यगो वृक्षावयवः समग्रोऽपि, . सर्वे कन्दा इत्यर्थः । ते च सूरणआर्द्रकलशुनवज्रकन्दहरिद्राकच्छ्रेरपलाशकन्दगृञ्जनलोढककसेरुकमुद्गरमुस्तामूलक: आलुकपिण्डालुकहस्तिकन्दमनुष्यकन्दप्रभृतयः, किशलयः पत्रादर्वाग् बीजस्योच्छूनावस्था सर्वा न तु काचिदेव,
*-*-*:09-*-
in Education International
For Personal & Private Use Only
Page #350
--------------------------------------------------------------------------
________________
योगशास्त्रम्
स्नुही वज्रतरुः; लवणनाम्नो वृक्षस्य त्वक , त्वगेव न त्वन्ये अवयवाः, कुमारी मांसलप्रणालाकारपत्रा. गिरिकर्णि- ||| तृतीया का वल्लीविशेषः, शतावरी वल्लीविशेष एव, विरूढानि अङ्कुरितानि द्विदलधान्यानि, गुडूची वल्लीविशेषः, कोम- प्रकाशः। लाऽम्लिका कोमला अबद्धवास्थिका अम्लिका चिञ्चिणिका; पन्च्यङ्कः शाकभेदः, अमृतवल्ली वलीविशेषः, वल्लः शूकरसंज्ञितः शूकरवन इत्यर्थः; शूकरसंहितग्रहणं धान्यवल्लनिषेधार्थम् । एते प्रार्थप्रसिद्धाः। म्लेच्छप्रसिद्धास्तु अन्येऽपि सूत्रोक्ताः; सूत्रं जीवाभिगमः । अपरेऽपि कृपापरैः सुश्रावकैवर्जनीयाः । ते च मिथ्यादृष्टीनामविज्ञाताः; मिथ्यादृशो हि वनस्पतीनपि जीवत्वेन न मन्यन्ते कुतः पुनरनन्तकायान् ॥ ४४ ॥ ४५ ॥ ४६॥
अथ क्रमप्राप्तमज्ञातफलं वर्जयितुमाह| स्वयं परेण वा ज्ञातं फलमद्याद्विशारदः । निषिद्धे विषफले वा मा भूदस्य प्रवर्तनम् ॥४७॥
अज्ञातमिति संबन्धिविशेषानिर्देशात स्वयमात्मना, परेण वा अन्येन, ज्ञातं फलमद्याद्भक्षयेद्विशारदो धीमान् । । यत्तु स्वयं परेण वा न ज्ञातं तदज्ञातफलं वर्जयेत: अज्ञातफलभक्षणे दोषोऽयम्-निषिद्धे फले विषफले वा अज्ञा
नादस्य विशारदस्य मा भूत्प्रवृत्तिः। अज्ञानतो हि प्रतिषिद्धे फले प्रवर्त्तमानस्य व्रतभङ्गः, विषफले तु जीवितनाशः ॥४७॥
अथ क्रमप्राप्तं रात्रिभोजनं निषेधुमाहअन्नं प्रेतपिशाचाद्यैः सञ्चरद्भिनिरङ्कशैः । उच्छिष्टं क्रियते यत्र तत्र नाद्यादिनात्यये ॥४८॥ 5
प्रेता अधमा व्यन्तराः, पिशाचा व्यन्तरा एव; आद्यग्रहणाद्राचसादिपरिग्रहः, निशाचरत्वान्निरङ्कुशैः सर्वत्र ॥ १६ ॥
in Education Interna
2
For Personel Private Use Only
Page #351
--------------------------------------------------------------------------
________________
Jain Education Internat
03-10
90+C+
सश्चरद्भिः स्पर्शादिनोच्छिष्टमभोज्यं क्रियते यत्र दिनात्यये रात्रौ तत्र नाद्यान्न भुञ्जीत । यदाहु:मालिति महिश्रलं जामिणीसु रयणीधरा समंतेण । ते विट्टालेंति फुडं रयणीए भुंजमाणं तु ॥ १ ॥ ४८ ॥
तथा
घोरान्धकाररुद्धाच्चैः पतन्तो यत्र जन्तवः । नैव भोज्ये निरीक्ष्यन्ते तत्र भुज्जीत को निशि ? | ४९ । बान्धकारनिरुद्धलोचनैः कृमिपिपीलिकामक्षिकादयः पतन्तो घृततैलतक्रादौ भोज्ये न दृश्यन्ते यत्र तत्र तस्यां निशि सचेतनः को भुञ्जीत १ ॥ ४६ ॥
रात्रिभोजने दृष्टान् दोषान् श्लोकत्रयेणाह -
1
पिपीलिका हन्ति यूका कुर्याज्जलोदरम् । कुरुते मक्षिका वान्तिं कुष्ठरोगं च कोलिकः ॥ ५० ॥ कटको दारुखण्डं च वितनोति गलव्यथाम् । व्यञ्जनान्तर्निपतितस्तालु विध्यति वृश्चिक: । ५१ । विलग्नश्च गले वालः स्वरभङ्गाय जायते । इत्यादयो दृष्टदोषाः सर्वेषां निशि भोजने ॥ ५२ ॥ पिपीलिका कीटिका, अन्नादिमध्ये भुक्ता सती, मेधां बुद्धिविशेषं हन्तिः पिपीलिकेति जातावेकवचनम् । तथा यूका जलोदरमुदररोगविशेषं कुर्यात्, तथैव मक्षिका वान्ति वमनं करोति. तथैव कोलिको मर्कटकः, कुष्ठरोगं, ( १ ) मालयन्ति महीतलं यामिनीषु रजनीचराः समन्तात् । तेऽपि च्छलन्ति स्फुटं रजन्यां भुञ्जानं तु ॥ १ ॥ * ते वि छलंति हु इति रत्नशेखरसूरिकृतश्रावकप्रतिक्रमणसूत्रटीकायाम् ।
For Personal & Private Use Only
+++10/8-08-08
Page #352
--------------------------------------------------------------------------
________________
योग
शाखम 6
करोति, कण्टको बदर्यादिसंबन्धी, दारुखण्डं च काष्ठशकलं, तथैव गलव्यथां वितनोति, व्यञ्जनानि शाकादीनि तृतीय तेषां मध्ये निपतितो वृश्चिकस्तालु विध्यति । ननु पिपीलिकादयः सूक्ष्मत्वान्न दृश्यन्ते, वृश्चिकस्तु स्थूलत्वाद् र प्रकाशः । दृश्यत एव तत्कथमयं भोज्ये निविशेत ? उच्यते-व्यञ्जनमिह वार्ताकुशाकरूपमभिप्रेतं तद्व्न्तं च वृश्चिकाकारमेव भवतीति वृश्चिकस्य तन्मध्यपतितस्यालच्यत्वाभोज्यता सम्भवतीति । विलग्नश्च गले वाल इत्यादि स्पष्टम्; एवमादयो रात्रिभोजने दृष्टा दोषाः सर्वेषां मिथ्यादृशामपि । यदाहु:--
'मेहं पिपीलिआओ हणंति वमणं च मच्छिया कुणइ । जूया जलोयरत्तं कोलियो कोढरोगं च ॥१॥ बालो सरस्स भङ्गं कण्टो लग्गइ गलम्मि दारुं च । तालुम्मि विधइ अली वंजणमज्झम्मि मुंजतो ॥२॥
अपि च निशाभोजने क्रियमाणे अवश्यं पाकः संभवी तत्र च षद्जीवनिकायवधोऽवश्यंभावी, भाजनधावनादौ च जलगतजन्तुविनाशः, जलोज्झनेन भूमिगतकुन्थुपिपीलिकादिजन्तुघातश्च भवति, तत्प्राणिरक्षणकामया अपि निशाभोजनं न कर्त्तव्यम् । यदाहुःजीवाण कुंथुमाईण घायणं भायणधोयणाईसु । एमाइरयणिभोयणदोसे को साहिउं तरइ ? ॥१॥५०॥५१॥५२॥ (१) मेधां पिपीलिका प्रन्ति ( हन्ति ) वमनं च मक्षिका करोति । यूका जलोदरत्वं कोलिकः कुष्ठरोगं च ॥ १॥
वाल: स्वरस्य भङ्गं कण्टको लगति गले दारु च । तालुनि विध्यति अलिर्व्यञ्जनमध्ये भुज्यमानः ॥ २ ॥ (२) जीवानां कुन्थ्वादीनां घातनं भाजनधावनादिषु । एवमादिरजनीभोजनदोषान् कः कथयितुं शक्नोति ? ॥१॥
Jan Education international
For Personal & Private Use Only
worw.jainelibrary.org
Page #353
--------------------------------------------------------------------------
________________
ननु यत्रान्नस्य न पाको न वा भाजनधावनादिसंभवस्तत्सिद्धं मोदकादि खरद्राक्षादि च भक्षयतः क इव दोष इत्याहनाप्रेक्ष्यसूक्ष्मजन्तूनि निश्यद्यात्प्रासुकान्यपि। अप्युद्यत्केवलज्ञानैर्नादृतं यन्निशाऽशनम् ॥५३॥
प्रासुकान्यपि अचेतनान्यपि उपलक्षणत्वाचदानीमपक्वान्यपि मोदकफलादीनि न निश्यद्यात् । कुतः ? अप्रेक्ष्यजा सूक्ष्मजन्तूनि अप्रेक्ष्याः प्रेक्षितुमशक्याः सूक्ष्माः कुन्युपनकादयो जन्तवो यत्र तानि विशेषणद्वारेण हेतुवचनं,
अप्रेक्ष्यसूक्ष्मजन्तुत्वादित्यर्थः; यद् यस्मादुत्पन्नकेवलज्ञानैः केवलज्ञानबलेनाधिगतसूक्ष्मेतरजन्तुसंपातैर्निर्जन्तुकस्याहारस्याभावानातं निशाभोजनम् । यदक्तं निशीथभाष्ये
इवि हु फासुगदव्वं कुंथपणगावि तहवि दुप्पस्सा । पञ्चक्खनाणिणो वि हु राईभत्तं परिहरंति ॥१॥ जइवि हु पिवीलगाई दीसंति पईवमाइउज्जोए । तहवि खलु अणाइन मूलवयविराहणा जेण ॥२॥५३॥
लौकिकसंवाददर्शनेनापि रात्रिभोजनं प्रतिषेधतिधर्मविन्नैव भुञ्जित कदाचन दिनात्यये । बाह्या अपि निशाभोज्यं यदभोज्यं प्रचक्षते ॥५४॥
धर्मवित श्रुतधर्मवेदी न कदाचिनिशि भुञ्जीत, बाह्या जिनशासनबहिर्भूता लौकिकास्तेऽपि यत् यस्मात् निशि (१) यद्यपि खलु प्रासुकद्रव्यं कुन्युपनका अपि तथापि दुर्दर्शाः। प्रत्यक्षज्ञानिनोऽपि खलु रात्रिभक्तं परिहरन्ति ॥१॥
यद्यपि खलु पिपीलिकादयो दृश्यन्ते प्रदीपायुयोते । तथापि खलु अनाचीर्ण मूलव्रतविराधना येन ॥२॥
Latin Education Internatie
For Personal & Private Use Only
Page #354
--------------------------------------------------------------------------
________________
योगशास्रम्
1 भोज्यमभोज्यं प्रचक्षते ॥ ५४॥
तृतीय: 3 येन शास्त्रेण बाह्या निशामोज्यमभोज्यं प्रचक्षते तच्छास्त्रोपदर्शनार्थ तद्यथेति तच्छास्त्रमेव पठति
प्रकाशः। तद् यथात्रयीतेजोमयो भानुरिति वेदविदो विदुः। तत्करैः पूतमखिलं शुभं कर्म समाचरेत् ॥ ५५॥
त्रयी ऋग्यजुःसामलक्षणा तस्यास्तेजः प्रकृतं प्रस्तुतमस्मिन् त्रयीतेजोमयो भानुरादित्यः, त्रयीतनुरिति ह्यादि| त्यस्य नाम । इति वेदविदो जानन्ति । तत इति शेषः। तत्करैर्भानुकरैः पूतं पवित्रीकृतमखिलं समस्तं शुभं कर्म * समाचरेत् तदभावे शुभं कर्म न कुर्यात् ॥ ५५ ॥ एतदेवाहनैवाहुतिर्न च स्नानं न श्राद्धं देवतार्चनम् । दानं वा विहितं रात्रौ भोजनं तु विशेषतः ॥५६॥
आहुतिरग्नौ समिदाद्याधानं, स्नानमङ्गप्रक्षालनं, श्राद्धं पितृकर्म, देवतार्चनं देवपूजा, दानं विश्राणनं न विहितमिति सर्वत्र नञो योगः; भोजनं तु विशेषतो न विहितमिति । ननु नक्तभोजनं श्रेयसे श्रूयते, न च रात्रिभोजनं विना तद्भवति ? उच्यते-नक्तशब्दार्थापरिज्ञानादेवमुच्यते ॥ ५६ ॥ तदेवाहदिवसस्याष्टमे भागे मन्दीभूते दिवाकरे । नक्तं तु तद्विजानीयान्न नक्तं निशि भोजनम् ॥५७॥
दिवसस्य दिनस्याष्टमे भागे पाश्चात्येऽर्द्धप्रहरे यद्भोजनं तनक्तमिति विजानीयात् । द्विविधा हि शदस्य प्रवृत्तिर्मुरख्या गौणी च; तत्र कचिन्मुख्यया व्यवहारः, कचिन्मुख्यार्थबाधायां सत्यां गौण्या; नक्तशब्दस्य ॥१६८॥
in Education International
For Personal & Private Use Only
Page #355
--------------------------------------------------------------------------
________________
रात्रिभोजनलक्षणमुख्यार्थबाधा, रात्रिभोजनस्य ता र प्रतिपिद्धत्वादिति गौणार्थ एवं नक्तशब्द इत्यसौ से दिवसशेषभोजने वर्त्तते । तत्र निमित्तमुक्तं मन्दीभूते दिवाकरे, मुख्यार्थप्रतिषेधाच्च ने निशि भोजन नक्तम् ।। ५७॥
रात्रिभोजन प्रतिषेधमेव परकीयेण श्लोकद्वयेनाह - देवैस्तु भुक्तं पूर्वाहे मध्याह्ने ऋपिभिस्तथा। अपराह्ने च पितृभिः सायाह्ने दैत्यदानवैः॥५८॥ सन्ध्यायां यक्षरक्षोभिः सदा भुक्तं कुलोद्वह!। सर्ववेलां व्यतिक्रम्य रात्रौ भुक्तमभोजनम्॥५६॥
पूर्वमनः पूर्वाह्नः तस्मिन् देवैर्भुक्तं मध्यमझो मध्याहस्तस्मिन्नृषिभिर्युक्तं, अपरमह्नो अपराहस्तस्मिन् पितृभिभुक्तम् : सायमहः सायाबो विकालस्तस्मिन् दैत्यैर्दितिजैर्दानवैर्दनुजैर्भुक्तम् । सन्ध्या रजनीदिनयोः प्रवेशनिष्काशी तस्यां यतैर्गुह्यकै रक्षोभी राक्षसैर्भुक्तम् । कुलोद्वहेति युधिष्ठिरस्यामन्त्रणम् । सर्वेषां देवादीनां वेला अवसरस्तां व्यतिक्रम्य रात्रौ भुक्तमभोजनम् ।। ५८ ॥ ५६ ॥
॥श्रायुर्वेदेऽप्युक्तम् ॥ HI एवं पुराणेन रात्रिभोजनप्रतिषेधस्य संवादमभिधायायुर्वदेन संवादमाह-आयुर्वेदेऽप्युक्तमित्यनेन । आयुर्वेदस्तु
हन्नाभिपद्मसङ्कोचश्चण्डरोचिरपायतः। अतो नक्तं न भोक्तव्यं सुक्ष्मजीवादनादपि॥६॥ ___ इह शरीरे द्वे पो हृत्पद्यं च यदधोमुखं, नाभिपद्मं च यर्ध्वमुखं, द्वयोरपि च पद्मयोः रात्रौ सङ्कोचः;
*4
२९
Iain Education international
For Personal & Private Use Only
Page #356
--------------------------------------------------------------------------
________________
योगशास्त्रम् ॥१६६॥
कुतः १ चण्डरोचिषः सूर्यस्यापायादस्तमयात् । अतो हृत्पद्मनाभिपद्मसङ्कोचाद्धेतोर्नक्तं रात्रौ न भोक्तव्यम् । तृतीयः सूक्ष्मजीवादनादपीति द्वितीयं निशिभोजनप्रतिषेधकारणम् । सूक्ष्मा ये जीवास्तेषामदनं भक्षणं, तसादपि रात्रौ । प्रकाश:. न भोक्तव्यम् ॥६०॥
परपचसंवादमभिधाय स्वपक्षं समर्थयतेसंसजज्जीवसङ्घातं भुञ्जाना निशि भोजनम्।राक्षसेभ्यो विशिष्यन्ते मूढात्मानः कथं नुते?॥६॥
संबध्यमानजीवसमृहं, भोजनं भोज्यं, भुञ्जाना निशि रात्री, राक्षसेभ्यः क्रव्यादेभ्यः कथं नु कथं नाम, विशिष्यन्ते भिद्यन्ते ? राक्षसा एव ते इत्यर्थः । मुढात्मानो जडाः; अपि च, लब्धे मानुषत्वे जिनधर्मपरिष्कृते विरतिरेव कर्तुमुचिता, विरतिहीनस्तु शृङ्गपुच्छहीनः पशुरेव ।। ६१ ॥
एतदेवाहवासरे च रजन्यां च यः खादन्नेव तिष्ठति । शृङ्गपुच्छपरिभ्रष्टः स्पष्टं __स्पष्टम् ॥ ६२ ।। रात्रिभोजननिवृत्तेभ्योऽपि सविशेषपुण्यवतो दर्शयतिअहो मुखेऽवसाने च यो द्वे द्वे घटिके त्यजन् । निशाभोजनदोषज्ञोऽनात्यसौ पुण्यभाजनम् ॥ ____ अहो मुखे आरम्भे, अवसाने पश्चिमे मागे, द्वे द्वे घटिके मुहूर्त मुहूर्त रात्रेः प्रत्यासनं त्याजन् परिहरन् , योऽश्नाति स पुण्यभाजनम् । निशाभोजनदोषज्ञ इति निशाभोजने सम्पातिमजन्तुसम्पा लक्षणा ये
॥१६ ॥
in Education International
For Personal & Private Use Only
Page #357
--------------------------------------------------------------------------
________________
दोषास्तान् जानन् रात्रिप्रत्यासन्नमपि मुहूर्त मुहूर्त सदोषत्वेन जानाति अत एवागमे सर्वजघन्यं प्रत्याख्यानं मुहत्तप्रमाणनमस्कारसहितमुच्यते । पाश्चात्यमुहर्तादप्याक श्रावको भोजनं करोति, तदनन्तरं रात्रिभोजनं प्रत्याख्याति ॥ ६३ ॥
ननु यो दिवैव भुते तस्य रात्रिभोजनप्रत्याख्याने फलं नास्ति, फलविशेषो वा कश्चिदुच्यतामित्याहअकृत्वा नियमं दोषाभोजनादिनभोज्यपि। फलं भजेन्न निर्व्याजं न वृद्धिर्भाषितं विना ॥६४॥
नियम निवृत्ति, रात्रिभोजनादकृत्वा दिने भोक्तुं शीलमस्यासौ दिनभोजी सोऽपि निशाभोजनविरतेः फलं निर्व्याज नि छम, न भजेत् न लभेत । कुत इत्याह-न वृद्धिर्भाषितं विना, वृद्धिः कलान्तरं, भाषितं जम्पितं विना न स्यात् । लौकिकमेतद्, यथा भाषितमेव कलान्तरं भवेदिति ।। ६४ ॥
पूर्वोक्तस्य विपर्ययमाहये वासरं परित्यज्य रजन्यामेव भुञ्जते । ते परित्यज्य माणिक्यं काचमाददते जडाः॥६५॥ दिवसं परित्यज्य तच्छीलतया रात्रावेव ये भुञ्जते; दृष्टान्तः स्पष्टः ॥६५॥
ननु नियमः सर्वत्र फलवान्, ततो यस्य 'रात्रावेव मया भोक्तव्यं न दिवसे' इति नियमस्तस्य का गतिरित्याहवासरे सति ये श्रेयस्काम्यया निशि भुञ्जते। ते वपन्त्यूपरक्षेत्रे शालीन् सत्यपि पल्वले ॥६६॥
श्रेयोहेतौ वासरभोजने सत्यपि कुशास्त्रसंस्कारान्मोहाद्वा श्रेयस्काम्यया ये रात्रावेव भुञ्जते ते शालिवपनयोग्ये
in Education International
For Personal & Private Use Only
Page #358
--------------------------------------------------------------------------
________________
शास्त्रम्
॥१७॥
| पल्वले सत्यपि ऊपरे क्षेत्रे शालीन् वपन्ति । यथा ह्यूपर क्षत्र शालिवपनं निरर्थक, तथा रात्राव मया भोक्तव्य- *
तृतीयः मिति निष्फलो नियमः। अधर्मनिवृत्तिरूपो हि नियमः फलवानयं तु धर्मनिवृत्तिरूप इत्यफलो विपरीतफलो वा॥६६॥।
प्रकाश:। रात्रिभोजनस्य फलमाहउलूकलाकमार्जारगृध्रशम्बरशूकराः । अहिवृश्चिकगोधाश्च जायन्ते रात्रिभोजनात् ॥ ६७ ॥ रात्रिभोजनादलुकादिषु जन्म भवति। उलूकादय उपलक्षणं; तेनान्येष्वप्यधमतिर्यक्षु रात्रिभोजिनो जायन्ते । ६७॥ ___ बनमालोदाहरणेन रात्रिभोजनदोषस्य महत्तां दर्शयतिश्रूयते ह्यन्यशपथाननादृत्यैव लक्ष्मणः । निशाभोजनशपथं कारितो वनमालया ॥ ६८॥
श्रूयते रामायणे दशरथनन्दनो लक्ष्मणः पितृनिदेशात् सह रामेण सीतया च दक्षिणापथे प्रस्थितोऽन्तरा कूवरनगरे महीधरराजतनयां वनमालामुपयेमे; ततश्च रामेण सह परतो देशान्तरं यियासन् स्वभार्या वनमाला प्रतिमोचयति स्म; सा तु तद्विरहकातरा पुनरागमनमसम्भावयन्ती लक्ष्मणं शपथानकारयत् । यथा प्रिये ! राम | मनीपिते देशे परिस्थाप्य यद्यहं भवती स्वदर्शनेन न प्रीण यामि, तदा प्राणातिपातादिपातकिनां गतिं यामीति; सा तु तैः शपथैरतुष्यन्ती “यदि रात्रिभोजनकारिणां शपथं करोषि, तदा त्वां प्रतिमुश्चामि, नान्यथेति" तमुवाच स तथेत्यभ्युपगत्य देशान्तरं प्रस्थितवान् । एवमन्यशपथाननादृत्य लक्ष्मणो वनमालया रात्रिभोजनशपथं कारितः। विशेषचरितं तु ग्रन्थगौरवभयान्नेह लिख्यते ।। ६८ ॥
in Education International
For Personal & Private Use Only
Page #359
--------------------------------------------------------------------------
________________
शास्त्रं निदर्शनं च विना मकल जनानुभवसिद्धं रात्रिभोजनविरतेः फलमाह .... करोति विरतिं धन्यो यः पदा निशि भोजनात्। सोऽर्द्ध पुरुषायुषस्य स्यादवश्यमुपोषितः॥६९॥ ___यः कश्चिद्धर्मधनो हि रात्रिभोजनस्य विरतिं करोति, सोर्द्ध पुरुषायुपस्योपोपितः स्यात । उपवासस्य चैकस्यापि निर्जराकारणत्वान्महाफलत्वं पश्चाशद्वर्षसम्मितानां तूपवासानां कियत्फलं सम्भाव्यते ? इदं च शतवर्षायुषः पुरुषानधिकृत्योक्तम् । पूर्वकोटीजीविनस्तु प्रति तदमुपवासानां न्यायसिडमेन ।। ६६ ।।।
तदेवं रात्रिभोजनस्य भूयांसो दोषास्तत्परिवर्जने तु ये गुणास्तान् वक्तुमस्माकमशक्तिरेवेत्याहरजनीभोजनत्यागे ये गुणाः परितोऽपि तान् । न सर्वज्ञादृते कश्चिदारो वक्तुमीश्वरः ॥७॥
स्पष्टम् ॥ ७० ॥ अथ क्रमप्राप्तमामगोरससंपृक्तद्विदलादिभोजनप्रतिषेधमाह--- श्रामगोरसपृक्तद्विदलादिपु जन्तवः । दृष्टाः केवलिभिः सूक्ष्मास्तस्मात्तानि विवर्जयेत् ॥७१॥
इह हीयं स्थिति:-केचिद्भावा हेतुगम्याः, केचित्त्वागमगम्यास्तत्र ये यथा हेत्वादिगम्यास्ते तथैव प्रवचनधरैः प्रतिपादनीयाः। आगमगम्येषु हेतून्, हेतुगम्येषु त्वागममात्र प्रतिपादयन्नाज्ञाविराधकः स्यात् । यदाह
'जो हेउवायपक्खम्मि हेउओ आगमे य आगमित्रो। सो ससमयपन्नवो सिद्धंतविराहो अनो॥१॥ इत्यामगोरससंपृक्तद्विदलादौ न हेतुगम्यो जीवसद्भावः, किन्त्वागमगम्य एव । तथाहि-श्रामगोरससंपृक्ते (१) यो हेतुवादपक्षे हेतुक आगमे चागमिकः । स स्वसमयप्रज्ञापकः सिद्धान्तविराधकोऽन्यः ।
in Education International
For Personal & Private Use Only
Page #360
--------------------------------------------------------------------------
________________
बोग-
काखम्
॥१७१॥
द्विदले आदिशब्दात्यष्पितौदने, अहतियातीते दनि, कृथिताने च, ये जन्तवस्ते केवलज्ञानिमिदृष्टा इति जन्तु-क तृतीप: मिश्रामगोरसमिश्रद्विदलादिभोजनं वर्जयेत् । तद्भोजनाद्धि प्राणातिपातलचणो दोषः। न च केवलिनां निर्दोषत्वेना
प्रकाशः। सानां वचनानि विपरियन्ति ॥ १ ॥
अपि च । न मयादीनि कुथितानपर्यवसानान्येवाभोज्यानि, किन्त्वन्यान्यपि जीवसंसक्तिबहुलान्यागमादुपलभ्य वर्जनीयानीत्याहजन्तुमिश्रं फलं पुष्पं पत्रं चान्यदपि त्यजेत् । सन्धानमपि संसक्तं जिनधर्मपरायणः ॥७२॥ ____ जन्तुमिर्मिश्रं फलं मधूकविन्वादेः, पुष्पमरणिशिग्रुमधूकादेः, पत्रं प्रावृषि तण्डुलीयकादेः, अन्यदपि मूलादि त्यजत् । सन्धानमाम्रफलादीनां यदि संसक्तं भवेत् , तदा जिनधर्मपरायणः कृपालुत्वात्त्यजेदिति संबन्धः । इदं च भोजनतो भोगोपभोगयोव्रतमुक्तम् । मोगोपभोगकारणं धनोपार्जनमपि भोगोपभोग उच्यते, उपचारात् । तत्परिमाणमपि भोगोपभोगव्रतम् । यथा श्रावकस्य खरकर्मपरिहारण कान्तरेण जीविका । एतच्च सपार्थमतिचारप्रकरण एव वक्ष्यति । अवसितं भोगोपभोगव्रतम् ॥ ७२ ।।
अथानर्थदण्डस्य तृतीयगुणव्रतस्यावसरः तच्चतुति श्लोकद्वयेनाहआर्त रौद्रमपध्यानं पापकर्मोपदेशिता । हिंसोपकारिदानं च प्रमादाचरणं तथा ॥ ७३ ॥ शरीराद्यर्थदण्डस्य प्रतिपक्षतया स्थितः। योऽनर्थदण्डस्तत्त्यागस्तृतीयं तु गुणवतम् ॥७४॥
H॥ ११ ॥
tuin Education interna
For Personal & Private Use Only
T
Page #361
--------------------------------------------------------------------------
________________
अपकृष्टं ध्यानमपध्यानं, तदनर्थदण्डस्य प्रथमो भेदः । तच्च द्वेधा----आर्त रौद्र च; तत्र तं दुःखं तत्र भवमात; यदि वा अतिः पीडा यातनं च, तत्र भवमार्चम् । तच्चतुर्दा--मनोज्ञाना शब्दादीनां संप्रयोगे तद्विप्र. योगचिन्तनमसंप्रयोगप्रार्थना च प्रथमम् । शूलादिरोगसम्भवे च तद्वियोगप्रणिधानं तदसंप्रयोगचिन्ता च द्विती यम् । इष्टानां च शब्दादीनां विषयाणां सातवेदनायाश्चावियोगाध्यवसानं संप्रयोगामिलापश्च तृतीयम् । देवेन्द्र चक्रवादिविभवप्रार्थनारूपं निदानं चतुर्थम् । यदाहुः
अमणुप्माणं सद्दाइविसयवत्धुण दोसमइलस्स । धणिअं विमोअचिंतणमसंपयोगाणुसरणं च ॥१॥ तह सूलसीसरोगाइवेयणाए विरोअपणिहाणं । तदसंपोगचिंता तप्पडियाराउलमणस्स ॥ २ ॥ ईट्ठाणं विसयाईण वेयणाए अरागरत्तस्स । अविओगज्झवसाणं तह संजोगाभिलासो अ॥३॥ 'देविंदचक्कवाट्टित्तणाइगुणरिद्धिपत्थणामइयं । अहम नियाणचिंतणममाणाणुगयमचंतं ॥४॥ ऐयं चउब्बिहं रागदोसमोहंकियस्स जीवस्स | अट्टज्झाणं संसारवद्धणं तिरियगइमूलं ॥ ५ ॥ (१) अमनोज्ञानां शब्दादिविषयवस्तूनां द्वेषमलिनस्य । अत्यर्थ वियोगचिन्तनमसंप्रयोगानुसरणं च ॥ १ ॥ (२) तथा शूलशिरोरोगादिवेदनायाः वियोगप्रणिधानम् । तदसंप्रयोगचिन्ता तत्प्रतीकाराकुलमनसः ॥२॥ (३) इष्टानां विषयादीनां वेदनायाश्च रागरक्तस्य । अवियोगाध्यवसानं तथा संयोगाभिलाषश्च ॥ ३ ॥ (४) देवेन्द्रचक्रवर्तित्वादिगुणद्धिप्रार्थनामयम् । अधर्म निदानचिन्तनमज्ञानानुगतमत्यन्तम् ॥ ४ ॥ (५) एतत् चतुर्विधं रागद्वेषमोहाङ्कितस्य नीवस्य । आर्तध्यानं संसारवर्द्धनं तिर्यग्गतिमूलम् ॥ ५ ॥
For Personal & Private Use Only
Page #362
--------------------------------------------------------------------------
________________
योगशास्रम्
॥ १७२ ॥
Jain Education Inter
-10-+10+ 0.49
रोदयत्यपरानिति रुद्रो दुःखहेतुस्तेन कृतं तस्य वा कर्म रौद्रम् । तच्चतुर्द्धा – हिंसानुबन्धि मृषानुबन्धि स्तेयानुबन्धि धनसंरक्षणानुबन्धि च । यदाहुः -
सेत्तवहवेहबंधणदहणं कणमारणाइपणिहाणं । अइकोहग्गहघत्थं निग्विणमणसोऽहमविवागं || १ || 'पिसुणासन्भासन्भूयघायाझ्वयण पणिहाणं । मायाविणो अइसंधणपरस्स पच्छन्नपात्रस्स || २ || तह तिव्वकोहलोहा उलस्स भूवघायणमणअं । परदव्वहरणचित्तं परलोगावायनिरवेक्खं || ३ || सैद्दाइविसयसाद्दणधण संरक्खणपरायण मणिकं । सव्वाभिसंकण परोवघायकलुसाउलं चित्तं ॥ ४ ॥ ऐयं चन्विहं रागदोसमोहंकियस्स जीवस्स । रोद्दज्झाणं संसारवद्धणं निरयगइमूलं ।। ५ ।। एवमार्त्तरौद्रध्यानात्मक मपध्यानमनर्थदण्डस्य प्रथमो भेदः । पापकर्मोपदेशिता वच्यमाणा द्वितीयः । हिंसोपकारिणां शस्त्रादीनां दानमिति तृतीयः । प्रमादानां गीतनृत्तादीनामाचरणं चतुर्थः । शरीरादिनिमित्तं यः प्राणिनां दण्डः सोऽर्थाय प्रयोजनाय दण्डोऽर्थदण्डस्तस्य शरीराद्यर्थदण्डस्य यः प्रतिपचरूपोऽनर्थदण्डो निष्प्रयोजनो (१) सत्त्ववधवेधबन्धनदहनाङ्कनमारणादिप्रणिधानम् । अतिक्रोधग्रहग्रस्तं निर्घृणमनसोऽधमविपाकम् ॥ १ ॥ (२) पिशुनासभ्यासद्भूतभूतघातादिवचनप्रणिधानम् । मायाविनोऽतिसन्धानपरस्य प्रच्छन्नपापस्य ।। २ ॥ (३) तथा तीव्रक्रोधलोभाकुलस्य भूतोपघातनमनार्यम् । परद्रव्यहरणचित्तं परलोकापायनिरपेक्षम् || ३ || (४) शब्दादिविषयसाधनधनसंरक्षणपरायणमनिष्टम् । सर्वाभिशङ्कनपरोपघातकलुषाकुलं चित्तम् ॥ (५) एवं चतुर्विधं रागद्वेषमोहाङ्कितस्य जीवस्य । रौद्र्ध्यानं संसारवर्द्धनं नरकगतिमूलम् ॥ ५ ॥
४ ॥
For Personal & Private Use Only
***+
***++++******++++
तृतीयः प्रकाशः ।
॥ १७२ ॥
Page #363
--------------------------------------------------------------------------
________________
Jain Education Internat
००*-*-*-***0*4084
दण्ड इति यावत् ; तस्य त्यागोऽनर्थदण्डविरतिस्तृतीयं गुणव्रतम् । यदाह -
'जं इंदियसयणाई पटुच्च पावं करेज सो होइ । अत्थे दंडो एत्तो अमोउ अणत्थदंडो उ ॥ १ ॥ ७३ ॥ ७४ ॥ अपध्यानस्य स्वरूपं परिमाणं चाह
वैरिघातो नरेन्द्रत्वं पुरघाताग्निदीपने । खचरत्वाद्यपध्यानं मुहूर्त्तात्परतस्त्यजेत् ॥ ७५ ॥ वैरिघातरघाताग्निदीपनादिविषयं रौद्रध्यानमपध्यानं, नरेन्द्रत्वं खचरत्वमादिशब्दादप्सरोविद्याधरीपरिभोगादि, तेष्वार्त्तध्यानरूपमपध्यानं, तस्य तत्परिमाणरूपं व्रतं मुहूर्त्तात्परतस्त्यजेदिति ॥ ७५ ॥ अथ पापोपदेशस्वरूपं तद्विरतिं चाह
1
वृषभान् दमय क्षेत्रं कृष पढय वाजिनः । दाक्षिण्याविषये पापोपदेशोऽयं न कल्पते ॥ ७६ ॥ वृषभान् वत्सतरान् प्रसङ्गादिना दमय दान्तान् कुरु; प्रत्यासीदति खलु वर्षाकालः, तथा क्षेत्रं बीजावापभुवं कृष; वृष्टः खलु मेघो, यास्यति वापकालो, भृता वा केदारा गाह्यन्तां, सार्द्धदिनत्रयमध्ये उप्यन्तां च व्रीहयः, तथा नेदीयोऽश्वः प्रयोजनं राज्ञामिति षण्ढय वर्द्धितकान् कुरु वाजिनोऽश्वान् उपलक्षणं चैतदन्येषां ग्रीष्मे दवाग्निदानादीनाम् ; अयं पापरूप उपदेशः, श्रावकाणां न कल्पते न युज्यते । सर्व्वत्र पापोपदेशनियमं कर्तुमशक्तेभ्यो ऽपवा(१) यदिन्द्रियस्वजनादीन् प्रतीत्य पापं कुर्यात् स भवति । अर्थे दण्डः इतः अन्यस्तु अनर्थदण्डस्तु ॥ १ ॥ (२) समीपतरं प्रयोजनमश्वः ।
For Personal & Private Use Only:
0310-1.03.193+2018+100*1080
Page #364
--------------------------------------------------------------------------
________________
योगशास्त्रम
॥ १७३ ॥
14-07,101,11,111+-->ck
दोऽयमुच्यते । दाक्षिण्याविषय इति । बन्धुपुत्रादिविषयदाक्षिण्यवतः पापोपदेशोऽशक्य परिहारः । दाक्षिण्याभावे तु यथा तथा मौखर्येण पापोपदेशो न कल्पते ।। ७६ ।। अथ हिंसोपकारीणि तहान परिहारं चाहयन्त्रलाङ्गलशस्त्राग्निमुशलोदूखलादिकम् । दाक्षिण्याविषये हिंस्त्रं नार्पयेत्करुणापरः ॥७७॥ यन्त्रं शकटादि, लाङ्गलं हलं, शस्त्रं खड्गादि, अग्निर्वह्निः, मुशलमयोऽयं, उदूखलमुलूखलं श्रादिशब्दाद्धनुखादिपरिग्रहः । हिंस्रं वस्तु, करुणापरः श्रावको नार्पयेत्; दाक्षिण्याविषय इति पूर्ववत् ॥ ७७ ॥ अथ प्रमादाचरणमनर्थदण्डस्य चतुर्थभेदं तत्परिहारं च श्लोकत्रयेणाह --- कुतूहलाद्गीतनृत्तनाटकादिनिरीक्षणम् । कामशास्त्रप्रसक्तिश्च द्यूतमद्यादिसेवनम् ॥७८॥ जलक्रीडाऽऽन्दोलनादिविनोदो जन्तुयोधनम् । रिपोः सुतादिना वैरं भक्तस्त्रीदेशराट्कथाः॥७९॥ रोगमार्गश्रम मुक्त्वा स्वापश्च सकलां निशाम् । एवमादि परिहरेत्प्रमादाचरणं सुधीः ॥८०॥ कतूहलात्कौतुकाद्धेतोर्गीतस्य नृचस्य नाटकस्य आदिशब्दात्प्रकरणादोर्निरीचणं, तेन तेनेन्द्रियेण यथोचितं विषयीकरणम् । कुतुहलग्रहणाजिनयात्रादौ प्रासङ्गिकनिरीक्षणे च न प्रमादाचरणम् । तथा कामशास्त्रे वात्स्यायनादिकृते, प्रसक्तिः पुनः पुनः परिशीलनम् ; तथा द्यूतमक्षकादिभिः क्रीडनम् ; मद्यं सुरा; आदिशब्दान्मृगयादि; तेषां सेवनं परिशीलनं; तथा जलक्रीडा तडागजलयन्त्रादिषु मज्जनोन्मज्जन शृङ्गिकाच्छोटनादिरूपा; तथा आन्दो
For Personal & Private Use Only
*****+-*-*
तृतीयः प्रकाशः ।
।। १७३ १।।
Page #365
--------------------------------------------------------------------------
________________
Jain Education Interna
लनं वृचशाखादौ दोलाखेलनं; श्रादिशब्दात्पुष्पावचयादि; तथा जन्तूनां कुक्कुटादीनां योधनं परस्परेणाभ्याहननम् ; तथा रिपोः शत्रोः सम्बन्धिना पुत्रपौत्रादिना वैरम्; श्रयमर्थो येन तावत्कथञ्चिदायातं वैरं तद्यः परिहर्तु न शक्नोति तस्यापि पुत्रपौत्रादिना यद्वैरं तत्प्रमादाचरणम् ; तथा भक्तकथा यथा इदं चेदं च मांस्पाकमामोदकादिसाधु भोज्यं, साध्वनेन भुज्यते, अहमपि वा इदं भोच्ये इत्यादिरूपा; तथा स्त्रीकथा स्त्रीणां नेपथ्याङ्गहारहावभावादिवर्णनरूपा " कर्णाटी सुरतोपचारचतुरा लाटी विदग्धप्रिया " इत्यादिरूपा वा; तथा देशकथा, यथा दक्षिणापथः प्रचुरान्नपानः स्त्रीसम्भोगप्रधानः, पूर्वदेशो विचित्रवनगुडखण्डशालिमद्यादिप्रधानः, उत्तरापथे शूराः पुरुषा जविनो वाजिनो गोधूमप्रधानानि धान्यानि सुलभं कुङ्कुमं मधुराणि द्राचादाडिमकपित्थादीनि; पश्चिमदेशे सुखस्पर्शानि च वस्त्राणि सुलभा इक्षवः शीतं वारीत्येवमादिः राकथा राजकथा यथा शूरोऽस्मदीयो राजा, सधनचौडः, गजपतिर्गौडः, अश्वपतिस्तुरुष्क इत्यादि । एवं प्रतिकूला अपि भक्तादिकथा वाच्या; तथा रोगो ज्वरादिः, मार्गश्रमो मार्गखेदः, तौ मुक्त्वा सकलां निशां स्वापो निद्रा । रोगमार्गश्रमयोस्तु न प्रमादाचरयम् । एवमादिपूर्वोक्तस्वरूपं प्रमादाचरणं परिहरेत् । सुधीः श्रमणोपासकः । प्रमादाचरितं च
१
'मजं विसयकसाया निद्दा विगहा य पश्चमी भणिया । एए पञ्च पमाया जीवं पाडेन्ति संसारे ॥ १ ॥
इति पञ्चविधस्य प्रमादस्य प्रपञ्चः ॥ ७८ ॥ ७६ ॥ ८० ॥
देशविशेषे प्रमादपरिहारमाह
(१) मद्यं विषयकषाया निद्रा विकथा च पञ्चमी भणिता । एते पञ्च प्रमादा जीवं पातयन्ति संसारे ॥ १ ॥
For Personal & Private Use Only
•10184
>>**********++
Page #366
--------------------------------------------------------------------------
________________
योग
तृतीयः प्रकाशः।
शास्त्रमा
॥१७४।
विलासहासनिष्ठ्यूतनिद्राकलहदुष्कथाः । जिनेन्द्रभवनस्यान्तराहारं च चतुर्विधम् ॥८१॥
जिनेन्द्रभवनस्यान्तारित्यादित आरभ्य संबध्यते; तेन जिनेन्द्रभवनस्य मध्ये विलासं कामचेष्टां, हासं कहकहध्वानं हसनं, निष्ठ्यतं निष्ठीवनं, निद्रा स्वापं, कलहं राटी, दुष्कथां चौरपारदारिकादिकथा, पर्विधं चाहारम् --अशनपानखाद्यस्वाद्यस्वरूपं परिहरेत् । परिहरेदिति पूर्वतः सम्बन्धनीयम् । तत्राशनं शाल्यादि मुद्गादि सत्त्वादि पेयादि मोदकादि चीरादि सूरणादि मण्डकादि च । यदाह
असणं ओअणसत्तुगमुग्गजगाराइ खजगविही य । खीराइमरणाई मंडगपभिई अविणेअं ॥१॥ पानं सौवीरं यवादिधावनं सुरादि सर्वश्चापकायः कर्कटकजलादिकं च । यदाहपाणं सोवीरजवोदगाइ चित्तं सुराइयं चेव । आउक्काओ सब्यो ककडगजलाइयं च तहा ।। १॥ खाद्यं भृष्टधान्यं गुलपर्पटिकाखमॅरनालिकेरद्राक्षाकर्कट्याम्रपनसादि । यदाह
भत्तोसं दंताई खज्जूरं नालिएरदक्खाई । कक्कडिगंबगफणसाइ बहुविहं खाइमं नेयं ॥१॥ स्वाद्यं दन्तकाष्ठं ताम्बूलतुलसिकापिण्डार्जकमधुपिप्पलीसुण्ठीमरिचजीरकहरीतकीविभीतक्यामलक्यादि । यदाह
(१) अशनमोदनसक्तुकमुद्गजगार्यादि खाद्यकविधिश्च । क्षीरादि सूरणादि मण्डकप्रभृति च विज्ञेयम् ॥ १ ॥ (२) पानं सौवीरयवोदकादि चित्रं सुरादिकं चैव । अप्कायः सर्वः कर्कटकजलादिकं च तथा ॥ १॥ (३) भक्तोषं दन्त्यादि खरं नालिकेरद्राक्षादि । कर्कटिकाम्रपनसादि बहुविधं खादिम ज्ञेयम् ॥ १॥
॥१७४॥
in Education interna
For Personal & Private Use Only
Page #367
--------------------------------------------------------------------------
________________
दंतवणं तंबोलं चित्तं तुलसीकुहेडगाईयं । मडुपिप्पलिसुंठाई अणेगहा साइमं होइ ॥ १॥८१ ॥
उक्तानि त्रीणि गुणवतानि । अथ चत्वारि शिक्षाव्रतान्युच्यन्ते, तत्रापि सामायिकदेशावकाशिकपौषधोपवासातिथिसंविभागलक्षणेषु चतुर्षु शिक्षाव्रतेषु प्रथमं सामायिकाख्यं शिक्षाव्रतमाहत्यतातरौद्रध्यानस्य त्यक्तसावद्यकर्मणः । मुहूर्त समता या तां विदुः सामायिकवतम् ॥८२॥
मुहूर्त मुहूर्त्तकालं, या समता रागद्वेषहेतुषु मध्यस्थता, तां सामायिकव्रतं विदुः; समस्य रागद्वेषविनिर्मुक्तस्य सतः आयो ज्ञानादीनां लाभ: प्रशमसुखरूप: समायः; समाय एव सामायिकम् , विनयादित्वादिकण् । समायः प्रयोजनमस्येति वा सामायिकम् । तच्च सामायिकं मनोवाकायचेष्टापरिहारं विना न भवतीति त्यक्तातरौद्रध्यानस्सेत्युक्तं, त्यक्तसावद्यकर्मण इति च त्यक्तं सावधं वाचिकं कायिकं च कर्म येन तस्य । सामायिकस्थश्च श्रावकः गृहस्थोऽपि यतिरिव भवति । यदाह
सामाइयमि उ कए समणो इव सावओ हवइ जम्हा । एएण कारणेणं बहुसो सामाइयं कुब्जा ॥१॥
अत एव तस्य देवस्नात्रपूजादौ नाधिकारः। नन्वहितं कर्म कुर्वाणस्य देवस्त्रात्रादौ को दोषः, सामायिक हि * सावधव्यापारनिषेधात्मकं, निरवद्यव्यापारविधानात्मकं च; तत्स्वाध्यायपठनपरिवर्तनादिवत् देवपूजादौ को |
(१) दन्तपावनं ताम्बूलं चित्रं तुलसीकुहेडकादिकम् । मधुपिप्पलिसुण्ठ्यादि अनेकधा स्वादिमं भवति ॥ १॥ (२) सागायिक एव (के तु) कृते श्रमण इव श्रावको भवति यस्मात् । एतेन कारणेन बहुशः सामायिकं कुर्यात् ॥१॥
in Education
For Personel Private Use Only
Page #368
--------------------------------------------------------------------------
________________
योग- शास्त्रम्
तृतीयः प्रकाश
॥१७॥
दोषः १ नैवम्, यतेरिव देवनात्रपूजनादौ नाधिकारः। भावस्तवार्थ च द्रव्यस्तवोपादानम् ; सामायिके च सति संप्राप्ता भावस्तव इति किं द्रव्यस्तवकरणेन। यदाहदव्वत्थरोय भावत्थरो यदव्वत्थओ बहुगुणो त्ति बुद्धि सिया।अणिउणजणवयणमिणं छज्जीवहियं जिणा बिति ।।
इह श्रावक: सामायिककर्ता द्विविधो भवति-ऋद्धिमाननृद्धिकश्च; योऽसावनृद्धिकः स चतुर्यु स्थानेषु सामायिकं करोति-जिनगृहे, साधुसमीपे, पौषधशालायां, स्वगृहे वा; यत्र वा विश्राम्यति, निर्व्यापारो वा आस्ते तत्र च । सत्र यदा साधुसमीपे करोति तदायं विधिः; यदि कस्माचिदपि भयं नास्ति, केनचिद्विवादो नास्ति, ऋणं वा न धारयति मा भूत्तत्कृताकर्षणापकर्षणनिमित्तश्चित्तसंक्लेशः; तदा स्वगृहेऽपि सामायिकं कृत्वा ईयों शोधयन् , सावद्या भाषां परिहरन्, काष्ठलेष्ट्वादिना यदि कार्य तदा तत्स्वामिनमनुज्ञाप्य प्रतिलिख्य प्रमार्य च गृहन् , खेलसिङ्घाणकादींश्चाविवेचयन् विवेचयंश्च स्थण्डिलं प्रत्यवेक्ष्य प्रमृज्य च; एवं पञ्चसमितिसमितस्त्रिगुप्तिगुप्तः साध्वाश्रयं गत्वा साधूनमस्कृत्य सामायिकं करोति यथा
करेमि भंते सामाइयं सावजं जोगं पच्चक्खामि जाव साहू पज्जुवासामि दुविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।
सामायिकसूत्रस्यायमर्थः–करेमि अभ्युपगच्छामि; भंते इति गुरोरामन्त्रणम् , हे भदन्त ! भदन्ते सुखवान् कन्याणवांश्च भवति; भदुङ् सुखकल्याणयोः, अस्य औणादिकान्तप्रत्ययान्तस्य निपातनात् रूपम् । आमन्त्रणं च (१) द्रव्यस्तवश्च भावस्तवश्च द्रव्यस्तवो बहुगुण इति बुद्धिः स्यात् । अनिपुणजनवचनमिदं षड्जीवहितं जिना ब्रुवते ॥१॥
॥१७॥
in Education Interna
For Personal & Private Use Only
M
Page #369
--------------------------------------------------------------------------
________________
0-110
प्रत्यक्षस्य गुरोस्तदभावे परोक्षस्यापि बुद्ध्या प्रत्यक्षीकृतस्य भवतिः यथा जिनानामभावे जिनप्रतिनाया आरोपतजिनत्वायाः स्तुतिपूजासम्बोधनादिकं भवति, गुरोश्चाभिमुखीकरणं तदायत्तः सर्वो धर्म इति प्रदर्शनार्थम् । यदाह-नाणस्स होइ भागी थिएयरओ दंसणे चरिते य । धन्ना आवकहाए गुरुकुलवासं न मुंचति ॥ १ ॥
अथवा भवान्तहेतुत्वाद्भवान्तः, भन्ते इत्यात्वात् । मध्यव्यञ्जनलोपे रूपं भन्ते इति “ श्रत एत्सौ पुंसि मागध्याम् " || ८ | ४ | २८७ ॥ इत्येकारोऽर्द्धमागधत्वादार्थस्य । सामायिकमुक्तनिर्वचनम् । अवद्यं पापं, सहाव
सद्यः, युज्यते इति योगो व्यापारस्तं प्रत्याख्यामि; प्रतीति प्रतिषेधे आहाऽभिमुख्ये ख्यांक प्रकथने, are प्रतीपमभिमुखं व्यापकं सावद्ययोगस्य करोमीत्यर्थः । अथवा पच्चक्खामीति प्रत्याचक्षे, चक्षिक् व्यक्तायां वाचीत्यस्य प्रत्याङ्पूर्वस्य रूपम् ; प्रतिषेधस्यादरेणाभिधानं करोमीत्यर्थः । जाय साहू पज्जुवासामिः यावच्छन्दः | परिमाण मर्यादाऽवधारणवचनस्तत्र परिमाणे यावत्साधुपर्युपासनं मम तावत्प्रत्याख्यामीति; मर्यादायां साधुपर्युपासनादर्वाक्, अवधारणे यावत्साधुपर्युपासनं तावदेव न तस्मात्परत इत्यर्थः । दुहिं तिविहेणं; द्वे विधेयस्य स द्विविधः साबुद्यो योगः स च प्रत्याख्येयत्वेन कर्म सम्पद्यते; अतस्तं द्विविधं योगं करणकारणलक्षणमनुमतिप्रतिषेधस्य गृहस्थैः कर्तुमशक्यत्वात् पुत्रभृत्यादिकृतस्य व्यापारस्य स्वयमकरणेऽप्यनुमोदनात् । त्रिविधेनेति करणे तृतीया । मणें वायाए कारणं इति त्रिविधस्यैव सूत्रोपात्तं विवरणं मनसा वाचा कायेन चेति त्रिविधेन करणेन । न करोमि न कारयामीति सूत्रोपात्तमेव द्विविधमित्यस्य विवरणम् । किं पुनः कारणमुद्देशक्रममतिलङ्घन्य व्यत्यासेन ( १ ) ज्ञानस्य भवति भागी स्थिरतरको दर्शने चरित्रे च । धन्या यावत्कथायां (थं ) गुरुकुलवासं न मुञ्चन्ति ॥ १ ॥
For Personal & Private Use Only
+YUB-JK++
Page #370
--------------------------------------------------------------------------
________________
दाग- जा
निर्देशः कृतः उच्यते योगस्व करणाधीनतोपदर्शनार्थम् करणाधीनता हि योगानाम, करणभाव भावात्तदभावे तृतीयः शास्त्रम्।
चाभावाद्योगस्य । तस्मेति, तम्य अबाधिकृतो योगः संध्यते; अवयवावयविभाजलक्षणसम्बधे पष्टी; योऽयं योगनिहालविषयस्तस्यातीतमवयत प्रतिक्रामामि निवर्ने पतीपं कामामीत्यर्थः निन्दामि जुगुष्मे राहामि स एवार्थः; केवलमात्मसाक्षिकी निन्दा, गुरुसाविकी गही । भन्ते इति पुनर्गुरोगमन्त्रणं भक्त पतिशयख्यापनार्थ न पुनरुक्तम्।
अथवा सामायिक क्रियाप्रत्यर्पणाय पुन रोः सम्बोधनम् । अनेन चैतन् ज्ञापितं भाति, पर्वक्रि पाजसाने गुरोः BI प्रत्यर्पणं कार्यमिति । उक्तं च भाष्यकारेण ---
सामाइयपच्चप्पणययणोवायं भयंतमहोत्ति । मब्यकिरियावसाणे भणियं पञ्चप्पणमणेण ॥१॥
अप्पाणमितिः आत्मानमनीतकालमावद्ययोगकारिणमः बोसिरामीति व्युत्सृजामि; विशब्दो विविधार्थो विशेपार्थो वा; उच्छब्दो भृशार्थः । विविधं विशेपेण वा भृशं सृजामि त्यजामीन्यर्थः । अत्र च करेमि भंते सामाइयमिति वर्तमानस्य सावधयोगस्य प्रत्याख्यानम्, सावजं जोगं पच्चक्खामीत्यनागतस्य; तस्स भंते पडिक्क-: मामीत्यतीतस्येति त्रैकालिकं प्रत्याख्यानमुक्तमिति त्रयाणां वाक्यानां न पौनरुक्क्यम् । उक्तश्च
“अईयं निंदामि पडुप(प्प)नं संवरेमि अणागयं पच्चक्खामीति ।” एवं कृतसामायिक ईर्यापथिकायाः प्रतिक्रामति पश्चादागमनमालोच्य यथाज्येष्ठमाचार्यादीन् वन्दते, पुनरपि | गुरुं वन्दित्वा प्रत्युपेक्ष्य निविष्टः शृणोति, पठति, पृच्छति वा । एवं चैत्यभवनेऽपि द्रष्टव्यम् । यदा तु स्वगृहे (१) सामायिकप्रत्यर्पणवचनोपायो भदन्तशब्द इति । सर्वक्रियाऽवसाने भणितं प्रत्यर्पणमनेन।॥१॥
भा॥१७॥
in Education International
For Personal & Private Use Only
worw.jainelibrary.org
Page #371
--------------------------------------------------------------------------
________________
पोषधशालायां वा सामायिकं गृहीत्वा तत्रैवास्ते तदा गमनं नास्ति । यस्तु राजादिमहर्द्धिकः स गन्धसिन्धुरस्क न्धाधिरूढ छत्रचामरादिराजालङ्करखालङ्कृतो हास्तिका श्रीयपादातिरथकव्यापरिकरितो मेरीभाङ्कारभरिताम्बरतलो बन्दिवृन्द कोलाहला कुलीकृतन मस्तलो अनेक सामन्तमण्डलेश्वराहमहमिकासं यमावादकमल पौरजनैः समजुन्योपदश्यमानो मनोरथैरुपस्पृश्यमानस्तेषामेवाञ्च लिबन्धान् लाजाञ्जतिपातान् शिरःप्रणामाननुमोदमानः “ अहो धन्य धर्मो य एवंविधैरप्युपसेव्य " इति प्राकृतजनैरपि श्लाव्यमानोऽकृतमामायिक एक जिनालयं साधुवसतिं वा गच्छति, तत्र गतो राजककुदानि छत्रचामरोपानमुकुटखरूपाणि परिहरति, जिनाचनं साधुचन्दनं वा करोति यदि त्वसौ कृतसामायिक एवं गच्छेत् तदा गजाश्वादिभिरधिकरणं स्यात्ः तच न युज्यते कर्तुम् । तथा कृत्सामायिकेन पादाभ्यामेव गन्तव्यम्, तच्चानुचितं भुपतीनामिति । आगतस्य च यद्यसौ आवको भवति तदा न कोऽप्यभ्युत्थानादि करोति । अथ यथाभद्रकस्तदा पूजा कृता भवत्विति पूर्वमेवासनं रच्यते । श्राचार्याश्च पूर्वमेवोत्थिता असते मा उत्थानानुत्थानकृता दोषा भूवन्निति, प्रगतश्वासौ सामायिकं करोतीत्यादि पूर्ववत् ॥ ८२ ॥ सामायिकस्थश्व महानिर्जरो भवतीति दृष्टान्तद्वारेणाह सामायिकवस्थस्य गृहिणोऽपि स्थिरात्मनः । चन्द्रावतंसकस्येत चीयते कर्म सञ्चितम् ॥८३॥ गृहस्थस्यापि कृतसामायिकस्य कर्मनिर्जरा भवतीति चन्द्रावतंसक उदाहरणम् । तच्च सम्प्रदायगम्यम् । स चायम्अस्ति साकेतनगरं श्रीसङ्केतनिकेतनम् । हसितेन्द्रपुरश्रीकं सितार्हचैत्यकेतनैः ॥ १ ॥ तत्र लोकहगानन्दो द्वितीय इव चन्द्रमाः | चन्द्रावतंसो राजाऽसीदवतंस इवावनेः || २ || स यथा धारयामास शस्त्राणि त्राणहेतवे ।
For Personal & Private Use Only
*1*-*-*
-*-*
03.-4031
Page #372
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
॥ १७७॥
1000+3+---
तीच्णानि शिक्षावशतो व्रतान्यपि तथा सुधीः | ३ || माघमासे विभावर्या सोऽन्यदा वासवेश्मनि । श्रादीपज्वलनं स्थास्यामीति सामायिके स्थितः || ४ || तच्छय्यापालिका ध्वान्तं स्वामिनो मा स्म भूदिति । याते प्राग्यामिनीयामे प्रदीपे तैलमक्षिपत् ॥ ५ ॥ गते यामे द्वितीयस्मिन्नपि सा भक्तमानिनी । जाग्रती दीपके क्षीणतैले तैलं न्यधात्पुनः ॥ ६ ॥ त्रियामायास्तृतीयस्मिन्नपि यामे व्यतीयुषि । मल्लिकायां प्रदीपस्य तैलं चिक्षेप सा पुनः ॥ ७ ॥ विभातायां विभावर्यामवसानमथासदत् । श्रमोत्पन्नव्यथाक्नान्तो राजा स इव दीपकः ||८|| सामायिकं समधिगम्य निहत्य कर्म, चन्द्रावतंसनृपतिस्त्रिदिवं ततोऽगात् । सामायिकव्रतजुषो गृहिणोऽपि सद्यः, क्षीयेत कर्म निचितं सुगतिर्भवेच्च ॥ ६ ॥ ॥ इति चन्द्रावतंसराजर्षिकथानकम् ॥ ८३ ॥
द्वितीयं शिक्षाव्रतमाह - दिव्रते परिमाणं यत्तस्य संक्षेपणं पुनः । दिने रात्रौ च देशावकाशिकवतमुच्यते ॥ ८४ ॥
दिग्वते प्रथमगुणव्रते यद्दशस्वपि दिक्षु गमनपरिमाणं तस्य दिवा रात्रौ चोपलक्षणत्वात्प्रहरादौ च यत् सङ्क्षेपणं तद्देशावकाशिकव्रतम् । देशे दिग्वतगृहीतपरिमाणस्य विभागे अवकाशोऽवस्थानं देशावकाशः सोऽत्रास्तीति देशावकाशिकं “ अतोऽनेकस्वरात् " ॥ ७ । २ । ६ ।। इतीकः । दिग्वतसंक्षेपकरणमणुव्रतादिसंक्षेपकरणस्याप्युपलक्षणं द्रष्टव्यम्, एषामपि संक्षेपस्यावश्यं कर्त्तव्यत्वात् । प्रतिव्रतं च संक्षेपकरणस्य विभिन्नव्रतत्वे द्वादश व्रतानीति संख्याविरोधः स्यात् ॥ ८४ ॥
१ पात्रे.
For Personal & Private Use Only
तृतीयः प्रकाशः ।
॥ १७७॥
Page #373
--------------------------------------------------------------------------
________________
*+++ 10 **
-+Y,UK+K+K
अथ तृतीयं शिक्षाव्रतमाह
चतुष्पoर्व्या चतुर्थादिकुव्यापार निषेधनम् । ब्रह्मचर्यक्रियास्नानादित्यागः पोषधत्रतम् ॥८५॥ चतुष्पव अष्टमी-चतुर्दशी - पूर्णिमा - श्रमावास्यालक्षणा, चतुर्णां पर्वाणां समाहारचतुष्पर्धी । पर्वशब्दोऽकारान्तोऽप्यस्ति; तस्यां चतुर्थादिकं तपः, कुव्यापारस्य सावद्यव्यापारस्य निषेधः, ब्रह्मचर्यक्रिया ब्रह्मचर्य स्य करणं स्नानादेः शरीरसत्कारस्य त्यागः | आदिशब्दादुद्वर्त्तनवर्णकविलेपन पुष्पगन्धविशिष्ट वस्त्राभरणादिपरिग्रहः । पोषं पुष्टिं प्रक्रमाद्धर्म्मस्य धत्ते पोषधः स एव व्रतं पोपधव्रतम् सर्वतः पोषध इत्यर्थः । द्विविधं हि पोषघवतं देशतः सर्वतश्च । तत्राहारपोपधो देशतो विवचितविकृतेरविकृतेराचामाम्लस्य वा सकृदेव द्विरेव वा भोजनमिति । सर्वतस्तु चतुर्विधस्याप्याहारस्याहोरात्रं यावत्प्रत्याख्यानम् ; कुत्र्यापारनिषेधपोषधस्तु देशत एकतरस्य कस्यापि कुव्यापारस्याकरणं, सर्वतस्तु सर्वेषामपि कृषिसेवावाणिज्यपाशुपान्यगृह कर्मादीनामकरणं, ब्रह्मचर्यपोषधोऽपि देशतो दिवैव रात्रावेव वा, सकृदेव द्विरेव वा स्त्रीसेवां मुक्त्वा ब्रह्मचर्यकरणम् ; सर्वतस्तु अहोरात्रं यावत् ब्रह्मचर्य - पालनम् | देशतः स्नानादे: शरीरसत्कारस्यैकतरस्याकरणं सर्वतस्तु सर्वस्यापि तस्याकरणम् ; इह च देशतः कुव्यापार निषेधपोपधं यदा करोति तदा सामायिकं करोति वा न वा; यदा तु सर्वतः करोति तदा सामायिकं नियमात्करोति, अकरणे तु तत्फलेन वञ्च्यते । सर्वतः पोपधत्रतं च चैत्यगृहे वा, साधुमूले वा, गृहे वा, पोषधशालायां वा त्यक्तमणिसुवर्णाद्यलङ्कारो व्यपगतमालाविलेपनवर्णकः परिहृतप्रहरणः प्रतिपद्यते । तत्र च कृते पठति च पुस्तकं वाचयति धर्मध्यानं ध्यायति, यथैतान् साधुगुणानहं मन्दभाग्यो न समर्थो धारयितुमिति ।
For Personal & Private Use Only
****-**--**<***@K-6-***@→→
Page #374
--------------------------------------------------------------------------
________________
योग- * इह च यद्याहारशरीरसत्कारब्रह्मचर्यपोषधवत् कुव्यापारपोषधव्रतमप्यन्यत्रानाभोगनेत्याद्याकारोच्चारणपूर्वकं प्रति
तृतीयः शास्त्रम् * पद्यते तदा सामायिकमपि सार्थकं स्यात् । स्थूलत्वात्पोषधप्रत्याख्यानस्य सूक्ष्मत्वाच सामायिकस्येति ।।
प्रकाशा तथा पोषधवताऽपि सावधव्यापारा, न कार्या एवं ततः सामायिकमकुवस्तल्लाभाद्भश्यतीति । यदि पुनः ॥१७८॥ सामाचारीविशेषात सामायिकमिव द्विविधं त्रिविधेनेत्येवं पोषधं प्रतिपद्यते तदा सामायिकार्थस्य पोषधेनैव
गतत्वान्न सामायिकमत्यन्तं फलवत् । यदि परं पोषधसामायिकलक्षणं व्रतद्वयं प्रतिपन्नं मयेत्यभिप्रायात् फलवदिति ॥ ८५॥
___ इदानीं पोषधव्रतकर्तृन् प्रशंसति| गृहिणोऽपि हि धन्यास्ते पुण्यं ये पोषधवतम् । दुष्पालं पालयन्त्येव यथा स चुलनीपिता॥८६॥
यतयस्तावद् धन्या एव गृहिणोऽपि गृहस्था अपि ते धन्याः धर्मधनं लब्धारः ये निःसत्त्वजनदुष्पालं पुण्यं पवित्रं पोषधव्रतं पालयन्ति, यथा स चुलनीपितेति दृष्टान्तः स च सम्प्रदायगम्यः । स चायम्
अस्ति वाराणसी नामानुगङ्गं नगरी वरा । विचित्ररचनारम्या तिलकश्रीरिवावनः ॥ १॥ सुत्रामवामरावत्यामविसूत्रितविक्रमः । जितशत्रुरभूत्तत्र धरित्रीधवपुङ्गवः ॥२॥ आसीद्गहपतिस्तस्यां महेभ्यश्चुलनीपिता । प्राप्तो मनुष्यधर्मेव मनुष्यत्वं कुतोऽपि हि ॥३॥ जगदानन्दिनस्तस्यानुरूपा रूपशालिनी । श्यामा नामाभवद्भार्या श्यामेव तुहिनातेः॥४॥ अष्टौ निधानेष्टौ वृद्धावष्टौ च व्यवहारगाः। इति तस्याभवन् हेनश्चतुर्विंशतिकोटयः ॥ ५ ॥ एकैकशो गोसहस्रैर्दशभिः प्रमितानि तु । तस्यासन् गोकुलान्यष्टौ कुलवेश्मानि सम्पदाम्
॥१७॥
Latin Education interes
For Personal & Private Use Only
Page #375
--------------------------------------------------------------------------
________________
और
तत्र जि प समयस्तो चिज
।। ६ ।। तस्यां प्रापथानपंधुरुधाने कोष्टकाभिधे । बनवान ममनसतो विहरंथरमा जिनः ।। ७॥ तता भगवतः पादवन्दनाय सुरासुराः । सेन्द्रासमायधुस्तत्र जि रात्रुश्च भूपतिः ।। पदयां चचाल चुलनीशिकायुवितभूपणः । वन्दितुं नन्दितमनाः श्रीधीरं त्रिजगत्पतिम् । भगवन्तं नो नत्योपविश्य चुलनीपिता । शुश्राव परया भक्त्या प्राञ्जलिधर्मदेशनाम् ।। १ ।। अथोत्थितायां सदनि प्रणम्य चरमो प्रभोः। इति विज्ञायामास बिनीतश्चुलनीपिता ॥ ११॥ स्वामिन्नम्मादृशां वोधनोविदरने पहीम् । जगद्राचं बिना नान्यो धधक्रमणे रवः ॥१२॥ सर्वोऽपि याच्यते गत्वा स दत्ते यदि बा न वा । अागत्य याचितो धर दत्मे हेतुः कृपात्र ते ॥१३॥ जानामि यतिधर्म चेत् गृह्णामि स्वामिनोऽन्तिके । योग्यता परमियती मन्दभाग्यस्य नास्ति मे ।१४॥ याचे श्रापकधर्म तु स्वामिन् ! देहि प्रसीद मे । आदतेऽब्धावप्युदको भरणं निजमेव हि ॥१५॥ यथासुखं गृहाणेति स्वामिनाऽनुमतस्ततः । स प्रत्याख्यत्स्थूल हिंसां मृपावादं च चौरिकाम् ॥१६॥ प्रत्याख्यच स्वभार्यायाः श्यामाया अपरस्त्रियम् । अष्टाष्टकोध्यभ्यधिकं स्वर्ण निध्यादिपु त्रिपु ॥१७॥ ब्रजेभ्योऽन्यानथाष्टभ्यः प्रत्याचख्यौ बजानपि । हलपञ्चशतीतोऽन्यां कृषियोग्यां महीमपि ।।१८।। अनःशतेभ्यः पञ्चभ्यो दिग्यायिभ्योऽपरं त्वनः संवहद्यश्च पञ्चभ्यः प्रत्याचख्यौ महामतिः ।। १६ ॥ दिग्यात्रिकाणि चत्वारि चत्वारि प्रवहन्ति च । वाहनानि विना सोऽध प्रत्याख्यदितसणि तु ॥२०॥ अन्यत्र गन्धकाषाय्याःप्रत्याख्यदङ्गपुंसनम् । प्राीया मधुकयष्टेरितरद्दन्तधावनम् ।।२१।। अन्यतः क्षीरामलकात्प्रत्याचख्यौ फलान्यपि । सहस्रशतपाकाभ्यां तैलाभ्यां म्रक्षणान्तरम् ।। २२ । गन्धाढयादन्यतः प्रत्याचख्यावुद्वर्तनान्यपि ! अष्टाभ्य औष्ट्रि केम्योऽम्भःकुम्भेभ्योऽधिकमजनम् ॥२३।। वस्त्रं प्रत्याख्यदन्यच कापासाद्वस्त्रयुग्म
For Personal Private Use Only
Page #376
--------------------------------------------------------------------------
________________
ह
योग शास्त्रम्
तृतीयः प्रकाश
॥१७॥
कात । विलेपनानि चान्यत्र कुमागरुचन्दनात् ।। २४ ।। पुष्पं प्रत्यारख्यदन्यच्च पद्माजातिस्रजोऽपि च । कर्णिकानाममद्राभ्यामन्यानि भूषणानि च ।। २५ ॥ मुमोच धूपमगरुतुरुष्काभ्यामथापरम् । अन्याश्च काष्ठपेयायाः पेया अपि समन्ततः ॥२६॥ खण्डखाद्याद् घृतपूराचेतरत् खाद्यमत्यजत् । ओदनान्यपि निःशेपाण्यन्यतः कलमौदनात ॥२७॥ कलायमदमाषेभ्य इतरं सूपमस्यजत् । शरत्कालभवात्सर्व गोघृतादपरं घृतम् । २८ ॥ शाकं पन्यङ्कमण्डूकीशाकाभ्यामन्यम(द)त्यजत् । विना स्नेहाम्लदाल्यम्ले तीमनान्यपि सर्वतः ।।२६।। अन्तरिक्षोदकादन्यद्दकं पर्यवर्जयत । मखवासं च ताम्बूलात्पञ्चसौगन्धिकाढते ।। ३० ।। अपध्यानं हिंस्रदानं प्रमादाचरितं तथा । पापकर्मोपदेशं चानर्थदण्डानवर्जयत ॥ ३१ ॥ एवं श्रावकधर्म स सम्यक् सम्यक्त्वपूर्वकम् । सर्वातिचाररहितं प्रपेदे पुरतः प्रभोः ॥३२॥ भगवन्तं ततो नत्वा गत्वा च निजवेश्मनि । प्रतिपन्न तथा धर्म स्वभार्यायै न्यवेदयत ॥ ३३॥ तेनाथ साऽप्यनज्ञाता रथमारुह्य तत्क्षणम् । उपेत्य भगवत्पावें गृहिधर्ममशिश्रियत् ॥ ३४ ॥ तदा च गौतमो नत्वा पप्रच्छेति जगत्पतिम् । महाव्रतधरः किं स्यान्न वाऽयं चुलनीपिता ? ॥ ३५ ॥ अथोचे स्वामिना नैप यतिधर्म प्रपत्स्यते । गृहिधर्मरतः किं तु मृत्वा सौधर्ममेष्यति ॥३६॥ अरुणाभे विमाने च चतुष्पल्योपमस्थितिः। ततश्यत्वा विदेहेपृत्पद्य निर्वाणमेष्यति ॥ ३७ ॥ (युग्मम् ) गृहभारं ज्येष्ठपुत्रे न्यस्याथ चुलनीपिता। तस्थौ पोषधशालायां पालयन् पोषधव्रतम् ॥ ३८॥ तस्याथ पोषधस्थस्य मायामिथ्यात्ववान् सुरः । निशीथे कश्चिदागच्छत्पावं व्रतजिघांसया ॥ ३९ ॥ घोराकारः पुरोभूय खड्गमाकृष्य भीषणम् । स इत्युचे तमत्युच्चैश्चुलनीपितरं सुरः ॥ ४०॥ अप्रार्थितप्रार्थक रे! श्रमणोपासकवतम् । त्वया किमिदमारब्धं मदादेशेन मुच्यताम् ॥ ४१ ॥
॥१७६
Jain Education intemal
For Personal & Private Use Only
Page #377
--------------------------------------------------------------------------
________________
*4-..
मुश्चमीद न चेत्ने ग्रे ज्येष्ठ पुत्रम तब । कुष्माण्डमिन खन खण्डयिष्यामि खण्डतः ।। ४२ ।। भवतः प्रेक्षमाणस्य पुरम्तपिशितान्यहम् । निता कटाहे पक्ष्यामि शूल च्यामि तत्क्षणात् ।।४३, आचमिष्यामि तन्मांसशोणितानि नयाधुना । प्रेक्षमाणः यथा हि त्वं स्वयमेर विपन्स्यने ।। ४४॥ देबब्रुवे विनति न चुलनीपिता । न चकम्प कमर्गव गर्जन्यूजितमम्बुदे ॥ ४५ ॥ अक्षाभं प्रेक्षमाणम्नु चुलनीपितरं मुरः । विनीपयितुकामस्तं तथैवाचे पुनः पुनः ।। ४६ ॥ एवं विभाषमाणस्य मुरस्य चुलनीपिता । न सन्मुखमपि प्रेक्षाञ्चक्र शुन इव विपः ।। ४७ ॥स विकृत्य पुरो ज्येष्ठतनयं चुलनीपितुः । निस्त्रिंशेन नृशंमात्मा पशुवद् व्यशसनतः ॥४८॥ छित्वा क्षिावा कटाहा न्तम्लन्मांमानि पपाच च । वभ्रज च शिते. शूलराचचाम च सोमरः ॥४९॥ अधिमेहे च तत्सर्व तत्वज्ञः चुलनीपिता । अन्यत्वभावनामाजां स्वाङ्गच्छेदोऽपि नातेये ॥५०॥ अथोचे ससुरो रे रे ! व्रतमद्यापि नोज्झसि । तद् ज्येष्ठामिव ते पुत्र हन्मि मध्यममप्यहम् ॥ ५१॥ ततो हन्मध्यमं पुत्रं तथैवोचे पुनः पुनः । निरीक्ष्यातुभितं तं च कनिष्टं चावधीत्सुतम् ॥ ५२ ॥ तत्राप्यालोक्य निष्कम तं क्रुद्धः स सुरोऽब्रवीत् । नाद्याप्युज्झसि पाखण्डं मातरं ते विहन्मि तत् ।। ५१ ॥ भद्रां नामाथ चुलनीपितुर्मातरमातुराम् । विकरोति स्म रुदती करुणं कुरीमिव | ॥ ५ ॥ स सुरः पुनरप्यूने मुच्यतां प्रकृतं त्वया । स्वकुटुम्बप्रणाशाय कृत्यातुल्यमिदं व्रतम् ।। ५५ ॥ अन्यथा कुलमेढिं ते मातरं हरिणीमिव । हत्वा भ्रक्ष्यामि पक्ष्यामि भक्षयिष्यामि च क्षणात् ।। ५६ ।। ततोऽप्यभीतं चुलनीपितरं वीक्ष्य सोऽमरः । भद्रामाराटयत्तारं सूनान्यस्तामजामिव ॥ ५७ ॥ यया भार इवोढस्त्वमुदरेणोदरंभरिः । मातरं हन्यमानां तां पश्येत्यूचे पुनः सुरः ।। ५८ ॥ अथैवं चिन्तयामास चेतसा चुलनीपिता । अहो
in Education international
For Personal & Private Use Only
Page #378
--------------------------------------------------------------------------
________________
योग
तृतीयः प्रकाशः।
शास्त्रम्
॥१८॥
दुरात्मा कोऽप्येष परमाधार्मिकोपमः ॥ ५९ ॥ पुत्रत्रयं मे पुरतो जधान च चखाद च । क्रव्यादिव ममाम्बामप्यधुना हन्तुमुद्यतः॥६०॥ यावन्न हन्त्यमूं तावद्रक्षामीति चचाल सः। कुर्वाणेन महाशब्दमुत्पते च सुरेण खे ॥६१|| तं च कोलाहलं श्रुत्वा भद्रा द्रुतमुपैत्य तम् । किमेतदिति चापृच्छत्सोऽशंसत्तदशेषतः॥२॥ ततोऽभाषिष्ट भद्रवं मिथ्याकोऽप्ययं सुरः। पोषधव्रतविघ्नं ते चक्रे कृत्रिमभीषणैः ॥ ६३ ।। पोषधवतभङ्गस्य कुरुष्वालोचनं ततः । पापाय व्रतभङ्गस्य स्यादनालोचनं यतः॥ ६४ ॥ तथैव प्रतिपेदेऽथ तद्वाचं चुलनीपिता। चकारालोचनां तस्य व्रतभङ्गस्य शुद्धधीः ॥ ६५ ॥ अथैकादश भेजेऽसौ श्रावकप्रतिमाः क्रमात् । सोपानानीव स स्वर्गसौधारोहणकर्मणे ॥६६॥ निस्त्रिंशधारानिशितं स एवं श्रावकव्रतम् । सुचिरं पालयामास भगवद्वचनोचितम् ॥६७॥ ततः | संलेखनापूर्व प्रपद्यानशनं सुधीः । मृत्वा सौधर्म उत्पेदे विमाने सोऽरुणप्रभे ॥ ६८ ॥ दुष्पालमेवं चुलनीपिता यथा, तत्पालयामास स पोषधव्रतम् । ये पालयन्त्येव तथा परेऽप्यदो, दृढव्रतास्ते खलु मुक्तिगामिनः॥६६॥
॥ इति चुलनीपितुः कथानकम् ॥ ८६॥ ___ इदानीं चतुर्थ शिक्षाव्रतमाह-- दानं चतुर्विधाहारपात्राच्छादनसद्मनाम् । अतिथिभ्योऽतिथिसंविभागवतमुदीरितम् ॥८॥
अतिथिभ्यस्तिथिपर्वाद्युत्सवरहितेभ्यो भिक्षार्थ भोजनकाले उपस्थितेभ्यः साधुभ्यो, दानं विश्राणनं, चतुर्विधस्थाशनपानखाद्यस्वाधरूपस्याहारस्य, पात्रस्यालाब्वादेः, आच्छादनस्य वस्त्रस्य कम्बलस्य वा, सबनो वसतेरुपलक्षणापीठफलकशय्यासंस्तारकादीनामपि । अनेन हिरण्यादिदाननिषेधस्तेषां यतेरनधिकारात् । तदेतदतिथिसंवि
|॥१०॥
Jain Education inte
For Personal & Private Use Only
www.jalnelibrary.org
Page #379
--------------------------------------------------------------------------
________________
भागवतमुच्यते । अतिथेः सङ्गतो निर्दोपो विभागः पश्चात्कादिदोपपरिहारायांशदानरूपोऽतिथिसंविभागस्तद्रूपं व्रतमतिथिसविभागवतम् । आहारादीनां च न्यायार्जितानां प्रासुकैपणीयानां कल्पनीयानां च देशकालश्रद्धासत्कारपूर्वकमात्मानुग्रहबुद्ध्या यतिभ्यो दानमतिथिसंविभागः । यदचु:-नायागयाणं कप्पणि जागं अन्नपाणाइणं दव्वाणं देसकालसद्धासकारकमजुधे पराए भत्तीए आयागुग्गहबुद्धीए संजयाणं दाणं अतिहिसंविभागो। " अनूदितं चैतत्
प्रायः शुद्धैत्रिविधविधिना प्रासुकैरेषणीयैः, कल्प्यप्रायैः स्वयमुपहर्वस्तुभिः पानकायैः । काले प्राप्तान सदनमसमश्रद्धया साधुवर्गान , धन्याः केचित्परमवहिता हन्त ! संमानयान्ति ॥ १ ॥ अशनमखिलं खाद्यं स्वाद्यं भवेदथ पानकं, यतिजनहितं वस्त्रं पात्रं सकम्बलपोछनम् । वसतिफलकप्रख्यं मुख्यं चरित्रविवर्द्धनं, निजकमनसः प्रीत्याधायि प्रदेयमुपासकैः ॥२॥ तथा--
साहूण कप्पणिजं जं न वि दिन्नं कहिंचि किंचि तहिं । धीरा जहुत्तकारी सुसावगा तं न भुंजंति ॥१॥ वैसहीसयणासणभत्तपाणभेसञ्जवत्थपत्ताई । जइ वि न पजत्तधणो थोवाओ वि थोवयं देह ॥ २ ॥ (१) न्यायागतानां कल्पनीयानां अन्नपानादीनां द्रव्याणां देशकालश्रद्धासत्कारक्रमयुतं परया भक्त्या आत्मानुग्रहबुया संयतानां दानं अतिथिसंविभागः । (२) साधूनां कल्पनीयं यद् नापि दत्तं कस्मिंश्चित् किञ्चित् तस्मिन् । धीरा यथोक्तकारिणः सुश्रावकास्तन्न मुञ्जते ॥१॥ (३) वसतिशयनासनभक्तपानभैषज्यवस्त्रपात्रादि । यद्यपि न पर्याप्तधनः स्तोकादपि स्तोक दद्यात् ।। २ ।।
in Education International
For Personal & Private Use Only
Page #380
--------------------------------------------------------------------------
________________
तृतीयः प्रकाशा
॥१८॥
| वाचकमुख्यस्त्वाह
किश्चिच्छुद्धं कल्प्यमकल्प्यं स्यात् स्यादकम्प्यमपि कल्प्यम् । पिण्डः शय्या वस्त्रं पात्रं वा भेषजायं वा ॥१॥ देशं कालं पुरुषमवस्थामुपयोगशुद्धिपरिणामान् । प्रसमीक्ष्य भवति कन्प्यं नैकान्तात्कल्पते कल्प्यम् ॥२॥
ननु यथा शास्त्रे आहारदातारः श्रूयन्ते न तथा वस्त्रादिदातारः, न च वस्त्रादिदानस्य फलं श्रूयते, तब बनादिदानं युक्तम् । नैवम् । भगवत्यादौ वस्त्रादिदानस्य साक्षादुक्तत्वात् । यथा-"समणे निग्गंथे फासुएणं एसणिजेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकवलपायपुंछणेणं पीढफलगसेज्जासंथारएणं पडिलामेमाणे विहरह।"
इत्याहारवत्संयमाधारशरीरोपकारकत्वाद्वस्त्रादयोऽपि साधुभ्यो देयाः। संयमोपकारित्वं च वस्त्रस्य तावत तृणग्रहणानलसेवानिवारणार्थत्वेन, धर्मशुक्नध्यानसाधनार्थत्वेन, ग्लानपीडापरिहारार्थत्वेन, मृतकपरिष्ठापनार्थत्वेन च । यदाहुः
तणगहणानलसेवानिवारणा धम्मसुक्कझाणट्ठा । दिढ कप्पग्गहणं गिलाणमरणट्ठया चेव ॥१॥ वाचकोऽप्याह
शीतवातातपैर्दशैर्मशकैश्चापि खेदितः। मा सम्यक्त्वादिषु ध्यान न सम्यक् संविधास्यति ॥१॥ इत्यादि
(१) श्रमणान् निर्ग्रन्थान् प्रासुकेन एषणीयेन अशनपानखादिमस्वादिमेन वस्त्रपतद्ग्रहकम्बलपादपोछनेन पीठफलकशय्यासंस्तारकेण प्रतिलाम्यमानान् विहारयति ।
(२) तृणग्रहणाऽनलसेवानिवारणाय धर्मशुक्लध्यानार्थम् । दिष्टं कल्पग्रहणं ग्लानमरणार्थ चैव ॥१॥
॥१८१॥
in Education Interna
For Personal & Private Use Only
Page #381
--------------------------------------------------------------------------
________________
पात्रस्याप्युपयोगः, अशुद्धस्यामादेर्ग्रहणेन तत्परिष्ठापनं, संसक्तानस्याविराधनात् । प्रमादात्पूतरकसहितस्य तण्डुलोदकादेहणे सति तत्परिष्ठापनासुखं च । एवमादयोऽन्येऽपि पात्रग्रहणे गुणाः। यदाहुः
छक्कायरक्खणट्ठा पायग्गहणं जिणेहिं पबत्तं । जे अ गुणा संभोए हवंति ते पायगहणे वि ॥१॥ अतरंतबालवुड्डा सेहाऽऽएसा गुरूप्रसहवग्गे । साहारणोग्गहालद्धिकारणा पायग्गहणं तु ॥२॥
ननु तीर्थकराणां वस्त्रपात्रपरिभोगो न श्रूयते, तीर्थकरचरितानुकारश्च तच्छिष्याणां युक्तः । वदन्ति हि"जारिसयं गुरुलिङ्गं सीसेण वि तारिसेण हविभव्वम्" इति । मैवं वोचः-अच्छिद्रपाणयस्तीर्थकराः, अपि चन्द्रादित्यौ यावच्छिखा गच्छति, न तु पानीयबिन्दुरप्यधः पतति; चतुर्विधज्ञानवलाच ते संसक्तासंसक्तमचं सत्रसमत्रसं च जलादि ज्ञात्वा निर्दोषमेवोपाददते, इति नैषां पात्रधारणे गुणः । वस्त्रं तु दीक्षाकाले तीर्थकरा अपि गृहन्ति । यदाहुः--
सव्वे वि एगदसेण निग्गया जिणवरा चउव्वीसं । न य नाम भमलिंगे न य गिहिलिंगे कुलिंगे वा ॥१॥
(१) षट्कायरक्षणार्थ पात्रग्रहणं जिनैः प्रज्ञप्तम् । ये च गुणाः संभोगे भवन्ति ते पात्रग्रहणेऽपि ॥१॥ (२) ग्लानबालवृद्धात् शिक्षकात् प्रार्णिकाद् गुरोरसहिष्णुवर्गात् । साधारणावग्रहालब्धिकारणात् पात्रग्रहणं तु ॥२॥ (३) यादृशं गुरुलिङ्गं शिष्येणापि तादृशेन भवितव्यम् । (४) सर्वेऽपि एकदूष्येण निर्गता जिनवराश्रतुर्विंशतिः । न च नामान्यलिट्रेन च गृहिलिङ्क कुलिङ्गे वा ॥१॥
in Education inter
For Personal & Private Use Only
Page #382
--------------------------------------------------------------------------
________________
योग
शास्रम्
॥ १८२ ॥
Jain Education Inter
--++-+
+OK+-*/0/+@
परमार्ष च
'सेवेमि जे अईया जे अणागया जे अ वट्टमाणां ते सब्वे सोवहिधम्मो देसियन्वो त्ति कट्टु एवं देवदुसमादाय निक्खमिंसु निक्खामंति निक्खमिस्संति वा ।
प्रव्रज्योत्तरकालं च सर्वबाधासहत्वान्न वस्त्रेण प्रयोजनमिति यथाकथञ्चित्तदपैतु नाम । गुरुलिङ्गानुवर्त्तनं च तच्छिष्याणां यदुक्तं, तदैरावणानुकरणमिव सामान्यकरिणाम् । किं च तीर्थकरानुकारमिच्छद्भिर्मठे निवसनमाधाकर्मिकादिपरिभोगस्तैलाभ्यङ्गोऽङ्गारशकटी सेवनं तृणपटीपरिधानं कमण्डलुधारणं बहुसाधुमध्ये निवासस्थानां धर्मदेशनायाः करणं शिष्यशिष्यादीचादिकं सर्वमविधेयं स्यात्, तच्च कुर्वन्ति ।
कम्बलस्य च वर्षासु बहिर्निर्गतानां तात्कालिकष्वृष्टावप्काय रचणमुपयोगः, बालवृद्धग्लाननिमित्तं वर्षत्यपि जलधरे भिक्षायै निःसरतां कम्बलावृतदेहानां न तथाविधाप्काय विराधना, उच्चारप्रस्रवणादिपीडितानां कम्बलावृतदेहानां गच्छतामपि न तथाविधा विराधना । छत्राद्याच्छादितानां कम्बलमन्तरेणापि गच्छतां को दोष ? इति चेत् न 'छत्तस्स य धारणट्ठाए' इत्यागमेन छत्रस्य प्रतिषिद्धत्वात् ।। रजोहरणं पुनः साक्षाजीवरक्षार्थं प्रतिलेखनाकारित्वादुपयोगीति कस्तत्र विवादं कुर्यात् ? । मुखवस्त्रमपि सम्पातिमजीवरच खादुष्णमुखवातविराध्यमानबाह्यवायुकायजीवरक्षणान्मुखे धूलिप्रवेशरक्षणाच्चोपयोगि । पीठफलकयोर्वर्षासु पनककुन्यादिसंसक्तायां भुवि भूशयनस्य ( १ ) सेवे येऽतीता येऽनागता ये च वर्तमानास्ते सर्वे सोपधिधर्मो देष्टव्य इति कृत्वा एकं देवदूष्यमादाय निरक्रमिषुः निष्क्रामन्ति निष्क्रमिष्यन्ति वा ।
For Personal & Private Use Only
K+2070-08-16-
तृतीयः
प्रकाशः ।
हूँ॥ १८२ ॥
Page #383
--------------------------------------------------------------------------
________________
प्रतिषिद्धत्वाच्छयनासनादावुपयोगः। शय्यासंस्तारकयोश्च शीतोष्णकालयोः शयनादावुपयोगः। वसतिश्च निवासार्थ : यतीनामत्यन्तोपकारिणी । यदाह- . जो देइ उवस्सयं मुणिवराण णेगगुणजोगधारीण । तेणं दिया वत्थामपाणसयणासणविकप्पा ॥१॥ जं तत्थ ठियाण भवे सव्वेसिं तेण तेसिमुवोगो । रक्खपरिपालणा वि, अतो दिया एव ते सव्वे ॥ २॥ सीयायवचाराणं दंसाणं तह य बालमसगाणं । रक्खंतो मुणिवसमे सुरलोयसुहं समजिणइ ॥३॥
एवं यदन्यदप्यौधिकमौपग्रहिकं वा धर्मोपकरणं तत्साधूनां धारयतां न दोषः तदातृणां तु सुतरां गुण एव । उपकरणमानं तु
जिणा बारसरूवाओ थेरा चोद्दसरूविणो । अजाणं पसवीसं तु अओ उड्ढे उवग्गहो ॥ १॥ इत्याद्यागमादवगन्तव्यं, इह तु ग्रन्थगौरवभयान प्रतन्यते । इह वृद्धोक्ता सामाचारी-श्रावकेण पोषधं पारयता नियमात्साधुभ्यो दवा भोक्तव्यम् । कथम् ? यदा भोजनकालो भवति तदा आत्मनो विभूषां कृत्वा प्रतिश्रयं गत्वा साधून निमन्त्रयते भिक्षां गृहीतेति ॥ साधूनां च तं प्रति का प्रतिपत्तिः ? उच्यते-तदैकः पटलकमन्यो
(१) यो ददात्युपाश्रयं मुनिवराणामनेकगुणयोगधारिणाम् । तेन दत्ता वस्त्रान्नपानशयनासनविकल्पाः ॥ १॥ (२) यत्तत्र स्थितानां भवेत् सर्वेषां तेन तेषामुपयोगः । रक्षापरिपालना अपि, अतो दत्ता एव ते सर्वे ॥२॥ (३) शीतातपचौरेभ्यो दंशेभ्यस्तथा च बालमशकेभ्यः । रक्षन् मुनिवृषभान सुरलोकसुखं समर्जति ॥ ३ ॥ । (४) जिना द्वादशरूपाः स्थविराश्चतुर्दशरूपिणः । आर्याणां पञ्चविंशतिस्तु अतः ऊर्ध्वमुपग्रहः ॥ १॥
Jain Education in
For Personal & Private Use Only
Page #384
--------------------------------------------------------------------------
________________
योगमखानन्तकमपरो भाजनं प्रत्यवेक्षते; माऽन्तरायदोषाः स्थापनादोषा वा भूवनिति । स च यदि प्रथमायां पौरुष्यां
तृतीय निमन्त्रयतेः अस्ति च नमस्कारसहितप्रत्यारल्यानी, ततस्तद्गृह्यते । अथ नास्त्यसौ तदा न गृह्यते, यतस्तद्वोढव्य 1
प्रकाशः। भवति । यदि पुनर्घनं लगेत, तदा गृह्यते संस्थाप्यते च; यो वा उद्घाटपौरुष्यां पारयति पारणकवानन्यो वा तमै ॥१८३॥ तहीयते पश्चात्तेन श्रावकेण समं सङ्घाटको व्रजति, एको न वर्तते प्रेषयितुं, साधुपुरतः श्रावकस्तु मार्गे गच्छति.
ततोऽसौ ग्रहं नीत्वा तावासनेनोपनिमन्त्रयते; यदि निविशेते, तदा भव्यम्, अथ न निविशेते, तथापि विनयप्रयुक्तो भवति. ततोऽसौ भक्तं पानं च स्वयमेव ददाति, भाजनं वा धारयति, स्थित एवा( एव वा )स्ते यावदीयते । साध अपि पश्चात्कर्मपरिहरणार्थ सावशेष गृहीतः, ततो वन्दित्वा विसर्जयति, अनुगच्छति कतिचित्पदानिः ततः स्वयं भुङ्क्ते ॥ यदि पुनस्तत्र ग्रामादौ साधवो न भवन्ति तदा भोजनवेलायां द्वारावलोकनं करोति, विशुद्धभावेन च चिन्तयति-"यदि साधवोऽभविष्यन् तदा निस्तारितोऽहमभविष्यमिति" । एष पोषधपारणके विधिः । अन्यदातु दवा भुक्ते, भुक्त्वा वा ददातीति । अत्रान्तर श्लोकाः
अन्नादीनामिदं दानमुक्तं धर्मोपकारिणाम् । धर्मोपकारवायानां वर्णादीनां न तन्मतम् ॥ १॥ दत्तेन येन दीप्यन्ते क्रोधलोभस्मरादयः । न तत्स्वर्ण चरित्रिम्यो दद्याच्चारित्रनाशनम् ॥ २॥ यस्यां विदार्यमाणायां म्रियन्ते 4 जन्तुराशयः। क्षितेस्तस्याः प्रशंसन्ति न दानं करुणापराः ॥३॥ यद्यच्छस्त्रं महाहिंस्रं तत्तयेन विधीयते ।
तदहिस्रमना लोहं कथं दद्याद्विचक्षणः ? ॥४॥ संमृच्छन्ति सदा यत्र भूयांसस्त्रसजन्तवः। तेषां तिलानां को | दानं मनागप्यनुमन्यते ॥५॥ दद्यादर्द्धप्रसूतां गां यो हि पुण्याय पर्वणि । नियमाणामिव हहा ! वर्ण्यते सोऽपि
॥१८॥ For Personal & Private Use Only
JanEducationindamana
Page #385
--------------------------------------------------------------------------
________________
किं फलं भवेत
तारकृश्चिका ।
गि हुतोपमम् । श्रमसे कोऽयमागमः
धार्मिकः ॥ ६॥ यस्या अपाने तीर्थानि मुखेनाश्नाति याऽशुचिम् । तां मन्वानाः पवित्रां गां धर्माय ददते जडाः ॥७॥ प्रत्यहं दुहामानायां यस्यां वत्सः प्रपाब्यते । खुरादिभिर्जन्तुनी तां दद्याद्गां श्रेयसे कथम् ? ॥८॥ स्वर्णमयी रूप्यमयी तिलनय्याज्यमय्यपि । विभज्य भुज्यते धेनुस्तदातुः किं फलं भवेत् ॥ ६॥ कामगर्द्धकरी बन्धुस्नेहदुमदवानलः । कलेः कलितरुर्दुर्गदुर्गतिद्वारकुचिका ।। १० ।। मोक्षद्वारार्गला धर्मधनचौरी विपत्करी । या कन्या दीयले साऽपि श्रेयसे कोऽयमागमः १ ॥११॥ विवाहसमये मूढधर्मयुद्ध्या विधीयते । यतु यौतुकदान तत्साद्भस्मनि हुतोपमम् ।। १२॥ यत् संक्रान्तौ व्यतीपाते वैधृते पर्वयोरपि दानं प्रवर्तितं लुब्धैर्मुग्धसंमोहनं हि तत् ॥ ३॥ मृतस्य तृप्त्यै ये दानं तन्वन्ति तनुबुद्धयः । ते हि सिञ्चन्ति मुशलं सलिले पल्लवेच्छया ॥१॥ विप्रेभ्यो भोजने दले प्रीयन्ते पितरो यदि । एकस्मिन् भुक्तवत्यन्यः पुधः किन भवेदिह ? ।।५।। अपत्यदत्तं चेदानं पितृणां पापमुक्तये । पुत्रेण तप्ते तासि तदा मुक्ति पिताऽऽप्नुयात् ॥ १६ ॥ गङ्गागवादी दानेन तरन्ति पितरो यदि । तत्रोक्ष्यन्तां प्ररोहाय गृहे दग्धा गुमास्तदा ॥ १७ ॥ गतानुगतिकैः क्लुप्तं न दद्यादुपयाचितम् । फलन्ति हन्त ! पुण्यानि पुण्याभावे मुधैव तत् ॥ १८ ॥ न कोऽपि शक्यते त्रातुं पूर्ण काले सुरैरपि । दत्तोपयाचितैस्तेषां विम्बैस्वायं महामृतम् ।।१६।। महोतं वा महाज वा श्रोत्रिपायोपकल्पयन् । दाताऽत्मानं च पात्रं च पातयेन्नरकावटे ॥ २० ॥ ददद्धर्मधिया दाता न तथाऽधेन लिप्यते । जानन्नपि यथा दोषं ग्रहीता मांसलोलुपः ॥ २१॥ अपात्रप्राणिनो हत्वा पात्रं पुष्णन्ति ये पुनः ।। अनेकभेकघातेन ते प्रीणन्ति भुजङ्गमम् ॥ २२ ॥ न स्वर्णादीनि दानानि देयानीत्यर्हतां मतम् । अन्नादीन्यपि
Education Interations
For Personal & Private Use Only
Page #386
--------------------------------------------------------------------------
________________
योग
तृतीयः प्रकाशः।
॥१८४॥
पात्रेभ्यो दातव्यानि विपश्चिता ॥ २३ ॥ ज्ञानदर्शनचारित्ररूपरत्नत्रयान्विताः । समितीः पञ्च बिभ्राणा गुप्तित्रितयशालिनः ।। २४ ॥ महाव्रतमहाभारधरणकधुरन्धराः। परीषहोपसर्गारिचमूजयमहाभटाः ।। २५ । निर्ममत्वाः शरीरेऽपि किमतान्येषु वस्तुषु । धर्मोपकरणं मक्त्वा परित्यक्तपरिग्रहाः ॥ २६ ॥ द्विचत्वारिंशता दोषैरदुष्ट भैक्षमात्रकम् । आददाना वपुर्धर्मयात्रामात्रप्रवृत्तये ॥ २७ ॥ नवगुप्तिसनाथेन ब्रह्मचर्येण भूषिताः । दन्तशोधनमा- | त्रेऽपि परस्ते विगतस्पृहाः ॥ २८ ।। मानापमानयोाभालाभयोः सुखदुःखयो । प्रशंसानिन्दयोहेपेशोकयोस्तुल्यवृत्तयः ॥ २६ ॥ कृतकारितानुमतिप्रभेदारम्भवर्जिताः । मोक्षकतानमनसो यतयः पात्रमुत्तमम् ॥ ३० ॥ सम्यग्दर्शनवन्तस्तु देशचारित्रयोगिनः । यतिधर्मेच्छवः पात्रं मध्यमं गृहमेधिनः ॥ ३१ ॥ सम्यक्त्वमात्रसन्तुष्टा व्रतशीलेषु निःसहाः। तीर्थप्रभावनोद्युक्ता जघन्यं पात्रमुच्यते ॥३२॥ कुशास्त्रश्रवणोत्पन्नवैराग्यानिष्परिग्रहाः । ब्रह्मचर्यरता: स्तेयमृषाहिंसापराङ्मुखाः॥३३॥ घोरव्रता मौनजुषः कन्दमूलफलाशिनः। शिलोच्छवृत्तयः पत्रभोजिनो भैक्षजीविनः ॥ ३४ ॥ कषायवत्रा निर्वस्त्राः शिखामौण्ड्यजटाधराः। एकदण्डास्त्रिदण्डा वा गृहारण्यनिवासिनः ॥ ३५ ॥ पञ्चाग्निसाधका ग्रीष्मे गलन्तीधारिणो हिमे । भस्माङ्गरागाः खवाङ्गकपालास्थिविभूषणाः ॥ ३६ ।। स्वबुद्ध्या | धर्मवन्तोऽपि मिथ्यादर्शनषिताः। जिनधर्मद्विषो मूढाः कुपात्रं स्युः कुतीर्थिनः ॥३७ ॥ प्राणिप्राणापहरणा मृषावादपरायणाः । परस्वहरणोयुक्ताः प्रकामं कामगर्दभाः ॥ ३८॥ परिग्रहारम्भरता न सन्तुष्टाः कदाचन । मांसाशिनो मद्यरताः कोपनाः कलहप्रियाः ॥ ३९ ॥ कुशास्त्रमात्रपाठेन सदा पण्डितमानिनः । तत्वतो नास्तिक| प्राया अपात्रमिति शंसिताः ॥ ४०॥ इत्यपात्रं कुपात्रं च परिहत्य विवेकिन । पात्रदाने प्रवन्ते सुधियो मोक्ष
॥१८४॥
Jain Education Intera
For Personal & Private Use Only
Page #387
--------------------------------------------------------------------------
________________
Jain Education Inten
KK
084108498--0
काङ्क्षिणः ।। ४१ ।। दानं स्यात्सफलं पात्रे कुपात्रापात्रयोरपि । पात्रे धर्माय तच्च स्यादधर्माय तदन्ययोः ॥ ४२ ॥ पयःपानं भुजङ्गानां यथा विषविवृद्धये । कुपात्रापात्रयोदनं तद्वद्भवविवृद्धये ॥ ४३ ॥ स्वादु चीरं यथा क्षिप्तं कवला बुनि दुष्यति । दानं दत्तं शुद्धमपि कुपात्रापात्रयोस्तथा ॥ ४४ ॥ दत्ता कुपात्रापात्राभ्यां सर्वोर्व्यपि फलाय न । पात्राय दत्तो ग्रासोऽपि श्रद्धया स्यान्महाफलः ॥ ४५ ॥ इयं मोचफले दाने पात्रापात्रविचारणा । दयादानं तु तत्त्वज्ञैः कुत्रापि न निषिध्यते ॥ ४६ ॥ शुद्ध्यशुद्धिकृता भङ्गाचत्वारः पात्रदानयोः । श्रद्यः शुद्धो द्वितीयो वैकल्पिकोऽन्यौ तु निष्फलौ ॥ ४७ ॥ दानेन भोगानानोतीत्यविमृश्यैव भाष्यते । अनर्घ्यपात्रदानस्य क्षुद्रा भोगाः कियत्फलम् ? ॥ ४८ ॥ पात्रदाने फलं मुख्यं मोक्षः सस्यं कृषेरिव । पलालमिव भोगास्तु फलं स्यादानुषङ्गिकम् ॥ ४६ ॥ जिनानां दानदातारः प्रथमे मोक्षगामिनः । धनादयो दानधर्माद्बोधिवीजमुपार्जयन् ॥ ५० ॥ जिनानां पारणे भिक्षादातृणां मन्दिराजिरे । हर्षोत्कर्षपराः सद्यः पुष्पवृष्टिं व्यधुः सुराः ॥ ५१ ॥ इत्यतिथिसंविभागव्रतमेतदुदीरितं प्रपञ्चेन । देयादेये पात्रापात्रे ज्ञात्वा यथोचितं कुर्यात् ॥ ५२ ॥ ८७ ॥
यद्यपि विवेकिनः श्रद्धावतः सत्पात्रदाने साक्षात्पारम्पर्येण वा मोक्षः फलं, तथापि मुग्धजनानुग्रहार्थं पात्रदानस्य प्रासङ्गिकं फलमाह -
पश्य सङ्गमको नाम सम्पदं वत्सपालकः । चमत्कारकरीं प्राप मुनिदानप्रभावतः ॥ ८८ ॥
( १ ) न त्वपात्रकुपात्रयोः इति वा पाठः
For Personal & Private Use Only:
01-0.08-10-08
Page #388
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
पश्येत्यनेत मुग्धबुद्धिमभिमुखयति । सङ्गमको नामेति सङ्गमकाभिधानः, वत्सपालो वत्सपालनजीवकः, तृतीया चमत्कारकरी सम्पदं प्राप; कुतः ? मुनिदानप्रभावतः । अत्र सङ्गमकस्य पारम्पर्येण मोक्षोऽपि फलमस्ति, तथापि
प्रकाशः। प्रासङ्गिकफलाभिधानरमसेन स नोक्तः । सङ्गमकचरितं च सम्प्रदायगम्यम् । स चायम्॥१८५॥
मगधेष्वस्ति निःसीमरनप्राग्भारभासुरम् । पुरं समुद्रवद्राजगृहं कुलगृहं श्रियः ॥ १॥ राजा पुरं तदपरैरनुलAI चितशासनः । शशास श्रेणिकः पाकशासनः स्वःपुरीमिव ॥ २॥ शालिग्रामेऽथ धन्येति काचिदुच्छिन्नवंशिका । त बालं सङ्गमकं नाम समादाय समाययौ ॥ ३ ॥ वसंस्तत्र स पौराणां वत्सरूपाण्यचारयत् । अनुरूपा ह्यसौ रोखा
लाना मृदजीविका ॥ ४ ॥ अथापरेधुः संजाते तत्र कर्मिंश्चिदुत्सवे । पायसं सङ्गमोऽपश्यद भुज्यमानं गहे गडे | ॥५॥ गत्वा स्वगेहे जननी ययाचे सोपि पायसम् । साऽप्युवाच दरिद्रामि मद्हे पायसं कुतः ?॥६॥ [4] बालेन तेनाज्ञतया याच्यमाना मुहुर्मुहुः । स्मरन्ती पूर्वविभवं तारतारं रुरोद सा ॥ ७॥ तस्या रुदितदःखेनान| विद्धहृदया इव । आगत्य प्रातिवेश्मिन्यः पप्रच्छुर्दुःखकारणम् ॥८॥ ताभ्योऽभ्यधत्त सा दुःखकारणं गद्दारैः। क्षीराद्यदुश्च तास्तस्यै साऽपचत् पायसं ततः ॥६॥ खण्डाज्यपायसैर्भूत्वा स्थालं बालस्य तस्य सा। आर्पयत्प्रययौ चान्तर्गृहं कार्येण केनचित् ।।१०॥ अत्रान्तरे च कोऽप्यागान्मुनिर्मासमुपोषितः । पारणाय भवोदन्वचारणायास्य नौरिव ॥ ११ ॥ सोचिन्तयदिदं चिन्तामाणिक्यमिव चेतनम् । जङ्गमः कल्पशाखीव कामधेनुरिवापशुः॥१२॥ साधु साधु महासाधुर्मद्भाग्यैरयमाययौ । कुतोऽन्यथा वराकस्य ममेहपात्रसङ्गमः ॥१३॥ भाग्योदयेन केनापि । ममाद्य समपद्यत । चित्तं वित्तं च पात्रं च त्रिवेणीसङ्गमो ह्ययम् ॥ १४ ॥ इत्यसौ स्थालमुत्पाठ्य पायसं साधवे १८५॥
Jain Education inter
For Personal & Private Use Only
Page #389
--------------------------------------------------------------------------
________________
ददौ । जग्राहानुग्रहायास्य महाकारुणिको मुनिः ॥ १५ ।। ययौ च स मुनि हान्मध्याद धन्या पि निर्ययो । मन्ये भुक्तमनेनेति ददौ सा पाय पुनः ।।१६। तत्पाथममतृप्तः मन्नाकष्टं बुभुजेच मः। तदजीर्णेन यामिन्या स्मरन् साधुं व्यपद्यत ॥ ७॥ तेन दानप्रभावे सोऽथ राजगृहे पुरे। गोभद्रेभाम्य भार्या या भद्राया उदरेऽभवद १८। शालिक्षेत्रं सुनिष्पन्न समेऽपश्यञ्च सा ततः। भर्तुः शशंस सोऽप्यस्याः धनुः स्थादित्यचीकथत् ।। १ । बदानधर्मकर्माणि करोमीति वभार मा दोहदं तं तु गोभद्रः पूरयामास मद्रधीः ।। २. ॥ पूर्णे काले लो या द्युतियोतितदिग्मुखम् । कासून तनयं रत्नं विदूरं गिरिभूरिख ॥ २१॥ दृष्टसमानुसारेण सूनोस्तस्य शुभे दिने । चक्रतुः पितरौ शालिभद्र इत्यभिधा शुभाम् ॥ २२ । धात्रीभिः पञ्चभिः पाल्यमानः स वृधे क्रमात् । किञ्चिद नाष्टवः सन् पित्राऽप्यध्यापितः कलाः ।। २३ ।। संप्राप्तयौवनचासो युवतीजनवल्लभः । सवयोभिः सम रेमे प्रद्यन्न इव नूतनः ॥२४॥ तत्पुरश्रेष्ठिनोऽथैत्य कन्या द्वात्रिंशतं निजाः । प्रदातुं शालिभद्राय भद्रानाथं ययाचिरे ।।२५।। अथ ग्रहष्टो गोभद्रः शालिभद्रेण मादरम । सर्वलक्षणसंपूणोंः कन्यकाः पर्यशाययत ॥ २६ ॥ शालिभद्रस्ततो रम्ये विमान इव मन्दिरे । विललास समं ताभिः पतिर्दिविषदामिव ।। २७ ॥ विवेदानन्दमग्नोऽयं न रात्रिं न च वासरम् । तस्यापूरयतां भोगसामग्री पितरौ स्वयम् ।। २८ । श्रीवीरपादमूलेऽथ गोभद्रो व्रतमग्रहीत् । कृत्वा चानशनं मृत्वा देवलोकं जगाम च ॥ २६ ॥ अवधिज्ञानतो ज्ञात्वा शालिभद्रं निजात्मजम् । तत्पुण्यावर्जितः सोऽमृत्पुत्रवात्सल्यतत्परः ॥ ३० ॥ दिव्यानि वस्त्रनेपथ्यादीन्यस्य प्रतिवासरम् । सभार्यस्यार्पयामास कल्पशाखीव सोऽमरः ॥३१॥ यद्यन्मोचितं कार्य भद्रा तत्तदसाधयत् । पूर्वेदानप्रभावेण भोगान् सोऽभुङ्क्त केवलम् ॥३२॥
Education Interations
For Personal & Private Use Only
Page #390
--------------------------------------------------------------------------
________________
योगशास्त्रम्
तृतीया प्रकाशः।
॥१८६॥
वणिग्भिः कैश्चिदन्येद्यगृहीत्वा रनकम्बलान । शिश्रिये श्रेणिकस्तांश्च महार्घत्वेन नाग्रहीत् ।।३३।। ततस्ते वणिजो जग्मुः शालिभद्रनिकेतनम् । तदुक्तार्पण तान भद्राऽप्यग्रहीद्रनकम्बलान् ॥३४॥ मद्योग्यो गृह्यतामेको महामन्योऽपि कम्बलः । इत्युचे चेल्लणादेव्या तदा च श्रेणिको नृपः ॥ ३५ ॥ राज्ञापि मूल्यपूर्व ते कम्बलं वणिजोर्थिताः । भद्रा जग्राह तान् सर्वान् कम्बलानित्यंचीकथन ॥ ३६॥ श्रेणिकः प्राहिणोदेकं प्रवीणं पुरुषं ततः। भद्रापार्थे मून्यदानात्कम्बलादानहेतवे ॥ ३७॥ याचिता तेन भद्रोचे छित्त्वा तान् रत्नकम्बलान् । शालिभद्रप्रियापादप्रोञ्छनीकृतवत्यहम् ।। ३८॥ कार्य निष्पद्यते किश्चिजीणैश्चेद्रनकम्बलैः। तद्गत्वाऽऽपृथ्य राजानमागच्छामून् गृहाण च॥३६॥ आख्यद्गत्वा स तद्राक्षे रायूचे चेल्लणाऽप्यदः । पश्यास्माकं वणिजां च 'रीरिहेनोरिवान्तरम् ॥४०॥ तमेव पुरुषं प्रेष्य श्रेणिकेन कुतूहलात् । आकारिते शालिभद्रे भद्रोपेत्य व्यजिज्ञपत् ॥४१॥ बहिर्न हि महीनाथ ! जातु याति मदात्मजः। प्रसादः क्रियतां देव! मद्गहागमनेन मे ॥४२॥ कौतूहलाच्छ्रेणिकोऽपि तत्तथा प्रत्यपद्यत । तं च क्षणं प्रतीक्ष्याथ साग्रे भूत्वा गृहं ययौ ॥४३॥ विचित्रवस्त्रमाणिक्यचित्रकत्वमयीं ततः। श्राराजहh
स्वगृहाददृशोभा व्यधत्त सा॥४४॥ तयाऽऽहूतस्ततो राजा कृतां सद्यः सुरैरिव । विभावयन् हट्टशोभा शालिH भद्रगृहं ययौ ॥४॥ स्वर्णस्तम्भोपरि प्रेडदिन्द्रनीलाश्मतोरणम् । मौक्तिकस्वस्तिकश्रेणिदन्तुरद्वारभूतलम् ॥४६॥
दिव्यवस्वकृतोलोचं सुगन्धिद्रव्यधूपितम् । भुवि दिव्यविमानानां प्रतिमानमिव स्थितम् ॥४७॥ तद्विवेश विशामीशो विस्मयस्मेरलोचनः । भूमिकायां चतुझं तु सिंहासन उपाविशत् ॥४८॥ सप्तम्यां भुवि भदैत्य
(१) पित्तलसुवर्णयोः ।
॥१८६॥
Latin Education inter
For Personal & Private Use Only
Page #391
--------------------------------------------------------------------------
________________
शालिभद्रं ततोऽवदत् । इहायातः श्रेणिकाऽस्ति तद्रष्टुं क्षणमंहि तत् ।। ६ । अम्ब : समय यद्वेरिख नमर्य कारय स्वयम् । किं मया तत्र कत्तव्यं स भद्राभित्यभापत ५०॥ ततो नद्राऽप्युवाचेनं क्रेतव्यं वस्तुन ह्यदः । किन्त्वसौ सर्वलोकानां युष्माकमपि व प्रभुः ।। ५२ ॥ तच्छ्रुत्वा शालिभद्रो पि सविपादमचिन् यत् । धिक् सांसारिकमैश्वयं यन्ममाप्यपरः प्रभुः ॥ ५२ । भोगिभांगेरिवेभिर्मे भोगैरलमतः परम् । दीक्षां मक्षु ग्रहीष्यामि श्रीवीरचरणान्तिके ।। ५३ ॥ एवं संवेगयुक्तोऽपि स मातुरूपरोधतः । सभार्याऽभ्येत्य राजानमनमहिनयान्वितः ॥ ५४॥ सस्वजे श्रेणिकेनाथ स्वाङ्के सुत इवासितः । स्नेहाच्छिरसि चाघ्रातः क्षणाचाOणि सोऽमुचत् ।। ५५ ।। ततो भद्रा जगादैवं देवायं मुच्यतां यतः । मानुष्यमाल्यगन्धेन मनुष्योऽप्येप बाध्यते ।। ५६ ॥ देवभूयं गतः श्रेष्ठी सभार्यस्यास्य यच्छति । दिव्यनेपथ्यवस्त्रागरागादीन् प्रतिवामरम् ।। ५७ ॥ ततो राजा विसृष्टोऽसौ ययौ सप्तमभूमिकाम् । इहैव भोक्तव्यमिति विज्ञप्तो भद्रया नृपः ।। ५८ ॥ भद्रादाक्षिण्यतो राजा प्रत्यपद्यत तत्तथा । सद्यः साऽसाधयत्सर्व श्रीमतां किं न सिध्यति ? ॥ ५६ ॥ सस्नौ स्नानीयतैलाम्बुचूर्णैस्तूर्ण ततो नृपः । अङ्गुलीयं तदङ्गुल्याः क्रीडावाप्यां पपात च ।। ६० ॥ यावदन्वेषयामास भूपतिस्तदितस्ततः । तावद्भद्राऽऽदिशदासीं वाप्य| म्भोऽन्यत्र नाय्यताम् ।। ६१ ॥ तथा कृते तया चित्रदिव्याभरण मध्यगम् । अङ्गारामं स्वाङ्गुलीयं दृष्ट्वा राजा * विसिमिये ॥ ६२ ॥ किमेतदिति राज्ञोक्ता दास्यवोचदिहान्वहम् ! । निर्माल्यं शालिभद्रस्य सभार्यस्य निधीयते
॥ ६३ ॥ सर्वथा धन्य एवैष धन्योऽहमपि संप्रति । राज्ये यस्येदृशाः सन्ति विममर्शेति भूपतिः ।। ६४ ॥ बुभुजे सपरीवारो भूभुजामग्रणीस्ततः । चित्रालङ्कारवस्त्रायैरर्चितश्च गृहं ययौ ॥६५॥ शालिभद्रोऽपि संसारविमोक्षं
in Education International
For Personal & Private Use Only
Page #392
--------------------------------------------------------------------------
________________
योग
शास्त्रम १८७॥
*-*-*-*
यावदिच्छति । अभ्येत्य धर्मसुहृदा विज्ञस्तावदीदशम् ॥ ३६ ॥ श्रगाधतुनिवरः सुरासुरनमस्कृतः मूर्ती धर्म इवोद्याने धर्मघोषामित्रो मुनिः ॥ ६७ ॥ शालिभद्रस्ततो हर्षादधिरुत्य रथं ययौ । आचार्यपादान् वन्दित्वा साधूंश्रोपाविशत्पुरः || ६८ ॥ सरिर्देशनां कुर्वन्नत्वा तेनेत्यपृच्छत । भगवन् ! कर्मणा केन प्रभुरन्यों न जायते ? ||३६|| भगवानभ्युवाचेदं दीचां गृह्णन्ति ये जनाः । श्रशेपस्यापि जनतः स्वामिभावं भजन्ति ते ॥ ७० ॥ यद्येवं नाथ ! तत्वा निजामापृच्छ्य मातरम् । ग्रहीष्यामि व्रतमिति शालिभद्रो व्यजिज्ञपत् ॥ ७१ ॥ न प्रमादो विधातव्य इत्युक्तः सूरिणा ततः । शालिभद्रों गृहं गत्वा भद्रां नत्वेत्यभाषत ॥ ७२ ॥ धर्मः श्रीमंवीपस्य सूरेरय मुखाम्बुजात् । विवदुःखविमोक्षस्योपायभूतो मया श्रुतः ॥ ७३॥ अकाः साध्विदं वत्स ! पितुस्तस्यासि नन्दनः । प्रशशंसति भद्राऽपि शालिभद्रं प्रमोदतः ।। ७४ ।। सोऽप्यवोचदिदं मातरेवं चेत्तत् प्रसीद मे । ग्रहीष्यामि व्रतमहं ननु तस्य पितुः सुतः ॥ ७५ ॥ साऽप्यवादीदिदं वत्स ! युक्तस्तेऽसौ व्रतोद्यमः । किन्त्वत्र लोहचणकावणीया निरन्तरम् ।। ७६ ।। सुकुमारः प्रकृत्याऽपि दिव्यभोगैश्व लालितः । स्यन्दनं वर्णक इव कथं त्वं वच्यसि व्रतम् ? ||७७|| शालिभद्रोऽप्युवाचैवं पुमांसो भोगलालिताः । असहा व्रतकष्टानां कातरा एवं नेतरे ||७८|| त्यज भोगान् कमान्मर्त्यमाल्यगन्धान् सहस्व च । इत्यभ्यासाद्वृतं वत्स ! गृह्णीया इत्युवाच सा ॥ ७६ ॥ शालिभद्रस्वतो भद्रावचनं प्रतिपद्य तत् । भार्यामेकां तूलिकां च मुञ्चति स्म दिने दिने ॥८०॥ इतश्च तस्मिन् नगरे धन्यो नाम महाधनः । बभूव शालिभद्रस्य कनिष्ठभगिनीपतिः ||१|| शालिभद्रस्वसा साश्रु स्वपयन्ती तु तं तदा । किं रोदिपीति तेनोक्ता जगादेति सगद्गदम् ||८२॥ व्रतं ग्रहीतुं मे भ्राता त्यजत्येकां दिने दिने । भायां च तूलिकां चाहं हेतुना तेन रोदिमि
For Personal & Private Use Only
*****
वृतीय: प्रकाश
1165811
Page #393
--------------------------------------------------------------------------
________________
८३॥ य एवं कुरुते फेरिख भारुस्तपस्व्यसो होनभत्वम्तव भ्रातत्यूचे धन्यः सनर्मकम् ।।८४ा सुकरं चेद्रतं नाथ क्रियते किं न हि त्वथा ? । एवं महासमन्याभिर्भार्याभिर्जगदेव्य सः ॥ धन्योऽप्यूचे व्रते विनो भवत्यम्ताश्च पुण्यतः । अनुसन्ध्योऽध मे भूपन प्रजिष्यामि तद् द्रुतम् ।। ८६॥ ता अप्यूचुः प्रसीदेदमस्माभिर्नर्मणोदितम् । मा म त्याक्षीः श्रियोऽमांश्च मनस्विन् ! नित्यलालिताः ॥८७।। अनित्यं स्त्रीधनाद्यतत्पोज्य नित्यपदेच्छया अवश्यं प्रव्रजिष्यामीत्यालपन धन्य उत्थितः ॥ ८ ॥ त्वामनु प्रजिष्याम एवमुक्तवतीश्च ताः। अन्वमन्यन धन्योऽपि धन्यंमन्यो महामनाः ॥ ४ ॥ इतश्च वैभारगिरौ श्रीवीरः सनवासरत । विदाञ्चकार तं सद्यो धन्यो धर्भसुहृद्गिरा ।। ६० ।। दत्तदानः सदारोऽसावारुह्य शिविकां ततः । भवभीतो महावीरचरणौ सरणं ययौ ॥ ११ ॥ सदार: सोऽग्रहीद् दीक्षां ततो भगवदन्तिके । तच्छत्वा शालिभद्रोऽपि जितंभन्यः प्रतत्वरे ।। १३॥ सोऽन्वीयमानस्तदनु श्रेणिकेन महीभुजा । उपेत्य श्रीमहावीरपादमूलेऽग्रहीद् व्रतम् ।। ६३॥ ततः सपरिवारोऽपि स्वामी सिद्धार्थनन्दनः विहरनन्यतोऽगच्छत् सयूथ इव हस्तिराट् ॥९४. धन्यश्च शालिभद्रश्च तावभूतां बहुश्रुतौ। महत्तपश्च तेपाते खड्गधारासहोदरम् ॥ १५ ।। पक्षाद् मासाद् द्विमास्यास्त्रिमास्था मासचतुष्टयात् । शरीरनिरपेक्षो तो चक्रतुः पारणं मुनी ।।॥ तपसा समजायेतां निर्मासरुधिराङ्गको । चर्मभत्रोपमा शालिभद्रधन्यौ महामुनी ।। १७ ।। अन्येाः श्रीमहावीरस्वामिना सह तो मुनी । आजग्मतू राजगृहं पुरं जन्मभुवं निजाम् ॥ १८॥ ततः समवसरणस्थित नन्तुं जगत्पतिम् । श्रद्धातिशययोगेनाच्छिन्नमीयुर्जनाः पुरात् ।।६मासपारणके शालिभद्रधन्यावुभावपि । काले विहाँ भिक्षार्थ भगवन्तं प्रणेमतुः ॥१०॥ मातृपावोत्पारणं तेऽद्येत्युक्तः स्वामिना ततः । इच्छामीति
in Education International
For Personal & Private Use Only
Page #394
--------------------------------------------------------------------------
________________
योग- मणन शालिभद्रा धन्ययुतो यया ॥१॥ गत्वा भद्राग्रहहारि तावभावपि तस्थतः। तप-क्षामतया तो च न केना कहताया माघम् । प्युपलक्षितौ ॥ २ ॥ श्रीवारं शालिभद्रं च धन्यमप्यद्य वन्दितुम् । यामीति व्याकुला भद्राऽप्यज्ञासीदुत्सुका न तौ प्रकाशः।
॥३॥ क्षणमेकमवस्थाय तत्र तो जग्मतुस्ततः । मही नगरद्वारप्रतोन्या च निरीयतुः ।। ४ ॥ तदाऽऽयान्ती पुरे तस्मिन्विक्रेतुं दधिसर्पिषी । शालिभद्रस्य प्राग्जन्ममाता धन्याऽभवत्पुरः ॥ ५ ॥ शालिभद्रं तु सा प्रेक्ष्य सञ्जातप्रस्रवस्तनी । वन्दित्वा चरणौ भक्त्या द्वाभ्यामपि ददौ दधि ॥६॥श्रीवीरस्यान्तिके गत्वा तदालोच्य कृताञ्जलिः। शालिभद्रोऽवदत्स्वामिन्मातृतः पारणं कथम् ॥७॥ सर्वज्ञोऽप्याचचक्षे ऽथ शालिभद्र ! महामुने! । प्राग्जन्ममातरं धन्यामन्यदप्यन्यजन्मजम् ।। ८ ॥ कृत्वा पारणकं दध्नोऽऽपृच्छय च स्वामिनं ततः । वैभारादि ययौ शालिभद्रो धन्यसमन्वितः ।। 8 ।। शिलातले शालिभद्रः सधन्यः प्रतिलेखिते । पादपोपगमं नाम तत्रानशनमाश्रयत् ॥ १० ॥ तदा च भद्रा तन्माता श्रेणिकश्च महीपतिः । आजग्मतुर्भक्तियुक्तौ श्रीवीरचरणान्तिकम् ।। ११ ॥ ततो भद्रावदद्धन्यशालिभद्रौ क तौ मुनी? । भिक्षार्थ नागतौ कस्मादस्मद्वेश्म जगत्पते ! ॥ १२ ॥ सर्वज्ञोऽपि वभाषे तौ
त्वद्वेश्मनि मुनी गतौ । ज्ञातौ न तु भवत्येहागमनव्यग्रचित्तया ॥ १३ ॥ प्राग्जन्ममाता त्वत्सूनोर्धन्या यान्ती * पुरं प्रति । ददौ दधि तयोस्तेन पारणं चक्रतुश्च तौ ॥ १४ ॥ उभावथ महासत्त्वौ सत्वरौ भवमुज्झितुम् । वैभारप
ते गत्वाऽनशनं तौ प्रचक्रतुः ॥ १५ ॥ श्रेणिकेन समं भद्रा वैभाराद्रिं ययौ ततः । तथास्थितावपश्यच्च तावश्मघटिताविव ॥ १६ ॥ तत्कष्टमय पश्यन्ती स्मरन्ती तत्सुखानि च । साऽरोदीद्रोदयन्तीव वैभाराद्रि प्रतिस्वनैः ॥१७॥ आयातोऽपि गृहं वत्स! मया तु स्वल्पभाग्यया । न ज्ञातोऽसि प्रमादेनाप्रसादं मा कृथा मयि ।। १८॥ यद्यपि ॥१८॥
Jain Education international
For Personal & Private Use Only
Page #395
--------------------------------------------------------------------------
________________
त्यक्तवान्नस्त्व तथापि निजदर्शनात् । आनन्दयिष्यसि दृशौ पुरेत्यासीन्मनोरथः ॥ १६ ॥ आरम्भणामुना पुत्र ! शरीरत्यागहेतुना । मनोरथं तमपि मे भक्तमस्युद्यतोऽधुना ।।२०। प्रारब्धं यत्तपस्तत्र न ते विघ्नीभवाम्यहम् । किन्त्वेतत्कशतमं शिलातलमितो भव ।।२१।। अथाचे श्रेणिको हपस्थाने किमब! रोदिपि। ईदृग् यस्याः सुतः स्त्रीषु त्वमेका पुत्रवत्यसि २२। तत्वज्ञोऽयं महासत्वस्त्यक्त्वा तृणमिव श्रियम् । प्रपेदे स्वामिनः पादान साक्षादिव परं पदम् २३ असो जगत्स्वामिशिष्यानुरूपं तप्यते तपः । मुधाऽनुतप्यते मुग्धे ! किं त्वया स्त्रीस्वभावतः ॥ २४ ॥ भद्रेवं बाधिता राज्ञा वन्दित्वा तो महामुनी । विमनस्का निजं धाम जगाम श्रेणिकस्तथा ।। २५ । मृत्वा ततस्तौ सर्वार्थसिद्धस्वर्ग बभूवतुः । सुरोत्तमौ त्रयस्त्रिंशत्सागरप्रमितायुषा ।। २६ ।। सत्पात्रदानफलसम्पदमद्वितीयां, स प्राप सङ्गमक आयतिवर्द्धमानाम् । कार्यो नरैरवितथातिथिसंविभागे, भाग्यार्थिभिननु ततः सततं प्रयत्नः ॥ १२७।।।
॥ इति सङ्गमककथानकम् ।। ८८॥
उक्तानि द्वादशवतानि, अथ तच्छेषमतिचाररक्षणलक्षणं प्रस्तोतुमाह-- व्रतानि सातिचाराणि सुकताय भवन्ति न । अतिचारास्ततो हेयाः पञ्च पञ्च व्रते व्रते ॥८६॥ ___ अतिचारो मालिन्यं तद्युक्तानि व्रतानि न सुकृताय भवन्ति, तदर्थमेवैकैकस्मिन् व्रते पञ्च पञ्चातिचाराः परिहरणीयाः । ननु सर्वविरतावेवातिचारा भवन्ति, संज्वलनोदय एव तेषामभिधानात् । यदाह--
सव्वे वि अ अइशारा संजलणाणं तु उदयतो हुँति । मूलच्छिजं पुण होइ बारसएहं कसायाणं ॥१॥ १ सर्वेऽपि च अतिचाराः संज्वलनानां तु उदयतो भवन्ति । मूलच्छेद्यं पुनः भवति द्वादशानां कषायाणाम् ॥ १ ॥
-
ike---
(
in Education International
For Personal & Private Use Only
Page #396
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥ १८६॥
Jain Education Internat
_संज्वलनोदयश्च सर्वविरतानामेव, देशविरतानां तु प्रत्याख्यानावरणोदय इति न देशविरतावतिचारसम्भवः । युज्यते चैतत्, अल्पीयस्त्वात्तस्याः, कुन्धुशरीरे व्रणाद्यभाववत् । तथाहि—
प्रथमाणुव्रते स्थूलं सङ्कल्पं निरपराधं द्विविधं त्रिविधेनेत्यादिविकल्पैर्विशेषितत्वेनातिसूक्ष्मतां गते देशाभावात्कथं देशविराधनारूपा अतिचारा भवन्तु १ अतः सर्वनाश एव तस्योपपद्यते । महाव्रतेषु तु ते संभवन्ति, महत्त्वादेव; हस्तिशरीरे व्रणपट्टबन्धादिवदिति । उच्यते – देशविरतावतिचारा न संभवन्तीत्यसङ्गतम् । उपासकदशादिषु प्रतिव्रतमातेचारपञ्चकाभिधानात् । अथ भङ्गा एव ते, न त्वतिचाराः । नैवम्, भङ्गाद्भेदेनातिचारस्यागमे संमतत्वात् । यच्चोक्तम् सर्वेऽप्यतिचाराः संज्वलनोदय एव, तत्सत्यम् । केवलम् सर्वविरतिचारित्रमेवाश्रित्य तदुच्यते, न तु सम्यक्त्वदेशविरती । यतः सब्वे वि अ अइयारा इत्यादि गाथाया एवं व्याख्या -संज्वलनानामेवोदये सर्वविरतावतिचारा भवन्ति, शेषोदये तु मूलच्छेद्यमेव तस्याम् । एवं च न देशविरतावतिचा
राभावः ॥ ८ ॥
तत्र प्रथमत्रते तानाह -
क्रोधादन्धविच्छेदोऽधिकभाराधिरोपणम्। प्रहारोऽन्नादिरोधश्चाहिंसायां परिकीर्त्तिताः ॥९०॥
हिंसायां प्रथमावते श्रमी पञ्चातिचाराः बन्धो रज्ज्वादिना गोमहिष्यादीनां नियन्त्रणम् ; खपुत्रादीनामपि विनयग्रहणार्थं क्रियते, अतः क्रोधादित्युक्तम् ; क्रोधात् प्रबलकषायोदयाद्यो बन्धः स प्रथमोऽतिचारः १ । छविः शरीरं त्वग्वा, तस्याः छेदो द्वैधीकरणम् ; स च पादवल्मीकोपहतपादस्य पुत्रादेरपि क्रियते इति क्रोधादित्य
For Personal & Private Use Only
*+++*000+1703++10
तृतीय
प्रकाशः ।
॥१८६॥
Page #397
--------------------------------------------------------------------------
________________
नुवर्नने । कांधाद्यः छविन्ले सद्वितीयोऽतिचार रे । अधिकस्य वोदुमशक्यस्य भारस्यारोपणं गो-करम-रासममनुष्यादेः स्कन्धे शिरमि वा वाहनायाधिरोपणम् : इहापि क्रोधादित्यनुवर्तते, तेन क्रोधात्तदुपलक्षितालोभावा यदधिकभारारोपणं सगीयोऽतिचारः ३ प्रहारो लगुडादिना ताडनं क्रोधादेवेति चतुर्थोऽतिचारः ४ । अन्नादि रोधो भोजनपानादेधिः क्रोधादेवेति पश्रमोतिचारः। अत्र चायमवयकायुक्तो विधिः-बन्धो द्विप दानां चतुष्पदानां का स्थान . सोऽपि सार्थकोऽनर्थको वा, तत्रानर्थकस्ताद विधातुं न युज्यते, सार्थक पुनरसौ द्विविधा, साये निरपेक्षच, तत्र सापक्षो यो दामग्रन्थिना शिथिलेन, यमदीपनादिशु मोचयितु वेत्तु वा शक्यते । निरपेदो बत् निवजगत्ययंत्र व्यते । एवं तावत् चतुष्पदानां बन्धो, द्विपदानामपि दासदामीचौरपाठादिनमत्त पुत्रादीनां यदि वन्वत्तदा सविक्रमणा एव बन्धनीया रक्षणीयाच, यथामिनपादिन विनश्यन्ति ; तथा द्विपदचतुष्पदाः श्रावण त एवं संगृहीतव्या ये अबद्धा एवालते इति । छविच्छेदशेपि तथैव, नवरम् निरपेक्षा हस्तपारकर्थनातिकादि पभिर्दयं चिनत्ति, सापेक्षः पुनर्गण्डं वा वा बिन्धाद्वा दहेति ; तथाधिकमारोऽपि नारोपवितव्यः, पूर्वमेव हि या द्विपदादिवाहनेन जीविका सा श्रावण मोक्तव्या, अथान्याऽसौ न भवेत् : तदा द्विपदोऽयं भारं स्वपक्षिति अवतारयति च तं वाद्यते, चतुष्पदस्य तु यथोचितभारः किश्चिदुनः क्रियते हलशकटादिषु पुनरुचितलायामसौ मुच्यत इति । प्रहारोऽपि तथैव, नवरम् निरपेक्षः प्रहारो निर्दयताडना, सापेक्षः पुनः श्रावकेयादित एव भीतपर्षदा भवितव्यं, यदि पुनः कोऽपि न करोति विनयं तदातं मर्माणि मुस्वा लतया देवरकेण वा मद् द्विवा ताडयेदिति । तथा अन्नपानादिरोधो न कस्यापि कर्तव्यप्तीणबुभुक्षो ह्येवं
HK4-01
in Education international
For Personal & Private Use Only
Page #398
--------------------------------------------------------------------------
________________
दृतीयः प्रकाश
मांत नियत; स्वभोजनवेलायां तु ज्वरितार्दान विना नियमत एवान्यान् विभूतान भाजयित्वा स्वयं भुञ्जीत । मास्त्रम् । अन्नादिगंधोऽपि सार्थकानर्थकभेदो रन्धयत द्रव्यः, नवरम् सापतो गंगचिकिसाथ स्यात, अप
राधकारिणि च वाचैव वदेद् --अद्य ते न दाम्यते भोजनादि । शान्तिनिमितं चोपवासादि कारयेत् । कि बहुना ? मूलगुणस्याहिंसालक्षणस्यातिचारो यथा न भवति तथा यतनया वर्तनीयम् । ननु हिंसैव श्रावण प्रत्याख्याता नतो बन्धादिकरणेऽपि न दोपो हिंसाविरतेरखण्डितत्वात्; अथ बन्धादयो पि प्रत्याख्यातास्तदा तत्करणे व्रतभङ्ग एव, विरतिखण्डनात् । किञ्च बन्चादीनां प्रत्याख्येयत्वे व्रतेयत्ता विशीर्येत प्रतिवतमतिचारव्रतानामाधिक्यादिति । एवं च न बन्धादीनामतिचारतेति । उच्यते-सन्यं, हिंसैव प्रत्याख्याता न बन्धादयः, केवलं तत्प्रत्याख्याने अर्थतस्तेऽपि प्रत्याख्याता द्रष्टव्याः, हिंसापायत्वात्तेपाम् । न च बन्धादिकरणेऽपि व्रतभङ्गः किन्त्वति चार एवं । कथम् ? इह द्विविधं व्रतम् -अन्तवृत्त्या बहिषूच्या च; तत्र मारयामीति विकल्पाभावेन यदा कोपाद्यावेशात्पर
प्राणप्रहाणमविगणयन् बन्धादौ प्रवर्तते, न च हिंसा भवति, तदा निर्दयताविरत्यनपेक्षप्रवृत्तत्वेनान्तच्या व्रतस्य1] भङ्गः, हिंसाया अभावाच्च बहिर्वृत्त्या पालनमिति देशस्य भञ्जनादेशस्यैव पालनादतिचारव्यपदेशः प्रबनते तदुक्तम्
न मारयामीति कृतव्रतस्य विनैव मृत्युं क इहातिचारः ? । निगद्यते यः कुपितो वधादीन् करोत्यसौ स्यान्नियमानपेक्षः ॥ १॥ मृत्योरभावानियमोऽस्ति तस्य कोपाड्याहीनतया तु भग्नः । देशस्य भङ्गादनुपालनाच पूज्या अतीचारमुदाहरन्ति ॥२॥
in Education international
For Personal & Private Use Only
Page #399
--------------------------------------------------------------------------
________________
यच्चोक्तम्-व्रतयत्ता विशीयत इति तद युक्तम्, विशुद्धाहिंसासद्भाव हि बन्धादीनामभाव एव । तद स्थितमतदन्धादयोऽतिचारा एव । बन्धादिग्रहणम्य चोपलक्षणवान्मन्त्रप्रयोगादयोऽन्येऽप्यतिचारतया ज्ञेयाः ॥९० ।।
अथ द्वितीयस्य व्रतस्वातिचारानाह --- मिथ्योपदेशः सहसाऽभ्याख्यानं गुह्यभाषणम् । विश्वम्तमन्त्रभेदश्च कूटलेखश्च सूनृते ॥९१॥
मिथ्योपदेशोऽसदुपदेशः, प्रतिपन्नमत्यव्रतस्य हि परपीडाकरं वचनमसत्यमेव, ततः प्रमादात्परपीडाकरणे | उपदेशे अतिचारो यथा-वाह्यन्तां खरोष्ट्रादयो हन्यन्तां दस्यव इति । यद्वा यथास्थितोऽर्थस्तथोपदेशः साधीयान्, विपरीतस्तु अयथार्थोपदेशो, यथा--परेण सन्देहापन्नेन पृष्टे न तथोपदेशः। यद्वा विवाद स्वयं परेण वा अन्यतराभिसन्धानोपायोपदेश इति प्रथमोऽतिचारः १ । सहसा अनालोच्याभ्याख्यानमसद्दोपाध्यारोपणं, यथाचौरस्त्वं पारदारिको वेत्यादि । अन्ये तु सहसाऽभ्याख्यानस्थाने रहस्याभ्याख्यानं पठन्ति; व्याचक्षते च-रह एकान्तस्तत्र भवं रहस्यं रहस्येनाभ्याख्यानमभिशंसनमसदध्यारोपणं, रहस्याभ्याख्यानं यथा-यदि वृद्धा खी ततस्तस्यै कथयति-अयं तव भर्ता तरुण्यामतिप्रसक्तः, अथ तरुणी तत एवमाह अयं ते भर्ता प्रौढचेष्टितायां मध्यमवयसि योषिति प्रसक्तः, तथाऽयं खरकामो मृदुकाम इति वा परिहसति, तथा स्त्रियमभ्याख्याति भर्तुः पुरः यथा-पत्नी ते कथयति एवमयं मां रहसि कामगर्दभः खलीकरोति, अथवा दम्पत्योरन्यस्य वा पुंसः स्त्रिया वा येन रागप्रकर्ष उत्पद्यते तेन तादृशा रहस्येनानेकप्रकारेणाभिशंसनं हास्यक्रीडादिना न त्वभिनिवेशेन; तथा सति
in Education International
For Personal & Private Use Only
Page #400
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
H१६१ ॥
Jain Education Interna
*****
व्रतभङ्ग एव स्यात् । यदाह
सहसाभक्खाणाई जाणंतो जइ करेज तो भंगो । जइ पुरा णाभोगाईहिंतो तो होइ अइयारो ॥ १ ॥ इति द्वितीयोऽतिचारः २ । तथा गुह्यं गूहनीयं न सर्वस्मै यत्कथनीयं राजादिकार्य्यसंबद्धं तस्यानधिकृतेनैवाकारेङ्गितादिभिर्ज्ञात्वाऽन्यस्मै प्रकाशनं गुह्यभाषणं यथा - एते हीदमिदं च राजविरुद्धादिकं मन्त्रयन्ते, अथवा भाषणं पैशुन्यं यथा-द्वयोः प्रीतो सत्यामेकस्याकारादिनोपलभ्याभिप्रायमितरस्य तथा कथयति यथा प्रीतिः प्रणश्यति । इति तृतीयोऽतिचारः ३ । तथा विश्वस्ता विश्वासमुपगता ये मित्रकलत्रादयस्तेषां मन्त्रो मन्त्रणं तस्य भेदः प्रकाशनं तस्यानुवादरूपत्वेन सत्यत्वात् यद्यपि नातिचारता घटते तथापि मन्त्रितार्थप्रकाशनजनितलज्जादितो मित्रकलत्रादेर्मरणादिसम्भवेन परमार्थतोऽस्यासत्यत्वात् कथञ्चिद्भङ्गरूपत्वेनातिचारतैव । गुह्यभाषणे गुह्यमाकारादिना विज्ञायानधिकृत एव गुह्यं प्रकाशयति, इह तु स्वयं मन्त्रयित्वैव मन्त्रं भिनत्तीत्यनयोर्भेदः । इति चतुर्थोऽतिचारः ४। तथा कूटमसद्भूतं तस्य लेखो लेखनं कूटलेखः, अन्यस्वरूपाक्षरमुद्राकरणम्, एतच्च यद्यपि कायेनासत्यां वाचं न वदामीत्यस्य, न वदामि न वादयामीत्यस्य वा व्रतस्य भङ्ग एव, तथापि सहसाकाराना भोगादिना अतिक्रमादिना वाऽतिचारः; अथवा असत्यमित्यसत्यभणनं मया प्रत्याख्यातमिदं पुनर्लेखनमिति भावनया व्रतसापेचस्यातिचार एवेति पञ्चमोऽविचारः ५ ।। ६१ ॥
अथ तृतीयवतातिचारानाह
( १ ) सहसाम्याख्यानादीन् जानन् यदि कुर्यात् ततो भङ्गः । यदि पुनरनाभोगादिभ्यस्ततो भवत्यविचारः ॥ १ ॥
For Personal & Private Use Only:
K++*0+++++******+*--
Rea
तृतीयः प्रकाशः ।
॥ १६२॥
Page #401
--------------------------------------------------------------------------
________________
H++i
स्नानुशा-नदानीतादानं द्विराज्यलद्धनम् । प्रतिरूपक्रिया मानान्यत्वं चास्तेयसंश्रिताः ॥६२/
स्तेनाचौरास्तेपामनुज्ञा-हरत ययमिति हरणक्रियायां प्रेरणा, अथवा स्तनापकरणानि कुशिकाकतरिकाघर्षरिकादीनि तेपामर्पणं विक्रयणं वा स्तेनानुज्ञा । अत्र च यद्यपि चौर्य न करोमिन कारयामीत्येवं प्रतिपन्नव्रतस्य स्तेनानुज्ञावतभङ्ग एव, तथापि किमधुना यूयं नियापारास्तिष्टन १. यदि वो भक्तादि नास्ति तदाहं तहदामि, भवदानीतमोपम्य वा यदि विक्रायको न विद्यते तदाऽहं विक्रष्ये, इत्येवंविधवचनैश्चौरान् व्यापारयतः स्वकल्पनया तद्वयापारणं परिहरता व्रतसापक्षस्यासावतिचारः । इति प्रथमोऽतिचार: १ । तथा तच्छब्दन स्तेनपरामर्शः स्तेनैरानीतमाहृतं कनकवस्त्रादि तस्यादानं ग्रहणं मृन्येन मुधिकया वा तदानीतादानं, स्तेनानीतं हि काणक्रयेण मुधिकया वा प्रच्छन्नं गृहंश्चोरो भवति, ततश्चौर्य करणाद्वतभङ्गः; वाणिज्यमेव मया क्रियते न चौरिकेत्यध्यवसायेन व्रतसापेक्षत्वान्न तद्भङ्ग इति भङ्गामङ्गरूपोऽतिचारः। इति द्वितीयः २ तथा द्विषोविरुद्धयो राज्ञोरिति शेषः, राज्य नियमिता भूमिः कटकं वा, तस्य लङ्घनं व्यवस्थाऽतिक्रमः, व्यवस्था च परस्परविरुद्धराज कृतैव, तल्लञ्चनं चान्यतरराज्यनिवासिन इतरराज्ये प्रवेशः, इतरराज्यनिवासिनो वा अन्यतरराज्ये प्रवेशः, द्विराज्यलङ्घनस्य यद्यपि स्वस्वामिना अननुज्ञातस्य सामिजीवादत्तं तित्थयरेणं तहेव य गुरुहिं'
इत्यदत्तादानलक्षणयोगेन तत्कारिणां च चौर्यदण्डयोगेन अदत्तादानरूपत्वागतभङ्ग एव, तथापि द्विराज्यलङ्घनं Ful कुर्वता मया वाणिज्यमेव कृतं न चौर्यमिति भावनया व्रतसापेक्षत्वाल्लोके च चौरोऽयमिति व्यपदेशाभावादतिचा
(१) स्वामिजीवादत्तं तीर्थकरेण तथैव च गुरुभिः ।
in Education International
For Personal & Private Use Only
Page #402
--------------------------------------------------------------------------
________________
योगशास्त्रम्।
तृतीया प्रकाशः
॥१॥२॥
रता। इति ततीयः३। तथा प्रतिरूपं सदृशं व्रीहीणां पलन्जिः, घृतस्य वसा, हिलोः खदिरादिवेष्टः, तैलस्य मृत्रं, जात्यसुवर्णरूप्ययोयुक्तिसुवर्णरूप्ये, इत्यादिप्रतिरूपेण क्रियाव्यवहारः, बीद्यादिषु पलङ्यादि प्रक्षिप्य तत्तद्विक्रीणीते । * यद्वा, अपहृतानां गवादीनां सशृङ्गाणामग्निपक्वकालिङ्गीफलस्वेदादिना शृङ्गाण्यधोमुखानि प्रगुणानि तिर्यग्वलितानि वा यथारुचि विधायान्यविधत्वमिव तेषामापाद्य सुखेन धारणविक्रयादि करोति । इति चतुर्थः ४ । तथा मीयतेऽनेनेति मानं कुडवादि, पलादि, हस्तादि, तस्यान्यत्वं हीनाधिकत्वं, हीनमानेन ददाति, अधिकमानेन गृहाति । इति पञ्चमः ५ । प्रतिरूपक्रिया मानान्यत्वं च परव्यसनेन परधनग्रहणरूपत्वाद्भङ्ग एव, केवलं खात्रखननादिकमेव | चौर्य प्रसिद्धं, मया तु वणिक्कलैव कृतेति भावनया व्रतरक्षणोद्यतत्वादतिचारावेवेति । अथवा स्तेनानुज्ञादयः | पश्चाप्यमी व्यक्तचौर्यरूपा एव, केवलं सहसाकारादिना अतिक्रमव्यतिक्रमादिना वा प्रकारेण विधीयमाना
अतिचारतया व्यपदिश्यन्ते । न चैते राजसेवकादीनां न सम्भवन्ति, तथाहि-आद्ययोः स्पष्ट एव सम्भवः, द्विाज्यलङ्घनं तु यदा सामन्तादिः कश्चित् स्वस्वामिनो वृत्तिमुपजीवति, तद्विरुद्धस्य च सहायो भवति, तदाऽस्यातिचारो भवति । प्रतिरूपक्रिया मानान्यत्वं च यदा राजा भाण्डागारे द्रव्याणां विनिमयं मानान्यत्वं च कारयति तदा राज्ञोऽप्यतिचारो भवति । एते च पञ्चाप्यस्तेयव्रताश्रिता अतिचाराः ॥१३॥
अथ चतुर्थव्रतातिचारानाहइवरात्तागमोऽनात्तागतिरन्यविवाहनम् । मदनात्याग्रहोऽनङ्गक्रीडा च ब्रह्मणि स्मृताः ।६४॥
॥१६२।।
Education inte
For Personal & Private Use Only
Page #403
--------------------------------------------------------------------------
________________
8-04-08).).).)00-10
ब्रह्मणि ब्रह्मचर्यव्रते, एतेऽतिचाराः स्मृताः । इत्वरी प्रतिपुरुषमयनशीला, वेश्या इत्यर्थः ; सा चासावात्ता च कञ्चित्कालं भाटी प्रदानादिना संगृहीता पुंवद्भावे इत्वरात्ता । अथवा इत्वरं स्तोकमप्युच्यते, इत्वरं स्तोकमल्पमाता इत्वरात्ता, विस्पष्टपटुवत् समासः । अथवा इत्वरकालमात्ता इत्वरात्ता, मयूरव्यंसकादित्वात् समासः, कालशब्दलोपश्च । तस्यां गम आसेवनम् । इयं चात्र भावना - भाटी प्रदानादित्वरकालस्वीकारेण स्वकलत्रीकृत्य वेश्यां सेवमानस्य स्वबुद्धि कल्पनया स्वदारत्वेन व्रतसापेचचित्तत्वान्न भङ्गः, अल्पकालपरिग्रहाच्च वस्तुतोऽन्यकलत्रत्वाद्भङ्गः, इति भङ्गाभङ्गरूपत्वादित्वरात्तागमोऽतिचारः । इति प्रथमः १ । तथा अनात्ता अपरिगृहीता वेश्या स्वैरिणी, प्रोषितभर्तृका कुलाङ्गना वाऽनाथा तस्यां गतिरासेवनम् । इयं चानाभोगादिना श्रतिक्रमादिना वा अतिचारः । इमौ चातिचारौ स्वदारसन्तोषिण एव, न तु परदारवर्जकस्य; इत्वरात्ताया वेश्यात्वेन श्रनात्तायाः स्वनाथतयैवापरदारत्वात्, शेषास्त्वतिचारा द्वयोरपि इदं च सूत्रानुपाति । यदाहुः - " सदारसंतोसस्स इमे पञ्च अइयारा जाणिव्वा न समायरिश्रव्वा । "
अन्ये त्वाहुः - इत्वरात्तागमः स्वदारसन्तोषवतोऽतिचारस्तत्र भावना कृतैव, अनात्तागतिस्तु परदारवर्जिनः । अनाचाहि वेश्या, यदा तां गृहीतान्यसक्तभाटिकामभिगच्छति, तदा परदारगमनजन्यदोषसम्भवात् कथञ्चित् परदारत्वाच्चाभङ्गत्वेन भङ्गाभङ्गरूपोऽतिचारः । इति द्वितीयः २ । तथाऽन्येषां स्वस्वापत्यव्यतिरिक्तानां विवाहनं विवाहकरणं कन्याफलालिप्सया, स्नेहसम्बन्धादिना वा परिणयनविधानम् । इदं च स्वदारसन्तोषवता ( १ ) स्वदारसन्तोषस्येमे पञ्चातिचारा ज्ञातव्याः, न समाचरितव्याः ।
22
For Personal & Private Use Only
卞下著
Page #404
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥ १६३॥
स्वकलत्रात परदारवर्जफेन च स्वकलत्रवेश्याभ्यामन्यत्र मनोवाकायमैथुनं न कायं न च कारणीयमिति यदा प्रतिपन्नं व्रतं भवति तदा अन्यविवाहकरणं मैथुनकारणमर्थतः प्रतिषिद्धमेव भवति, तद्बती तु मन्यते-विवाह
प्रकाशः। एवायं मया विधीयते न मैथुनं कार्यते इति व्रतसापेक्षत्वादतिचार इति, कन्याफललिप्सा च सम्यग्दृष्टेरव्युत्पन्नाऽवस्थायां सम्भवति, मिथ्यादृष्टस्तु भद्रकावस्थायामनुग्रहार्थ व्रतादाने सा सम्भवति । नन्वन्यविवाहनवत स्वापत्यीववाहनेऽपि समान एव दोषः ? सत्यम् , यदि स्वकन्याया विवाहो न कार्यते, तदा स्वच्छन्दचारिणी स्यात् , ततश्च शासनोपघातः स्यात् ; विहितविवाहा तु पतिनियन्त्रितत्वेन न तथा स्यात् । परेऽप्याहुः
पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रस्तु स्थविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥१॥
यस्तु दाशार्हस्य कृष्णस्य चेटकराजस्य च स्वापत्येष्वपि विवाहनियमः श्रूयते, स चिन्तकान्तरसद्भावे | द्रष्टव्यः । अन्ये त्वाहुः-अन्यस्य कलत्राऽन्तरस्य विशिष्टसन्तोषाभावात् स्वयं विवाहनमन्यविवाहनम् । अयं स्वदारसन्तुष्टस्याऽतिचारः । इति तृतीयः३। मदने कामेऽत्याग्रहः परित्यक्तान्यसकलव्यापारस्य तदध्यवसायतः योषामुखकक्षोरूपस्थान्तरेष्ववितृप्ततया प्रक्षिप्य प्रजननं महती वेलां निश्चलो मृत एवास्ते, चटक इव चटकायां मुहुर्मुहुर्योषायामारोहति, जातबलक्षयश्च वाजीकरणान्युपयुक्ते; अनेन खन्वौषधप्रयोगेण गजप्रसेकी तुरगावमर्दीव पुरुषो भवतीति बुद्ध्या । इति चतुर्थः ४ । तथा अनङ्गः कामः, स च पुंसः स्त्रीनपुंसकेषु। सेवनेच्छा, हस्तकर्मादीच्छा वा वेदोदयात् । योषितोऽपि योषिन्नपुंसकपुरुषासेवनेच्छा हस्तकर्मादीच्छा वा, नपुंसकस्यापि नपुंसकपुरुषस्त्रीसेवनेच्छा हस्तकर्मादीच्छा वा । एषोऽनङ्गो नान्यः कश्चित् तेन तस्मिन् ॥१६
in Education Internat
For Personal & Private Use Only
Page #405
--------------------------------------------------------------------------
________________
1411814-08-1996-19)
वा कीडा रममनङ्गीडा । यद्वा श्रहाय्यैः काष्ठपुस्तकलमृत्तिकाचमादिभिर्घटितः प्रजनन स्वलिङ्गन कृतकृत्योऽपि योषितामबाच्यदेशं भूयो भूयः कुधानि केशाकर्षण प्रहारदानदन्तनखकदर्थनादिप्रकारच मोहनीयकर्मावेशान तथा क्रीडति यथा बलवान् रामः प्रसूयते । अथवा देहावयवो मैथुनापेया योनिर्मेहनं वातिरिक्तान्यङ्गानि कुचकक्षोरुवदनादीनि तेषु कीडा अनङ्गक्रीडा । इह च श्रावको त्यन्तपापभीरुतया च चिकीर्षुरपि यदा वेदोदयासहिष्णुता तद्विधातुं न शक्नोति तदा यापनामात्रार्थं स्वदारसन्तोपादि प्रतिपद्यते । मैथुनमात्रेणैव च यापनायां सम्भवन्त्यां मदनात्याग्रहानङ्गक्रीडे अर्थतः प्रतिषिद्धे । तत्सेवने न च कश्चिद्गुणः प्रत्युत तात्कालिकी छिद्रा राजयक्ष्मादयश्व रोगा दोषा एव भवन्ति । एवं प्रतिषिद्धाचरणाद्भङ्गां नियमाबाधनाच्चाभङ्ग इत्यतिचारावेतौ । अन्येत्वन्यथाऽतिचारद्वयमपि भावयन्ति - स हि स्वदारसन्तोषी मैथुनमेव मया प्रत्याख्यातमिति स्वकल्पनया वेश्यादौ तत् परिहरति, नालिङ्गनादि; परदारविवर्जaise परदारेषु मैथुनं परिहरति, नालिङ्गनादि; इति कथञ्चिदत सापेक्षत्वादतिचारौ । एवं स्वदारसन्तोषिणः पश्चातिचाराः परदारवर्जकस्य तूत्तरे त्रय एवेति स्थितम् । अन्ये त्वन्यथाऽतिचारान् विचारयन्ति यथा
परदारवजिणो पञ्च हुन्ति तिष्ठ उ सदारसंतुट्टे । इत्थीउ तिथि पञ्च व भंगविगप्पेहि अइयारा ॥ १ ॥ इत्वरकालं या रे भाय्यादिना परिगृहीता वेश्या, तां गच्छतः परदारवर्जिनो भङ्गः, कथञ्चित् परदारत्वालोके तु परदारत्वारूढेर्न भङ्ग इति भङ्गाभङ्गरूपोऽतिचारः । अपरिगृहीतायामनाथकुलाङ्गनायां या गतिः ( १ ) परदारवर्जिनः पञ्च भवन्ति त्रयस्तु स्वदारसन्तुष्टे । स्त्रियास्त्रयः पञ्च वा भङ्गविकल्पैरतिचाराः ॥ १ ॥
तस्या
For Personal & Private Use Only
123
*4*10*-*-*-*-***•
Page #406
--------------------------------------------------------------------------
________________
योग
शास्त्रम् ॥ १६४ ॥
Jain Education Internat
परदारवर्जिनः सोऽप्यतिचारः; तत्कल्पनयाऽपरस्य भर्तुरभावेनापरदारत्वादभङ्गः, लोके च परदारतया रूढेर्भङ्ग इति पूर्ववदतिचारः । शेषास्तु त्रयो द्वयोरपि भवेयुः, स्त्रियास्तु स्वपुरुषसन्तोषपरपुरुषवर्जनयोर्न भेदः; स्वपुरुषव्यतिरेकेणाऽन्येषां परपुरुषत्वात् । अन्यविवाहनादयस्तु त्रयः खदारसन्तोषिण इव स्वपुरुषविषयाः स्युरिति पञ्च वा । कथम् ? आद्यस्तावद्यदा स्वकीयपतिर्वारकदिने सपत्न्या परिगृहीतो भवति, तदा सपत्नीवारकं विलुप्य तं परिभुखानाया अतिचारः, द्वितीयस्त्वतिक्रमादिना परपुरुषमभिसरन्त्या अतिचारः, ब्रह्मचारिणं वा स्वपतिमतिक्रमादिनाऽभिसरन्त्या अतिचारः । शेषास्त्रयः स्त्रियाः पूर्ववत् ॥ ६४ ॥
अथ पञ्चमव्रतस्याऽतिचारानाह
धनधान्यस्य कुप्यस्य गवादेः क्षेत्रवास्तुनः । हिरण्यहेम्नश्च संख्याऽतिक्रमोऽत्र परिग्रहे ॥६५॥ sex श्रावधर्मोचिते परिग्रहवते यः संख्याऽतिक्रमः सोऽतिचारः कस्य कस्येत्याह - घनं गणिमधरिममेयपरीक्ष्यलक्षणम् । यदाह
गणिमं जाईफलफोप्फलाइ धरिमं तु कुङ्कुमगुडाइ । मेज्जं चोप्पडलोयाइ रयणवत्थाइ परिच्छेजं ॥ १ ॥ धान्यं सप्तदशविधम् । यदाह
" व्रीहिर्यवो मसूरो गोधूममुद्गमाषतिलचणकाः । अणवः प्रियङ्गुकोद्रवमकुष्टकाः शालिराढक्यः ॥ १ ॥ ( १ ) गणिमा जातिफलपूगफलादि धरिमा तु कुङ्कुमगुडादि । मेयं प्रक्षणलवणादि रत्नवस्त्रादि परिछेद्यम् ॥
१ ॥
For Personal & Private Use Only
1-1-18/018+X+X.OK+*K
तृतीयः
प्रकाशः !
॥ १६४ ॥
Page #407
--------------------------------------------------------------------------
________________
****+UK+00
किञ्च कलायकुलत्थी सणस सदशानि धान्यानि ।
"
वनं च धान्यं व धनधान्यं तस्य धनधान्यस्य । श्रोत समाहानिर्देशः परिग्रहस्य पञ्चविधत्वज्ञापनार्थः । तथा सति ह्यतिचारपञ्चकं योजं भवति । कुप्यं रूप्यसुवर्णव्यतिरिक्तं कांस्यलोहता मीत्रपुमृद्भाण्डत्वचि सारविकारोदङ्किकाष्ठमञ्चकमचि काम सूरकरथशकटहलप्रभृति द्रव्यं तस्य कुप्यस्य । गौरनड्वाननङ्घाही च स आदिस्य द्विपदचतुष्पदवर्गस्य स गवादिः । यादिशब्दान्महिमेपाऽविककर भरास मतुरगहस्त्यादिचतुष्पदानां हंममयूरकुर्कुटशुकसारिकापारापतचकोरादिपक्षिद्विपदानां पत्नी उपरुद्धादासीदासकर्मकरपदात्यादिमनुष्याणां च संग्रहः । क्षेत्रं सस्योत्पत्तिभूमिः, तत् त्रिविधं नेतुकेतुभय भेदात् । तत्र सेतुक्षेत्रं यदरघट्टादिजलेन सिच्यते, केतुक्षेत्रमाकाशोदकपातनिष्पाद्य सस्यम्; उभयमुभयजल निष्पायसम्यम् । वास्तु गृहादि ग्रामनगरादि च । तत्र गृहादि त्रिविधं; खातं भूमिगृहादि, उच्छ्रितं प्रासादादि, खातोच्छ्रितं भूमिगृहस्योपरि गृहादिनन्निवेशः। क्षेत्रं च वास्तु समाहारद्वन्द्वः । तथा हिरण्यं रजतं, घटितं अघटितं चानेकप्रकारं पात्र्यादि, एवं सुवर्णमपि, हिरण्यं च हेम चेत्य त्रापि समाहारः । संख्या व्रतकाले यावज्जीवं चतुर्मासादिकालावधि वा यत्परिमाणं गृहीतं तस्या अतिक्रम उल वनं संख्यातिक्रमोऽतिचारः ॥ ६५ ॥
चेति
ननु प्रतिपन्नत्रतसंख्याऽतिक्रमो भङ्ग एव स्यात् कथमतिचारः ? इत्याहबन्धनाद्तो गर्भायोजनाद् दानतस्तथा । प्रतिपन्नत्रतस्यैष पञ्चधाऽपि न युज्यते ॥ ६६॥ न साक्षात् संख्याऽतिक्रमः किन्तु व्रतसापेक्षस्य बन्धनादिभिः पञ्चभिर्हेतुभिः स्वबुद्ध्या व्रतभङ्गमकुर्वत
For Personal & Private Use Only
**01***
Page #408
--------------------------------------------------------------------------
________________
तृतीय। प्रकाश
योग- एवातिचारो भवतिः बन्धनादयश्च यथासंख्येन धनधान्यादीनां परिग्रहविषयाणां सम्बध्यन्ते । तत्र धनधान्यस्य
F] बन्धनात संख्यातिक्रमो यथा-कृतधनधान्यपरिमाणस्य कोऽपि लभ्यमन्यद्वा धनं धान्यं वा ददाति, तच्च व्रत
भङ्गभयाच्चतर्मास्यादिपरतो गृहगतधनादिविक्रये वा कृते ग्रहीष्यामीति भावनया बन्धनात्, यन्त्रणात रज्ज्वा॥१५॥
दिसंयमनात, सत्यकारदानादिरूपाद्वा स्वीकृत्य तद्गृह एव तत् स्थापयतोऽतिचारः१। कुप्यस्य भावतः संख्याsतिक्रमो यथा-कुप्यस्य या संख्या कृता तस्याः कथञ्चिद् द्विगुणत्वे सति व्रतभङ्गभयाद् भावतो द्वयोवयोर्मीलनेन एकीकरणरूपात पर्यायान्तरात स्वाभाविकसंख्यावाधनात् संख्यामात्रपूरणाचातिचारः । अथवा भावतोऽभिप्रायादथित्वलक्षणाद्विवक्षितकालावधेः परतो ग्रहीष्यामि अतो नान्यस्मै देयमिति पराप्रदेयतया व्यवस्थापयतोऽतिचारः २ । तथा गोमहिषीषडवादेविवक्षितसंवत्सराद्यवधिमध्य एव प्रसवे अधिकगवादिभावाद् व्रतभङ्गः स्यादिति तद्भयात कियत्यपि काले गते गर्भतो गर्भग्रहणाद्गर्भस्थगवादिभावेन बहिस्तदभावेन कथञ्चिद्वतभङ्गाद व्रतिनोऽतिचारः ३ । तथा क्षेत्रवास्तुनो योजनात क्षेत्रवास्त्वन्तरमीलनाद्गहीतसंख्याया अतिक्रमोऽतिचारः । तथाहि-किलैकमेव क्षेत्रं वास्तु चेत्यभिग्रहवतोऽधिकतरतदभिलाषे सति व्रतभङ्गभयात् प्राक्तनक्षेत्रवास्तुप्रत्यासन्नं तद् गृहीत्वा पूर्वेण सह तस्यैकत्वकरणार्थ वृत्ति( ति )भित्त्याद्यपनयनेन तत्तत्र योजयतो व्रतसापेक्षत्वात् कथचिद्विरतिबाधनाचातिचार:४। तथा हिरण्यहेनोदानाद्वितरणाद् गृहीतसंख्याया अतिक्रमः । यथा केनापि चतुर्मासाद्यवधिना हिरण्यादिसंख्या प्रतिपन्ना, तेन च तुष्टराजादेः सकाशात् तदधिकं तल्लब्धं तदन्यस्मै व्रतभङ्गभयाद् ददाति पूर्णेऽवधौ ग्रहीष्यामत्यिभिप्रायेणेति व्रतसापचत्वादतिचारः । एष गृहीतसंख्याऽतिक्रमः, पञ्चधा
॥ १६५॥
Jain Education internat
For Personal & Private Use Only
Page #409
--------------------------------------------------------------------------
________________
**
ऽपि पञ्चभिरपि प्रकारः, प्रतिपन्नवतस्य श्रावकम्य ने युज्यते, कतुमिति शेषः, व्रतमालिन्यहेतुत्वान् । पञ्चधेत्यु पलक्षण मन्येषां महसाकारानाभागादीनाम् । उक्ता अणुव्रतानां प्रत्येकं पञ्च पश्चातिचाराः ५॥६६॥
अथ गुणवतानामवसरः तत्रापि प्रथमगुणव्रतस्य दिग्वितिलक्षणस्याऽतिचारानाह - स्मृत्यन्तर्धानमूर्वाधस्लियं ग्भागव्यतिक्रमः । क्षेत्रवृद्धिश्च पञ्चति स्मृता दिग्विरतिव्रते ॥९॥
दिभिरतिवत पञ्चातिचाराः, इत्यनेन रूपेण, स्मृताः पूर्वाचाय्यः । तद्यथा-स्मृतोजनशतादिरूपदिपरिमाणविषयाया अतिप्याकुलत्वप्रमादित्वमत्यपाटवादिनाऽन्तर्धानं भ्रंशः । तथाहि ... केनचित् पूर्वस्यां दिशि नयोजनशतरूपं परिमाणं कृतमासीत् , गमनकाले च स्पष्टतया न स्मरति, किं शतं परिमाणं कृतमुत पञ्चाशत् ?
तस्य चैवं पञ्चाशतमतिकामतोऽतिचारः शतमतिकामतो भङ्गः, सापेक्षवानिरपेक्षत्वाचेति । तस्मात् स्मर्तव्यमेव गृहीतव्रतं, स्मृतिमूलं हि सर्वमनुष्ठानमिति प्रथमोऽतिचारः १ । तथा ऊर्च पर्वततरुशिखरादेः, अधो ग्रामभूमिगृहकूपादेः, तिर्यक् पूर्वादिदिक्षु, योऽसौ भागो नियमितः प्रदेशः तस्य व्यतिक्रमः; एत त्रयोऽतिचाराः । यसूत्रम्-" उदिसिपमाणाइक्कमे अहोदिसिपमाणाइक्कमे तिरियदिसिपमाणाइक्कमे " इति । एते च अनाभोगोतिक्रमादिभिरेवाऽतिचारा भवन्ति, अन्यथाप्रवृत्ती तु भङ्गा एव । यस्तु न करोमि न कारयामीति वा नियम करोति, स विवक्षितक्षेत्रात् परतः स्वयं गमनतः परेण नयनानयनाभ्यां च दिप्रमाणातिक्रमं परिहरति, तदन्य
(१) उर्ध्वदिकममाणातिक्रमोऽधोदिकप्रमाणातिक्रमस्तिर्यदिक्प्रमाणातिक्रमः ।।
in Education Interations
For Personal & Private Use Only
Page #410
--------------------------------------------------------------------------
________________
योगशास्रम्
1-06-0+C/84-13++0.3+0
स्य तु तथाविधप्रत्याख्यानाऽभावात् परेण नयनानयनयोर्न दोषः २ । ३ । ४ । तथा क्षेत्रस्य पूर्वादिदेशस्य दिग्व्रतविषयस्य ह्रस्वस्य सतः वृद्धिर्वर्धनं पश्चिमादि क्षेत्रान्तरपरिमाण प्रक्षेपेण दीर्घीकरणं क्षेत्रवृद्धिरिति पञ्चमोऽतिचारः । तथाहि — केनापि पूर्वापरदिशोः प्रत्येकं योजनशतं गमनपरिमाणं कृतं स चोत्पन्नप्रयोजन एकस्यां दिशि नवतिं # १६६ ॥ हैं योजनानि व्यवस्थाप्य अन्यस्यां दिशि तु दशोत्तरयोजनशतं करोति, उभाभ्यामपि प्रकाराभ्यां योजनशतद्वयरूपस्य परिमाणस्याव्याहतत्वादित्येवमेकत्र क्षेत्रं वर्धयतो व्रतसापेक्षत्वादतिचार इति । यदि वाऽनाभोगात् क्षेत्रपरिमाणमतिक्रान्तो भवति तदा निवर्तितव्यं, ज्ञाते वा न गन्तव्यम्, अन्योऽपि न विसर्जनीयः । अथानाज्ञया तो भवेत् तदा यत् तेन लब्धं, स्वयं वा विस्मृतितो गतेन लब्धं तत् परिहर्तव्यम् ॥ ६७ ॥ or द्वितीयगुणत्रतस्य भोगोपभोगमानरूपस्यातिचारानाह
Jain Education Intemation
सचित्तस्तेन सम्बद्धः सन्मिश्रोऽभिषत्रस्तथा । दुष्पक्काहार इत्येते भोगोपभोगमानगाः ॥ ९८ ॥ सह चित्तेन चेतनया वर्तते यः स सचित आहार एव, आहारस्तु दुष्पकाहार इत्यस्मादाकृष्य सम्बध्यते, एवमुत्तरेष्वप्याहारशब्दो योजनीयः । सचित्तस्तु कन्दमूलफलादिः पृथ्वी कायादिर्वा । इह च निवृत्तिविषयीकृतप्रवृत्तौ भङ्गसद्भावेऽप्यतिचाराभिधानं व्रतसापेक्षस्यानाभोगातिक्रमादिना प्रवृत्तौ द्रष्टव्यम् १ । तेन सचित्तेन सम्बद्धः प्रतिबद्धः सचित्तसंबद्धः, सचेतनवृक्षादिना सम्बद्धो गुन्दादिः पकफलादिर्वा, सचित्तान्तवजः खर्जूराम्रादिः, तदाहारो हि सचित्ताहारवर्जकस्यानाभोगादिना सावद्याहारप्रवृत्तिरूपत्वादतिचारः । अथवा बीजं त्यच्यामि तस्यैव सचेतनत्वात्, कटाहं तु भक्षयिष्यामि तस्याचेतनत्वादिति बुद्ध्या पक्वं खर्जूरादिफलं मुखे प्रक्षिपतः सचिचवर्जकस्य
For Personal & Private Use Only:
000
तृतीय :
प्रकाशः।
।। १६६ ।
Page #411
--------------------------------------------------------------------------
________________
सचित्तप्रतिबद्धाहारो द्वितीयः२। तथा सचित्तेन मिश्रः शबलः आहारः सन्मिश्राहारः । यथा--आर्द्रकदाडिमबीजकुलिकाचिटिकादिमिश्रः पूरणादिः, तिलमिश्रो यवधानादिर्वा, अयमप्यनाभोगातिक्रमादिनातिचारः । अथवा सम्भवत्सचित्तावयवस्यापककणिकादेः पिष्टत्वादिना अचेतनमिति बुझ्या आहारः सन्मिश्राहारः व्रतसापेक्षत्वादतिचार इति तृतीयः ३ । अभिषवोऽनेकद्रव्यसंधाननिष्पन्नः सुरासौवीरकादिः, मांसप्रकारखण्डादिर्वा, सुरामध्वाधभिस्यन्दिवृष्यद्रव्योपयोगो वा, अयमपि सावद्याहारवर्जकस्यानाभोगातिक्रमादिनाविचार इति चतुर्थः ४ । तथा दुष्पको मन्दपकः स चासावाहारश्च दुष्पक्काहारः, स चार्धस्विन्नपृथुकतन्दुलयवगोधमस्थूलमण्डककर्कटकफलादिरैहिकप्रत्यवायकारी यावता चांशेन सचेतनस्तावता परलोकमप्युपहन्ति पृथुकादेर्दष्पकतया सम्भवत्सचेतनावयत्वात् पकत्वेनाचेतन इति मुञ्जानस्याऽतिचार इति पञ्चमः केचित् त्वपकाहारमप्यतिचारत्वेन वर्णयन्ति । अपक्कं चाग्न्यादिना यदसंस्कृतम् । एष च सचित्ताहारे प्रथमातिचारेऽन्तर्भवति । तुच्छौषधिभक्षमापण केचिदतिचारमाहुः । तुच्छौषधयश्च मुद्दादिकोमलशिम्बीरूपास्ताश्च यदि सचित्तास्तदा सचित्तातिचार एवान्तर्भवन्ति, अथ अग्निपाकादिना अचित्तास्तर्हि को दोषः १ इति । एवं रात्रिभोजनमद्यादिनिवृत्तिष्वपि अनाभोगातिक्रमादिभिरतिचारा भावनीयाः एते पश्चातिचारा भोगोपभोगपरिमाणगता बोद्धव्याः॥१८॥
अथ भोगोपभोगातिचारानुपसंहरन् भोगोपभोगव्रतस्य लक्षणान्तरं तद्गतांश्चातिचारानुपदर्शयितुमाहश्रमी भोजनतस्त्याज्याः कर्मतः खरकर्म तु। तस्मिन् पञ्चदशमलान् कर्मादानानि संत्यजेत् ।९९।।
अमी उक्तस्वरूपाः पञ्चातिचाराः, भोजनतो भोजनमाश्रित्य, त्याज्या वर्जनीयाः। भोगोपभोगमानस्य च
Lain Education interna
For Personal & Private Use Only
Page #412
--------------------------------------------------------------------------
________________
बाग
श्री
तृतीयः
शास्रम्
॥१३७॥
व्याख्यानान्तरं-भोगोपभोगसाधनं यद्रव्यं तदुपार्जनाय यत्कर्म व्यापारस्तदपि भोगोपभोगशब्देनोच्यते, कारणे कार्योपचारात । ततश्च कर्मतः कर्माश्रित्य, खरं कठोरं प्राणिवाधकं यत्कर्म कोट्टपालनगुप्तिपालनवीतपालनादिरूपं
प्रकाशः। तत्त्याज्यं, तस्मिन् खरकर्मत्यागलक्षणे भोगोपभोगव्रते, पञ्चदश मलानतिचारान् संत्यजेत। ते च कर्मादानशन्देनोच्यन्तेः कर्मणां पापप्रकृतीनामादानानि कारणानीति कृत्वा ॥ ६ ॥
तानेव नामतः श्लोकद्वयेन दर्शयतिअङ्गारवनशकटभाटकस्फोटजीविका। दन्तलाक्षारसकेशविषवाणिज्यकानि च ॥ १० ॥ यन्त्रपीडा निर्लाञ्छनमसतीपोषणं तथा । दवदानं सर शोष इति पञ्चदश त्यजेत् ॥१०१॥
जीविकाशब्दः प्रत्येक सम्बध्यते । अङ्गारजीविका १ वनजीविका २ शकटजीविका ३ भाटकजीविका ४ म्फोटजीविका ५। उत्तरार्धेऽपि वाणिज्यशब्दः प्रत्येकमभिसम्बध्यते । दन्तवाणिज्यं ६ लाक्षावाणिज्यं ७ रसवाणिज्यं ८ केशवाणिज्यं ६ विषवाणिज्यं १० यन्त्रपीडा ११ निर्लाञ्छनं १२ असतीपोषणं १३ दवदानं १४ सर-शोषः १५ इत्येतान् पञ्चदशातिचारान् त्यजेत् ॥ १०॥ १०१॥
क्रमेण पञ्चदशाप्यतिचारान् व्याचष्टे तत्राङ्गारजीविकामाहअङ्गारभ्राष्ट्रकरणं कुम्भायःस्वर्णकारिता । ठठारत्वेष्टकापाकाविति ह्यङ्गारजीविका ॥१२॥ अङ्गारकरणे काष्ठदाहेनाङ्गारनिष्पादनं तद्विक्रयश्च, अङ्गारकरणे हि षयां जीवनिकायानां विराधनासम्भवः ।।
॥१७॥
Jun Education inte
For Personal & Private Use Only
Page #413
--------------------------------------------------------------------------
________________
Jain Education Intern
एवं च ये येऽग्निविराधनारूपा चारम्भास्ते तेऽङ्गारकर्मण्यन्तर्भवन्ति; प्रपञ्श्चार्थं तु भेद उक्तः । भ्राष्ट्रकरणं, भ्रष्ट्रजीविकेत्यर्थः । तथा कुम्भकारिता कुम्भकरणपाचनविक्रयनिमित्ता जीविका । तथा अयो लोहं तस्य करणघटनादिना जीविका । स्वर्णकारिता सुवर्णरूष्ययोर्गालनघटनादिना जीविका । कुम्भायः स्वर्णानि करोतीत्येवं शीलस्तस्य भावस्तत्ता । तथा ठठारत्वं शुन्वनागबङ्गकांस्यपित्तलादीनां करणघटनादिना जीविका, इष्टकापाकः इष्टकाकवेलुकादीनां पाकस्तेन जीविका । इत्येवंप्रकारा अङ्गारजीविका ।। १०२ ।।
अथ वनजीविकामाह -
छिन्नाच्छिन्नवनपत्रप्रसूनफलविक्रयः । करणानां दलनात् पेषाद् वृत्तिश्च वनजीविका ॥१०३॥ छिन्नस्य द्विधाकृतस्य अच्छिन्नस्य च वनस्य वनस्पतिसमूहस्य पत्राणां प्रसूनानां फलानां च छिन्नाच्छिन्नानां विक्रयो वनजीविकेत्युत्तरेण सम्बन्धः । कणानां च घरट्टादिना दलनाद् द्वैधीकरणात्, शिलाशिलापुत्रकादिना पेषात् चूर्णीकरणाद्या वृत्तिः सा वनजीविका । वनजीविका च वनस्पतिकायादिघातसम्भवा ॥ १०३ ॥
अथ शकटजीविकामाह -
शकटानां तदङ्गानां घटनं खेटनं तथा । विक्रयश्चेति शकटजीविका परिकीर्तिता ॥ १०४ ॥ शकटानां चतुष्पदवाह्यानां वाहनानां तदङ्गानां शकटाङ्गानां चक्रादीनां घटनं स्वयं परेण वा निष्पादनं, खेटनं वाहनं, तच्च शकटानामेव सम्भवति स्वयं परेण वा; विक्रयथ शकटानां तदङ्गानां च, इति सकलभूतोपम
For Personal & Private Use Only
HOK+K++++++
K-2014-2
Page #414
--------------------------------------------------------------------------
________________
योग
तृतीया प्रकाशः।
शास्त्रम्
दजननी गवादीनां च वधबन्धादिहेतुः शकटजीविका प्रकीर्तिता ॥१०४ ॥
१ अथ भाटकजीविकामाहशकटोचलुलायोष्ट्रखराश्वतरवाजिनाम् । भारस्य वाहनाद् वृत्तिर्भवेद्भाटकजीविका ॥१०५॥
शकटशब्द उक्तार्थः, उचाणो बलीवः, लुलाया महिषाः, उष्ट्राः करमाः, खरा रासभा, अश्वतरा वेसराः, वाजिनोऽश्वाः, एतेषां भाटकनिमित्तं यद्भारवाहनं, तस्माद् या वृत्तिः सा भाटकजीविका ॥ १०५॥
अथ स्फोटजीविकामाहसरःकूपादिखननशिलाकुट्टनकर्मभिः । पृथिव्यारम्भसम्भूतैर्जीवनं स्फोटजीविका ॥ १०६ ॥
सरसः कूपस्य आदिग्रहणाद् वापीदीर्घिकादेः खननमोड्डकर्म, हलादिना वा त्रादेर्भूविदारणं , शिलाकुट्टनकर्म पाषाणघटनकर्म; एतैः पृथिव्याः पृथिवीकायस्य य आरम्भ उपमर्दस्तस्य सम्भूतं सम्भवो येभ्यस्तैः पृथिव्यारम्भसम्भूतैःउपलक्षणं चैतद् भूमिखनने वनस्पतित्रसादिजन्तुघातानाम् । एमिर्जीवनं स्फोटजीविका; स्फोटः पृथिव्या विदारणं तेन जीविका स्फोटजीविका ॥ १०६ ॥
अथ दन्तवाणिज्यमाहदन्तकेशनखास्थित्वग्रोम्णो ग्रहणमाकरे। साङ्गस्य वणिज्याथं दन्तवाणिज्यमुच्यते॥१०७॥
दन्ता हस्तिनां उपलक्षणत्वादन्येऽपि त्रसजीवावयवा दन्तग्रहणेन गृह्यन्ते । तदेवाह-केशाश्चमर्यादीनां, नखा
॥१६॥
in Education International
For Personal & Private Use Only
Page #415
--------------------------------------------------------------------------
________________
Jain Education Intera
घूकादीनां अस्थीनि शङ्खादीनां त्वक् चित्रकादीनां, रोमाणि हंसादीनां तेषां ग्रहणं मूल्यादिना स्वीकारः, रोम्णइत्येकवचनं प्राण्यङ्गत्वात् । श्राकरे तदुत्पत्तिस्थाने, त्रसाङ्गस्य त्रसजीवावयवस्य, वाणिज्यार्थ वाणिज्यनिमित्तं; आकरे हि दन्तादिग्रहणार्थ पुलिन्द्रानां यदा द्रव्यं ददाति तदा तत्प्रति (वि) क्रयार्थ हस्त्यादिवधं ते कुर्वन्ति, श्राकरग्रहं चानाकरे दन्तादेर्ग्रहणे विक्रये च न दोष इति ज्ञापनार्थम् ॥ १०७ ॥
अथ लाचावाणिज्यमाह -
।
लाक्षामनःशिलानीलीधातकीटङ्कणादिनः । विक्रयः पापसदनं लाक्षावाणिज्यमुच्यते ॥ १०८ ॥ लाक्षा जतु अत्रापि लाक्षाग्रहणमुपलक्षणमन्येषां सावद्यानां मनः शिलादीनाम् । तान्येवाह – मनःशिला कुनटी, नीली गुलिका, धातकी वृक्षविशेषः तस्याः त्वक् पुष्पं च मद्यसन्धानहेतुर्धातकी, टङ्कणः चारविशेषः ; आदिशब्दात् संकटादयो गृह्यन्ते, तेषां विक्रयः । स च पापसदनं टङ्कणमनः शिलयोर्बाह्यजीव घातकत्वेन, नील्या जन्तुघाताविनाभावेन, धातक्या मद्यहेतुत्वेन तत्कल्कस्य च कृमिहेतुत्वेन पापसदनत्वं ततस्तद्विक्रयस्याऽपि पापसदनत्वम् । तदेतद् लाचावाणिज्यमुच्यते ॥ १०८ ॥
अथ रसकेशवाणिज्ये एकेनैव श्लोकेनाहनवनीतवसाक्षौद्रमद्यप्रभृतिविक्रयः । द्विपाञ्चतुष्पाद्विक्रयो वाणिज्यं रसकेशयोः ॥ १०६ ॥ नवनीतं दधिसारं, वसा मेदः, चौद्रं मधु, मद्यं सुरा, प्रभृतिग्रहणात् मज्जादिग्रहः । एषां विक्रयो रसवाणिज्यम्,
३४
For Personal & Private Use Only
*.0K 1.0.3-3
Page #416
--------------------------------------------------------------------------
________________
योगशाखम्
तृतीय: प्रकाशः।
॥१६
॥
द्विपदा मनुष्यादीनां चतुष्पदा गवारवादीनां विक्रयः केशवाणिज्यम्, सजीवानां विक्रयः केशवाणिज्यमजीवानां तु जीवाङ्गानां विक्रयो दन्तवाणिज्यमिति विवेकः। रसकेशयोरिति यथासंख्येन योगः। दोषास्तु नवनीते जन्तुसंसर्छन, वसाक्षौद्रयोजेन्तुघातोद्भवत्वं, मद्यस्य मदनजननं तद्गतकृमिविघातश्चेति; द्विपाच्चतुष्पाद्विक्रये तु तेषां पारवश्यं वधबन्धादयः चुत्पिपासापीडा चेति ॥ १० ॥
अथ विषवाणिज्यमाहविषास्त्रहलयन्त्रायोहरितालादिवस्तुनः । विक्रयो जीवितघ्नस्य विषवाणिज्यमुच्यते ॥११०॥
विष निकादि तचोपलक्षणं जीवघातहेतूनामस्त्रादीनाम् । तान्येवाह-अखं खड्गादि, हलं लागलं, यन्त्रमरघट्टादि, अयः कुशीकुद्दालादिरूपं, हरितालं वर्णकविशेषः। श्रादिशब्दादन्येषामुपविषाणां ग्रहणम् । एवमादिवस्तुनो विक्रयो विषवाणिज्यं विषादेविशेषणं-जीवितघ्नस्य, अमीषां जीवितघ्नत्वं प्रसिद्धमेव ॥ ११ ॥
अथ यन्त्रपीडाकर्माहतिलेत्सर्षपेरण्डजलयन्त्रादिपीडनम् । दलतैलस्य च कृतिर्यन्त्रपीडा प्रकीर्तिता ॥ १११ ॥ ___ यन्त्रशब्दः प्रत्येकमभिसम्बध्यते । तिलयन्त्रं तिलपीलनोपकरणम् , इनुयन्त्रं कोड्लुकादि, सर्षपैरण्डयन्त्रे तत्पीलनोपकरणे, जलयन्त्रमरघट्टादि, दलतैलं यत्र दलं तिलादि दीयते सैलं च प्रतिगृह्यते तदलतैलं तस्य कृतिविधानमिति, यन्त्रपीडा यन्त्रपीडनं यन्त्रपीडाकर्मणश्च पीडनीयतिलादिचोदात्तद्गतत्रसजीववधाच्च सदोषत्वम् ।
॥१६
॥
For Personal & Private Use Only
Education
wrane.lainelibrary.org
Page #417
--------------------------------------------------------------------------
________________
+E
7
.
लौकिका अपि ह्याचक्षते-दशमूनासमं चक्रमिति ।। १११ ॥
अथ निर्लाञ्छनकर्माह---- नासावेधोऽङ्कनं मुकच्छेदनं पृष्ठगालनम् । कर्णकम्बलविच्छेदो निर्लाञ्छनमुदीरितम् ॥११२।।
नितरां लाञ्छनमगावयवच्छेदः, सेन कर्म जीविका निर्लाञ्छनकर्म । तद्भेदानाह-नासावेधो गोमहिषादीनाम् , अङ्कनं गवारवादीनां निङ्गकरणं, मुष्कोऽण्डस्तस्य च्छेदनं वर्धितकीकरणं गवारवादीनामेव, पृष्ठगालनं करभाणां, गवां च कर्णकम्बलविच्छेदः । एषु जन्तुबाधा व्यक्तैत्र ॥ ११२ ।।
अथासतीपोषणमाहसारिकाशुकमार्जार श्वकर्कटकलापिनाम् । पोषो दास्याश्च वित्तार्थमसतीपोषणं विदः ॥११॥
असत्यो दुःशीलास्तासां पोषणं, लिंगमतन्त्रम् , शुकादीनां पुंसामपि पोषणमसतीपोषणं, सारिका व्यक्तवाक पक्षिविशेषः, शुकः कीरः, मार्जारो बिडालः, श्वा कुकुरः, कुकुंटस्ताम्रचूडः, कलापी मयूरः, एतेषां तिरश्चां पोषः पोषणं, दास्याश्च पोष इति वर्तते, स च भाटीग्रहणार्थमसतीपोषः । एषां च दुःशीलानां पोषणं पापहेतुरेव ॥११३।।
अथ दवदानसरःशोषावेकेन श्लोकेनाहव्यसनात् पुण्यबुद्ध्या वा दवदानं भवेद् द्विधा। सरःशोषः सरःसिन्धुहृदादेरम्बुसंप्लवः ॥११॥
दवस्य दवाग्नेः तृणादिदहननिमित्तं दानं वितरणं दवदानं, तच द्विधा संभवति-व्यसनात् फलनिरपेक्षता
कुर्कुटकला अथासताना व्यक्तंत्र ॥
in Education international
For Personal & Private Use Only
Page #418
--------------------------------------------------------------------------
________________
योग
खम्
थानेवाला वध से दवा देया
मोज्थे
sitiate करणीय इति
सन्ति क्षेत्रेा ययम्पतिज्यानम् । अत्र जीवकोटीनां वधः स्यात् । सरसः शोषः सरःशोषः सरोग्रहणमुपलक्षणं जलाशयान्तराणाम् । तदेवाह सरः सिन्धुदादिभ्यो योम्बुनो जल संशयः सारणीको धान्यवार्थ, आदिशब्दात् तडागादिपरिग्रहः । खातं सरः खातं तडागम् | सरःशोपे च जलस्य तद्गतानां वसानां तत्प्लावतानां च पण जीवनिकायानां व इति सःशोपदोषः । इत्युक्तानि पञ्चदशकर्णादानानि, दिया चंदन, एवजातीयानां बहूनां सावकर्मणां न पुनः परिगणनमिति । इह चैवं विंशतिसंख्याऽतिचाराभिधानमन्यत्राऽपि पञ्चातिचारसंख्यया तजातीयानां व्रतपरिणामकालुष्यनिबन्धनविधीनामपरे संग्रह इति ज्ञापनार्थम् । तेन स्मृत्यन्तर्धानादव तथासम्भवं सर्वत्रतेतिचारा दृश्याः । नन्वङ्गारकर्मादयः कथं खरकर्मण्यविचाराः ?, खरकर्मरूपा एव येते । सत्यम्, खरकर्मरूपा एवैते किन्त्वनाभोगादिना क्रियमाणा अतिचाराः, उपेत्य क्रियमाणास्तु भङ्गा एवेति ।। १२४ ।।
अथानर्थदण्डविरतिव्रतस्याऽतिचारानाह
संयुक्ताधिकरणत्वमुरोगातिरिक्ता । मौर्य्यमथ कौकुच्यं कन्दर्पोदण्डः ॥११५॥
अनर्थदण्डा इत्यनर्थदण्डविरतित्रतगामिन एते पञ्चाविचाराः । तद्यथा-अविक्रियते दुर्गावात्माऽनेनेत्यधिकरणमुदुखलादिसंयुक्तम्, उदूखलेन मुशलं, हलेन फालः, शकटेन युगं, धनुषा शराः, एवमेकमधिकरणमधिकरणान्तरेण संयुक्तं संयुक्ताधिकरणं तस्य भावस्तत्वम् । इह च श्रावण संयुक्तमधिकरणं न धारणीयम् ।
For Personal & Private Use Only:
वतीय
प्रकाशः ।
॥ २०० ॥
Page #419
--------------------------------------------------------------------------
________________
तथा सति हि यः कश्चित् संयुक्तमधिकरणमाददीत, वियुक्ताधिकरणतायां तु सुखेन परः प्रतिषेधयितुं शक्यते ।। एतच्च हिंस्रप्रदानरूपस्यानर्थदण्डस्यातिचारः १। तथा उपभोगस्योपलक्षणत्वाद्भोगस्य चोक्तनिर्वचनस्य यदतिरिक्तत्वमतिरेकः सा उपभोगातिरिक्तता । अयं प्रमादाचरितस्यातिचारः । इह च स्नानपानभोजनचन्दनकुकुमकस्तूरिकावस्त्राभरणादीनामतिरिक्तानामारम्भोऽनर्थदण्डः। अत्रापि वृद्धसम्प्रदायः-अतिरिक्तानि बहूनि तैलामलकानि यदि गृह्णाति, तदा तल्लौन्येन बहवः स्नानार्थ तडागादौ व्रजन्ति, ततश्च पूतरकाप्कायादिवधोऽधिकः स्यात् न चैवं कल्पते, ततः को विधिः? तत्र स्नानेच्छुना तावद्गह एव स्नातव्यम् तदभावे तु तैलामलकैगृह एव शिरो घर्षयित्वा तानि सर्वाणि शाटयित्वा तडागादीनां तटे निविष्टोऽञ्जलिभिः स्नाति । तथा येषु पुष्पादिषु संसक्तिः सम्भवति तानि परिहरति, एवं सर्वत्र वाच्यमिति द्वितीयोऽतिचारः २ । तथा मुखमस्यास्तीति मुखरोऽनालोचितभाषी वाचाटः तस्य भावो मौखयं धाप्रायमसभ्यासम्बद्धबहुप्रलापित्वम्, अयं च पापोपदेशस्यातिचारः, मौखये सति पापोपदेशसम्भवादिति तृतीयः३। तथा कुदिति कुत्सायां निपातो, निपातानामानन्त्यात् । कुत् कुत्सितं कुचति भ्रनयनौष्ठनासाकरचरणमुखविकारैः सङ्कुचतीति कुत्कुचस्तस्य भावः कौत्कुच्यम्, अनेकप्रकारा भण्डादिविडम्बनक्रिया इत्यर्थः । अथवा कौकुच्यमिति पाठः, तत्र कुत्सितः कुचः कुकुचः सङ्कोचादिक्रियाभाक् तद्भावः कौकुच्यम्, अत्र च येन परो हसति, आत्मनश्च लाघवं भवति, न तादृशं वक्तुं चेष्टितुं वा कल्पते, प्रमादात्तथाचरणे चातिचार इति चतुर्थः४। तथा कन्दर्पः कामस्तद्धेतस्तत्प्रधानो वा वाक्प्रयोगोऽपि कन्दर्पः । इह च सामाचारी-श्रावकेण न तादृशं वक्तव्यं येन स्वस्य परस्य वा मोहोद्रेको भवतीति पञ्चमः ५। एतौ द्वावपि
in Education International
For Personal & Private Use Only
Page #420
--------------------------------------------------------------------------
________________
योग
तृतीयः प्रकाशः।
शास्रम्
॥२०१॥
प्रमादाचरितस्यातिचारा, इत्यवसिता गुणवतातिचाराः ॥ ११५ ॥
___ अथ शिक्षाव्रतातिचारावसरः । तत्रापि सामायिकस्य तावदतिचारानाहकायवाङमनसां दृष्टप्रणिधानमनादरः । स्मृत्यनुपस्थापनं च स्मृताः सामायिकवते ॥११६॥ __ कायस्य वाचो मनसश्च प्रणिहितिः प्रणिधानम्, दुष्टं च तत्प्रणिधानं दुष्टप्रणिधानं सावद्ये प्रवर्तनं कायदुप्रणिधानं, वाग्दष्प्रणिधानं, मनोदुष्प्रणिधानं चेत्यर्थः । तत्र शरीरावयवानां पाणिपादादीनामनिभृतताऽवस्थापन कायदष्प्रणिधानम्, वर्णसंस्काराभावोऽर्थानवगमश्चापलं च वाग्दुष्प्रणिधानम, क्रोधलोभद्रोहाऽभिमानेादयः कार्यव्यासङ्गसम्भ्रमश्च मनोदुष्प्रणिधानम् एते त्रयोऽतिचाराः । यदाहुः---
अनिरिक्खियापमज्जियथण्डिल्ले ठाणमाइ सेवन्तो । हिंसाभावे वि न सो कडसामाइओ पमायाउ ॥१॥ कडसामाइउ पुचि बुद्धीए पेहिऊण भासिज्जा । सइ निरवजं वयणं अन्नह सामाइयं न हवे ॥२॥ सामाइयं तु काउं घरचिन्तं जो उ चिन्तए सड्ढो । अट्टवसट्टोवगओ निरत्थयं तस्स सामाइयं ॥३॥ तथाऽनादरोऽनुत्साहः प्रतिनियतवेलायां सामायिकस्याकरणम्, यथाकथश्चिद्वा करणम्, प्रबलप्रमादादिदोषात (१) अनिरीक्षिताऽप्रमार्जितस्थण्डिले स्थानादि सेवमानः । हिंसाभावेऽपि न स कृतसामायिकः प्रमादात् ॥१॥ कृतसामायिकः पूर्व बुद्ध्या प्रेक्ष्य भाषेत । सदा निरवद्यं वचनमन्यथा सामायिकं न भवेत् ॥ २॥ सामायिकं तु कृत्वा गृहचिन्तां यस्तु चिन्तयेत् श्राद्धः । आर्तवशार्तोपगतो निरर्थकं तस्य सामायिकम् ।। ३ ।।
प्रधानम्, वर्णनादुष्प्रणिधानपानम्, दुष्टच न
नादुष्प्रणिधानम् एतगमश्चापलं च शरीरावयवानां पा
||२०१॥
Sain Education International
For Personal & Private Use Only
Page #421
--------------------------------------------------------------------------
________________
करणानन्तरमेव पारणं च । यदाहुः
काऊण तक्खणं चित्र पारेइ करेइ वा जहिच्छाए । अणवट्टियसामाइयं अणायराओ न तं सुद्धं ॥१॥
इति चतुर्थः ॥ ४॥ स्मृतौ स्मरणे सामायिकस्याऽनुपस्थापनं स्मृत्यनुपस्थापनं सामायिक मया कर्तव्यं न कर्तव्यमिति वा, सामायिकं मया कुतं न कृतमिति वा, प्रबलप्रमादाद्यदा न स्मरति तदा अतिचारः, स्मृतिमूलत्वान्मोक्षसाधनाऽनुष्ठानस्य । यदाहुः
ने सरह पमाय जुत्तो जो सामाइयं कया य कायव्वं । कयमकयं वा तस्स ह कयं पि विहलं तयं नेयं ॥१॥
ननु कायदुष्प्रणिधानादौ सामायिकस्य निरर्थकत्वादिप्रतिपादनेन वस्तुतोऽभाव एवोक्तः, अतिचारश्च | मालिन्यरूप एव भवतीति कथं समायिकाभावे स भवेत् १, अतो भङ्गा एवैते नातिचारा इति चेत उच्यते
अनाभोगतोऽतिचारत्वम् । ननु द्विविधं त्रिविधेन सावधप्रत्याख्यानं सामायिक, तत्र च कायदुष्प्रणिधानादौ प्रत्याख्यानभङ्गात् सामायिकाभाव एव, तद्भङ्गजनितं च प्रायश्चित्तं विधेयं स्यात् मनोदुष्प्रणिधानं चाशक्यपरिहारं मनसोऽनवस्थितत्वादतः सामायिकप्रतिपत्तेः सकाशात्तदप्रतिपत्तिरेव श्रेयसी । यदाहुः-" अविधिकृताद्वरमकृतमिति” । नैवम्, यतः सामायिकं द्विविधं त्रिविधेन प्रतिपन्नम्, तत्र च मनसा वाचा कायेन सावद्यं न करोमि न कारयामीति षट् प्रत्याख्यानानि इत्येकतरप्रत्याख्यानभङ्गेऽपि शेषसद्भावान्मिथ्यादुष्कृतेन मनोदुष्प्रणिधानमात्रशुद्धेश्च
(१) कृत्वा तत्क्षणमेव पारयति करोति वा यथेच्छम् । अनवस्थितसामायिकमनादराद् न तत् शुद्धम् ॥ १॥ (२)न स्मरति प्रमादयुक्तो यः सामायिक कदा च कर्तव्यम् । कृतमकृतं वा तस्य खलु कृतमपि विफलं तज्ज्ञेयम् ।।१।।
in Education International
For Personal & Private Use Only
Page #422
--------------------------------------------------------------------------
________________
तृतीयः
प्रकाश
योग
न सामायिकस्यात्यन्ताभावः, सर्वविरतिसामायिकेपि च तथाऽभ्युपगतमः यतो गुप्तिभङ्गे मिथ्यादुष्कृतं प्रायश्चिशास्त्रम् ।
त्तमुक्तम् । किञ्च सातिचारादप्यनुष्ठानादभ्यासतः कालेन निरतिचारमनुष्ठानं भवति । यदाहुळह्या अपि-अभ्यासो
हि कर्मणां कौशलमावहति, न हि सकृत्रिपातमात्रेणोदबिन्दुरपि ग्रावणि निम्नतामादधाति । न चाविधिकृताद् ॥२०२॥
वरमकृतमिति युक्तम्, असूयावचनत्वादस्य । यदाहुः
अविहिकया वरमकयं असूयवयणं भणन्ति समयन्नू । पायच्छित्तं जम्हा अकए गुरुओं कए लहुअं ॥१॥
केचित्तु पोषधशालायां सामायिकमेकेनैव कार्य न बहुभिः, 'एगे अबीए' इति वचनप्रामाण्यादित्याहुः । नायमेकान्तो वचनान्तरस्याऽपि श्रवणात् । व्यवहारभाष्येऽप्युक्तम्-"राजसुयाई पश्च वि पोसहसालाइ संमिलिआ" । इत्यलं प्रसङ्गेन ॥ ११६ ॥ - एते पञ्चातिचाराः सामायिकवते उक्ताः, इदानी देशावकाशिकव्रतातिचारानाह - प्रेष्यप्रयोगानयने पुद्गलक्षेपणं तथा । शब्दरूपाऽनुपातौ च व्रते देशावकाशिके ॥ ११७ ॥ . दिग्व्रतविशेष एव देशावकाशिकव्रतम् , इयांस्तु विशेषः-दिग्व्रतं यावजीवं संवत्सरचतुर्मासीपरिमाणं वा, देशावकाशिकं तु दिवसप्रहरमुहूर्तादिपरिमाणम् । तस्य च पश्चातिचाराः। तद्यथा-प्रेष्यस्याऽऽदेश्यस्य प्रयोगो
(१) अविधिकृतादू बरमकृतमसूयावचनं भणन्ति समयज्ञाः । प्रायश्चित्तं यस्मादकते गुरुकं कृते लघुकम् ॥ १ ॥ (१) राजसुतादयः पञ्चाऽपि पोषधशालायां संमिलिताः।
॥२०२॥
in Education tema
For Personal Private Use Only
Page #423
--------------------------------------------------------------------------
________________
विवक्षित क्षेत्रादप्रियोजनाय पार,
स्व वियतन स्यादितियप्रयोगशाराशिकवतं हि मा भृद् मनागमनादिव्यापार जनिता पन इत्यभिप्रायस गृपते. न तु स्वयं कृतोऽन्यन कारित इति न कथित फले विशेषः प्रन्युन स्वयं गनने पविगुणः , परम्प पुनरनिमालावरीयासमित्यभाव दाप इनि प्रथमोऽविचारः १ । आनयनं विवचितक्षेत्राद् बहिः स्थितख सचेतनादिद्रव्यस्य विक्षितक्षेत्र प्रापणं सामथ्यात् प्रेष्येण ; स्वयं गयने हि व्रतमङ्गः म्यात , परेण तु मानयन न वतमङ्गः स्यादिति बुद्ध्या प्रेष्येण यदानाययति सचेतनादि द्रव्यं तदाऽतिचार इति द्वितीयः । तथा पुद्गलाः परमाणवस्तत्संघातमद्भवा बादरपरिणाम प्राप्ता लोटेष्टकाः काष्ठशलाकादयोऽपि पुद्गलास्तेषां क्षेपणं प्रेरणम् । विशिष्टदशावग्रहे हि लनि कार्यार्थी परतो गमननिपधायदालोटादीन् परेपा बोधनाय विपति, तदा लोष्टादियातसमनन्तरमेव ते वल्लमीपमनुधावन्ति । ततश्च तान् व्यापारयतः स्वयमनुपमर्दकस्यातिनारो भवतीति तृतीयः । शद्ररूपानुपातो चेति शगानुपातो रूपानुपातश्च । तत्र स्वगृहवृत्ति(ति)प्राकारादिव्यवच्छिन्नभूदेशाभिग्रहः प्रयोजने उत्पन्ने स्वयमगमनाद् वृत्ति ति)प्राकारप्रत्यासत्रवर्ती भूत्वा अभ्युत्कासितादिशद्रं करोति, आह्वानीयानां श्रोबेनुपातयति, ते च तच्छन्दश्रवणाचसमीपमागच्छन्ति इति शद्धानुपातो तिचारः । तथा रूपं स्वशरीरसम्बन्धि उत्पन्न प्रयोजनः शद्वमनुच्चारयन् अ हानीयानां दृष्टावनुपात्यति, तद्दर्शनाच ते तत्समीपमागच्छन्तीति रूपानुपातः । इयनत्र भावना-विवक्षितक्षेत्राहिःस्थितं कञ्चन नरं व्रतमङ्गभयादाह्वातुमशक्नुवन् यदा स्वकीयशदबावारूपदर्शव्याजेन तमाकारयति, तदा व्रतमारेक्षत्वाच्छब्दानुपातरूपानुपाताचतिचाराविति चतुर्थपञ्चमी ४।५ । इह चाद्यातिचारद्वयमव्युत्पन्नबुद्धितया सहसा कारादिना
For Personel Private Use Only
Page #424
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
॥२०३॥
वा, अन्त्यत्रयं तु मायावितया अतिचारतां याति । अत्र दिगव्रतसंक्षेपकरणवद् व्रतान्तराणामपि संक्षेपकरणं देशा-||
तृतीयः ता वकाशिकव्रतमिति वृद्धाः । अतिचाराश्च दिगव्रतकरणस्यैव श्रूयन्ते न व्रतान्तरसंक्षेपकरणस्य, तत्कथं व्रतान्तरसं
प्रकाशः। क्षेपकरणं देशावकाशिकव्रतम् ? अत्रोच्यते-प्राणातिपातादिविरमणव्रतान्तरसंक्षेपकरणेषु वधबन्धादय एवातिचाराः, दिगवतसंक्षेपकरणे तु संक्षिप्तत्वात् क्षेत्रस्य, प्रेष्यप्रयोगादयोऽतिचाराः । भिन्नातिचारसम्भवाच्च दिगवतसंक्षेपकरणस्यैव देशावकाशिकत्वं साक्षादुक्तमिति ॥ ११७॥
अथ पोषधव्रतस्यातिचारानाहउत्सर्गादानसंस्ताराननवेक्ष्याप्रमृज्य च । अनादरः स्मृत्यनुपस्थापनं चेति पोषधे ॥११८॥ ___उत्सर्जनमुत्सर्गस्त्याग उच्चारप्रस्रवणखेलसिंघाणकादीनामवेक्ष्य प्रज्य च स्थण्डिलादौ उसंगः कार्यः । अवेक्षणं चक्षुषा निरीक्षणम् । प्रमार्जनं वस्त्रप्रान्तादिना स्थण्डिलादेरेव विशुद्धीकरणम् । अथानवेक्ष्याप्रमृज्य चोत्सर्ग करोति तदा पोषधव्रतमतिचरतीति प्रथमोऽतिचारः १ । आदानं ग्रहणं यष्टिपीठफलकादीनाम, तदप्यवेक्ष्य प्रमृज्य च कार्यम् , अनवेचितस्याप्रमार्जितस्य चादानमतिचारः। आदानग्रहणेन निक्षेपोऽप्युपलक्ष्यते यष्ट्यादीनाम् , तेन सोऽप्यवेक्ष्य प्रमाय॑ च कार्यः; अनवेक्ष्याप्रमृज्य च निक्षपोऽतिचार इति द्वितीयः २ । तथा संस्तीर्यते यः प्रतिपनपोषधव्रतेन दर्भकुशकम्बलिवस्त्रादिः स संस्तारः, स चावेक्ष्य प्रमाय॑ च कर्तव्यः, अनवेक्ष्याप्रमाय च करणऽतिचारः । इह चानवेक्षणेन दुरवेक्षणम् , अप्रमार्जनेन दुष्प्रमार्जनं सगृह्यते, नबः कुत्सार्थस्याऽपि दर्शनात् , यथा कुत्सितो ब्राह्मणोऽब्राह्मणः।
IN२०३॥
Jain Education intended
For Personal & Private Use Only
Page #425
--------------------------------------------------------------------------
________________
-
यत् सूत्रम् ---अप्पडिले हिअदुप्पडिलेहिअसिज्जासंथारए, अप्पमज्जिदादुप्पमज्जिासजासधारए, अप्पडिलहिअदुप्पडिलेहिअउञ्चारपासवणभूमीए,* अप्पमञ्जिअदुप्पमञ्जिअउच्चारपासवणभूमि(मीए)॥
इति तृतीयः ३ । तथा अनादरः पोषधव्रतप्रतिपत्तिकर्तव्यतायामिति चतुर्थः ४ । तथा स्मृत्यनुपस्थापनं तद्विपयमेवेति पञ्चमः, पोपधे सर्वतः पोषधे. देशतः पोपधे तु नायं विधिः ५ ॥ ११८ ॥
प्रथातिथिसंविभागवतस्यातिचारानाहसचित्ते क्षेपणं तेन पिधानं काललनम् । मत्सरोऽन्यापदेशश्च तुर्यशिक्षानते स्मृताः ॥११९॥
सचित्त सजीवे पृथ्वीजलकुम्भोपचुल्लीधान्यादौ, क्षेपण निक्षेपो देयस्य वस्तुनः, तच्च अदानबुद्धया निक्षिपति, एतजानात्यसो तुच्छबुद्धिः यत् सचित्ते निक्षिप्तं न गृह्णते साधव इत्यतो देयं चोपस्थाप्यते न चाददते साधव इति लाभोऽयं ममेति प्रथमोऽतिचारः१। तथा तेन सचित्तेन मरणकन्दपत्रपुष्पफलादिना तथाविधयैव बुद्ध्या पिधत्ते, इति द्वितीयः २। तथा कालस्य साधनामुचितभिक्षासमयस्य लङ्घनमतिक्रमः, अयमर्थः-उचितो यो भिक्षाकाल:साधनां
लवयित्वा, अनागतं वा भुङ्क्ते पोषधव्रती । इति तृतीयः ३। तथा मत्सरः कोपः यथा मार्गितः सन् कुप्यति, | सदपि मागितं न ददाति । अथवाऽनेन तावद् द्रमकेण मार्गितेन दत्तम् , किमहं ततोऽपि हीन इति मात्सर्या
(१) अप्रतिलेखितदुप्प्रतिलेखितशय्यासंस्तारके, अप्रमार्जितदुष्प्रमार्जितशय्यासंस्तारके, अप्रतिलेखितदुष्पतिलेखितोच्चारप्रस्रवणभूमौ, अप्रमार्जितदुप्पमार्जितोच्चारप्रस्रवणभूमौ । * ' भूमीओ इत्यपि पाठः'
Jok+-+
-
+k+
K
Education Interations
For Personal & Private Use Only
Page #426
--------------------------------------------------------------------------
________________
योगशास्त्रम्
.
तृतीया प्रकाशः।
॥२०४॥
संविभANस्तु कारण व्याजे लक्ष्येऽपि ।
तिनात व्यपदेशो व्याजोन्यापदेश
द्ददाति अत्र परोन्नतिवैमनस्यं मात्सर्य्यम् , यदुक्तमस्माभिरेवाऽनेकार्थसंग्रहे-मत्सरः परसम्पत्त्यक्षमायां तद्वति क्रुधि । इति चतुर्थः । तथा अन्यस्य परस्य सम्बन्धीदं गुडखण्डादीति व्यपदेशो व्याजोऽन्यापदेशः, यदनेकार्थसंग्रहे-अपदेशस्तु कारणे व्याजे लक्ष्येऽपि । इति पञ्चमः। एते पञ्चातिचारास्तुर्यशिक्षाव्रते अतिथिसंविभागनाम्नि स्मृताः। अतिचारभावना पुनरियम्-यदा अनाभोगादिना अतिचरन्ति तदा अतिचाराः, अन्यथा तु भङ्गाः इत्यवसितानि सम्यक्त्वमूलानि द्वादश व्रतानि, तदतिचाराश्चाभिहिताः ॥ ११ ॥
इदानीमुक्तशेष निर्दिशन् श्रावकस्य महाश्रावकत्वमाहएवं व्रतस्थितो भक्त्या सप्तक्षेत्र्यां धनं वपन् । दयया चातिदीनेषु महाश्रावक उच्यते॥१२०॥
एवं पूर्वोक्तप्रकारेण सम्यक्त्वमूलेष्वविचारविशुद्धेषु द्वादशसु व्रतेषु स्थितो निश्चलचित्तत्वेन निलीना, सप्तानां क्षेत्राणां समाहारः सप्तक्षेत्री जैनबिम्बभवनागमसाधुसाध्वीश्रावकश्राविकालक्षणा तस्यां, न्यायोपात्तं धनं वपन् निक्षिपन : चेत्रे हि बीजस्य वपनमुचितमित्युक्तं वपनिति, वपनमपि क्षेत्रे उचितं नाक्षेत्रे इति सप्तक्षेत्र्यामित्युक्तम् । क्षेत्रत्वं च सप्तानां रूढमेव । वपनं च सप्तक्षेत्र्यां यथोचितस्य द्रव्यस्य भक्त्या श्रद्धया, तथाहि-जिनबिम्बस्य तावद्विशिष्टलक्षणलक्षितस्य प्रसादनीयस्य वजेन्द्रनीलाञ्जनचन्द्रकान्तसूर्यकान्तरिष्टाङ्ककर्केतनविद्रुमसुवर्णरूप्यचन्दनोपलमृदादिभिः सारद्रव्यर्विधापनम् । यदाह
सन्मृत्तिकामलशिलातलरूप्यदारु–सौवर्णरत्नमणिचन्दनचारुबिम्बम् ।। कुर्वन्ति जैनमिह ये स्वधनानुरूपं, ते प्राप्नुवन्ति नृसुरेषु महासुखानि ॥१॥
॥२०४॥
Lain Education inter
For Personal & Private Use Only
Page #427
--------------------------------------------------------------------------
________________
तथाहिपासाइमा पडिमा लक्खणजुत्ता समत्तलकरणा। जह पन्हाएइ मणं तह निजरमो विमाणाहि ॥१॥
तथा निर्मितस्य जिनबिम्बस्य शास्त्रोक्तविधिना प्रतिष्ठापनम् , अष्टाभिश्च प्रकारैरभ्यर्चनं, यात्राविधानं, विशिटाभरणभूषणं, विचित्रवस्त्रैः परिधापनमिति जिनविम्बे धनवपनम् । यदाह
गन्धैर्मान्यविनिर्यबहलपरिमलैरक्षतेधूपदीपैः, सानाज्यैः प्राज्यभेदैश्चरुभिरुपहतैः पाकप्रतैः फलैश्च । अम्भःसंम्पूर्णपात्रेरिति हि जिनपतेरर्चनामष्टभेदां, कुर्वाणा वेश्मभाजः परमपदसुखस्तोममारालभन्ते ॥१॥
ननु जिनबिम्बानां पूजादिकरणे न कश्चिदुपयोगः, न हि पूजादिभिस्तानि तृप्यन्ति तुष्यन्ति वा, न चावृप्ततुष्टाभ्यो देवताभ्यः फलमाप्यते । नैवम, चिन्तामण्यादिभ्य इवाप्ततुष्टेभ्योऽपि फलप्राप्त्यविरोधात् । यदुक्तं वीतरागस्तोत्रेडस्माभिः
अप्रसन्नात् कथं प्राप्यं फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न फलन्त्यपि विचेतनाः॥१॥ तथाउवगाराभावम्मि वि पुजाणं पूयगस्स उवगारो । मन्ताइसरणजलणादिसेवणे जह तहेहं पि ॥१॥ एष तावत् स्वकारितानां बिम्बानां पूजादिविधिरुक्तः, अन्यकारितानामपि । अकारितानां च शाश्वतप्रतिमानां (१) प्रासादिता प्रतिमा लक्षणयुक्ता समस्तालङ्करणा । यथा प्रलादयति मनस्तथा निर्जीर्यामो विजानीहि ॥ (१) उपकाराभावेऽपि पूज्यानां पूजकस्योपकारः । मन्त्रादिस्मरणज्वलनादिसेवने यथा तथेहापि ॥१॥
in Education Internatio..
"
For Personal & Private Use Only
Page #428
--------------------------------------------------------------------------
________________
योग शानम् ।
२०५॥
+++
1
+-+
पमा मनादिविधिनुष्य । त्रिविधा हि जिनप्रतिमाः भक्तिकारिता: स्वयं परेण वा चैत्येषु कारिताः,
यातीय' इदानीमपि मनुष्यादिभिर्विधाप्यन्ते मङ्गल्यकारिता या गृहेषु द्वारपत्र मङ्गलाय कार्यन्ते, शश्वत्यस्तु अकारिता एव अधस्तिय गमवलोकाव स्थितेषु जिनभवनेषु वर्तन्त इति । न हि लोकपि नलवान नकित यन्न पारमेश्वरीभिः प्रतिमाभिः पविवितमिति । जिनप्रतिमानां च चीनगगनपाध्यादेश पलादिपिविचित इनि: जिनभवनक्षेत्र स्वधनवपनं यथा-शल्यादिरहितभूमौ स्वयंसिद्धस्योपल काष्ठादिदलस्य ग्रहणेन मूत्र कारादिभृत काजतिसन्धानेन भृत्यानामधिकमूल्यवितरणे न ५जीवनिकायरक्षायतनापूजिन पचनस्य विधापनम् । स विमा भरतादिवद् रत्नशिलाभिर्वद्धचामीकर कुट्टिमस्य मणिमयस्तम्भसोपानस्य रत्नभयतोरण शतालङ्कारकृतस्य निशालशालाबानकस्य शालमतिका मणिभूषितस्तम्भादिप्रदेशस्य दह्यमानकरक तरिकाप्रमृतिधूनसमुच्छलमाटसमाजलदशङ्कानत्यत्कल काटकुलकोलाहलस्य चतुर्विधाताद्यनान्दीनिनानादिरोदसीस देवाशप्रभृतिविचित्रवस्त्रोतांचखचितमुक्तावलालङ्कतस उत्पतन्निपत द्वायनल्यद्वन्गत्सिंहादिनादितवासुरसमूहमहिमानुमोदनप्रमोदमानजनस्य विचित्रचित्रचित्रीवितसकललोकस्य चामरध्वजच्छत्राद्यलङ्कारविभूपितस्य मूर्धारोपितविजयवैजयन्तीनिवडकिङ्किणीरमत्कारमुखरितदिगन्तस्य कौतुकाक्षिप्तसुरासुरकिन्नरी(र) निवहाहमहमिकाप्रारब्धसङ्गीतस्य गन्धर्वगीतध्वनितिरस्कृततुम्बुरुमहिम्नो निरन्तरतालारसरासकहल्लीसकप्रमुखप्रबन्धनानाभिनयनव्यप्रकुलाङ्गनाचमत्कारितभव्यलोकस्याऽ. भिनीयमान नाटककोटिरसाक्षिप्तरसिकजनस्य जिनभवनस्योत्तुङ्गगिरिशृङ्गेषु जिनानां जन्मदीक्षाज्ञाननिर्वाणस्थानेषु सम्प्रतिराजवच्च प्रतिपुरं प्रतिग्रामं पदे पदे विधापनम् । असति तु विभो तृणकुट्यादिरूपस्याऽपि । यदाह
1.२०१17
+100
साप
in Education International
For Personal & Private Use Only
Page #429
--------------------------------------------------------------------------
________________
यस्तृणमयीमपि कुटीं कुर्य्याद्दद्यात्तथैकपुष्पमपि । भक्त्या परमगुरुभ्यः पुण्योन्मानं कुतस्तस्य ? ॥ १ ॥ किं पुनरुपचितवन शिलासमुद्घातघटित जिन भवनम् ये कारयन्ति शुभमतिविमानिनस्ते महाधन्याः ॥ २॥ राजादेस्तु विधापयितुः प्रचुरदरभाण्डागारग्रामनगरमण्डल गोकुलादिप्रदानं जिनभवनक्षेत्रे वपनम्, तथा जीर्णशीर्णानां चैत्यानां समारचनम् नष्टभ्रष्टानां समुद्धरणं चेति । ननु निरवद्यजिनधर्मसमाचरणचतुरायां जिनभवनविम्बपूजादिकरण मनुचितमिव प्रतिभासते पड्जीवनिकाय विराधना हेतुत्वाचस्य भूमीखननदल पाटकानयनागतपूरणेष्टका चयन जलप्लावनवनस्पतित्र सकायविराधनामन्तरेण न हि तद्भवति । उच्चते-य आरम्भपरिग्रहप्रसक्तः कुटुम्ब परिपालननिमित्तं धनोपार्जनं करोति, तस्य धनोपार्जनं विफलं मा भूदिति जिनभवनादौ धनव्ययः श्रेयानेव । न च धर्मार्थं धनोपार्जनं युक्तम् यतः -
धर्मार्थं यस्य वित्तेहा तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥ १ ॥
इत्युक्तमेव । न च वापी कूपतडागादि खननवदशुभोदर्क जिनभवनादिकरणम् अपि तु सङ्घसमागमधर्मदेशनाकरणव्रतप्रतिपत्त्यादिकरणेन शुभोदर्कमेत्र । षड्जीव निकायविराधना च यतनाकारिणामगारिणां कृपापरवशत्वेन सूक्ष्मानपि जन्तून् रक्षयतामविराधनैव । यदाहु:
जा जयमाणस्स भवे विगहणा सुत्तविहिसमग्गस्स । सा होइ निजरफला अन्भत्थविसोहिजुत्तस्स ॥ १ ॥ ( १ ) या यतमानस्य भवेद् विराधना सूत्रविधिसमग्रस्य । सा भवति निर्नरफलाम्यर्थनाविशोधियुक्तस्य ॥ १ ॥
For Personal & Private Use Only
-
Page #430
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
॥ २०६॥
*********
10-10
Jain Education Internatio
पेरमरहस्समिसीं समत्तगणिपिडगन्भरिअसाराणं । परिणामि पमाणं निच्छयमवलम्बमायाणं ॥ २ ॥ यस्तु निजकुटुम्बार्थमपि नारम्भं करोति प्रतिमाप्रतिपन्नादिः, तस्य मा भूजिनबिम्बादिविधापनमपि । यदाहुःदेहानिमित्तं पि हु जे कायवहम्मि इह पयट्टन्ति । जिणपूचा काय वहम्मि तेसिमपवत्तणं मोहो ॥ १ ॥ इत्यलं प्रसङ्गेन | जिनागमक्षेत्रे च स्वधनवपनं यथा - जिनागमो हि कुशास्त्रजनितसंस्कारविष समुच्छेदनमहामन्त्रायमाणो धर्माधर्मकृत्याकृत्यभक्ष्यामच्यपेयापेयगम्यागम्यसारासारादिविवेचनहेतुः संतमसे दीप इव, समुद्रे द्वीपमिव, मरौ कम्पतरुरिव, संसारे दुरापः । जिनादयोऽप्येतत्प्रामाण्यादेव निश्चीयन्ते । यदवोचाम स्तुतिषु - यदीयसम्यक्त्वचलात् प्रतीमो भवादृशानां परमाप्तभावम् । कुवासनापाशविनाशनाय नमोऽस्तु तस्मै तव शासनाय ॥ १ ॥ जिनागमबहु मानिनां च देवगुरुधर्मादयोऽपि बहुमता भवन्ति । किं च केवलज्ञानादपि जिनागम एव प्रामायेनाऽतिरिच्यते । यदाहुः -
T
उसो सुनाखी जड़ हु गिण्डइ असुद्धं । तं केवली वि भुञ्जइ अपमाणं सुअं भवे इहरा ॥ १ ॥ एकमपि जिनागमवचनं भविनां भवनाशहेतुः । यदाहुः
एकमपि च जिनवचनाद्यस्मान्निर्वाहकं पदं भवति । श्रूयन्ते चानन्ताः सामायिकमात्रपद सिद्धाः ॥ १ ॥ इति ॥ ( १ ) परमरहस्यमृषीणां समस्तगणिपिटक भृतसाराणाम् । परिणामितं प्रमाणं निश्चयमवलम्बमानानाम् ॥ २ ॥ ( २ ) देहादिनिमित्तमापि खलु ये कायवधे इह प्रवर्तन्ते । जिनपूजाकायवधे तेषामप्रवतनं मोहः ॥ ३ ॥
( ३ ) ओघे श्रुतोपयुक्तः श्रुतज्ञानी यदि खलु गृह्णात्यशुद्धम् । तत् केवल्यपि भुङ्क्तेऽप्रमाणं श्रुतं भवेदितरथा ॥१॥
For Personal & Private Use Only:
****--→ 04-6-20
**
तृतीयः प्रकाशः ।
॥२०६॥
Page #431
--------------------------------------------------------------------------
________________
यद्यपि च मिथ्यादृष्टिभ्य आतुरेभ्य इव पथ्यानं न रोचते जिनवचनम्, तथापि नान्यत् स्वर्गापवर्गमार्गप्रकाशनसमर्थम् इति सम्यग्दृष्टिभिस्तदादरेण श्रद्धातव्यम, यतः कल्याणभाजिन एव जिनवचनं भावतो भावयन्ति । इतरेषां तु कर्णशलकारित्वेनामृतमपि विषायते । यदि चेदं जिनवचनं नामविष्यत, तदा धमोधर्मव्यवस्थाशून्य भवान्धकूपे भुवनमपतिष्यत् । यथा च हरीतकी भक्षयेद् विरेककामः इति वचनाद्धरीतकीभक्षणप्रभवविरेकलचणेन प्रत्ययेन सकलस्याप्यायुर्वेदस्य प्रामाण्यमवसीयते, तथा अष्टाङ्गनिमित्तकेवलिकाचन्द्रार्कग्रहचारधातुवादरसरसायनादिभिरप्यागमोपदिष्टैर्दृष्टार्थवाक्यानां प्रामाण्यनिश्चयेनादृष्टार्थानामपि वाक्यानां प्रामाण्यं मन्दधीभिर्निश्वेतव्यम् । जिनवचनं च दुषमाकालवशादृच्छिन्नप्रायमिति मत्वा भगवद्भिर्नागार्जुनस्कन्दिलाचार्यप्रभृतिभिः पुस्तकेषु न्यस्तम् । ततो जिनवचनबहुमानिना तत् पुस्तकेषु लेखनीयं वस्त्रादिभिरभ्यर्चनीयम् । यदाह
न ते नरा दुर्गतिमाप्नुवन्ति, न मुकतां नैव जडस्वभावम् ।
न चान्धतां बुद्धिविहीनतां च, ये लेखयन्तीह जिनस्य वाक्यम् ॥ १॥ लेखयन्ति नरा धन्या ये जिनागमपुस्तकम् । ते सर्व वाचयं ज्ञात्वा सिद्धिं यान्ति न संशयः ॥ २॥ जिनागमपाठकानां वस्त्रादिमिरम्यर्चनं भक्तिपूर्व संमाननं च । यदाहपठति पाठयते पठतामसी, वसनभोजनपुस्तकवस्तुभिः । प्रतिदिनं कुरुते य उपग्रहं, स इह सर्वविदेव भवेन्नरः॥१॥
लिखितानां च पुस्तकानां संविग्नगीतार्थेभ्यो बहुमानपूर्वकं व्याख्यानार्थ दानम्, व्याख्यायमानानां च प्रतिदिनं पूजापूर्वकं श्रवणं चेति । साधनां च जिनवचनानुसारेण सम्यक् चारित्रमनुपालयतां दुर्लभ मनुष्यजन्म सफलीकुर्वता
Lain Education inter 29
For Personal & Private Use Only
Page #432
--------------------------------------------------------------------------
________________
मा
तृतीयः
योगशास्त्रम्।
प्रकाशः
२०७॥
स्वयं तीर्णानां परं तारयितुमुद्यतानामा तीर्थङ्करगणधरेभ्य आ चैतदिनदीवितेभ्यः सामायिकसंयतेम्यो यथोचितप्रतिपच्या खधनवपनम्, यथा-उपकारिणां प्रासुकैषणीयानां कल्पनीयानां चाशनादीनां, रोगापहारिणां च भेषजादीनां, शीतादिवारणार्थानां च वस्त्रादीनां, प्रतिलेखनाहेतो रजोहरणादीनां, भोजनाद्यर्थ पात्राणां, औपग्राहिकाणां च दण्डकादीनां, निवासार्थमाश्रयाणां दानम् । न हि तदस्ति यद्रव्यक्षेत्रकालभावापेचयाऽनुपकारकं नाम, तत्सर्वखस्यापि दानम्, साधुधर्मोद्यतस्य स्वपुत्रपुत्र्यादेरपि समर्पणं च । किंबहुना ? यथा यथा मुनयो निराबाधवृत्त्या स्वयमनुष्ठानमनुतिष्ठन्ति, तथा तथा महता प्रयत्नेन सम्पादनम् , जिनवचनप्रत्यनीकानां च साधुधर्मनिन्दापराणां यथाशक्ति निवारणम् । यदाह
तम्हा सइ सामत्थे आणाभट्ठम्मि नो खलु उवेहा । अणुकूलगेयरे हि अ अणुसट्ठी होइ दायव्वा ॥१॥
तथा रत्नत्रयधारिणीषु साध्वीषु साधुष्विव यथोचिताहारादिदानं स्वधनवपनम् । ननु स्त्रीणां निःसवतया दःशीलत्वादिना च मोक्षेऽनधिकारः, तत्कथमेताम्यो दानं साधुदानतुल्यम् । उच्यते-निःसत्त्वमसिडम् , ब्राझीप्रभृतीनां साध्वीनां गृहवासपरित्यागेन यतिधर्ममनुतिष्ठन्तीनां महासवानां नासत्चसम्भवः । यदाह
ब्राझी सुन्दर्यार्या राजीमती चन्दना गणधराज्या। अपि देवमनुजमहिता विख्याताः शीलसत्त्वाभ्याम् ॥१॥ गार्हस्थ्येऽपि सुसचा विख्याताः शीलवतीतमा जगति।सीतादयः कथं तास्तपसि विशीला विसत्त्वाश्च ? ॥२॥ संत्यज्य राज्यलक्ष्मी पतिपुत्रभ्रातबन्धुसम्बन्धम् । पारिव्राज्यवहायाः किमसत्त्वं सत्यभामादेः ? ॥३॥ (१) तस्मात् सति सामर्थ्य आज्ञाभ्रष्टे नो खलूपेक्षा । अनुकूलकेतरे हि चानुशिष्टिर्भवति दातव्या ॥१॥
॥२०७॥
Jan Education Inter
For Personal Private Use Only
Page #433
--------------------------------------------------------------------------
________________
Jain Education Intern
ननु महापापेन मिथ्यात्वसहायेन स्त्रीत्वमर्ज्यते ; न हि सम्यग्दृष्टिः स्त्रीत्वं कदाचिद् बध्नाति इति कथं स्त्रीशरीरवर्तिन आत्मनो मुक्तिः स्यात् १ । मैवं वोचः, सम्यक्त्वप्रतिपत्तिकाल एवाऽन्तः कोटिकोटिस्थितिकानां सर्वकर्मणां भावेन मिथ्यात्वमोहनीयादीनां चयादिसम्भवान्मिथ्यात्वसहितपाप कर्मसम्भवत्वमकारणम्, मोक्षकारणवैकन्यं तु तासु वक्तुमुचितम् । तच्च नास्ति । यतः -
जानीते जिनवचनं श्रद्धत्ते चरति चाऽऽर्यिका शबलम् । नास्यास्त्यसम्भवोऽस्यां नादृष्टविरोधगतिरस्ति ॥ १॥ इति तत्सिद्धमेतन्मुक्तिसाधनधनासु साध्वीषु साधुवद् धनवपनमुचितमिति । एतच्चाधिकं यत् साध्वीनां दुःशीलेभ्यो नास्तिकेभ्यो गोपनम् स्वगृहप्रत्यासत्तौ च समन्ततो गुप्ताया गुप्तद्वाराया वसतेर्दानम्, स्वस्त्रीभिश्च तासां परिचर्थ्याविधापनम्, स्वपुत्रीकाणां च तत्सन्निधौ धारणम्, व्रतोद्यतानां स्वपुत्र्यादीनां प्रत्यर्पणं च तथा विस्मृतकरणीयानां तत्स्मारणम्, अन्यायप्रवृत्तिसम्भवे तन्निवारणम्, सकृदन्यायप्रवृत्तौ शिक्षणम्, पुनः पुनः प्रवृत्तौ निष्ठुरभाषणादिना ताडनम्, उचितेन वस्तुनोपचारणं चेति । श्रावकेषु स्वधनवपनं यथा -- साधर्मिकाः खलु श्रावकस्य श्रावकाः, समानधार्मिकाणां व सङ्गमोऽपि महते पुण्याय, किं पुनस्तदनुरूपा प्रतिपत्तिः ? । सा च खपुत्रादिजन्मोत्सवे विवाहेऽन्यस्मिन्नपि तथाविधे प्रकरणे साधर्मिकाणां निमन्त्रणम्, विशिष्ट भोजनताम्बूलवस्त्राभरणादिदानम्, आपन्निमग्नानां च खधनव्ययेनाप्यभ्युद्धरणम्, अन्तरायदोषाच्च विभवतये पुनः पूर्व भूमिकाप्रापणम्, धर्मे च विषीदतां तेन तेन प्रकारेण धर्मे स्थैर्य्यारोपणम्, प्रमाद्यतां च मारणवारण चोदनाप्रति चोदनादिकरणम्, वाचनाप्रच्छनापरावर्तनाऽनुप्रेक्षाधर्मकथादिषु यथायोग्यं विनियोजनं, विशिष्टधर्मानुष्ठानकरणार्थं च साधारणपोषधशालादेः
For Personal & Private Use Only
84.03.08CROK+***++0008-03
Page #434
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
॥२०८॥
Jain Education Intern
करणमिति । श्राविकातु धनवपनं श्रावकवदन्यूनातिरिक्तमुन्नेतव्यम् । तत्र ज्ञानदर्शनचारित्रवत्यः शीलसन्तोषप्रधानाः सधवा विधवा वा जिनशासनानुरक्तमनसः सार्मिकत्वेन माननीयाः । ननु स्त्रीणां कुतः शीलशालित्वम् , कुतो वा रत्नत्रयुक्तत्वम् , स्त्रियां हि नाम लोक लोकोत्तरे चानुभवाच्च दोषभाजनत्वेन प्रसिद्धाः । एताः खल्वभूमिजा विषकन्दल्यः, अभ्रसम्भवा वज्राशनयः असंज्ञका व्याधयः, अकारणो मृत्युः, अकन्दरा व्याघ्यः प्रत्यक्षा राक्षस्यः असत्यवचनस्य साहसस्य, बन्धुस्नेहविघातस्य सन्तापहेतुत्वस्य निर्विवेकत्वस्य च परमं कारणमिति दूरतः परिहार्या, तत्कथं दानसंमानवात्सल्यविधानं तासु युक्तियुक्तम् १ । उच्यते--अनेकान्त एपः, यत् स्त्रीणां दोषबहुलत्वमुच्यते, पुरुषेष्वपि हि समानमेतत् । तेऽपि क्रूराशया दोषबहुला नास्तिकाः कृतनाः स्वामिद्रोहिणो देवगुरुत्रञ्चकाच दृश्यन्ते । तद्दर्शनेन च महापुरुषाणामवज्ञा कर्तुं न युज्यते, एवं स्त्रीणामपि । यद्यपि कासाञ्चिद्दोपबहुलत्वमुपलभ्यते, तथापि कासांचिद् गुणबहुलत्वमप्यस्ति । तीर्थकरादिजनन्यो हि स्त्री तत्तद्गुणगरिमयोगितया सुरेन्द्रैरपि पूज्यन्तं मुनिभिरपि स्तूयन्ते । लौकिका अध्याहु:
निरतिशयं गरिमाणं तेन युक्त्या वदन्ति विद्वांसः । तं कमपि वहति गर्भं जगतामपि यो गुरुर्भवति ॥ १ ॥ इति ॥ काश्चन स्वशील प्रभावादग्नि जलमित्र, विषधरं रज्जुमित्र, सरितं स्थलमित्र, विषममृतमिव कुर्वन्ति । चतुर्वर्णे च सङ्घे चतुर्थमङ्गं गृहमेधिस्त्रियोऽपि । सुलसाप्रभृतयो हि श्राविकास्तीर्थकरैरपि प्रशस्यगुणाः, सुरेन्द्रैरपि स्वर्गभूमिषु पुनः पुनर्बहुमतचारित्राः प्रबल मिध्यात्वैरप्यक्षोभ्यसम्यक्त्वसम्पदः, काश्चिच्चरमदेहाः, काचिद्वित्रि (त्र) भवान्तरितमोक्षगमनाः शास्त्रेषु श्रूयन्ते । तदासां जननीनामिव भगिनीनामिव खपुत्रीणामिव वात्सल्यं युक्तियुक्तमेवो
For Personal & Private Use Only
*lole
··· +3 K+->R<-- 11/0/
तृतीय :
प्रकाशः
1120511
Page #435
--------------------------------------------------------------------------
________________
पश्यामः । दृष्प्रमहयक्षिणीनागिनास्यव्रतिवतिनीधारशरदपश्चिमा नत्यश्रीः। नत्कथं श्राविकाः पापबद्धनितानिदर्शनेन दुष्यन्ने ? । नम्मा हरण न परिहरणीयाः, वात्सल्यं चासा करीयामिन्यनं प्रसजेन । न केवलं सप्तक्षेच्या धनं वपन महायापक उच्चने, किन्त्वतिदीनेष्वपि नि:स्वावधिपगुरोगातप्रभृतिषु कृपया केवलया धनं वरन् ननु भया। भक्तिपूर्वक दि मप्तव्यां यथोचितं दानम् । अतिदीने त्वपि पारिनपावापात्रमविमृष्ट कल्पनीयाकल्पनीयप्रकार केवचया रुपया स्वधनस्य वपनं न्याय्य भगवन्नोऽपि निष्क्रमणकालेनपेक्षितपात्रापात्रविभागं करुणया सांवत्सरिकदानं दत्तवन्त इति । तदेवं भक्त्या सप्तक्षेत्र्यां दीनेषु चातिदयया धनं वपन महाश्रावक उच्यते । ननु श्रारक इत्युच्यताम् , महाश्रावक इतितुचविशेपर्ण किमर्थ ? उच्यते-- श्रावकत्वमविरतानामेकाद्यणुव्रतधारिणां च शृणोतीति व्युत्पत्योच्यते : यदाह-- सम्पत्तदंसणाई पइदियह जइजणा सुणेई य ! सामायारिं परमं जो खलु तं भावयं बिन्ति ॥१॥
श्रद्धालुतां श्राति पदार्थचिन्तनाद्, धनानि पात्रेषु वपत्यनारतम् ।
किरत्यपुण्यानि सुसाधुसेवना-दद्यापि तं श्रावकमाहुरञ्जसा ।। २ ।। इति निरुक्ताच्च श्रावकन्वं सामान्यस्यापि प्रसिद्धम् । विवक्षितस्तु निरतिचारसकलव्रतधारी सप्तक्षेत्रीलक्षणे क्षेत्रे धनवपनादर्शनप्रभावकतां परमां दधानो दीनेषु चात्यन्तकृपापरो महाश्रावकशद्धनोच्यत इत्यदोषः । १२० ।
सप्तक्षेत्र्यां धनवपनं व्यतिरेकद्वारेण समर्थयते--- (१) संप्राप्तदर्शनादिः प्रतिदिवसं यतिजनात् शृणोति च । सामाचारी परमां यः खलु तं श्रावकं अवते ॥१॥
in Education International
For Personal & Private Use Only
Page #436
--------------------------------------------------------------------------
________________
भास्त्रम्
॥२०॥
-+
-+
य: सहाहामनित्यं क्षेत्रेषु न धन वपेत् । कथं वगश्चारित्रं दुश्च स सनात् ।।१२१। तृतीय
मदिति निधमानमरतो हि धनस्य कथं दानं भवेद ? सदपि बाहां शरीगडहि भने प्रान्तमा कम्य प्रकाश चिहानं न शक्यं वर्त, बाधमपि यदि निन्यमाकालस्थायि भवेत् तदा न दीयेनापि वनिन्यं चौरजलज्यलनदायादपार्थिवादिहरणीयं प्रयत्नगोपितमपि पुण्यक्षयेऽवश्यं विनश्यति : यदस्मद्गुरवः ।
अत्थं चोग विलुपति उद्दालंति य दाइया । राया वा संबगबेइ बला मोडीइ कन्थः ।। जलगा वा विमासेइ पाणियं वा पलावए । अबदारंण निग्गच्छे बमणोपहयम्स वा ।।२। भूमिंगोषियं चेव हरन्ति वन्तरा सुरा । उज्झित्ता जाइ सव्वं पि मरन्तो वा परं भवं ॥ ३ ॥
अनित्यमपि स्वधनं किञ्चित्क्षेप्तुं शक्यते, न हि बहुतैलमस्तीति पर्वता अभ्यज्यन्त इत्युक्तम् क्षेत्रेष्विति, क्षेत्राणि ये पतं धनं शतसहस्रलक्षकोटिगुणं भवति । एवं विधायामपि सामय्यां यः बधनंन वर्षवन बराका निःसच्चवारि महासत्त्वसेवनीयमत एव दुश्चरं कथं समाचरेत् ? : धनमात्रलुब्धो निःसञ्चः कथं सर्वसङ्गत्यागरूपं चारित्रं विदधीत ?, अनाराधितचारित्रश्च कथं सद्गतिं प्राप्नुयात् ?, मर्यविरतिप्रतिपत्ति कल शारोपण फलो हि
चौरा बिलुम्पन्ति, उद्दालयन्ति च दायादाः । राना वा संवारयति बलातु मुद्यते कुत्रापि ।।१।। सली या विनाशयति पानीयं वा प्लावयति । अपद्वारेण निर्गच्छेत् व्यसनोपहतस्य वा ।।२।। नाम संबोपिलमेव हन्ति व्यन्तराः मुराः । उज्झित्वा याति समपि नियमाणो वा परं भवम् ।। ३ ।।
२०६
-+
in Education Internal
For Personal & Private Use Only
Page #437
--------------------------------------------------------------------------
________________
श्रावकधर्मप्रासाद इति ॥ १२१ ।।
इदानीं महाश्रावकस्य दिनचर्यामाहब्राझे मुहर्न उत्तिष्ठेत् परमेष्ठिस्तुतिं पठन्। किंधर्मा किंकुलश्चास्मि किंवतोऽस्मीति च स्मरन् ।।१२।।
पञ्चदशमुहूर्ता रजनी, तस्यां चतुर्दशो मुहूतों ब्राह्मस्तस्मिन्नुत्तिष्ठेत् निद्रां जह्यात; परमे तिष्ठन्तीति परमेष्टिना पश्चाईदादयस्तेषां स्तुति नमो अरिहन्ताणमित्यादिरूपामायन्ति कतहुमान कार्यभूतां परममङ्गलार्थ वा पठन्नव्यक्तवर्णामिति शेषः । यदाह
परमेट्ठिचिन्तगं माणसम्मि सेजागएण कायव्वं । सुत्ता विणयपवित्ती निवारिया होइ एवं तु । १॥
अन्ये त्वविशेषेणैव नमस्कारपाठमाहुन सा काचिदवस्था यस्यां पश्चनमस्कारस्यानधिकार इति मन्वानाः।। न केवलं पठन्, को धर्मो यस्याऽसौ किंधा, किं कुलं यस्याऽसौ किंकुलः, किं व्रतं यस्याऽसौ किंवतोऽस्मीत्यहमिति च स्मरन्निदं भावतः स्मरणम् । उपलक्षणत्वात्के गुरवो ममेति द्रव्यतः, कुत्र ग्रामे नगरादौ वा वसामीति क्षेत्रतः, कः कालः प्रभातादिरिति कालतश्चेत्यादि सरन् , धर्मस्य जैनादेः, कुलस्येक्ष्वाक्कादेः, व्रतानामणुव्रतादीनां स्मरणे तद्विरुद्वपरिहारस्येपत्करत्वात् ॥ १२२ ॥ ततः| शुचिः पुष्पामिषस्तोत्रैर्देवमभ्यर्च्य वेश्मनि।प्रत्याख्यानं यथाशक्ति कृत्वा देवगृहं व्रजेत् ॥१२३।।
(१) परमेष्ठिचिन्तनं मानसे शय्यागतेन कर्तव्यम् । मुक्त्वा विनयप्रवृतिर्निवारिता भवति एवं तु ॥१॥
in Education Interations
For Personal & Private Use Only
Page #438
--------------------------------------------------------------------------
________________
योगशास्त्रम्
तृतीयः
प्रकाशा
॥२१॥
शुचिरिति मलोत्सर्गदन्तधावनजिह्वालेखनमुखप्रक्षालनगण्डूषकरणस्नानादिना शुचिः सन्नित्यनुवादपरं लोकसिद्धो ह्ययमर्थ इति नोपदेशपरम् , अप्राप्ते हि शास्त्रमर्थवत् । न हि मलिनः स्नायात , बुभुतितोऽश्नीयादित्यत्र शास्त्रमुपयुज्यते । अप्राप्ते त्वामुष्मिके मार्गे नैसर्गिकमोहान्धतमसविलुप्तालोकस्य लोकस्य शास्त्रमेव परमं चक्षुरित्येवमुत्तरत्राप्यप्राप्ते विषये उपदेशः सफल इति चिन्तनीयम् । न च सावद्यारम्भेषु शास्तृणां वाचनिक्यप्यनुमोदना युक्ता । यदाहुः
सावजणवजाणं वयणाणं जो न जाणइ विसेसं । वुत्तं पि तस्स न खमं किमङ्ग! पुण देसणं काउं॥१॥
इति शुचित्वमनूद्य पुष्पामिषस्तोत्ररित्याधुपदिशति-वेश्मनि गृहे देवं मङ्गलचैत्यरूपं भगवन्तमहन्तमभ्यर्च्य A पूजयित्वा, पूजाप्रकारानाह-पुष्पामिषस्तोत्रैरिति, पुष्पाणि कुसुमानि पुष्पग्रहां सर्वेषां सुगन्धिद्रव्याणां विलेपनधूपगन्धवासवस्त्राभरणादीनामुपलक्षणम् । आमिषं भक्ष्यं पेयं च, तच्च पक्कानफलाक्षतदीपजलघृतपूर्णपात्रादिरूपं, स्तोत्रं शक्रस्तवादिसद्भूतगुणोत्कीर्तनरूपं, ततः प्रत्याख्यानं नमस्कारसहिताद्यद्धारूपं सङ्केतरूपं च ग्रन्थिसहितादि कृत्वा यथाशक्तीति शक्यनतिक्रमेण, शक्तितस्त्यागतपसी इति सुप्रसिद्धमेव, देवगृहं भक्तिचैत्यरूपं व्रजेद्गच्छेत् । अत्र च स्नानविलेपनवर्णकविशिष्टवस्त्राभरणालङ्कारशस्त्रपरिग्रहविशिष्टवाहनाधिरोहणप्रभृतीनां स्वतःसिद्धानां नोपदेशः । अप्राप्ते शास्त्रमर्थवदित्युक्तमेव । देवगृहव्रजनविधिः पुनरयम्-यदि राजा भवति तदा
(१) सावधानवद्यानां वचनानां यो न जानाति विशेषम् । उक्तमपि तस्य न क्षमं किमङ्ग ! पुनर्देशनां कर्तुम् ॥
॥२१॥
For Personal Private Use Only
in Education
Page #439
--------------------------------------------------------------------------
________________
'सव्वाए इठ्ठीए सवाए दित्तीए सवाए जुईए सन्धबले सबपोरिसेणं' इत्यादिवचनात्प्रभावनानिमितं महम यातिः
अथ सामान्यविभवस्तदा प्रौद्धत्यपरिहारेण लोकोपहासं परिहरन् व्रजति ॥ १२३ ॥ ततःप्रविश्य विधिना तत्र त्रिः प्रदक्षिणायेजिनम् । पुष्पादिभिस्तमभ्यर्च्य स्तवनैरुत्तमैः स्तुयात्॥१२४॥
तत्र देवगृहे विधिना विधिपूर्वक प्रविश्य त्रिस्त्रीन वारान् प्रदक्षिणयेत् प्रदक्षिणीकुर्यात् ; जिनमहद्भट्टारकम् , प्रवेशविधिश्वायम्-पुष्पताम्बूलादिसचित्तद्रव्याणां क्षुरिकापादुकाद्यचित्तद्रव्याणां च परिहारेण कृतोत्तरासङ्गो जिनबिम्बदर्शनेऽञ्जलिबन्धं शिरस्यारोपयन् मनसश्च तत्परतां कुर्वन्निति पञ्चविधाभिगमेन नैषेधिकीपूर्व प्रविशति ।
यदाह-सचित्ताणं दवाणं वि उसरणयाए, अचित्ताणं दवाणं वि उसरणयाए, एगल्लसाडिएणं उत्तरासङ्गकरणेणं चक्खुफासे अञ्जलिपग्गहेणं मणसो एगत्तीभावकरणेणं ति । यस्तु राजादिः चैत्यभवनं प्रविशति स तत्कालं राजचिह्नानि परिहरति । यदाह
अवहट्ट रायकउयाई पञ्च वररायकउआरूवाई । खग्ग छनोवाणह मउडं तह चामराओ य ॥१॥ (१) सर्वया ऋद्दया, सर्वया दीप्त्या, सर्वया द्युत्या, सर्वबलेन, सर्वपौरुषेण ।
(२) सचितानां द्रव्याणामपि अवसरणतया, अचितानां द्रव्याणामपि अवसरणतया, एकशाटकेनोत्तरासङ्गकरणेन, चक्षु:स्पर्श अञ्जलिप्रग्रहेण मनस एकत्वीभावकरणेनेति ।
(३) अपहृत्य रानककुदानि पञ्च वरराजककुदरूपाणि । खड्गः छत्रमुपानद मुकुटं तथा चामराणि च ॥
in Education international
For Personal & Private Use Only
Page #440
--------------------------------------------------------------------------
________________
योगशास्रम्
॥१११ ॥
Jain Education Inte
पुष्पादिभिरिति पुष्पग्रहणं मध्यग्रहणे श्राद्यन्तयोरपि ग्रहणमिति न्यायप्रदर्शनार्थम्, तथाहि — नित्यं विशेष - तश्च पर्वणि त्रात्रपूर्वकं पूजाकरणमिति स्वात्रकाले प्रथमं सुगन्धिश्रीखण्डेन जिनबिम्बस्य तिलककरणम् | ततःमीनकुरङ्गमदागुरुसारं, सारसुगन्धिनिशा करतारम् । तारमिलन्मलयोत्थविकारं, लोकगुरोर्दह धूपमुदारम् ॥१॥ इति वचनाभ्धूपोत्क्षेपणम्, ततः सर्वौषध्यादिद्रव्याणां जलपूर्ण कलशे क्षेपणं, पश्चात् कुसुमाञ्जलिक्षेपपूर्वकं सर्वौषधिकर्पूरकुङ्कुमश्रीखण्डागुरुप्रभृतिभिर्जल मिश्रैर्धृत दुग्धप्रभृतिभिश्च स्वात्रकर णम्, ततः सुरभिणा मलयजरसादिना विलेपनविधानम्, ततः सुगन्धिजाति - चम्पक- शतपत्र विचकिल-कमलादिमालाभिर्भगवतोऽभ्यर्चनम्, रत्नसुवर्णमुक्ताभरणादिभिरलङ्करणम्, वस्त्रादिभिः परिधापनम्, पुरतच सिद्धार्थकशालितण्डुलादिभिरष्टमाङ्गलिका लेखनम्, तत्पुरतश्च बलिमङ्गलदीपदधिघृतादीनां ढौकनम्, भगवतश्च भालस्थले गोरोचनया तिलककरणम्, तत धारात्रिकाद्युत्तारणम् । यदाह
गन्धवरधूवसन्त्रासहीहि उअगाइएहिं चितेहिं । सुरहिविलेवणवरकुसुमदामबलिदीव एहिं च ॥ १ ॥ सिद्धत्थयदहि अक्खयगोरोअणमाइएहिं जहलाभं । कञ्चणमोत्तिरयणाइदामएहिं च विविहिं ॥ २ ॥ पवरेहिं साहहिं पायं भावो वि जायए पवरो । न य अमो उवओोगो एएसि सिया ग लट्ठयरो || ३ || चि । ( १ ) गन्धवरधूपसर्वौषधीभिरुदकादिकैश्वित्रैः । सुरभिविलेपनवर कुसुमद। मबलिदीपकैश्र्व ॥ सिद्धार्थक - दध्यक्षत-गोरोचनादिकैर्यथालाभम् । काञ्चनमौक्तिकरत्नादिदामभिश्च विविधैः ॥ २ ॥ प्रवरैः साधनैः प्रायो भावोऽपि जायते प्रवरः । न चान्य उपयोग एतेषां स्याद् मनोहरतरः ॥ ३ ॥ इति ।
१ ॥
For Personal & Private Use Only
-*-*-*
******
तृतीयः
प्रकाशः ।
॥२११ ॥
Page #441
--------------------------------------------------------------------------
________________
Jain Education Inter
एवं भगवन्तमय पूजयित्वा ऐर्यापथिकप्रितिक्रमणपूर्वकं शक्रस्तवादिभिर्दण्डकै चैत्यवन्दनं कृत्वा स्तवनैः स्तोत्रैरुत्तमैरुत्तम कविरचितैः स्तूयाद् गुणोत्कीर्तनं कुर्यात् । स्तोत्राणां चोत्तमत्वमिदमुक्तम् - यथापिण्डक्रियागुणगतैर्गम्भीरैर्विविधवर्णसंयुतैः । आशयविशुद्धिजनकैः संवेगपरायणैः पुण्यैः ॥ १ ॥ पापनिवेदन गर्भैः प्रणिधान पुरस्सरैर्विचित्रार्थैः । अस्खलितादिगुणयुतैः स्तोत्रैश्च महामतिप्रथितैः ||२|| इति । न पुनरेवंविधैः
एकं ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुनः, पार्वत्या विपुले नितम्बफल के शृङ्गारभारालसम् । श्रन्यद्दूरविकृष्टचापमदनक्रोधानलोद्दीपितं, शम्भोर्भिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥ १ ॥
तथा -
धन्या केयं स्थिता ते शिरसि शशिकला किं नु नामैतदस्या, नामैवास्यास्तदेतत्परिचितमपि ते विस्मृतं कस्य हेतोः । नारीं पृच्छामि नेन्दुं कथयतु विजया न प्रमाणं यदीन्दु-र्देव्या निद्रोतुमिच्छोरिति सुरसरितं शाव्यमव्याद्विभोर्वः
॥ १ ॥
तथा
पैनमत पनयप्पक्कुपितगोली चलणग्गलग्गपडिबिंबं । तससु नखतप्पनेसुं एकातसतनुथलं लुई ॥ १ ॥ तथा
(१) प्रणमत प्रणयप्रकुपितगौरी चरणानलग्नप्रतिबिम्बम् । दशसु नखदर्पणेषु एकादशतनुधरं रुद्रम् ॥ १ ॥
For Personal & Private Use Only
1.140-2
108-11-08
Page #442
--------------------------------------------------------------------------
________________
तृतीयः प्रकाशः।
बोम
| एतत्कि शिरसि स्थितं मम पितुः खण्डं सुधादीधिते-ालाट किमिदं विलोचनमिदं हस्तेऽस्य किं पनगः । 1 इत्थं क्रौञ्चरिपोः क्रमादुपगते दिग्वाससः शूलिना, प्रश्ने वामकरोपरोधसुभगं देव्याः स्मितं पातु वः॥१॥
तथा॥२१२॥ उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा, धृत्वा चान्यन वासो विगलितकबरीभारमंसं वहन्त्याः ।
भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणावः, शय्यामालिङ्गय नीतं वपुरलसलसद्वाहु लदम्याः पुनातु ॥१॥ - अनेन च सम्पूर्णो वन्दनाविधिरुपलचितः। यथा'तिनि निसीहिय तिनि य पयाहिणा तिनि चेव य पणामा । तिविहा पूजा य तहा अवत्थतियभावणं चेव ॥१॥ तिदिसिनिरक्खणविरई भूमीई पमजणं च तिक्खुत्तो । वष्माइतियं मुद्दातियं च तिविहं च पणिहाणं ॥२॥ पुष्फामिसथुइभेया तिविहा पूमा अवत्थतियगं तु | छउमत्थ-केवलिचं सिद्धत्तं भुवणनाहस्स ॥३॥ वयाइतियं तु पुणो वखत्थालम्बणस्सरूवं तु । मणवयणकायजाणअंतिविहं पणिहाणमवि होइ ॥ ४ ॥
तथा(१) तिम्रो नैषेधिक्यस्तिस्रश्च प्रदक्षिणास्त्रयः एव च प्रणामाः । त्रिविधा पूजा च तथाऽवस्थात्रिकभावनं चैव ॥१॥
त्रिदिग्निरीक्षणविरतिभूमौ प्रमार्जनं च त्रिकृत्वः (त्रिः) । वर्णादित्रिकं मुद्रात्रिकं च त्रिविधं च प्रणिधानम् ॥ २॥ पुष्पामिषस्तुतिभेदास्त्रिविधा पूजाऽवस्थात्रिककं तु । छद्मस्थ-केवलित्वं सिद्धत्वं भुवननाथस्य ॥ ३ ॥ वर्णादित्रिकं तु पुनर्वालम्बनखरूपं तु । मनो-वचन-कायजनितं त्रिविधं प्रणिधानमपि भवति ॥ ४॥
॥२१२॥
in Education inter
!
For Personal & Private Use Only
Page #443
--------------------------------------------------------------------------
________________
'पंचगो पणिवाओ थयपाढो होइ जोगमुद्दाए । वन्दन जिणमुद्दाए पणिहाणं मुत्तसुत्ती ॥ १ ॥ दो जाण दोन करा पंचमयं होइ उत्तिमंगं तु । सम्मं संपणिवाओ नेओ पंचगपणिवाओ || २ || पोष्यंत रिअंगुलिको सागारेहिं दोहिं हत्थेहिं । पिट्टोवरिकाप्पर संठिएहिं तह जोगमुद्दति ॥ ३ ॥ चत्तारि अंगुलाई पुरओ ऊणाई जत्थ पच्छिमत्र । पायाणं उस्सग्गो एसा पुण होइ जियमुद्दा || ४ || मुत्तासुत्तमुद्दा जत्थ समा दोवि गब्भिया हत्था । ते पुण खिडालदेसे लग्गा भन्ने अलग्गति ॥ ५॥ इत्यादि । ऐर्यापथिकीप्रतिक्रमणपूर्वकं चैत्यवन्दनमित्युक्तम् । तत ऐर्यापथिकीसुत्रं व्याख्यायते तच्च इच्छामि पडिकमिमित्यादि तस्स मिच्छामि दुक्कडमित्यन्तम्, इच्छामि पडिकमिउं इरियावहियाए बिराहणाए; · इच्छामि अभिलषामि प्रतिक्रमितुं प्रतीपं क्रमितुम्, ईरणमीर्या गमनमित्यर्थः, तत्प्रधानः पन्था ईर्यापथः, तत्र भवा पथिक का विराधना जन्तुबाधा, तस्या ऐर्यापथिक्या विराधनायाः सकाशात् प्रतिक्रमितुमिच्छामीति सम्बन्धः । अस्मिंश्च व्याख्याने ईर्ष्यापथनिमित्ताया एव विराधनायाः प्रतिक्रमणं स्याद्, न तु शयनादेरुत्थितस्य (१) पञ्चाङ्गः प्रणिपातः स्तवपाठो भवति योगमुद्रया । वन्दनं जिनमुद्रया प्रणिधानं मुक्ताशुक्त्या ॥ १॥
जानुनी ौ करौ पञ्चकं भवत्युत्तमाङ्गं तु । सम्यक् संप्रणिपातो ज्ञेयः पञ्चाङ्गप्रणिपातः ॥ २ ॥
अन्योन्यान्तरिताङ्गुलिकोशागा (का) राम्यां द्वाभ्यां हस्ताम्याम् । उदरोप रिकूर्पर संस्थिताम्यां तथा योगमुद्रेति ॥ ३ ॥ चत्वार्यङ्गुलानि पुरत ऊनानि यत्र पश्चिमकः । पादयोरुत्सर्ग एषा पुनर्भवति जिनमुद्रा ॥ ४ ॥ मुक्ताशुक्तिमुद्रा यत्र समौ द्वावपि गर्भितौ हस्तौ । तौ पुनर्ललाटदेशे लग्नावन्यावलग्नाविति ॥ ५ ॥
For Personal & Private Use Only
1-1-1-1
Page #444
--------------------------------------------------------------------------
________________
तृतीयः
शान्त्रम् ॥२१३॥
| कृतलोचादेर्वा; तस्मादन्यथा व्याख्यायते-ईर्यापथः साध्वाचारः, यदाह-ईर्यापथो मौनध्यानादिकं भिक्षुव्रतं तत्र भवा ऐर्यापथिकी; काऽसौ ? विराधना साध्वाचाराविक्रमरूपा तस्या इच्छामि प्रतिक्रमितुमिति सम्बन्धः ।। साध्वाचारातिक्रमश्च प्राणातिपातादिरूपः । तत्र च प्राणातिपातस्यैव गरीयस्त्वम् , शेषाणां तु पापस्थानानामत्रैवान्तर्भावः, अत एव प्राणातिपातविराधनाया एवोत्तरः प्रपश्चः । क सति विराधना ? गमणागमणे गमनं चागमनं च समाहारद्वन्द्वस्तसिन् , गमनं प्रयोजने सति बहिर्यानम् आगमनं प्रयोजनसमाप्तौ स्वस्थान एव गमनम् ।। गमनागमनेऽपि कथं विराधना ? इत्याह-पाणक्कमणे प्राण्याक्रमणे प्राणिनो द्वीन्द्रियादयस्तेषामाक्रमणं पादेन पीडनं प्राण्याक्रमणं तत्र तथा बीअक्कमणे बीजाक्रमणे, अनेन बीजानां जीवत्वमाह; तथा, हरिअक्कमणे हरिताक्रमणे अनेन सकलवनस्पतेः, तथा ओसाउजिंगपणगदगमट्टीमक्कडासंताणासंकमणे, अवश्यायो जलविशेषः, इह चावश्यायग्रहणमतिशयतः शेषजलसम्भोगपरिहरणार्थम् , उत्तिंगा गर्दभाकृतयो जीवाः, ते हि भूमौ विवराणि कुर्वन्ति, कीटिकानगराणि वा उत्तिंगाः; पनकः पञ्चवर्णोलि दकमृत्तिका अनुपहतभूमौ चिक्खिल्लः अथवा, दकशब्देनाप्कायो गृह्यते मृत्तिकाशब्देन तु पृथ्वीकाय इति; मर्कटः कोलिकस्तस्य सन्तानो जालकम् , ततश्चाव| श्यायश्चोत्तिङ्गश्चेत्यादिद्वन्द्वः तेषां संक्रमणमाक्रमणं तसिन् । कियन्तो वा भेदेनाख्यातुं शक्यन्ते ? इत्याह-जे मे जीवा विराहिया ये केचन सर्वथा मया जीवा विराधिता दुःखे स्थापिताः; ते च एगिदिया एकं स्पर्शनमात्रमिन्द्रियं येषां ते एकेन्द्रियाः पृथिव्यप्तेजोवायुवनस्पतिलक्षणाः बेइंदिया द्वे स्पर्शनरसने इन्द्रिये येषां ते द्वीन्द्रियाः कुम्यादयः; तेइंदिया त्रीणि स्पर्शनरसनघ्राणानि इन्द्रियाणि येषां ते त्रीन्द्रियाः पिपीलिकादयः; चउरिंदिया
॥२१३॥
JanEducation inted
For Personal Private Use Only
Page #445
--------------------------------------------------------------------------
________________
tition
चत्वारि स्पर्शनरसनघ्राणचक्षुर्लक्षणानीन्द्रियाणि येषां ते चतुरिन्द्रिया भ्रमरादयः: पंचिंदिया पश्च श्रावान्तानि इन्द्रियाणि येषां ते पभेन्द्रिया मूषकादयः । विराधनाप्रकारमाह ----अभिया अभिपुग्खा हताश्चरणन घट्टिताः, उत्क्षिप्य क्षिप्ता वाः वत्तिा वर्तिताः पुञ्जीकृताः धूलिचिक्खल्लादिना स्थगिताः; लेसिया श्लेषिता: पिष्टा भूम्यादिषु वा लगिताः; संघाइया संघातिताः अन्योन्यगात्रैरेकत्र लगिता:: संघट्टिया संघट्टिताः मनाक स्पृष्टाः परिश्रावित्रा परितापिताः समन्ततः पीडिताः: किलामिश्रा नमिता ग्लानिमापादिता मारणान्तिकं ममृद्घातं नीता इत्यर्थः; उद्दविश्रा अवद्राविता उत्रासिताः; ठाणाओ ठाणं संकामिया स्वस्थानात् परस्थानं नीताः जीवियाग्रो ववरोविया जीविताद व्यपरोपिता मारिता इत्यर्थः;-तस्स तस्य अभिहया इत्यारभ्योक्तविराधनाप्रकारम्य सर्वस्य मिच्छा मि दुकडं मिथ्या मे दुष्कृतम् एतद् दुष्कृतं मिथ्या मे भवतु तिफलं भवत्वित्यर्थः । मिच्छा मि दुक्कडमित्यस्थ पूर्वाचायो निरुक्तविधिमुपदर्शयन्ति तद्यथा
मित्ति मिउमद्दवत्थे छत्ति य दोसाण छायण होइ मिति अमेराए ठिो दुत्ति दगंछामि अप्पाणं ॥१॥ कत्ति कडं मे पावं डत्ति य डेवेमि तं उवसमेणं । एमो मिच्छादुकडपयक्खरत्थो समासेणं ।। २ ।।
एवमालोचनाप्रतिक्रमणरूपं द्विविधं प्रायश्चित्तं प्रतिपद्य कायोत्सर्गलक्षणं प्रायश्चित्तं प्रतिपित्सुरिदं मूत्रं पटतितस्स उत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणेणं विसल्लीकरणेणं पावाणं कम्माणं निग्घायणट्ठाए ठामि
(१) मीति मृदु-मार्दवार्थे छेति च दोषाणां छादने भवति । मीत्यमर्यादायां स्थितो दु-इति जुगुप्स आत्मानम् ॥१॥ केति कृतं मे पापं डेति च लवयामि तदुपशमेन | एप मिच्छादुकड ( मिथ्यादुष्कृत) पदाक्षरार्थः समागेन ।॥ २॥
in Education International
For Personal & Private Use Only
Page #446
--------------------------------------------------------------------------
________________
योग
॥२१४॥
काउस्सगं । तस्यालोचितप्रतिक्रान्तस्य विराधनाप्रकारस्य उत्तरीकरणादिना हेतुभूतेन ठामि काउस्सग्गमिति । वतीय: योगः। तत्रोत्तरकरणं पुनः संस्कारद्वारेण परिष्करणमनुत्तरस्योत्तरस्य करणमुत्तरीकरणम् । अयं भावः-विराधनस्य प्रकाशः। हि पूर्वमालोचनादिकं कृतं तस्यैव कायोत्सर्गकरणमुत्तरकरणम् , तेन पापकर्मनिर्धातना भवति । उत्तरीकरणं च प्रायश्चित्तकरणद्वारेण भवति इत्याह-पायच्छित्तकरणेणं प्रायो बाहुल्येन चित्तं जीवं मनो वा शोधयति प्रायश्चित्तम् । यद्वा पापं छिनत्तीति पापच्छित् आपत्वात्पायच्छित्तं तस्य करणेन हेतुभूतेन । प्रायश्चित्तकरणं च विशुद्विद्वारेण भवतीत्याह-विसोहीकरणेणं विशोधनं विशुद्धिः अपराधमलिनस्यात्मनो निर्मलीकरणं विशुद्धः करणं विशुद्धिकरणं तेन हेतुभूतेन । विशुद्धिकरणं च विशल्यकरणद्वारेण भवति अत आह-विसल्लीकरणेणं विगतानि शल्यानि मायादीनि यस्याऽसौ विशल्यः, अविशल्यस्य विशल्यस्य करणं तेन हेतुभूतेन । किमित्याह-पावाणं कम्माणं निग्घायणट्ठाए पापानां संसारनिबन्धनभूतानां कर्मणां ज्ञानावरणीयादीनां निर्यातनार्थाय निर्घातनमुच्छेदः स एवार्थःप्रयोजनं तस्मै, ठामि काउस्सग्गं अनेकार्थत्वाद्धातूनां ठामि करोमि कायस्स उत्सर्गो व्यापारवतः परित्यागस्तम्। किं सर्वथा? नेत्याह-अन्नत्थ ऊससिएणं अन्यत्रोच्चसितात, तृतीया पश्चम्यर्थे, ऊर्ध्व प्रलम्बं वा |श्वसितमुच्छ्रसितं तन्मुक्त्वा योऽन्यो व्यापारस्तेन व्यापारवतः कायस्य उत्सर्ग इत्यर्थः, उच्छ्रसितं हि निरोद्धमशक्यम् , तन्निरोधे सद्यः प्राणविघाताद्यापत्तेः । यदाह
ऊसासं न निरंभइ अभिग्गहिओवि किमु चिट्ठाए । सज्ज मरणं निरोहे सुहुमुस्सासं तु जयणाउ ॥१॥ (१) उच्छासं न निरुणद्धि आभिग्रहिकोऽपि किमुत चेष्टया । सद्यो मरणं निरोधे सूक्ष्मोच्छासं तु यतनया ॥१॥ । २१४॥
in Education
For Personal & Private Use Only
Page #447
--------------------------------------------------------------------------
________________
T
--NCRE.
एवं नि:श्वमितायपि नामनिश अधः श्वामिन नि:श्वमित तान: सावि काशित किए हुतात: जम्भाइएणं विवृतबदनस्य प्रपलपवननिर्गमा डम्भित तस्मात् , उडएगण उगास्तिाव वापनिमागणं अपादेन पवन निगमो यातनिषगस्तम्मात : मलिए शरीरभ्रमेरामम्मियाः पिगमुच्छ पापनमावल्यान्मनाम्मोही मूछा तस्याः; सुहुमहिं अंगसंचालेहि सूचनेन्यो लक्ष्यालक्ष्यभ्योऽङ्गमचारेभ्यो गात्रविचलनप्रकारभ्या रामोद्गमादिभ्यः: सुमेडिं खेलसंचालहिं सूक्ष्मभ्यः मुलस्य श्लप्मसा: सञ्चारभ्यः; आत्मनो हि वीर्ययुक्तद्रव्यतया अन्नःसूक्ष्म श्लेष्मसञ्चार : सम्भवतीत्यतोऽन्यत्रांच्यते । सुहमदिदिहिसंचालहिं वृक्षोभ्या दृष्टिसञ्चारभ्यो निमपादिम: सूक्ष्मा हि दृष्टिसञ्चारास्तदा मर्वथा निरोर्बु शाक्यन्ते यदा एकस्मिन् द्रव्य दृष्टिनिवेशः स्थिरीकर्तुं शक्यते, “च शक्यते कर्तुमिति । उच्चसितादिभ्योऽन्यत्र कायोत्सर्ग करोमीत्येतावता किमुक्तं भवति ? एकमाइएहि श्रागारहि अभग्गो अविराहिओ हुज मे काउस्सग्गो एवमादिभिरुस्कृसितनिःश्वसितादिभिः पूर्वोकैराकारपवादरूपैरममा धिराधितो मे कायोत्सर्गो भूयादिति सम्बन्धः; आदिशब्दादन्यैरपि यदा अग्नेर्विद्युतो का ज्योतिः स्पृशति तदा प्रावर गायोपधिग्रहणं कुर्वतो न कायोत्सर्गभङ्गः । ननु नमस्कारमेवाभिधाय किमिति तद्ग्रहरा, न करोति येन तद्भङ्गो न भवति ? । उच्यते---- नाऽत्र नमस्कारेण पारणमेवावशिष्टकायोत्सर्गमानं क्रियते, किन्तु यो यत्परिमाण कायोत्सर्ग तस्तावन्तं कालं प्रतीक्ष्य तत ऊर्य नमस्कारमपठित्वा पारयतो भङ्गोऽपरिसमाप्ते पि च पठतो भङ्ग एव, तस्माद्यो यत्परिमाण : का योत्सर्गस्तस्मिन् पूर्ण एव नमो अरिहंताणमिति वक्तव्यम् । तथा मार्जार मूषिकादेः पुरतो गमने प्रतः सरतोऽपि न भङ्गः । तथा चौरसंभ्रमे राजसंभ्रमे वा अस्थानेऽपि नमस्कारमुचारयतो न भङ्गः। तथा सर्पदष्टे आत्मनि परे
DRE--
-
in Education International
For Personal & Private Use Only
Page #448
--------------------------------------------------------------------------
________________
तृतीयः
प्रकाशः।
वा साध्वादौ सहसा उच्चारयतो न मङ्गः । यदाहु:
अगणि-उच्छिन्दिज-वोहिनखोभाइ-दीहडको वा । आगारेहिं न भग्गो उस्सग्गो एवमाईहिं ॥१॥
आक्रियन्ते प्रागृह्यन्ते इत्याकाराः कायोत्सर्गापवादप्रकारा इत्यर्थः, तैराकारैर्विद्यमानैरपि भग्नः सर्वथा विनाशितः, न भग्नोऽभग्नः, विराधितो देशभग्नः, न विराधितोऽविराधितो भवेन्मम कायोत्सर्गः। कियन्तं कालं यावदित्याह-जाव अरिहंताणं भगवंताणं नमोकारेणं न पारेमि यावदिति कालावधारणे, यावदर्हतां भगवतां सम्बन्धिना नमस्कारेण नमो अरिहंताणमित्यनेन न पारयामि न पारं गच्छामि तावत्किमित्याह-ताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि तावत्तावन्तं कालं कायं देहं स्थानेनोर्ध्वस्थानेन हेतुभूतेन ऊर्ध्वस्थानमभिगृह्य कायप्रसरनिषेधेनेत्यर्थः, मौनेन वाग्निरोधलक्षणेन, ध्यानेन शुभेन सद्विषये चिन्तामभिगृह्येत्यर्थः अप्पाणं आर्षत्वादात्मीयं कायं वोसिरामि व्युवसजामि कुव्यापारनिराकरणेन परित्यजामि । अन्ये तु अप्पाणमिति न पठन्ति । अयमर्थः-पञ्चविंशत्युच्यासमानं कालं यावर्चस्थानस्थितः प्रलम्ब जो निरुद्धवाक्प्रसरः प्रशस्तध्यानाऽनुगतस्तिष्ठामि स्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासद्वारेण व्युत्सृजामि । पञ्चविंशत्युच्छासाथ चतुर्विंशतिस्तवेन चन्देसु निम्मलयरा इत्यन्तेन चिन्तितेन पूर्यन्ते, पायसमा ऊसासा इति वचनात् । संपूर्णकायोत्सर्गश्च नमो अरिहंताणमिति नमस्कारपूर्वकं पारयित्वा चतुर्विशतिस्तवं संम्पूर्ण पठति । एवं सन्निहिते गुरौ
(१) अग्न्यु-च्छेद्य-बोधिकक्षोभादि दीर्घदष्टो वा । आकारैर्न भग्न उत्सर्ग एवमादिमिः ॥१॥
॥२१॥
Lain Education intern
For Personal & Private Use Only
Page #449
--------------------------------------------------------------------------
________________
तत्समक्षं, गुरुबिरहे तु गुरुस्थापना मनसि कृत्वा ईर्यापथप्रतिक्रमणं निर्वयं चैत्यवन्दनमुत्कृष्टमारभ्यते, जघन्यमध्यमे तु चैत्यवन्दने ऐोपथिकीप्रतिक्रमणमन्तरेणापि भवतः। अत्र नमस्कारेण नमो अरिहंताणमित्यनेन
वपुरेव तवाचष्टे भगवन् ! वीतरागताम् । न हि कोटरसंस्थेऽग्नौ तरुर्भवति शाङ्कलः ॥१॥
इत्यादिना कविकृतेन च जघन्या चैत्यवन्दना भवति । अन्ये तु प्रणाममात्ररूपा जघन्यां चैत्यवन्दना वदन्ति । प्रणामस्तु पश्चधा
एकाङ्गः शिरसो नामे स द्वयङ्गः करयोर्द्वयोः। त्रयाणां नमने व्यङ्गः करयोः शिरसस्तथा ॥१॥ चतुर्णा करयोर्जान्वोनमने चतुरङ्गकः । शिरसः करयोर्जान्वोः पञ्चाङ्गः पञ्चके नते ॥२॥ मध्यमा तु स्थापनार्हतः स्तवदण्डकेन स्तुत्या चैकया भवति । यदाहनवकारेण जहन्ना दंडगथुइजुगल मज्झिमा णेया। संपुरमा उक्कोसा विहिणा खलु वंदणा तिविहा ॥१॥
इत्युत्कृष्टया चैत्यवन्दनया वन्दितुकामो विरतः साधुः श्रावकश्च अविरतसम्यग्दृष्टिरपुर्नबन्धको वा यथामद्रको यथोचितं प्रतिलखितप्रमार्जितस्थण्डिलो भुवनगुरौ विनिवेशितनयनमानसः संवेगवैराग्यवशादुत्पन्नरोमाञ्चकञ्चुको मुदश्रुपूर्णलोचनः अतिदुर्लभं भगवत्पादवन्दनमिति बहु मन्यमानो योगमुद्रया अस्खलितादिगुणोपेतं तदर्थानुस्मरणगर्भ प्रणिपातदण्डकसूत्रं पठति । तत्र च त्रयस्त्रिंशदालापका आलापकद्विकादिप्रमाणाश्च विश्रामभूमिरूपा नवसम्पदो भवन्ति । यदाह
(१) नमस्कारेण जघन्या दण्डकस्तुति युगलाद् मध्यमा ज्ञेया । सम्पूर्णोत्कृष्टा विधिना खलु वन्दना त्रिविधा ॥१॥
in Education international
For Personal & Private Use Only
Page #450
--------------------------------------------------------------------------
________________
योग
वतीय,
शास्त्रम्
॥२१६॥
दो तिम चउर ति पंचा दोनि अ चउरो य हुन्ति तिने य । सक्कथए नव संपय तित्तीसं होन्ति पालावा ॥१॥
एताश्च यथास्थानं नामतः प्रमाणतश्च कथयिष्यन्ते । व्याख्या नमो त्थु णं अरहताणं भगवंताणं तत्र नम इति नैपातिकं पदं पूजार्थ, पूजा च द्रव्यभावसकाचः। तत्र करशिरःपादादिद्रव्यसन्न्यासो द्रव्यसङ्कोचा, भावसवोचस्तु विशुद्धस्य मनसो नियोगः, अस्विति भवतु । प्रार्थनैषा धर्मवीजमाशयविशुद्धिजनकत्वात् । णमिति वाक्यालङ्कारे । अतिशयपूजामहन्तीति अर्हन्तः । यदाह
अरहंति वंदणनमंसणाई अरहंति पयसकारं । सिद्धिगमणं च परिहा भरहता तेण वुच्चंति ॥१॥
सुगद्विषाहः सत्रिशत्रुस्तुत्ये ॥ ५। २ । २६ ॥ इति वर्तमानकालेऽवृश् । कथं वर्तमानकालत्वमिति चेत्, । पूजारम्भस्याऽनुपरमात् । एष एव हि न्याय्यो वर्तमानकालो यत्रारब्धस्यापवर्गो नास्ति । तथा परिहननादर्हन्तः, अरयश्च मोहादयः साम्परायिककर्मबन्धहेतवः, तेषामरीणामनेकभवगहनव्यसनप्रापणकारणानां हननादर्हन्तः ।। तथा रजोहननादर्हन्त:, रजश्च घातिकर्मचतुष्टयं येनावृतस्यात्मनः सत्यपि ज्ञानादिगुणस्वभावत्वे घनसमूहस्थगितगभस्तिमण्डलस्य विवस्वत इव तद्गुणानामभिव्यक्तिर्न भवति तस्य हननादर्हन्तः । तथा रहस्याभावादहन्तः; तथाहि-भगवतां निरस्तनिरवशेषज्ञानावरणादिकर्मपारतच्याणां केवलमप्रतिहतमनन्तमद्भुतं ज्ञानं दर्शनं चास्ति, ताम्यां जगदनवरतं युगपत्प्रत्यक्षतो जानतां पश्यतां च रहस्यं नास्ति, तस्माद्रहस्याभावादहन्तः । एषु त्रिवर्थेषु |
(१) द्वौ त्रयश्चत्वारस्त्रयः पञ्च द्वौ च चत्वारश्च भवन्ति त्रयश्च । शक्रस्तवे नव सम्पदस्त्रयस्त्रिंशदू भवन्ति आलापाः ॥१॥ (२) अर्हन्ति वन्दन-नमस्यनाद्यर्हन्ति पूजासत्कारम् । सिद्धिगमने च अर्हा अर्हन्तस्तेनोच्यन्ते ॥१॥
२१६॥
in Education interations
For Personal & Private Use Only
Page #451
--------------------------------------------------------------------------
________________
पृषोदरादित्वादहदिति सित्यति । अथवा अविद्यमान रह एकान्तरूपो देशोऽन्तब मध्यं गिरिगुहादीनां सर्ववेदितया प्रच्छन्नस्य कस्याप्यभावेन येषां तेरहोऽन्तरस्तेम्योऽरहोन्तर्यः अथवा प्ररहदभ्यः वीणरागत्वात् कचिदप्यासक्तिमगच्छद्भयः। अथवा अरहदभ्यो रागद्वेषहेतुभूतमनोज्ञेतरविषयसंपर्केऽपि वीतरागत्वादिकं स्वं स्वमावमत्यजनयः । अरिहंताणमिति पाठान्तरं वा; तत्र कर्मारिहन्तृभ्यः । आह च
अढविहं पि हु कम्मं अरिभूयं होइ सयलजीवाणं । तं कम्ममरिहंता अरिहंता तेण वुञ्चति ॥१॥ अरुहंताणमित्यपि पाठान्तरम । तत्र अरोहद्भ्योऽनुपजायमानेभ्यः, क्षीणकर्मबीजत्वात् उक्तश्चदग्धे बीजे यथात्यन्तं प्रादुर्भवति नाङ्करः । कर्मबीजे तथा दग्ने नारोहति भवाडरः॥१॥
शाब्दिकास्तु अर्हच्छन्दस्यैव प्राकृते रूपत्रयमिच्छन्ति, यद्वयमवोचाम-"उच्चाईति" || ८।२।१११ ॥ चकाराददितावपि, तेभ्योऽर्हद्भ्यो नमोऽस्त्विति नमःशब्दयोगाच्चतुर्थी, “चतुर्थ्याः षष्ठी"॥८।३।१३१ ।। इति प्राकृतसूत्राच्चतुर्थ्याः स्थाने षष्ठी । बहुवचनं चाद्वैतव्यवच्छेदेनाऽहद्वहुत्वख्यापनार्थम्, विषयबहुत्वेन नमस्कर्तुः फलातिशयज्ञापनार्थ च । एते चाहन्तो नामाद्यनेकभेदा इति भावार्हत्सम्परिग्रहार्थमाह भगवद्भयः
भगोऽर्कज्ञानमाहात्म्ययशोवैराग्यमुक्तिषु । रूपवीर्यप्रयत्नेच्छाश्रीधर्मैश्वर्ययोनिषु ॥१॥
इतिवचनादर्कयोनिवर्जमिह द्वादशधा भगशब्दस्यार्थः स विद्यते येषां ते भगवन्तः, निन्दावर्ज भूम्या(म्रा दिष्वर्थेषु मतुः ज्ञानं तावद्गर्भनिवासात् प्रभृति आदीक्षातो मतिश्रुतावधिलक्षणं दीक्षानन्तरं त्वाघातिकर्मचतुष्टय
(१) अष्टविधमपि खलु कर्माऽरिभूतं भवति सकलजीवानाम् । तत्कारिहन्तारोऽन्तस्तेनोच्यन्ते ॥१॥
Jain Education
T
al
For Personal & Private Use Only
Page #452
--------------------------------------------------------------------------
________________
तृतीयः
शाचम्
प्रकाश
॥२१७॥
चयाद् मनःपर्यायज्ञानसहितम्, घातिचये चानन्तमनन्तविषयं निःशेषभावाभावखभावावभासकं केवलज्ञानम् १। माहात्म्यं प्रभावातिशयः, तच्च सर्वकल्याणकेषु नारकाणामपि सुखोत्पादकत्वेन नित्यसन्तमसेष्वपि नरकेषु प्रकाशजनकत्वेन गर्भनिवासात् प्रभृति कुलस्य धनादिवर्धनेनाप्रणतसामन्तानां च प्रणत्यतिमारिवरोपहतिवर्जितराज्यकरणेनाऽतिवृष्ट्यनावृष्टिप्रभृत्युपद्रवरहितजनपदत्वेन चलितासनसकलसुरासुरप्रणतपादपद्मत्वेन चाऽवसेयम् २ । यशस्तु रागद्वेषपरीषहोपसर्गपराक्रमसमुत्थमाकालप्रतिष्ठं यत्सर्वदा दिवि सुरसुन्दरीभिः पाताले नागकन्याभिर्गीयते सुरासुरैनित्यमभिष्ट्रयते च ३ । वैराग्यं मरुन्नरेन्द्रलक्ष्मीमनुभवतामपि यत्र तत्र रतिर्नाम, यदा तु सर्वविषयत्यागपूर्वकं प्रव्रज्यां प्रतिपद्यन्ते तदाऽलमेभिरिति, यदा तु क्षीणकर्मा)णो भवन्ति तदा सुखदुःखयोर्भवमोचयोरौदासीन्यमिति त्रिविधमप्यतिशायि भवति । यदवोचाम वीतरागस्तोत्रे
यदा मरुन्नरेन्द्रश्रीस्त्वया नाथोपभुज्यते । यत्र तत्र रतिर्नाम विरक्तत्वं तदापि ते ॥१॥ नित्यं विरक्तः कामेभ्यो यदा योगं प्रपद्यसे । अलमभिरिति प्राज्यं तदा वैराग्यमस्ति ते ॥ २॥ सुखे दुःखे भवे मोक्षे यदौदासीन्यमीशिषे । तदा वैराग्यमेवेति कुत्र नाऽसि विरागवान् ॥३॥ इति ॥४॥ मुक्तिश्च सकलनेशप्रहाणलक्षणा सन्निहितैवेति ॥ ५॥ रूपं तुसबसुरा जइ रुवं अंगुट्ठपमाणयं विउविज्जा । जिणपायंगुढ पइ न सोहए तं जहिंगालो ॥१॥ इति निदर्शनात् सिद्धं सर्वातिशायि ६ । वीर्य च मेरोर्दण्डरूपतां धरित्र्याश्च छत्ररूपतां कर्तुं सामर्थ्यम्, (१) सर्वसुरा यदि रूपमङ्गुष्टप्रमाणकं विकुंर्वेयुः । जिनपादाङ्गुष्ठं प्रति न शोभते तद् यथाङ्कारः ॥ १ ॥
॥२१७॥
Lain Education interneta
For Personal & Private Use Only
JC
Page #453
--------------------------------------------------------------------------
________________
Jain Education Internati
श्रूयते हि तत्कालजातेनैव श्रीमहावीरेण शक्रशङ्कापनोदाय वामपादाङ्गुष्ठेन मेरुपर्वतः प्रकम्पितः ७ । प्रयत्नः परमवीर्यसमुत्थ एकरात्रिक्यादिमहाप्रतिमाभावहेतुः समुद्धात शैलेश्यवस्थाव्यङ्गः ८ । इच्छा तु जन्मान्तरे सुरजन्मनि तीर्थकरजन्मनि च दुःखपङ्कमग्नस्य जगत उद्दिधीर्षातिशयवती ६ । श्रीर्घातिकर्मोच्छेदविक्रमावात केवलालोकसम्पत्तिः, अतिशय सुखसम्पच्चानुपमा १० | धर्मः पुनरनाश्रवो महायोगात्मको निर्जराफलोऽतिश्रेयान् ११ । ऐश्वर्य तु भक्तिभरावनम्रत्रिदशपतिविहितसमवसरणप्रातिहार्यादिरूपम् १२ । एवम्भूता एव प्रेक्षावतां स्तोतव्या इत्याभ्यामालापकाभ्यां स्तोतव्यसम्पदुक्ता । साम्प्रतमस्या हेतुसम्पदुच्यते- थाइगराणं वित्थयराणं सयंसंबुद्धाणंआदिकरणशीला आदिकरणहेतवो वा आदिकराः सकलनीतिनिबन्धनस्य श्रुतधर्मस्येति सामर्थ्याद्गम्यते तेभ्यः । यद्यपि सैषा द्वादशाङ्गी न कदाचिन्नासीत्, न कदाचिन्न भवति, न कदाचिन्न भविष्यति, प्रभूच्च भवति च भविष्यति चेति वचनाद् नित्या द्वादशाङ्गी; तथाप्यर्थापेक्षया नित्यत्वं शब्दापेक्षया तु स्वस्वतीर्थेषु श्रुतधर्मादिकरत्वमविरुद्धम् । एतेऽपि कैवल्यानन्तरापवर्गवादिभिरतीर्थकरा एवेष्यन्ते अकृत्स्त्रक्षये कैवन्याभावादिति वचनादिति तद्व्यपोहार्थमाह - तीर्थकरेभ्यस्तीर्यते संसारसमुद्रोऽनेनेति तीर्थ तच्च प्रवचनाधारश्चतुर्विधसङ्घः प्रथमगणधरो वा; यदाहुः - तित्थं भन्ते ! तित्थं ? तित्थयरे तित्थं ? गोयमा ! अरिहा ताव नियमा तित्थंकरे वित्थं पुण चाउवले समणसंघे पढमगणहरे वा, तत्करणशीलास्तीर्थकराः । न चाकृत्स्रचये कैवल्यं न भवति, घातिकर्मक्षये अघातिकर्मभिः कैवल्यस्याबाधनात् । एवं ज्ञानकैवन्ये तीर्थकरत्वमुपपद्यते, मुक्तकैवन्ये तु तीर्थकरत्वमस्माभिरपि (१) तीर्थ भगवन् ! तीर्थे ! तीर्थंकरस्तीर्थे ! गौतम ! अर्हस्तावन्नियमात् तीर्थंकरस्तीर्थं पुनश्चतुर्वर्णः श्रमणसङ्घः प्रथमगणधरो वा
For Personal & Private Use Only
10- 1,0381.0.0.0.
Page #454
--------------------------------------------------------------------------
________________
तृतीयः प्रकाशः ।
२१
॥
शंग
नेष्यते । एतेऽपि सदा शिवानुग्रहाद कश्चिद्धाधवन्त इप्यन्ते, यदाह-मद्देशानुग्रहाद् बोधनियमाविति तन्निराकरबास्त्रम् |
गाथमाह-स्वयंसंबुन्हे भ्यः स्वश्मात्मना सामव्यत्वादिमामग्री परिपाकान तु परोपदेशात रम्यगविपर्ययेण वुद्धा अवगततयाः स्वयंसंवुद्धास्तेभ्यः । यदि भवान्तरण नथाविधगुरुगनिभानायत्तबोधाम्ने भूपन , तथापि तीर्थ करन्मनि परोपदेशनिरपेक्षा बुद्धाः, यद्यपि च तकाजन्मन्यपि लोकान्ति कत्रिदशावनात भय तिथं पवनेह ' इत्येवंलक्षणाद् दीक्षां प्रतिपयले नयासि वैतालिकवचनानन्तरमहल नरेन्द्रयावान् स्वयमेव प्रवज्यां प्रतिपद्यन्ते । इदानी स्तोतव्यसम्पद् पर देतुविशेषसम्पदुच्यते-पुगिसुत्तमाग पुरिमसीमा पुरिमारपुण्डरीयाणं पुरिलवरगन्धहत्यीj-पुरि शरीरे शयनान् पुरुषा विशिष्टकर्मोदयाद्विशिष्टसंस्थानवन गरीरबादितः मचानेपामुतमाः सहजतयाभव्यत्यादिभावनः श्रेष्ठाः दुरुपोत्तमाः; नथाहि-आसंसारमेते परार्थव्य गनिन उपसर्जनीकृतस्यार्था उपचितक्रियावन्तोऽदीनभावाः सफलारम्भिणो दृढानुशयाः कृतज्ञतापत्तयोऽनु पहतचिना देवगुरुबहुभानिनो गम्भीराशया इति । न खल्वसमारचितमपि वायरलं समानमितरण । न च समारचितोपि काचादिजान्यरत्तीभवति । एवं च यदाहुः सोगताः-नास्तीह कश्चिदभाजनं सच इति, सर्वे बुद्धा भविष्यन्ति इति च, तत् प्रत्युक्तम् । एते
च बाह्यार्थसंवादसत्यवादिभिः संस्कृताचार्यशिष्यनिरुपमानस्तवार्दा एवेष्यन्ते हीनाधिकाभ्यामुपमा मृषेति वचनाFol त्तद्व्यवच्छेदार्थमाह-पुरुषसिंहेभ्यः पुरुषाः सिंहा इव प्रधानाः शौर्यादिगुणभावेन पुरुषसिंहाः, यथा सिंहाः Hशौर्यादिगुणयोगिनः तथा भगवन्तोऽपि कर्मशत्रून् प्रति शूरतया तदुच्छेदं प्रति क्रूरतया क्रोधादीन् प्रत्यसहन
(१) भगवस्तीर्थ प्रवर्तय।
॥२१
॥
Jain Education international
For Personal & Private Use Only
Page #455
--------------------------------------------------------------------------
________________
तया रागादीन् प्रति वीर्ययोगेन तपःकर्म प्रति वीरतया रूयाताः, तथा एषामवज्ञा परीषहेषु, न भयमुपसर्गेभ्यः, न चिन्ताऽपि इन्द्रियवर्गे, न खेदः संयमाध्वनि, न प्रकम्पो च्याने, न चैवमुपमा मृषा तद्द्वारेण तदसाधारणगुणामिधानादिति । एते च सुचारुशिष्यैः सजातीयोपमायोगिन एवेष्यन्ते विजातीयेनोपमायां तत्सदृशधमोपच्या पुरुषत्वाधभावप्राप्तिः । यदाहुः-ते विरुद्धोपमायोगे तापत्या तदवस्तुत्वमिति तद्व्यपोहायाह-पुरुषवरपुण्डरीकेभ्यः पुरुषा वरपुण्डरीकाणीव संसारजलासङ्गादिना धर्मकलापेन पुरुषवरपुण्डरीकाणिं तेभ्यः, यथाहि पुण्डरीकाणि पङ्के जातानि जलेन वर्धितानि तदुभयं विहायोपरि वर्तन्ते प्रकृतिसुन्दराणि च भवन्ति, निवासो भुवनलक्ष्म्याः , आयतनं चक्षुराद्यानन्दस्य, प्रवरगुणयोगतो विशिष्टतिर्यनरामरैः सेव्यन्ते, सुखहेतवो भवन्ति तथा भगवन्तोऽपि कर्मपङ्के जाता दिव्यभोगजलेन वर्धिता उभयं विहाय वर्तन्ते, सुन्दराश्चातिशययोगेन, निवासो गुणसम्पदः, हेतवः परमानन्दस्य, केवलादिगुणभावेन तिर्यग्ररामरैः सेव्यन्ते, निवृत्तिसुखहेतवश्च जायन्ते इति भिन्नजातीयोपमायोगेऽप्यर्थतो विरोधाभावेन यथोदितदोषासम्भवः । यदि तु विजातीयोपमायोगेन तद्धर्मापत्तिरापाधते तर्हि सिंहादिसजातीयोपमायोगे तद्धर्माणां पशुत्वादीनामप्यापत्तिः स्यादिति । एतेऽपि यथोचरं गुणक्रमाभिधानवादिभिः सुरगुरोविनेयहीनगुणोपमापूर्वकमधिकगुणोपमारे इष्यन्ते । अभिधानक्रमाभावे अभिधेयमपि तद्वदक्रमवदसदितिवचनादेतन्निरासायाह-पुरुषवरगन्धहस्तिभ्यः पुरुषावर गन्धहस्तिन इव वरगजेन्द्रा इव पुरुषवरगन्धहस्तिनः यथा गन्धहस्तिनांगन्धेनैव तद्देशविहारिणःक्षुद्रगजा भज्यन्ते तददिति परचक्रदुर्भिचमारिप्रभृतयः सएवोपद्रवगजा भगवतामचिन्त्यपुण्यानुभावानां विहारपवनगन्धादेव भज्यन्ते। न चैवमभिधानक्रमाभावेऽभिधेयमपि
For Personal Private Use Only
Page #456
--------------------------------------------------------------------------
________________
तृतीयः
प्रकाशः।
क्रमवदसदिति वाच्यम् , सर्वगुणानामेकत्राऽन्योऽन्यसंवलितत्वेनावस्थानात ,तेषां यथारुचि स्तोत्रामिधानेन दोषः। शास्त्रम्
एवं पुरुषोत्तमत्वादिना प्रकारेण स्तोतव्यसम्पद एव हेतुविशेषसम्पत्तृतीया।३। इदानीं स्तोतव्यसम्पद एव सामान्येनो
पयोगसम्पदमाह-लोगुत्तमाणं लोगनाहाणं लोगहिमाणं लोगपईवाणं लोगपजोअगराणं-समुदायेष्वपि प्रवृत्ताः शब्दा ॥२१ ॥
अनेकधा अवयवेष्वपि प्रवर्तन्ते इति न्यायाद्यद्यपि लोकशब्देन तत्त्वतः पश्चास्तिकाया उच्यन्ते, धर्मादीनां वृचिव्याणां
भवति यत्र तत क्षेत्रं तैर्द्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यमिति वचनात् । तथापीह लोकशब्देन भव्यसत्त्वलोक एव । परिगृह्यते, सजातीयोत्कर्ष एवोचमत्वोपपत्तेः। अन्यथा अभव्यापेक्षया सर्वभव्यानामप्युत्तमत्वान्नैपामतिशय उक्तः
स्यात् । ततश्च भव्यसत्त्वलोकस्य सकलकल्याणनिबन्धनतया भव्यत्वभावेनोत्तमा लोकोत्तमास्तेभ्यः, लोकनाथेभ्यः, इह लोकशब्देन बीजाधानादिना संविभक्तो रागाद्युपद्रवेभ्यो रचणीयो विशिष्टो भव्यलोकः परिगृह्यते अस्मिन्नेव नाथत्वोपपत्तेः, योगक्षेमनाथ इति वचनात्, तदिह येषामेव बीजाधानोरेदपोषणैर्योगः, चेमं च तत्तदुपद्रवरक्षणेन ते एव भव्या लोकशब्देन गृह्यन्ते, न चैते योगचेमे सकलभव्यसत्चविषये कस्यचित्सम्भवतः सर्वेषामेव मुक्तिप्रसङ्गाचस्मादुक्तस्यैव लोकस्य नाथा इति । तथा लोकहितेभ्यः, इह लोकशब्देन सकल एव सांव्यवहारिकादिभेदभिन्नःप्राणिवर्गोंगृह्यते. तस्मै सम्यगदर्शनप्ररूपणरक्षणयोगेन हिता लोकहिताः, तथा लोकप्रदीपेभ्यः, अत्र लोकशब्देन विशिष्ट एव देशना
यंशुभिर्मिथ्यात्वतमोऽपनयनेन यथार्ह प्रकाशितज्ञेयभावः संझिलोकः परिगृह्यते तं प्रत्येव भगवतां प्रदीपत्वोपपत्तेः। Hन बन्धं प्रति प्रदीपः प्रदीपो नाम, तदेवंविधं लोकं प्रति प्रदीपा लोकप्रदीपाः । तथा लोकप्रद्योतकरेभ्यः, इह
लोकशब्देन विशिष्टचतुर्दशपूर्वविडोकः परिगृह्यते, तवैव तत्त्वतः प्रद्योतकरत्वोपपत्तेः, प्रद्योतं च सप्तप्रकारं जीवा
॥२१॥
Jain Education intel
For Personal & Private Use Only
Page #457
--------------------------------------------------------------------------
________________
वस्तुतस्त्वं तत्प्रद्योतकरणञ्च विशिष्टानामेव पूर्वविदां भवति तेऽपि षट्स्थानपतिता एव श्रूयन्ते, न च तेषां सर्वेषामपि प्रद्योतः सम्भवति, प्रद्योतो हि विशिष्टतत्त्वसंवेदन योग्यता, सा च विशिष्टानामेव भवति । तेन विशिष्टचतुर्दश पूर्वविद्भोकांपेक्षया प्रद्योतकराः । एवं लोकोत्तमत्वादिभिः पञ्चभिः प्रकारैः परार्थ करणाः स्तोतव्यसम्पदः सामान्येनोपयोगसम्पच्चतुर्थी ४ । इदानीमुपयोगसम्पद एव हेतु संपदुच्यते - अभयदयाणं चक्खुदयाखं मागदयाणं सरणदयाखं बोहिदयाणं - इह अभयं सप्तधा इह परलोका दाना-स्मादाऽऽजीव- मरण - श्लाघा भेदनैतत्प्रतिपक्षतोऽभयं विशिष्टमात्मनः स्वास्थ्यं निःश्रेयसे धर्मभूमिकानिबन्धनभूतं वृद्धिरित्यन्येषां तदित्यं भूतमभयं गुणप्रकर्षयेोगादचिन्त्यशक्तियुक्तत्वात् सर्वथा परार्थकारित्वाद् भगवन्त एवं ददतीत्यभयदास्तेभ्यः; तथा चक्षुर्देभ्यः, इह चक्षुर्विशिष्टमात्मधर्मरूपं तत्त्वावबोधनिबन्धनं गृह्यते । तच्च श्रत्यन्येषां तद्विहीनस्याचक्षुष्मत इव वस्तुतदर्शनायोगाद् न च मार्गानुसारिणी श्रद्धा सुखेनावाप्यते सत्यां चास्यां कल्याणचक्षुषो भवति वस्तु तस्यदर्शनम् तदियं धर्मकल्पद्रुमस्यावन्ध्यवीजभूता भगवद्भय एव भवतीति चक्षुर्ददतीति चक्षुर्दाः; तथा मार्गदेभ्यः, इह मार्गे भुजङ्गमनलिकाया तुल्यो विशिष्टगुणस्थानावाप्तिप्रवणः स्वरसवाही क्षयोपशम विशेषोऽयममुमन्ये सुखेत्याचक्षते [अस्मिन्नसतेिन यथोचितगुणस्थानावाप्तिर्मार्गविषमतया चेतः स्खलनेन प्रतिबन्धोपपत्तेः, मार्गश्च भगवद्भय एवेति मार्ग ददतीति मार्गदाः तथा शरणदेभ्यः, इह शरणं भयार्तत्राणं तच्च संसारकान्तारगतानामतिप्रबलरागादिपीडितानां समाश्वासनस्थानकल्पं तत्त्वचिन्तारूपमध्यवसानं विविदिषेत्यन्येषामस्मिंश्च सति तचगोचराः शुश्रूषाश्रवण- ग्रहण - धारण-विज्ञानो हापोह तत्त्वाभिनिवेशा: प्रज्ञागुणा भवन्ति । तस्वचिन्तामन्तरेण तेषामभावात्
For Personal & Private Use Only
CKYOK+
Page #458
--------------------------------------------------------------------------
________________
योग
तृतीयः
प्रकाशा
॥२२
॥
सम्भवन्ति तु तामन्तरेणापि तदाभासा न पुनः स्वार्थसाधकत्वेन भावसाराः, तत्वचिन्तारूपं शरणं भगवद्भय एव भवतीति शरणं ददतीति शरणदाः, तथा बोधिदेभ्यः, इह बोधिर्जिनप्रणीतधर्मावाप्तिः, इयं पुनर्यथाप्रवृत्तअपूर्व-अनिवृत्तिकरणत्रयव्यापाराभिव्यङ्ग्यमभिन्नपूर्वग्रन्थिभेदतः प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलचणं तत्वार्थश्रद्धानं सम्यग्दर्शनमुच्यते विज्ञप्तिरित्यन्येषां पञ्चकमप्येतदपुनर्बन्धकस्य, पुनर्बन्धके यथोचितस्यास्याभावादेते च यथोत्तरं पूर्वपूर्वफलभूताः, तथा हि-अभयफलं चक्षुः, चचुःफलं मार्गः, मार्गफलं शरणम् , शरणफलं बोधिः,
सा च भगवद्भय एव भवतीति बोधिं ददतीति बोधिदाः । एवमभयदानचक्षुर्दानमार्गदानशरणदानबोधिदानेभ्यो H यथोदितोपयोगसिद्धरुपयोगसम्पद एव हेतुसम्पदुक्ता । साम्प्रतं स्तोतव्यसम्पद एव विशेषोपयोगसम्पदुच्यतेधम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरन्तचक्कवट्टीणं-धर्मदेभ्यः, इह धर्मश्चारिधर्मो गृह्यते स च यति-श्रावकसम्बन्धिभेदेन द्वेधा । यतिधर्मः सर्वसावद्ययोगविरतिलक्षणः; श्रावकधर्मस्तु देशविरतिरूपः, स चायमुभयरूपोऽपि भगवद्भय एव हेत्वन्तराणां सद्भावेऽपि भगवतामेव प्रधानहेतुत्त्वादिति धर्म ददतीति धर्मदाः, धर्मदत्वं च धर्मदेशनाद्वारेणैव भवति नान्यथेत्याह-धर्मदेशकेभ्यः, धर्म प्रस्तुतं यथाभव्यमवन्ध्यतया देशयन्तीति धर्मदेशकाः, तथा धर्मनायकेभ्यः धर्मोऽधिकृत एव तस्य नायकाः स्वामिनस्तदशीकरणभवात् तदु. क्तर्षावाप्तस्तत्प्रकृष्टफलभोगात् तदयाघातानुपपत्तेश्च धर्मनायकाः, तथा धर्मसारथिभ्यः प्रस्तुतस्य धर्मस्य स्वपरा। पेक्षया सम्यक्प्रवर्तनपालनदमनयोगतः सारथयो धर्मसारथयः, तथा धर्मवरचतुरन्तचक्रवर्तिभ्यः, धर्मः प्रस्तुतः स एव
त्रिकोटिपरिशुद्धितया सुगतादिप्रणीतधर्मचक्रापेचया उभयलोकहितत्वेन चक्रवर्त्यादिचक्रापेक्षया च वरं प्रधान
॥२२०॥
Iain Education
EASI
For Personal & Private Use Only
Page #459
--------------------------------------------------------------------------
________________
Jain Education Inter
चतसृणां गतीनां नारकतिर्यग्नरामरलच्च खानामन्तो यस्मात् तच्चतुरन्तं चक्रमिव चक्रं रौद्रमिध्यात्वादिभावशत्रुलवनाचेन वर्तन्ते इत्येवंशीला धर्मवरचतुरन्त चक्रवर्तिनः चाउरन्तेति समृद्ध्यादित्वादात्वमेवं धर्मदत्वादिभिः पश्चभिः स्तोतव्यसम्पदेव विशेषोपयोगसम्पदुक्ता । ६ । इदानीं
सर्व पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । कीटसंख्यापरिज्ञानं तस्य नः कोपयुज्यते ? ॥ १ ॥ इति सर्वदर्शनप्रतिक्षेपेणेष्टतत्वदर्शनवादिनः सौगतान् प्रतिक्षिपति - श्रप्पडिहयवरनाम्यदंसणधराणं विउमाणं- अप्रतिहते सर्वत्राप्रतिस्खलिते वरे क्षायिकत्वात् प्रधाने ज्ञानदर्शने विशेषसामान्यावबोधरूपे धारयतीति अप्रतिहतवरज्ञानदर्शनधरास्तेम्यः, अप्रतिहतवरज्ञानदर्शनवरत्वं च निरावरणत्वेन सर्वज्ञानदर्शनस्वभावतया च, ज्ञानग्रहणं चादौ सर्वा लब्धयः साकारोपयोगोपयुक्तस्येति ज्ञापनार्थमिति । एते च कैश्चित्तत्रतः खन्वन्यावृचच्छद्यान एवेष्यन्ते यदाह
ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ॥ १ ॥
तथा
दग्धेन्धनः पुनरुपैति भवं प्रमध्य, निर्वाणमप्यनवधारितभीरुनिष्ठम् ।
मुक्तः स्वयं कृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्म् ॥ १ ॥ इति । तन्निवृत्यर्थमाह – व्यावृत्तच्छद्यभ्यः, छादयतीति छब ज्ञानावरणादिघातिकर्म तद्बन्धयोग्यतालक्षणो भवाधिकारथ, व्यावृत्तं निवृत्तं छद्म येभ्यस्ते तथाविधाः, नाऽचीये संसारे अपवर्गः चीणे च जन्मपरिग्रह इत्यसत्,
For Personal & Private Use Only
**-*****CK-10K4081014+0
Page #460
--------------------------------------------------------------------------
________________
प्रेम
प्रकाशः।
॥२२१॥
हेत्वभावात् । न च तीर्थनिकारजन्मपराभवो हेतुस्तेषां मोहाभावाद् मोहे वा अपवर्ग इति प्रलापमात्रमेवमप्रतिहतवरज्ञानदर्शनधरत्वेन व्यावृत्तच्छ बतया च स्तोतव्यसम्पद एव सकारणा स्वरूपसम्पन् । एते च कस्थिता विद्यावा दिभिः परमार्थतो जिनादय एवेष्यन्ते भ्रान्तिमात्रमसद्विद्येति वचनात् एतव्यपोहाय आह.जिणार्ग जावयागं, रागादिजेतृत्वाजिनाः, न च रागादीनामसत्त्वं प्रतिप्राण्यनुभवसिद्धत्वात् । न चानुभवोऽपि भ्रान्तः सुखदुःखा द्यनुभवेष्वपि भ्रान्तिप्रसङ्गात्, एवं च जेयसम्भवाजिनत्वमविरुद्धम् । एवं रागादीनेव सदुपदेशादिना जापयन्तीति जापकाः तेभ्यः, एतेऽपि कालकारणवादिभिरनन्तशिष्यैर्भावतोऽतीर्णादय एवेष्यन्ने काल एष कृत्स्नं जगदावर्तयति इति वचनात, एतन्निरासायाह-तिप्माणं तारयाणं-सम्यग्ज्ञानदर्शनचारित्रपोतेन भवार्णवं तीर्णवन्तः तीर्णा:. न चैषां तीर्णानां पारगतानामावतः सम्भवति तद्भावे मुक्त्यतिद्धेः, एवं च न मुक्तः पुनर्भये भवतीति तीर्णन्वसिद्धिः, एवं तारयन्ति अन्यानपीति तारकास्तेभ्यः, एतेऽपि परोक्षज्ञानवादिभिर्मीमांसकभेदैरबुद्धादय एवेप्यन्ते अप्रत्यक्षा हि नो बुद्धिः प्रत्यक्षोऽर्थः इति वचनात् एतन्यवच्छेदार्थमाह--बुद्धाणं बोहयाणं-अज्ञाननिद्राप्रसुप्ते जगत्यपरोपदेशेन जीवाजीवादिरूपं तत्त्वं स्वसंविदितेन ज्ञानेन बुद्धवन्तो बुद्धाः, न चास्वसंविदितेन ज्ञानेनार्थज्ञानं सम्भवति । न ह्यदृष्टप्रदीपो बाह्यमर्थ प्रत्यक्षीकरोति, न चेन्द्रियवदस्वसंविदितस्यापि ज्ञानस्यार्थप्रत्यक्षीकरणमिन्द्रियस्य भावेन्द्रियत्वात् तस्य च स्वसंविदितरूपत्वात् यदाह-" अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्ध्यति" एवं च सिद्धं बुद्धत्वमेवमपरानपि बोधयन्तीति बोधकास्तेभ्यः, एतेऽपि जगत्कर्तृलीनमुक्तवादिभिः सन्तपनविनेयैस्तत्त्वतोऽमुक्कादय एवेष्यन्ते, ब्रह्मवद् ब्रह्मसङ्गतानां स्थितिरिति वचनात् एतनिराचिकीर्षयाऽऽह
नात् एतत्र्यवान बुद्धवन्तो बुद्धष्तस्यापि ज्ञानस्या
॥ २२१॥
in Education International
For Personal Private Use Only
Page #461
--------------------------------------------------------------------------
________________
मुत्ताणं मोअगाणं-चतुर्गतिविपाकचित्रकर्मबन्धमुक्तत्वात् मुक्ताः कृतकृत्या निष्ठितार्था इत्यर्थः, न च जगत्कर्तरि जलये निष्ठितार्थत्वं सम्भवति, जगत्करणेन कृतकृत्यत्वायोगात् हीनादिकरणे च रागद्वेषाऽनुषङ्गः, न चान्यत्राs|न्यस्य लयः सम्भवति एकतराभावप्रसङ्गात् , एवं च जगत्कर्तरि लयाभावाद मुक्तत्वसिद्धिा, एवं मोचयन्त्यन्या
नपीति मोचकास्तेभ्यः, एवं च जिनत्वजापकत्वतीर्णत्वतारकत्वबुद्धत्वबोधकत्वमुक्तत्वमोचकत्वैः स्वपरहितसिद्धेरात्मतुन्यफलकर्तृत्व सम्पदष्टमी ॥ ८॥ एतेपि बुद्धियोगज्ञानवादिभिः कापिलैरसर्वज्ञा असर्वदर्शिन एवेष्यन्ते बुद्ध्यध्यवसितमर्थ पुरुषश्चेतयते इति वचनात् एतनिराकरणायाह-सव्वन्नणं सव्वदरिसीणं-सर्व जानन्तीति सर्वज्ञाः सर्व पश्यन्तीत्येवंशीलाः सर्वदर्शिनः तत्स्वभावत्वे निरावरणत्वात् । उक्तं च
स्थितः शीतांशुवजीवः प्रकृत्या मावशुद्धया । चन्द्रिकावच्च विज्ञानं तदावरणमभ्रवत् ॥१॥ | न करणाभावे कर्ता तत्फलसाधक इत्यप्यनैकान्तिकम् , परनिष्ठितसवकस्य तरण्डकाभावेऽपि सवनदर्शनात | इति बुद्धिलक्षणं करणमन्तरेणापि आत्मनः सर्वज्ञत्वसर्वदर्शित्वसिद्धिः । अन्यस्त्वाह-ज्ञानस्य विशेषविषयत्वाद दर्शनस्य च सामान्यविषयत्वात् , तयोः सर्वार्थविषयत्वमयुक्तं तदुभयस्य सर्वार्थविषयत्वादित्युच्यते-न हि सामान्यविशेषयोर्भेद एव, किन्तु ते एव पदार्थाः समविषमतया संप्रज्ञायमानाः सामान्यविशेषशब्दाभिधेयतां प्रति| पद्यन्ते, ततश्च ते एव ज्ञायन्ते ते एव दृश्यन्ते इति युक्तं ज्ञानदर्शनयोः सर्वार्थविषयत्वमिति । ननु ज्ञानेन विषम1 ताधर्मविशिष्टा एव गम्यन्ते न समताधर्मविशिष्टा अपि, दर्शनेन च समताधर्मविशिष्टा एव गम्यन्ते न विषमताधर्मविशिष्टा अपि । ततश्च ज्ञानदर्शनाभ्यां समताविषमतालक्षणधर्मद्वयाग्रहणादयुक्तमेव तयोः सर्वार्थवियषत्व
Education inte
For Personal & Private Use Only
Page #462
--------------------------------------------------------------------------
________________
तृतीया प्रकाशः।
योग
शास्त्रम् ॥ २२२ ॥
मिति, न धर्मधर्मिणोः सर्वथामेदानम्युपगमात् । ततश्चाम्यन्तरीकृतसमताख्यधर्माण एव विषमताधर्मावशिष्टा ज्ञानेन गम्यन्ते अभ्यन्तरीकृतविषमताख्यधर्माण एव समताधर्मविशिष्टा दर्शनेन गम्यन्ते इति ज्ञानदर्शनयोर्नाडसर्वार्थविषयत्वमिति सर्वज्ञाः सर्वदर्शिनश्च तेभ्यः । एते च सर्वगतात्मवादिभिर्मुक्तत्वे सति न नियतस्थानस्था एवेष्यन्ते । यदाहुस्ते-" मुक्ताः सर्वत्र तिष्ठन्ति व्योमवत्तापवर्जिताः" इति । तन्निराकरणार्थमाह-सिवमयलमरुअमणंतमक्खयमव्याबाहमपुणरावित्ति सिद्धिगइनामधेयं ठाणं संपत्ताणं-शिवं सर्वोपद्रवरहितत्वात् , अचलं स्वाभाविकप्रायोगिकचलनक्रियारहितत्वात् , अरुजं व्याधिवेदनारहितं तन्निबन्धनयोः शरीरमनसोरभावात् , अनन्तमनन्तज्ञानविषयत्वयुक्तत्वात् , अक्षयं विनाशकारणाभावात् , अव्याबाधमकर्मत्वात् , अपुनरावृत्ति न पुनरावृत्तिः संसारेऽवतारो यस्मात् , सिद्धिगतिनामधेयं सिद्धयन्ति निष्ठितार्था भवन्त्यस्यां जन्तव इति सिद्धिर्लोकान्तक्षेत्रलक्षणा सैव गम्यमानत्वाद्गतिः, सिद्धिगतिरेव नामधेयं यस्य तत्तथा, स्थानं तिष्ठिन्त्यस्मिन्निति स्थानं व्यवहारतः सिद्धिक्षेत्रम् । यदाहुः-" इह बुन्दि चइत्ता णं तत्थ गंतुण सिज्झइ" इति । निश्चयतस्तु स्वस्वरूपमेव सर्वे भावा आत्मभावे तिष्ठन्तीति वचनाव , विशेषणानि च निरुपचरितत्वेन यद्यपि मुक्तात्मन्येव भूयसा सम्भवन्ति तथापि स्थानस्थानिनोरभेदोपचारादेवं व्यपदेशः, तदेवंविधं स्थानं सम्प्राप्ताः सम्यगशेषकर्मविच्युत्या स्वरूपगमनेन परिणामान्तरापच्या प्राप्तास्तेभ्यः, न हि विभूनामेवंविधप्राप्तिसम्भवः, सर्वगतत्वे सति सदैकस्वभावत्वात् , नित्यानां चैकरूपतया अवस्थानं तद्भावाव्ययस्य नित्यत्वात् । अतःक्षेत्रतोऽसर्वगतपरिणामिनामेवैवं प्राप्तिः सम्भवति,
(१) इह शरीरं त्यक्त्वा तत्र गत्वा सिध्यति।
म॥२२२॥
Latin Education internations
For Personal & Private Use Only
Page #463
--------------------------------------------------------------------------
________________
अत एव कायप्रमाणमात्मेति सुस्थितं वचनं, तेम्यो नम इति क्रियायोगः, एवंभूता एव प्रेक्षावतां नमस्काराहा, आद्यन्त| सङ्गतश्च नमस्कारो मध्यव्यापीति । जितभया अप्येते एव नान्ये इति प्रतिपादयितुमुपसंहरनाह-नमो जिणाणं जिअभयाणं-नमो जिनेभ्यो जितभयेभ्य इति । तदेवं सब्वन्नूणं सव्वदरिसीणमित्यत आरभ्य नमो जिणाणं जिअभयाणमित्येवमन्तैत्रिभिरालापकैः प्रधानगुणापरिक्षयप्रधानफलावाप्तिरूपा सम्पन्नवमी ।।। अत्र स्तुतिप्रस्तावान्न पौनरुक्त्यशङ्का करणीया । यहाह--
सज्झाय-ज्झाण-तव-ओसहेसु उवएस-थुइ-पयाणेसु। सन्तगुणकित्तणेसु य न होन्ति पुणरुत्तदोसाओ (उ) ॥१॥ __एताभिर्नवभिः सम्पद्भिः प्रणिपातदण्डक उच्यते, तत्पाठानन्तरं प्रणिपातकरणाजिनजन्मादिषु स्वर्विमानेषु तीर्थप्रवृत्तेः पूर्वमपि शक्रोऽनेन भगवतः स्तौतीति शक्रस्तवोऽप्युच्यते, अयश्च प्रायेण भावार्हद्विषयो भावार्हदध्यारोपाच्च स्थापनार्हतामपि पुरः पठ्यमानो न दोपाय, प्रणिपातदण्डकानन्तरं चाऽतीतानागतवर्तमानजिनवन्दनार्थ केचिदेतां गाथां पठन्ति
जे अ अईया सिद्धा जे अ भविस्संति णागए काले । संपइ अ वट्टमाणा सव्वे तिविहेण वंदामि ॥१॥
सुगमा चेयम् । ततश्चोत्थाय स्थापनार्हद्वन्दनार्थ जिनमुद्रया अरिहंतचेइयाणमित्यादिसूत्रं पठति । अर्हता पूर्वोक्तस्वरूपाणां चैत्यानि प्रतिमालक्षणानि अर्हचैत्यानि-चित्तमन्तःकरणं तस्य भावः कर्म वा वर्णदृढादित्वात्
(१) स्वाध्याय-ध्यान-तप-औषधेषूपदेश-स्तुति-प्रदानेषु । सद्गुणकीर्तनेषु च न भवन्ति पुनरुक्तदोषास्तु ॥ १॥ (२) ये चातीताः सिद्धा ये च भविष्यन्त्यनागते काले । सम्प्रति च वर्तमानाः सर्वान् त्रिविधेन बन्दे ॥२॥
For Personal & Private Use Only
Page #464
--------------------------------------------------------------------------
________________
योग
तृतीयः
शास्त्रम्
प्रकाशः।
२२३॥
व्यणि चैत्यं बहुविषयत्वे चैत्यानि । तत्राईतां प्रतिमा हि प्रशस्तसमाधिचित्तोत्पादकत्वादर्हच्चैत्यानि भण्यन्ते तेषां । किं ? वन्दनादिप्रत्ययं कायोत्सर्ग करोमीति सम्बन्धः-कायस्य शरीरस्य उत्सर्गः कृताकारस्य स्थानमौन1 ध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासमधिकृत्य परित्यागस्तं करोमि । वंदणवत्तिाए-वन्दनप्रत्ययं, वन्दनमभिवादनं प्रशस्तकायवाअनःप्रवृत्तिरित्यर्थः, तत्प्रत्ययं तन्निमित्तं । कथं नाम कायोत्सगोदेव मम वन्दनं स्यादिति वत्तिाए इत्याषेत्वात्सिद्धमेवं सर्वत्र द्रष्टव्यम् । तथा पूअणवत्तिाए पूजनप्रत्ययं पूजननिमित्तं पूजनं गन्धमान्यादिभिरभ्यर्चनम् । तथा सकारवत्तिाए-सत्कारप्रत्ययं सत्कारनिमित्तं, सत्कारः प्रवरवस्त्राभरणादिभिरभ्यर्चनम, ननु च यतेः पूजनसत्कारावनुचितौ द्रव्यस्तवत्वात् । श्रावकस्य तु साक्षात्पूजासत्कारकर्तुः कायोत्सर्गद्वारेण तत्प्रार्थना निष्फला, उच्यते-साधोद्रव्यस्तवप्रतिषेधः करणमधिकृत्य, न पुनः कारणानुमती, यत उपदेशदानतः कारणसद्भावो भगवतां च पूजासत्कारदर्शनात् प्रमोदेनानुमतिरपि । यदाह
सुव्वइअवइररिसिणा कारवणं पि अ अणुट्टियमिमस्स । वायगगन्थेसु तहा आगया देसणा चेव ॥१॥
श्रावकस्तु सम्पादयन्नपि एतौ भावातिशयादधिकसम्पादनार्थ पूजासत्कारौ प्रार्थयमानो न निष्फलारम्भः, तथा सम्माणवत्तिाए-सन्मानप्रत्ययं सन्माननिमित्तं सन्मानः स्तुत्यादिभिर्गुणोन्नतिकरणं मानसप्रीतिविशेष इत्यन्ये । अथ वन्दनादयः किंनिमित्तमित्याह-बोहिलाभवत्तिाए-बोधिलाभोर्हत्प्रणीतधर्मावाप्तिस्तत्प्रत्ययं तन्निमित्तं । बोधिलाभोऽपि किंनिमित्तमित्याह-निरुवसग्गवत्तिाए-जन्मायुपसर्गाभावेन निरुपसर्गो मोक्षस्तत्प्रत्ययं
(१) सुव्रतिकवर्षिणा कारणमपि चानुष्ठितमस्य । वाचकग्रन्थेषु तथा आगता देशना चैव ॥३॥
॥२२३॥
Jain Education intem
For Personal & Private Use Only
Page #465
--------------------------------------------------------------------------
________________
| तन्निमित्तं । ननु साधुश्रावकयोर्बोधिलाभोऽस्त्येव तकि सतस्तस्य प्रार्थनया बोधिलाभमलो मोक्षोऽप्यनभिलपणीय . एव, उच्यते-क्लिष्टकर्मोदयवशेन बोधिलाभस्य प्रतिपातसम्भवाद जन्मान्तरे च तस्यार्थ्यमानत्वानिरुपसोऽपि
तद्वारेण प्रार्यत एवेति युक्तोऽनयोरुपन्यासः । अयं च कायोत्सर्गः क्रियमाणोऽपि श्रद्धादिविकलस्य नाभिलषितार्थप्रसाधनायालमित्याह-सद्धाए मेहाए धिईए धारणाए अणुप्पेहाए चड्रमाणीए ठामि काउस्सग्ग-श्रद्धा मिथ्यात्वमोहनीयकर्मक्षयोपशमादिजन्योदकप्रसादकमणिबच्चेतसः प्रसादजननी, तया श्रद्धया, न तु बलाभियोगादिना, एवं मेधया न जडत्वेन, मेधा च सच्छास्त्रग्रहणपटुः पापश्रुतावज्ञाकारी ज्ञानावरणीयक्षयोपशमजश्चित्तधर्मः, अथवा मेधया मर्यादावर्तितया, नासमञ्जसत्वेन । एवं धृत्या मनःसमाधिलक्षणया, न रागद्वेषाद्याकुलतया । एवं धारणया अर्ह गुणाविस्मरण रूपया, न तु तच्छून्यतया । एवमनुप्रेक्षयाऽर्हद्गुणानामेव मुहुर्मुहुरनुस्मरणेन, न | तद्वैकल्येन वर्धमानतयेति श्रद्धादिभिः प्रत्येकमभिसम्बध्यते । श्रद्धादीनां क्रमोपन्यासो लाभापेक्षया श्रद्धायां हि सत्यां मेधा तद्भावे धृतिस्ततो धारणा तदन्वनुप्रेक्षा वृद्धिरप्यासामेव । तिष्ठामि करोमि कायोत्सर्ग। ननु प्राकरोमि कायोत्सर्गमित्युक्तं साम्प्रतं तिष्ठामीति किमर्थमुच्यते ?, सत्यं, सत्सामीप्ये सद्वत्प्रत्ययो भवतीति करोमि करिष्यामि इति क्रियाऽभिमुख्यं पूर्वमुक्तमिदानीं त्वासन्नतरत्वात् क्रियाकालनिष्ठाका लयोः कथञ्चिदभेदात् तिष्ठाम्यवाहमिति । किं सर्वथा तिष्ठामि कायोत्सर्ग? नेत्याह-अन्नत्थ ऊससिएणमित्यादि व्याख्यातं पूर्व । कायोत्सर्गश्चाष्टोच्छ्वासमात्रो न त्वत्र ध्येयनियमोऽस्ति । कायोत्सर्गान्ते च यद्येक एव ततो नमो अरिहंताणमिति नमस्कारेण पारयित्वा यत्र चैत्यवन्दनां कुर्वन्नस्ति तत्र यस्य भगवतः सन्निहितं स्थापनारूपं तस्य स्तुतिं पठति । अथ वहवस्तत एक एव
in Education International
For Personal & Private Use Only
Page #466
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
॥२२४॥
Jain Education Interna
*+ *०
स्तुतिं पठति, अन्ये तु कायोत्सर्गस्थिता एव शृण्वन्ति यावत् स्तुतिसमाप्तिः, ततः सर्वेऽपि नमस्कारेण पारयन्तीति तदनन्तरं तस्यामेवावसर्पिण्यां ये भारते वर्षे तीर्थकृतो अभूवन् तेषामेवैकक्षेत्रनिवासिनामासन्नोपकारित्वेन कीर्तनाय चतुर्विंशतिस्तवं पठति, पठन्ति वा । तथा
लोगस्स उज्जो गरे धम्मवित्थयरे जिणे । अरिहंते कित्तइस्सं चउवीसंपि केवली ॥ १ ॥
अरिहंत इति विशेष्यपदम् अर्हत उक्तनिर्वचनात् (न्), कीर्तयिष्ये नामोच्चारणपूर्वकं स्तोध्ये, ते च राज्याद्यवस्थासु द्रव्यान्तो भवन्तीति भावार्हत्त्वप्रतिपादनायाह - केवलिन उत्पन्न केवलज्ञानाद्भावाईत इत्यर्थः अनेन ज्ञानातिशय उक्तः; तत्संख्यामाह - चतुर्विंशतिमपि, अपिशब्दादन्यानपि किंविशिष्टान् ? लोकस्योदथोतकरान् लोक्यते प्रमाणेन दृश्यत इति लोकः पञ्चास्तिकायात्मकस्तस्योद्दयौत करणशीलान्, केवलालोकदीपेन सर्वलोकप्रकाशकरणशीलान् इत्यर्थः । ननु केवलिन इत्यनेनैव गतार्थमेतल्लोकोदयोतकरणशीला एव हि केवलिनः । सत्यम्, विज्ञान | द्वैत निरा से नोहयोतकराः, उदयोत्यस्य भेददर्शनार्थम्, लोकोदयोतकरत्वं च तत्स्तावकानामुपकाराय, न चानुपकारिणः कोऽपि स्तौति इत्युपकारकत्वप्रदर्शनायाह- धर्मतीर्थकरान् धर्म उक्तस्वरूपः तीर्य्यतेऽनेन तीर्थं धर्मप्रधानं तीर्थं धर्मतीर्थं धर्मग्रहणाद् द्रव्यतीर्थस्य नद्यादेः शाक्यादिसम्बन्धिन अधर्मप्रधानस्य परिहारः, तत्करणशीला धर्मतीर्थकराः तान् सदेवमनुजासुरायां पर्षदि सर्वभाषापरिणामिन्या वाचा धर्मतीर्थप्रवर्तकानि - त्यर्थः, अनेन पूजातिशयो वागतिशयश्वोक्तः । श्रपायापगमातिशयमाह – जिनान् रागद्वेषादिजेतृनित्यर्थः । यदुक्तं कीर्तयिष्यामीति तत्कीर्तनं कुर्वन्नाह -
For Personal & Private Use Only
**-08-0-K
XXX
तृतीयः
प्रकाशः
॥२२४॥
Page #467
--------------------------------------------------------------------------
________________
उसममजिअं च वंदे संभवमभिनंदणं च सुमई च । पउमप्पहं सुपासं जिणं च चंदप्पहं वंदे ॥२॥ सुविहिं च पुष्पदंतं सीअल सिजंस वासुपुजं च । विमलमणंतं च जिणं धम्म संतिं च वंदामि ॥३॥ कुंथु अरं च मलिं वन्दे मुणिसुव्वयं नमिजिणं च । वंदामि रिट्टनेमि पासं तह बद्धमाणं च ॥ ४॥
समुदायार्थः सुगमः । पदार्थस्तु विभज्यते, स च सामान्यतो विशेषतश्च । तत्र सामान्यतः ऋषति गच्छति परमपदमिति ऋषभः, “ उदृत्वादो"॥८।१।१३१ ॥ इत्युत्वे उसहो । वृषभ इत्यपि, वर्षति सिञ्चति । देशनाजलेन दुःखाग्निना दग्धं जगत , इत्यस्यान्वर्थः, " वृषभे वा वा" ॥८।१।१३३ ॥ इति वकारेण ऋत उत्वेऽस्यापि उसहो । विशेषतस्तु ऊोवृषभो लाञ्छनमभूद्भगवतः, जनन्या च चतुर्दशानां स्वप्नानामादावृषभो दृष्टस्तेन ऋषभो वृषभो वा । १ । परीपहादिभिर्न जित इति अजितः, तथा गर्भस्थे भगवति जननी द्यूते राज्ञा न जिता इत्यजितः । २ । सम्भवन्ति प्रकर्षेण भवन्ति चतुस्त्रिंशदतिशयगुणा अस्मिन्निति सम्भवः, शं सुखं भवत्यस्मिन् स्तुते इति शम्भवो वा, तत्र “शषोः सः" ॥८।१।२६० ॥ इति सत्वे सम्भवः, तथा गर्भगतेऽप्यस्मिन् अभ्यधिकसस्यसम्भवात्सम्भवः। ३ । अभिनन्द्यते देवेन्द्रादिभिरित्यभिनन्दनः, तथा गर्भात्प्रभृति एवाऽभीक्ष्णं शक्राघभिनन्दनात् अभिनन्दनः । ४ । सु शोभना मतिरस्येति सुमतिः, तथा गर्भस्थे जनन्याः सुनिश्चिता मतिरभूदिति सुमतिः ।। निष्पकतामङ्गीकृत्य पद्मस्येव प्रभा यस्याऽसौ पद्मप्रभः, तथा पद्मशयनदोहदो मातुर्देवतया पूरित इति, पद्मवर्णश्च भगवानिति पद्मप्रभः । ६ । शोभनाः पार्था अस्येति सुपार्श्वः, तथा गर्भस्थे भगवति जनन्यपि सुपाया जातेति सुपार्श्वः । ७। चन्द्रस्येव प्रभा ज्योत्स्ना सौम्यलेश्याविशेषोऽस्येति चन्द्रप्रभः,
For Personal & Private Use Only
Page #468
--------------------------------------------------------------------------
________________
तृतीयः
योग- तथा देव्याश्चन्द्रपानदोहदोऽभूत, चन्द्रसमवर्णश्च भगवानिति चन्द्रप्रभः । ८। शोभनो विधिः सर्वत्र कौशलमस्येतिरे शास्त्रम् । सुविधिः, तथा गर्भस्थे भगवति जनन्यप्येवमिति सुविधिः, पुष्पकलिकामनोहरदन्तत्वात् पुष्पदन्त इति द्वितीयं
प्रकाशा नाम ।। सकलसत्त्वसन्तापहरणाच्छीतलः, तथा गर्भस्थे भगवति पितुः पूर्वोत्पनाचिकित्स्यपित्तदाहो ॥२२॥
जननीकरस्पर्शादुपशान्त इति शीतलः । १० । सकलभुवनस्यापि प्रशस्यतमत्वेन श्रेयान्, श्रेयांसावंसावस्येति । | पृषोदरादित्वात श्रेयांसो वा, तथा गर्भस्थेऽस्मिन् केनाप्यनाक्रान्तपूर्वा देवताधिष्ठितशय्या जनन्या आक्रान्तेति * श्रेयो जातमिति श्रेयांसः । ११ । वसवो देवविशेषाः, तेषां पूज्यो वसुपूज्यः, प्रज्ञादित्वादणि वासुपूज्यः, तथा गर्भस्थेऽस्मिन् वसु हिरण्यं तेन वासवो राजकुलं पूजितवानिति वासुपूज्यः, वसुपूज्यस्य राज्ञोऽयमिति वा " तस्येदम्" ॥६।३। ६०॥ इत्यणि वासुपूज्यः । १२ । विगतमलो विमलः, विमलानि वा ज्ञानादीन्यस्येति । विमलः, तथा गर्भस्थे मातुर्मतिस्तनुश्च विमला जातेति विमलः । १३ । अनन्तकाशान् जयति, अनन्तैर्वा *ज्ञानादिभिर्जयति अनन्तजित्, तथा गर्भस्थे जनन्या अनन्तरत्नदाम दृष्टम्, जयति च त्रिभुवनेऽपीति अनन्तजित्,
भीमो भीमसेन इति न्यायादनन्त इति । १४ । दुर्गतौ प्रपतन्तं सत्त्वसङ्घातं धारयतीति धर्मः, तथा गर्भस्थे जननी दानादिधर्मपरा जातेति धर्मः । १५ । शान्तियोगात्, तदात्मकत्वात्, तत्कर्तृत्वाद्वा शान्तिरिति, तथा गर्भस्थे पूर्वोत्पन्नाशिवशान्तिरभूदिति शान्तिः । १६ । कुः पृथ्वी, तस्यां स्थितवानिति निरुक्तात् कुन्थुः, तथा गर्भस्थे जननी रत्नानां कुन्थु राशिं दृष्टवतीति कुन्थुः।१७।।
सर्वो नाम महासत्वः कुले य उपजायते । तस्याभिवृद्धये वृद्धैरसावर उदाहृतः ॥१॥
१
॥
॥२२
Jain Education inter
For Personal & Private Use Only
Page #469
--------------------------------------------------------------------------
________________
इति वचनादरः। तथा गर्भस्थे जनन्या स्वप्ने सर्वरत्नमयोऽरो दृष्ट इत्यरः । १८ । परीषहादिमन्त्रजयानि-| | रुक्तान्मदिः, तथा गर्भस्थे मातुः एकऋतौ सर्वर्तुसुरभिकुसुममान्यशयनीयदोहदो देवतया पूरित इति मलिः । १६ । मन्यते जगतस्त्रिकालावस्थामिति मुनिः " मनेरुदेतौ चास्य वा" (उणा-६१२) इति इप्रत्यये - उपान्त्यस्यात्वम्, शोभनानि व्रतान्यस्येति सुव्रतः, मुनिश्चासौ सुव्रतश्च मुनिसुव्रतः, तथा गर्भस्थे जननी मुनिवत्सुव्रता जातेति मुनिसुव्रतः । २० । परीषहोपसर्गादिनामनाद् "नमेस्तु वा" ( उणा-६१३ ) इति विकल्पेनोपान्त्यस्येकाराभावपक्षे नमिः, तथा गर्भस्थे भगवति परचक्रनृपैरपि प्रणतिः कृतेति नमिः । २१ । | धर्मचक्रस्य नेमिवनेमिः, तथा गर्भस्थे भगवति जनन्या रिष्टरत्नमयो महानेमिदृष्ट इति रिष्टनेमिः, अपश्चिमादिशब्दवत् नजपूर्वत्वेऽरिष्टनेमिः । २२ । पश्यति सर्वभावानिति निरुक्तात् पार्श्वः, तथा गर्भस्थे जनन्या निशि
शयनीयस्थयाऽन्धकारे सर्पो दृष्ट इति गर्भानुभावोऽयमिति मत्वा पश्यतीति पावः, पार्थोऽस्य वैयावृत्यकरस्तस्य *नाथः पार्श्वनाथः, भीमो भीमसेन इतिवत् पार्श्वः। २३ । उत्पत्तेरारभ्य ज्ञानादिभिर्वर्धत इति वर्धमानः, तथा
भगवति गर्भस्थे ज्ञातकुलं धनधान्यादिभिर्वर्धत इति वर्धमानः । २४ । 41 विशेषाऽभिधानार्थसंग्राहिकाश्चमाः श्रीमद्रबाहुस्वामिप्रणीता गाथाःऊरूसु उसहलञ्छणमुसमं सुमिणम्मि तेण उसहजिणो। अक्खेसु जेण अजिबा जणणी अजिओ जिणो तम्हा ॥१॥
(१) उर्वोर्ऋषभलाञ्छनमृषभं स्वप्ने तेनर्षभजिनः । अक्षेषु येनाजिता जननी अजितो जिनस्तस्मात् ॥१॥
in Education Internal
For Personal & Private Use Only
Page #470
--------------------------------------------------------------------------
________________
योग- 'अमिसम्भूया सासत्ति सम्भवो तेण वुच्चइ भयवं । अभिनन्दइ अभिक्खं सको अभिनन्दणो तेण ॥ २॥ तृतीयः शास्त्रम् ITI जणणी सम्वत्थ विणिच्छएसु सुमइत्ति तेण सुमइजियो । पउमसयणम्मि जणणीइ डोहलो तेण पउमाभो ॥३॥ IT:प्रकाशः।
गब्भगए जं जणणी जाय सुपासा तो सुपासजिणो । जणणीइ चंदपिअणम्मि डोहलो तेण चंदाभो ॥४॥ ॥२२६॥
सम्वविहीसु अकुसला गब्भगए जेण होइ सुविहिजिणो । पिउणो दाहोवसमो गन्भगए सीअलो तेणं ॥ ५ ॥ महरिहसिञ्जारुहणम्मि डोहलो होइ तेण सिजंसो। पूएइ वासवो जं अभिक्खणं तेण वसुपुजो ॥६॥ विमलतणुबुद्धिजणणी गब्भगए तेण होइ विमलजिणो । रयणविचित्तमणतं दामं सुमिणे तोऽणंतो ॥७॥ गम्भगए जे जणणी जाय सुधम्मत्ति तेण धम्मजिणो । जाओ असिवोवसमो गब्भगए तेण संतिजिणो ॥८॥
(१) अभिसंभूतानि सस्यानीति संभवस्तेनोच्यते भगवान् । अभिनन्दत्यभीक्ष्णं शक्रोऽभिनन्दनस्तेन ॥२॥ जननी सर्वत्र विनिश्चयेषु सुमतिरिति तेन सुमतिजिनः । पद्मशयने जनन्या दोहदस्तेन पद्माभः ॥ ३॥ गर्भगते यजननी जाता सुपार्श ततः सुपार्श्वजिनः । जनन्याश्चन्द्रपाने दोहदस्तेन चन्द्राभः ॥ ४॥ सर्वविधिषु च कुशला गर्भगते येन भवति सुविधिजिनः । पितुर्दाहोपशमो गर्भगते शीतलस्तेन ॥५॥ महार्हशय्यारोहणे दोहदो भवति तेन श्रेयांसः । पूजयति वासवो यमभिक्षणं तेन वासुपूज्यः ॥ ६ ॥ विमलतनुबुद्धिजननी गर्भगते तेन भवति विमलजिनः । रत्नविचित्रमनन्तं दाम खमे ततोऽनन्तः ॥७॥ गर्भगते यजननी जाता सुधर्मेति तेन धर्मजिनः । जातोऽशिवोपशमो गर्भगते तेन शान्तिजिनः ॥ ८॥
| ॥२२॥
in Education inter
For Personal & Private Use Only
Page #471
--------------------------------------------------------------------------
________________
Jain Education Internation
R-70+10+++
थूहं रयणविचित्तं कुंथुं सुमिणम्मि तेण कुंथुजियो । सुमिणे अरं महरिहं पासइ जगणी अरो तम्हा || ६ || वरसुरहिमल्लसयणम्मि डोहलो तेरा होड़ मल्लिजिणो । जाया जणणी जं सुव्वयत्ति मुणिसुन्न तम्हा || १० || पणया पचंतनिवा दंसियमित्ते जिगम्मि तेण गमी । रिट्ठरयणं च नेमिं उप्पयमाणं तओ नेमी ।। ११ ।। सप्पं सयणे जणणी जं पासह तमसि तेण पासजिणो । वड्ढइय नायकुलं ति श्रतेश जिणो वद्धमाणु त्ति ।। १२ ।। इति कीर्तनं कृत्वा चेतः शुद्ध्यर्थं प्रणिधानमाह
एवं मए अभिवियरयभला पहीजरमरणा । चउवीसं पि जिणवरा तित्थयरा मे पसीअन्तु ॥ ५ ॥ एवमनन्तरोदितेन विधिना मयेत्यात्मनिर्देशः, अभिष्टुता श्राभिमुख्येन स्तुताः स्वनामभिः कीर्तिता इत्यर्थः । किंविशिष्टास्ते, विधूतरजोमलाः - रजश्च मलं च रजोमले, विधूते प्रकम्पिते अनेकार्थत्वादपनीते वा रजोमले यैस्ते विधूतरजोमलाः, बध्यमानं च कर्म रजः, पूर्वबद्धं तु मलम्, अथवा बद्धं रजो, निकाचितं मलम्, अथवा ऐर्यापथं रजः, साम्परायिकं मलमिति । यतश्चैवंभूता अत एव प्रचीणजरामरणाः कारणाभावात् । चतुर्विंशतिरपि, अपिशब्दादन्येऽपि जिनवराः श्रुतादिजिनेभ्यः प्रकृष्टाः, ते च तीर्थकरा इति पूर्ववत् मे मम किं १ प्रसीदन्तु प्रसा( १ ) स्तूपं रत्नविचित्रं कुन्युं खप्ने तेन कुन्थुजिनः । खप्नेऽरं महार्ह पश्यति जननी, अरस्तस्मात् ॥ ९ ॥ वरसुरभिमाल्यशयने दोहदस्तेन भवति मल्लिजिनः । जाता जननी यत् सुव्रतेति मुनिसुव्रतस्तस्मात् ॥ १० ॥ प्रणताः प्रत्यन्तनृपा दर्शितमात्रे जिने तेन नमिः । रिष्टरत्नं च नेमिमुत्पतन्तं ततो नेमिः ॥ ११ ॥
सर्प शयने जननी यत् पश्यति तमसि तेन पार्श्वजिनः । वर्धते च ज्ञातकुलमिति च तेन जिनो वर्धमान इति ॥ १२ ॥
For Personal & Private Use Only
R-7.0K+
--1) +-04
Page #472
--------------------------------------------------------------------------
________________
तृतीयः प्रकाशः
योग- दपरा भवन्तु । ते च वीतरागत्वाद्यद्यपि स्तुताः तोषम्, निन्दिताश्च द्वेषं न यान्ति, तथाऽपि स्तोता स्तुतिफलम् , शास्त्रम्ला
निन्दकश्च निन्दाफलमामोत्येव यथा चिन्तामणिमन्त्राधाराधकः, यदवोचाम वीतरागस्तवे
अप्रसन्नात् कथं प्राप्यं फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न फलन्त्यपि विचेतनाः ॥१॥ १२२७॥ इत्युक्तमेव । अथ यदि न प्रसीदन्ति, तत्किं प्रसीदन्त्विति वृथा प्रलापेन ? । नैवम् । भक्त्यतिशयत एवम
भिधानेऽपि न दोषः । यदाह-क्षीणकेशा एते न हि प्रसीदन्ति, न तत्स्तवोऽपि वृथा, तत्स्तवभावविशुद्धेः, प्र। योजनं कर्मविगम इति ॥ ५ ॥ तथा
कित्ति वंदिअ महिआ जे ए लोगस्स उत्तमा सिद्धा । आरुग्गबोहिलामं समाहिवरमुत्तमं दिंतु ॥६॥
कीर्तिताः स्वनामभिः प्रोक्ताः वन्दितास्त्रिविधयोगेन सम्यक स्तुतार, महिताः पुष्पादिभिः पूजिताः। मइया इति पाठान्तरम्, तत्र मयका मया । के एते ?, इत्याह-ये एते लोकस्य प्राणिवर्गस्य कर्ममलकलङ्काभावेनोत्तमाः, प्रकृष्टाः, सिद्ध्यन्ति स्म सिद्धाः कृतकृत्या इत्यर्थः, अरोगस्य भाव आरोग्यं सिद्धत्वं तदर्थम् , बोधिलामः अर्हत्प्रणीतधर्मप्राप्तिरारोग्यबोधिलाभः, स ह्यनिदानो मोक्षायैव भवति तम् , तदर्थे च समाधिवरं वरसमाधि परमस्वास्थ्यरूपं भावसमाधिमित्यर्थः, असावपि तारतम्यभेदादनेकधैव, अत आह-उत्तमं सर्वोत्कृष्टं ददतु प्रयच्छन्तु, एतच्च भक्त्योच्यते । यत उक्तम्
भासा असच्चमोसा नवरं भत्तीइ मासिा एसा । न हु खीणपिज्जदोसा दिति समाहिं च बोहिं च ॥१॥ इति (१) भाषा असत्यमृषा नवरं भक्त्या भाषितेषा । न खलु क्षीणप्रेमदोषा ददति समाधि च बोधिं च ॥ १॥
॥२२७॥
Jain Education internal
For Personal & Private Use Only
Page #473
--------------------------------------------------------------------------
________________
03-04-0
तथा-
चंदे निम्मलयरा आचेसु अहियं पयासवरा | सागरवरगम्भीरा सिद्धा सिद्धिं मम दिसन्तु ॥ ७ ॥
" पञ्चम्यास्तृतीया च " || ८ | ३ | १३६ ।। इति पञ्चम्यर्थे सप्तमी, अतचन्द्रेभ्योऽपि निर्मलतरा : सकलकर्ममलापगमात्, पाठान्तरं वा चन्देहिं निम्मलयरा, एवमादित्येभ्योऽप्यधिकं प्रकाशकराः केवलोद्योतेन लोकालोकप्रकाशकत्वात् । उक्तं च
चाहाणं हा पासे परिमिश्रं वित्तं । केवलिनालम्भो लोआला पयासे ।। १ ।।
सागरवरः स्वयम्भूरमणाख्यः समुद्रः परपहोपसर्गाद्यक्षोभ्यत्वात् तस्मादपि गम्भीराः, सिद्धाः कर्मविगमात् कृतकृत्याः सिद्धिं परमपदप्राप्तिम्, मम दिशन्तु प्रयच्छन्तु । एवं चतुर्विंशतिस्तवमुक्त्वा सर्वलोक एवाईचैत्यानां वन्दनाद्यर्थं कायोत्सर्गकरणायेदं पठति, पठन्ति वा । सव्वलोए अरिहंताणं करेमि काउस्सग्गमित्यादि वोसिरामीति यावत् । व्याख्या पूर्ववत् । नवरम् सर्वश्वासौ लोकश्च अस्तिर्यगूर्ध्वभेदस्त स्मित्रैलोक्ये इत्यर्थः, अधोलोके हि चमरादिभवनेषु, तिर्यग्लोके द्वीपाचल ज्योतिष्क विमानादिषु, ऊर्ध्वलोके सौधर्मादिषु सन्त्येवाच्चै - त्यानि ततश्च मौलचैत्यं समाधिकारणमिति मूलप्रतिमायाः प्राक् स्तुतिरुक्ता । इदानीं सर्वेऽर्हन्तस्तद्गुणा इति सर्वलोकसंग्रहः, तदनुसारेण सर्वतीर्थकर साधारणी स्तुतिः । अन्यथा अन्यकायोत्सर्गे अन्या स्तुतिरिति न सम्यगतिप्रसङ्गादिति सर्वतीर्थकराणां स्तुतिरुक्ता । इदानीं येन ते भगवन्तस्तदभिहिताश्च भावाः स्फुटमुपलभ्यन्ते १ चन्द्रादित्यगृहाणां प्रभा प्रकाशयति परिमित क्षेत्रम् । केवलिकज्ञानलाभो लोकालोकं प्रकाशयति ॥ १ ॥
For Personal & Private Use Only
++-+NEK
Page #474
--------------------------------------------------------------------------
________________
तृतीयः प्रकाश
योग-LD तत्प्रदीपस्थानीयं सम्यक भूतमहति कीर्तनम् , तत्रापि तत्प्रणेतृन् भगवतः प्रथमं स्तौतिशास्त्रम् पुक्खरवरदीवड्डे धायइखंडे अजम्बुद्दीवे अ । भरहेरवयविदेहे धम्माइगरे नमसामि ॥१॥ ॥२२॥
भरतं भरतक्षेत्रम् ऐरवतमैरवतक्षेत्रम, विदेहमिति भीमो भीमसेन इति न्यायाद् महाविदेहक्षेत्रम्, एवं समाहारद्वन्द्वः, तेषु भरतैरवतविदेहेषु धर्मस्य श्रुतधर्मस्यादिकरान सूत्रतः प्रथमकरणशलिान् , नमस्यामि स्तुवेक यानि भरतैरवतमहाविदेहक्षेत्राणि ?, इत्याह- पुष्कराणि पद्मानि, तैर्वर: पुष्करवरः स चासौ द्वीपश्च पुष्करवरद्वीपः तृतीयो द्वीपः, तस्याधे मानुषोत्तराचलादर्वाग्भागवर्ति, तत्र द्वे भरते, द्वे ऐरवते, द्वे महाविदहे, तथा धातकीनां खण्डानि वनानि यस्मिन् स धातकीखण्डो द्वीपः तस्मिन् , द्वे भरते, द्वे ऐरवते, द्वे महाविदेहे। जम्ब्बा उपलक्षितः तत्प्रधानो वा द्वीपो जम्बूद्वीपः, अत्रैक भरतमेकमैरवतमेकं च महाविदेहमित्येताः पञ्चदशकर्मभूमयः। शेषास्त्वकर्मभूमयः यदाह-" भरतैरवतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः” ( तत्त्वा-३।१६) महत्तरक्षेत्रप्राधान्याङ्कीकरणात्पश्चानुपूर्व्या निर्देशः। धर्मादिकरत्वं यथा भगवतां भवति तथा अपौरुषेयवादनिराकरणावसरे प्राग्नितिम् । नन्वेवमपि कथं धर्मादिकरत्वं भगवताम्, 'तप्पुत्विा अरहया' इति वचनाद् वचनस्यानादित्वात् ? नैवम् , बीजाङ्कुरवत्तदुपपत्तेः-बीजाद्धि अङ्कुरो भवति अङ्कराच्च बीजमिति । | एवं भगवतां पूर्वजन्मनि श्रुतधर्माभ्यासात्तीर्थकरत्वम् , तीर्थकृतां च श्रुतधर्मादिकरत्वमदुष्टमेव । न चाऽयं नियमः श्रुतधर्मपूर्वकमवाहत्त्वमिति मरुदेव्यादीनां श्रुतधर्मपूर्वकत्वाभावेऽपि केवलज्ञानश्रवणादित्यलं प्रसङ्गेन । एवं श्रुतधर्मादिकराणां स्तुतिरुक्ता । इदानीं श्रुतधर्मस्याह
॥२२८॥
in Education Internat
For Personal & Private Use Only
|
Page #475
--------------------------------------------------------------------------
________________
R+-+k+-+K+-0.08(K
Jain Education Internation
तमतिमिरपडलविद्धंसणस्स सुरगणनरिंदमहिश्रस्स | सीमाधरस्स वंदे पप्फोडियमोहजालस्स ॥ २ ॥ aisa देवरम्, अथवा बद्धस्पृष्टनिधत्तं ज्ञानावरणीयं कर्म तमः; निकाचितं तिमिरं, ततस्तमस्तिमिरस्य, तमस्तिमिरयोर्वा पटलं वृन्दम्, तद्विध्वंसयति विनाशयतीति नन्द्यादित्वादने तमस्तिमिरपटलविध्वंसनस्तस्य, अज्ञाननिरासेनैवास्य प्रवृत्तेः । सुरगणैश्चतुर्विधाऽमरनिकायैर्नरेन्द्रैश्चक्रवर्त्यादिभिर्महितः पूजितस्तस्य । आगममहिमां हि कुर्वन्त्येव सुरासुरादयः । सीमां मर्य्यादाम्, सीमायां वा धारयतीति सीमाधरस्तस्य श्रुतधर्म इति विशेष्यम्, ततः कर्मणि द्वितीया, तस्याश्च " कचिद् द्वितीयादेः " ।। ८ । ३ । १३४ ।। इति प्राकृतसूत्रात् षष्ठी, अतस्तं वन्दे, तस्य वा यन्माहात्म्यं तद्वन्दे इति सम्बन्धे षष्ठी अथवा तस्य वन्दे वन्दनं करोमीति । प्रकर्षेण स्फोटितं विदारितं मोहजालं मिथ्यात्वादिरूपं येन स तथा तस्य । श्रुतधर्मे हि सति विवेकिनो मोहजालं मिथ्यात्वादिरूपं विलयमुपयात्येव । इत्थं श्रुतमभिवन्द्य तस्यैव गुणोपदर्शनद्वारेणाप्रमाद गोचरतां प्रतिपादयन्नाह-जाईजरामरण सोगपणास णस्स कल्लाणपुक्खलविसालसुद्दा वहस्स ।
को देवदाणवन रिंद गणच्चित्रस्स, धम्मस्स सारमुपलम्भ करे पमायम् १ ॥ ३ ॥
कः सचेतनः, धर्मस्य श्रुतधर्मस्य, सारं सामर्थ्यम्, उपलभ्य विज्ञाय श्रुतधर्मोदितेऽनुष्ठाने, प्रमादमनादरं कुर्यात् १, न कश्चित् कुर्यादित्यर्थः । किंविशिष्टस्य श्रुतधर्मस्य ? जातिर्जन्म, जरा विश्रसा, मरणं प्राणनाशः, शोको मानसो दुःखविशेषः, तान् प्रणाशयति अपनयति, जातिजरामरणशोकप्रणाशनः तस्य, श्रुतधर्मोक्तानुष्ठानाद्धि जात्यादयः प्रणश्यन्त्येव, अनेनास्यानर्थप्रतिघातित्वमुक्तम् । कल्यमारोग्यमयति शब्दयति इति कल्याणम्,
३९
For Personal & Private Use Only:
90-1004-14
Page #476
--------------------------------------------------------------------------
________________
योग
शास्रम्
॥२२६॥
Jain Education Inter
++***+9
पुष्कलं सम्पूर्णम्, न च तदल्पं किन्तु विशालं विस्तीर्णमेवम्भूतं सुखमावहति प्रापयतीति कल्याणपुष्कलविशालसुखावहः तस्य, तथा च श्रुतधर्मोक्तानुष्ठानादुक्तलक्षणमपवर्गसुखमवाप्यत एव, अनेन चाऽस्य विशिष्टार्थप्रापकत्वमाह । देवानां दानवानां नरेन्द्राणां च गणैरर्चितस्य पूजितस्य, सुरगणनरेन्द्रमहितस्य इति, अस्यैव निगमनं देवदानवेत्यादि । यतश्चैवमतः
I
सिद्धे भो ! पयओ नमो जिणमए नंदी सया संयमे, देवनाग सुवष्य किन्नर गणस्सन्भू प्रभावच्चिए । लोगो जत्थ पजिगमिणं तेलुकमच्चासुरं, धम्मो वड्डउ सासयं विजयओ धम्मुत्तरं वड्डउ ॥ ४ ॥ सिद्धः फलाव्यभिचारेण प्रतिष्ठितः, अथवा सिद्धः सकलनयव्यापकत्वेन त्रिकोटिपरिशुद्धत्वेन च प्रख्यातस्तस्मिन् भो इत्यतिशयिनामामन्त्रणम् पश्यन्तु भवन्तः, प्रयतोऽहं यथाशक्त्येतावन्तं कालं प्रकर्षेण यतः, इत्थं परसाक्षिकं प्रयतो भूत्वा पुनर्नमस्करोति, नमो जिणमए नमो जिनमताय, प्राकृतत्वाच्चतुर्थ्याः सप्तमी । अस्मिंश्च सति नन्दिः समृद्धिः, सदा सर्वकालम्, संयमे चारित्रे भूयात् । उक्तं च - ( १ ) ' पढमं नाणं तओ दया ' । किंविशिष्टे संयमे १, देवनाग सुपर्ण किन्नरगणैः सद्भूतभावेनार्चिते देवा विमानिनः, नागा धरणादयः, सुपर्णा गरुडाः, किन्नरा व्यन्तरविशेषाः, उपलक्षणं शेषाणां देवमित्यनुस्वारः छन्दः पूरणे, तथा च संयमवन्तोऽर्च्यन्त एव देवादिभिः । यत्र जिनमते, किं यत्र १ लोकनं लोको ज्ञानम्, प्रतिष्ठितः तद्वशीभूतः, तथा जगदिदं ज्ञेयतया प्रतिष्ठितमिति योगः; केचिन्मनुष्यलोकमेव जगन्मन्यन्ते, अत आह- त्रैलोक्यमर्त्यासुरमाधाराधेयरूपम् । श्रयमि(१) प्रथमं ज्ञानं ततो दया ।
For Personal & Private Use Only
(*+*-+K+-+9+1K++**++K+UK+K
तृतीय: प्रकाशः ।
॥२२६॥
Page #477
--------------------------------------------------------------------------
________________
त्यम्भूतो धर्मः श्रुतधर्मो वर्धता वृद्धिमुपयातु, शाश्वतमिति क्रियाविशेषणं शाश्वतमप्रच्युत्या वर्धतामिति; विजयतः परवादिविजयेन, धर्मोत्तरं चारित्रधर्मोत्तरं वर्धताम् , पुनर्वृद्ध्यभिधानं मोक्षार्थिना प्रत्यहं ज्ञानवृद्धिः कार्या इति प्रदर्शनार्थम् । तथा च तीर्थकरनामकर्महेतून् प्रतिपादयतोक्तम्-'अपुव्वनाणगहणे' इति । प्रणिधानमेतन्मोक्षबीजकन्पं परमार्थतोऽनाशंसारूपमेवेति प्रणिधानं कृत्वा श्रुतस्यैव वन्दनाद्यर्थ कायोत्सर्थ पठति पठन्ति वा। सुअस्स भगवओ करेमि फाउस्सग्गमित्यादि वासिरामीति यावदर्थः पूर्ववत् । नवरम्-श्रुतस्येति प्रवचनस्य सामायिकादेबिन्दुसारपर्यन्तस्य, भगवतो यशोमाहात्म्यादियुक्तस्य, ततः कायोत्सर्गकरणं पूर्ववत्पारयित्वा श्रुतस्य स्तुतिं पठति । ततश्च अमुष्ठानपरम्पराफलभूतेभ्यः सिद्धेभ्यो नमस्कारकरणायेदं पठति पठन्ति वा
सिद्धाणं बुद्धाणं पारगयाणं परम्परगयाणं । लोअग्गमुवगयाणं नमो सया सव्वसिद्धाणं ॥१॥
सिद्ध्यन्ति स्म सिद्धा ये येन गुणेन निष्पनाः परिनिष्ठिताः सिद्धौदनवद् न पुनः साधनीया इत्यर्थः तेभ्यो नम इति योगः। ते च सामान्यतः कर्मादिसिद्धा अपि भवन्ति, यथोक्तम्
कम्मे सिप्पे य विजा मंते जोगे य आगमे । अत्थ जत्ता अभिप्पाए तवे कम्मक्खए इन ॥१॥
तत्र कर्म आचार्योपदेशरहितं भारवहनकृषिवाणिज्यादि, तत्र सिद्धः, परिनिष्ठितः सह्यगिरिसिद्धवत् । शिल्पं त्वाचार्योपदेशज तत्र सिद्धा। कोकासवर्धकिवत् । विद्या जपहोमादिना फलदा, मन्त्रो जपादिरहितः पाठमात्रसिद्धः; स्त्रीदेवताधिष्ठानां विद्या पुरुषदेवताधिष्ठानस्तु मन्त्रः । तत्र विद्यासिद्ध आर्यखपुटवत्, मन्त्रसिद्धः
१ कर्मणि शिल्पे च विद्यायां मन्त्रे योगे चागमे । अर्थे यात्रायामभिप्राये तपसि कर्मक्षय इति ॥ १॥
Jan Educationneme
For Personal & Private Use Only
mainelibrary.org
Page #478
--------------------------------------------------------------------------
________________
योगशास्त्रम्
||२३०॥
Jain Education In
K++ 08-11-201
स्तम्भाकर्षकवत् । योग औषधिसंयोगः, तत्र सिद्धो योगसिद्धः श्रर्यसमितवत् आगमो द्वादशाङ्गं प्रवचनं तत्रासाधारणार्थावगमात्सिद्धः आगमसिद्धो गौतमवत्, अर्थो धनम् स इतरासाधारणो यस्य सोऽर्थसिद्धो मम्मणवणिग्वत् । जले स्थले वा यस्याविना यात्रा स मात्रासिद्धस्तुण्डिकवत् । यमर्थमभिप्रैति तमर्थं तथैव यः साधयति सोऽभिप्रायसिद्धोऽभयकुमारवत् । यस्य सर्वोत्कृष्टं तपः स तपः सिद्धो दृढप्रहारिवत् । यः कर्मक्षयेण ज्ञानावरणीयाद्यष्टकर्मनिर्मूलनेन सिद्धः स कर्मचयसिद्धो मरुदेवीवत् । अतः कर्मादिसिद्धव्यपोहेन कर्मक्षयसिद्धपरिग्रहार्थमाह – बुद्धेभ्यः अज्ञाननिद्राप्रसुप्ते जगति अपरोपदेशेन जीवादिरूपं तत्त्वं बुद्धवन्तो बुद्धाः, बुद्धत्वानन्तरं कर्मक्षयं कृत्वा सिद्धा इत्यर्थः तेभ्यः । एते च संसारनिर्वाणोभयपरित्यागस्थितिमन्तः कैश्विदिष्यन्ते
न संसारे न निर्वाणे स्थितो भुवनभूतये । अचिन्त्यः सर्वलोकानां चिन्तारत्नाधिको महान् ॥ १ ॥
इति वचनात् । एतन्निरासार्थमाह - पारगतेभ्यः पारं पर्यन्तं संसारस्य प्रयोजनवातस्य वा, गताः पारगताः तेभ्यः; एते च यदृच्छावादिभिः कैश्चिदरिद्रराज्याप्तिवदक्रमसिद्धत्वेनाभिधीयन्ते तद्व्युदासार्थमाह – परम्पर गयाणं - परम्परया चतुर्दशगुणस्थानक्रमाराहरूपया, अथवा कथञ्चित् कर्मक्षयोपशमादिसामग्र्या सम्यग्दर्शनं तस्मात् सम्यग्ज्ञानं तस्मात् सम्यक् चारित्रमित्येवम्भूतया गता मुक्तिस्थानं प्राप्ताः परम्परागताः तेभ्यः । एते च कैश्चिदनियतदेशा अभ्युपगम्यन्ते,
यत्र क्लेशचयस्तत्र विज्ञानमवतिष्ठते । बाधा च सर्वथाऽस्येह तदभावान जातुचित् ॥ १ ॥
इति वचनात्, एतन्निरासायाह - लोकाग्रमुपगतेभ्यः लोकाग्रमीषत्प्राग्भाराख्यायाः पृथिव्या उपरिक्षेत्रं तदुप
For Personal & Private Use Only
6-3-1-04-190KMR08
तृतीयः
प्रकाशः ।
॥२३०॥
Page #479
--------------------------------------------------------------------------
________________
सामीप्येन तदपराभिमदेशतया निःशेषकर्मचयपूर्वकं गताः प्राप्ताः । उक्तं च
जत्थ य एगो सिद्धो तत्थ य अणंता भवक्खयविमुक्का । अमोलमणाबाहं चिटुंति सुही सुहं पत्ता ॥१॥ तेभ्यः । ननु क्षीणकर्मणो जीवस्य कथं लोकाग्रं यावद्गतिः ? उच्यते-पूर्वप्रयोगादियोगात् । यदाहपूर्वप्रयोगसिद्धेर्बन्धच्छेदादसङ्गभावाच्च । गतिपरिणामाच्च तथा सिद्धस्योर्ध्व गतिः सिद्धा ॥१॥ ननु सिद्धिक्षेत्रात्परतोऽधस्तिर्यग्वा कमान्न गच्छन्ति !, अत्राऽप्युक्तम्नाऽधो गौरव विगमादसङ्गभावाच्च गच्छति विमुक्तः । लोकान्तादपि न परं प्लवक इवोपग्रहाभावात् ॥१॥ योगप्रयोगयोश्चाभावात्तिर्यग् न तस्य गतिरस्ति । तस्मात्सिद्धस्योर्ध्व ह्यालोकान्ताद्गतिर्भवति ॥२॥ इति ॥
नमः सदा सर्वसिद्धेभ्यः-नमो नमोऽस्तु, सदा सर्वकालं, सर्वसिद्धेभ्यः-सर्व साध्यं सिद्धं येषां ते सर्वसिद्धाः तेभ्यः, अथवा सर्वसिद्धेभ्यः तीर्थसिद्धादिभेदेभ्यः, यथोक्तम्-'तित्थसिद्धा १ अतित्थसिद्धा २ तित्थयरसिद्धा ३ अतित्थयरसिद्धा ४ सयंबुद्धसिद्धा५ पत्तेयबुद्धसिद्धा ६ बुद्धबोहिअसिद्धा ७ थीलिङ्गसिद्धा - पुरिसलिङ्गसिद्धा ६ नपुंसकलिङ्गसिद्धा १० सलिङ्गसिद्धा ११ अनलिङ्गसिद्धा १२ गिहिलिङ्गसिद्धा १३ एगसिद्धा १४
१ यत्र चैकः सिद्धस्तत्र चानन्ता भवक्षयविमुक्ताः । अन्योन्यमनाबाधं तिष्ठन्ति सुखिनः सुखं प्राप्ताः॥ १॥
२ तीर्थसिद्धाः, अतीर्थसिद्धाः, तीर्थकरसिद्धाः, अतीर्थकरसिद्धाः, स्वयंबुद्धसिद्धाः, प्रत्येकबुद्धसिद्धाः, बुद्धबोधितसिद्धाः, स्त्रीलिङ्गसिद्धाः, पुरुषलिङ्गसिद्धाः, नपुंसकलिङ्गसिद्धाः, स्वलिङ्गसिद्धाः, अन्यलिङ्गसिद्धाः, गृहिलिङ्गसिद्धाः, एकसिद्धाः, अनेकसिद्धाः,
Jain Education intem
For Personal & Private Use Only
Page #480
--------------------------------------------------------------------------
________________
योग
तृतीयः
प्रकाशः।
२३२॥
अणेगसिद्धा १५ । तत्र तीर्थे चतुर्विधश्रमणसङ्के उत्पने सति ये सिडाः ते तीर्थसिद्धाः। १। प्रतीर्थे जिनान्तरे साधुव्यवच्छेदे सति जातिस्मरणादिनाऽवाप्तापवर्गमार्गाः सिद्धाः अतीर्थसिद्धाः, मरुदेवीप्रभृतयो वा, तदा तीर्थस्याऽनुत्पन्नत्वात् । २ । तीर्थकरसिद्धाः तीर्थकरत्वमनुभूय सिद्धाः।३। अतीर्थकरसिद्धाः सामान्यकेवलित्वे सति सिद्धाः । ४ । स्वयं बुद्धाः सन्तो ये सिद्धाः ते स्वयंबुद्धसिद्धाः। ५। प्रत्येकबुद्धाः सन्तो ये सिद्धाः तं प्रत्येकबुद्धसिद्धाः । ६ । स्वयम्बुद्धप्रत्येकबुद्धयोश्च बोध्युपधिश्रुतलिङ्गकृतो विशेषः-स्वयंबुद्धा हि बाह्यप्रत्ययमन्तरेण बुध्यन्ते, प्रत्येकबुद्धास्तु बाह्यप्रत्ययेन वृषभादिना करकण्ड्वादिवत्, उपधिस्तु स्वयंबुद्धानां पात्रादिर्कीदशधा, प्रत्येकबुद्धानां प्रावरणवों नवविधः; स्वयंबुद्धानां पूर्वाधीतश्रुतेऽनियमः, प्रत्येकबुद्धानां तु नियमतो भवत्येव लिङ्गप्रतिपत्तिस्तु स्वयंबुद्धानां गुरुसन्निधावपि भवति, प्रत्येकबुद्धानां तु देवता लिङ्गं प्रयच्छति: बुद्धा आचार्या अवगततत्त्वाः तैर्बोधिताः सन्तो ये सिद्धाः ते बुद्धबोधितसिद्धाः। ७। एते च सर्वेऽपि केचित् स्त्रीलिङ्गसिद्धाः, केचित् पुंलिङ्गसिद्धाः, केचित् नपुंसकलिङ्गसिद्धाः । ननु तीर्थकरा अपि किं स्त्रीलिङ्गसिद्धा भवन्ति ?, उच्यते, भवन्त्येव यदुक्तं सिद्धप्राभृते-सव्वत्थोवा तित्थयरिसिद्धा, तित्थयरतित्थे नोतित्थयरसिद्धा असंखेजगुणा, तित्थयरितित्थे नोतित्थयरिसिद्धाओ असंखिजगुणाओ, तित्थयरितित्थे नोतित्थयरसिद्धा असंखेजगुणा इति । नपुंसकलिङ्गसिद्धास्तु तीर्थकरसिद्धा न भवन्त्येव, प्रत्येकबुद्धसिद्धास्तु पुंलिङ्गसिद्धा एव । ८18 | १० । स्वलि
(१) सर्वस्तोकास्तीर्थकरीसिद्धास्तीर्थकरतीर्थे नोतीर्थकरसिद्धा असंख्येयगुणाः, तीर्थकरीतीर्थे नोतीर्थकरीसिद्धा असंख्येयगुणाः, तीर्थकरीतीर्थे नोतीर्थकरसिद्धा असंख्येयगुणाः ।।
॥२३॥
e Education inte!
!
For Personal & Private Use Only
warw.jainelibrary.org
Page #481
--------------------------------------------------------------------------
________________
झेन रजोहरणादिना द्रव्यलिङ्गन सिद्धाः स्वलिङ्गसिद्धाः। ११ । अन्येषां परिव्राजकादीनां लिङ्गन सिद्धा अन्यलिङ्गसिद्धाः । १२ । गृहिलिङ्गसिद्धा मरुदेव्यादयः ।१३। एकैकस्मिन् समये एकाकिनः सिद्धाः एकसिद्धाः ।१४। एकस्मिन् समये अष्टोत्तरं शतं यावत् सिद्धा अनेकसिद्धाः। १५ । यत उक्तम्
बत्तीसा अडयाला सही बाहत्तरीय बोद्धव्वा । चुलसीई छाउई दुरहिअमट्ठोत्तरसयं च ॥१॥
नन्वेते सिद्धभेदा आद्ययोस्तीर्थसिद्धाऽतीर्थसिद्धयोरेवाऽन्तर्भवन्ति, तीर्थकरसिद्धादयो हि तीर्थसिद्धा वा स्युरतीर्थसिद्धा वेति । सत्यम् , सत्यप्यन्तर्भावे पूर्वभेदद्यादेवोत्तरभेदाप्रतिपत्तेरज्ञातज्ञापनार्थ भेदाभिधानमदृष्टमिति । इत्थं सामान्येन सर्वसिद्धनमस्कारं कृत्वा आसनोपकारित्वाद्वर्तमानतीर्थाधिपतेः श्रीमन्महावीरवर्धमानस्वामिनः स्तुतिं करोति
जो देवाण वि देवो जं देवा पंजली नमसंति । तं देवदेवमहिनं सिरसा वन्दे महावीरं ॥ २॥
यो भगवान महावीरो देवानामपि भवनवास्यादीनां पूज्यत्याद् देवः, अत एवाह—यं देवाः प्राञ्जलयो विनयरचितकरसम्पुटाः सन्तो नमस्यन्ति प्रणमन्ति, तं भगवन्तं देवदेवैः शक्रादिभिर्महितं पूजितम् , वन्दे शिरसा उत्तमाङ्गेन आदरप्रदर्शनार्थ चैतत् । तं कं? महावीरम् , विशेषेण ईरयति कर्म गमयति याति वा शिवमिति वीरः, महांश्चासौ वीरश्च महावीरस्तम् । इत्थं स्तुतिं कृत्वा पुनः परोपकाराय आत्मभाववृद्धये च फलप्रदर्शनपरमिदं पठति
(१) द्वात्रिंशदष्टचत्वारिंशत् षष्टि-सप्ततिश्च बोद्धव्याः । चतुरशीतिः षण्णवतियधिकमष्टोत्तरशतं च ॥ १॥
lain Education intero
For Personal & Private Use Only
Page #482
--------------------------------------------------------------------------
________________
योग
लिनस्तेषां वृषभः
॥१३२॥
। किम् ? संसरण
सारसागरः, तस्मात्
इको वि नमुक्कारो जिणवरवसहस्स वद्धमाणस्स । संसारसागराओ तारेइ नरं व नारिं वा ॥३॥
तृतीया एकोऽप्यासतां बहवः, नमस्कारो द्रव्यभावसंकोचलक्षणः, जिनवरवृषभाय-जिनाः श्रुतावधिजिनादयः | प्रकाशः। ॥ तेषां वराः केवलिनस्तेषां वृषभः तीर्थकरनामकर्मोदयादुत्तमो जिनवरवृषभस्तस्मै । स च ऋषभादिरपि भवती
त्याह-वर्धमानाय, यत्नात्कृतः सन्निति शेषः। किम् ? संसरणं संसारस्तियनरनारकामरभवानुभावलक्षणः स | एव भवस्थितिकायस्थितिभ्यामनेकधावस्थानेनालन्धपारत्वात्सागर इव संसारसागरः, तस्मात् तारयति पारं नयतीत्यर्थः । कमित्याह ?---नरं वा नारी वा-नरग्रहणं पुरुषोत्तमधर्मप्रतिपादनार्थम् , नारीग्रहणं तासामपि तद्भव एव संसारक्षयो भवतीति ज्ञापनार्थम् । यथोक्तं यापनीयतन्त्रे
नो खलु इत्थी अजीवो, न यावि अभव्वा, न यावि दंसणविरोहिणी, नो अमाणुस्सा, नो अणायरियउप्पमा, नो असंखेजाउा, नो अइकूरमई, नो अणुवसन्तमोहा, नो असुद्धाचारा, नो असुद्धबोंदी, नो ववसायवज्जिा , | नो अपुवकरणविरोहिणी, नो नवगुणट्ठाणरहिआ, नो अजोग्गा लद्धीए, नो अकल्लाणभायणं ति कहं न उत्तमधम्मस्स साहगा ? इति।
अयमत्र भावः-सति सम्यग्दर्शने परया भावनया क्रियमाण एकोऽपि नमस्कारस्तथाभूतस्याध्यवसायस्य
(१) नो खलु स्त्री अजीवः, न चाप्यभव्या, न चापि दर्शनविरोधिनी, नो अमानुष्या, नो अनार्योत्पन्ना, नो असंख्ये| यायुष्का, नो अतिकरमतिः, नो अनुपशान्तमोहा, नो अशुद्धाचारा, नो अशुद्धशरीरा, नो व्यवसायवर्जिता, नो अपूर्वकरणविरोधिनी, नो नवगुणस्थानरहिता, नो अयोग्या लब्ध्याः , नो अकल्याणभाजनमिति कथं नोत्तमधर्मस्य साधिका ? इति । ।।२३२
For Personal & Private Use Only
Jain Education intenchal
Page #483
--------------------------------------------------------------------------
________________
हेतुर्भवति यथाभूतात् श्रेणिमवाप्य निस्तरति भवोदधिमिति । अतः कार्ये कारणोपचारादेवमुच्यते । न च चारिअस्य वैफन्यम्, तथाभूताध्यवसायस्यैव चारित्ररूपत्वादिति । एतास्तिस्रः स्तुतयो गणधरकृतत्वाद् नियमेनोच्यन्ते केचित अन्ये अपि स्तुती पठन्ति
यथा
उजितसेलसिहरे दिक्खा नाणं निसीहिया जस्स । तं धम्मचकवादि अरिहनेमि नमसामि ॥४॥ चत्तारि अट्ठ दस दो प्रबंदिया जिणवरा चउवीसं । परमनिटिअट्ठा सिद्धा सिद्धिं मम दिसंतु ॥ ५॥
सुगमे । एवमेतत्पठित्वोपचितपुण्यसम्भार उचितेष्वौचित्येन प्रवृत्तिरिति ज्ञापनार्थ पठति पठन्ति वा-वेयावच्चगराणं सन्तिगराणं सम्मदिहिसमाहिगराणं करेमि काउस्सग्गं-वैयावृत्यकराणां प्रवचनार्थ व्याप्तमावानां गोमुखयक्षाप्रतिचक्राप्रभृतीनां, शान्तिकराणां सर्वलोकस्य, सम्यग्दृष्टिविषये समाधिकराणाम् , एषां सम्बन्धिनां पप्ठ्याः सप्तम्यर्थत्वादेतद्विषयमेतान वाश्चित्य करोमि कायोत्सर्गम् । अत्र वन्दनादिप्रत्ययमित्यादि न पठ्यते, अपि तु अन्यत्रोच्छसितेनेत्यादि, तेषामविरतत्वात इत्थमेव तद्भाववृद्धरुपकारदर्शनात् । एतयाख्या च पूर्ववत् । नवरं स्तुतियावृत्यकराणां पुनस्तेनैव विधिना उपविश्य पूर्ववत् प्रणिपातदण्डकं पठित्वा मुक्ताशुक्तिमुद्रया प्रणिधानं कुर्वन्ति । यथाजय वीयराय ! जगगुरु! होउ ममं तुह पभावो भय ।। भवनिव्वेश्रो मम्गाणुसारिया इट्ठफलसिद्धी ॥१॥ लोगविरुद्धच्चायो गुरुजणपूना परत्थकरणं च । सुहगुरुजोगो तन्वयणसेवणा भाभवमखण्डा ॥२॥
lain Education Internal
For Personal & Private Use Only
T
ww.jainelibrary.org
Page #484
--------------------------------------------------------------------------
________________
योग
तृतीयः प्रकाशः।
शास्त्रम् ॥२३३॥
जय वीतराग ! जगद्गुरो! इति भगवतत्रिलोकनाथस्य बुद्ध्यां सविधानार्थमामन्त्रणम् , भवतु जायतां ममेत्यात्मनिर्देशः, तव प्रभावतः तव सामर्थ्येन, भगवमिति पुनः सम्बोधनं भक्त्यतिशयख्यापनार्थम् । किं तदित्याहभवनिर्वेदः संसारनिर्वेदः। न हि भवादनिर्विलो मोचाय यतते, अनिर्विष्मस्य तत्प्रतिबन्धान्मोचे यत्नोऽयत्न एव, निर्जीवक्रियातुल्यत्वात् । तथा मार्गानुसारिता असहविजयेन तत्त्वानुसारिता, तथा इष्टफलसिद्धिरमिमतार्थनिष्पत्तिः ऐहलौकिकी, ययोपगृहीतस्य चित्तस्वास्थ्यं भवति तस्माच्चोपादेयप्रवृत्तिः । तथा लोकविरुद्धत्यागः सर्वजननिन्दादिलोकविरुद्धानुष्ठानवर्जनम् । यदाह
सव्वस्स चेव निंदा विसेसओ तह य गुणसमिद्धाणं । उजुधम्मकरणहसणं रीढा जणपूयणिज्जाणं ॥१॥ बहुजनविरुद्धसंगो देसाचारस्स लंघणं चेवं । उव्वणभोओ अ तहा दाणाइवियडमन्नेयो॥ २ ॥ साहुवसणम्मि तो सो सइ सामथम्मि अपडियारो अ। एमाइयाई इत्थं लोगविरुद्धाइं णेआई ॥३॥
गुरुजनस्य पूजा उचितप्रतिपत्तिगुरुपूजा, गुरवश्च यद्यपि धर्माचार्या एवोच्यन्ते तथापीह मातापित्रादयोऽपि गृह्यन्ते । यदुक्तम्
माता पिता कलाचार्य एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः ॥ १॥ (१) सर्वस्य चैव निन्दा विशेषतस्तथा च गुणसमृद्धानाम् । ऋजुधर्मकरणहसनं रीढा जनपूजनीयानाम् ॥१॥
बहुजनविरुद्धसङ्गो देशाचारस्य लवनं चैव । उल्वणभोगश्च तथा दानादिविकटमन्यस्मात् ॥ २ ॥ साधुव्यसने तोषः सति सामर्थेऽप्रतिकारश्च । एवमादिकानि इत्थं (अत्र) लोकविरुद्धानि शेयानि ॥ ३ ॥
॥२३३॥ Tiwww.jainalinkery.org
Sain Education interes
For Personal & Private Use Only
Page #485
--------------------------------------------------------------------------
________________
परार्थकरणं सत्त्वार्थकरणं जीवलोकसारं पौरुषचिवमेतत् । सत्येतावति लौकिके सौन्दर्ये लोकोत्तरधर्माधिR कारी भवतीत्याह-शुभगुरुयोगी विशिष्टचारित्रयुक्ताचार्यसम्बन्धः, तथा तद्वचनसेवा सद्गुरुवचनसेवना, न जातु
चिदयमहितमुपदिशति, आभवमासंसारमखण्डा सम्पूर्णा । इदं च प्रणिधानं न निदानरूपम् , प्रायेण निस्सङ्गाभिलाषरूपत्वात् । एतच्चाप्रमत्तसंयतादर्वाक कर्तव्यम् , अप्रमत्तादीनां मोक्षेऽप्यनभिलापात् । तदेवंविधशुभफलप्रणिधानपर्यन्तं चैत्यवन्दनम् ।। १२४ ॥ इदानीमनन्तरकरणीयमाहततो गुरूणामभ्यणे प्रतिपत्तिपुरःसरम् । विदधीत विशुद्धात्मा प्रत्याख्यानप्रकाशनम् ॥१२५॥ ___ ततोऽनन्तरं गुरूणां धर्माचार्याणां देववन्दनार्थमागतानां खात्रादिदर्शनधर्मकथाद्यर्थ तत्रैव स्थितानाभ्यर्णे उचिते समीपे, उचितत्वं चार्धचतुर्थहस्तप्रमाणात् क्षेत्राद् बहिरवस्थानम् , प्रतिपत्तिाख्यास्यमाना वन्दनकादिरूपा वा, तत्पुरःसरं तत्पूर्वकं, विदधीत कुर्यात् , विशुद्धात्मा निर्मलचित्तो न तु दम्भादियुक्तः, प्रत्याख्यानस्य देवसमीपे कृतस्य प्रकाशनं गुरोः पुरतःप्रकटनम् : त्रिविधं हि प्रत्याख्यानविधानमात्मसाक्षिकं देवसाक्षिकं गुरुसाक्षिकं च ॥ १२५ ॥ प्रतिपत्तिपुरःसरमित्युक्तमिति गुरुप्रतिपत्तिं श्लोकद्वयेन दर्शयतिअभ्युत्थानं तदालोकेऽभियानं च तदागमे। शिरस्यञ्जलिसंश्लेषः स्वयमासनढौकनम् ॥१२६॥ श्रासनाऽभिग्रहो भक्त्या वन्दना पर्युपासनम् । तद्यानेऽनुगमश्चेति प्रतिपत्तिरियं गुरोः॥१२७॥
अभ्युत्थानं ससम्भ्रममासनत्यागः, तदालोके गुरूणामालोकने सति, अभियानमभिमुखं गमनं तदागमे
in Education International
For Personal & Private Use Only
Page #486
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
॥२३४॥
Jain Education Interna
k
14064-.--
गुर्वा, शिरसि मस्तके गुरुदर्शनसमकालमञ्जलिसंश्लेषः करकोरककरणं नमो खमासमणाणं ति वचनोश्चारपूर्वकं स्वयमित्यात्मना न तु परप्रेषणेन आसनढौकनमासनसन्निधापनम् || १२६ ॥ आसनाऽभिग्रहः आसन उपविष्टेषु गुरुषु स्वयमासितव्यमित्यभिग्रहः आसनाभिग्रहः, भक्त्या भक्तिपूर्वकं वन्दना पञ्चविंशत्यावश्यकविशुद्धं वन्दनं स्थानस्थितानां च गमनादिव्याकुलत्वाभावे पर्युपासनं सेवा तेषां गुरूणां याने गमनेऽनुगमनं पृष्ठतः कतिपयपदानुसरणमियं प्रतिपत्तिरुपचारविनयरूपा गुरोर्धर्माचार्यस्य ॥ १२७ ॥
04-0.•--
ततो गुरुपार्श्वे धर्मदेशनां श्रुत्वा -
ततः प्रतिनिवृत्तः सन् स्थानं गत्वा यथोचितम् । सुधीर्धर्माऽविरोधेन विदधीतार्थचिन्तनम् ॥१२८ ततो देवगृहात् प्रतिनिवृत्तो व्यावृत्तः सन् यथोचितं स्थानं गत्वा यथोचितमिति यदा राजादिस्तदा धवलगृहं यद्यमात्यादिस्तदाकरणम्ः प्रथ वणिगादिस्तदा श्रापणमिति सुधीर्बुद्धिमान् विदधीत अर्थचिन्तनमर्थोपायचिन्तां धर्माविरोधेनेति धर्मस्य जिनधर्मस्य विरोधेन अबाधया । अत्र चार्थचिन्तनमित्यनुवाद्यं तस्य स्वतः सिद्धत्वात्, धर्माविरोधेनेति विधेयमप्राप्तत्वात् । धर्माविरोधश्च राज्ञां दरिद्रेश्वरयोर्मान्यामान्ययोरुत्तमनीचयोर्माध्यस्थ्येन न्यायदर्शनात्, नियोगिनां च राजार्थप्रजार्थसाधनेन, वणिजां च कूटतुलाकूटमानादिपरिहारेण पञ्चदशकर्मादानपरिहारेण च बोद्धव्यः ॥ १३८ ॥
वृतयः प्रकाश: ।
ततो माध्याह्निकीं पूजां कुर्यात् कृत्वा च भोजनम् । तद्विद्भिः सह शास्त्रार्थरहस्यानि विचारयेत् १२९ ॥२३४॥
For Personal & Private Use Only
Page #487
--------------------------------------------------------------------------
________________
ततस्तदनन्तरं माध्याहिकी मध्याह्नकालभाविनी पूजां जिनसपर्या कुर्यात्, कृत्वा विधाय च भोजनमित्यनुवादः। माध्याह्निकीपूजाभोजनयोश्च न कालनियमः । तीव्रबुभुक्षोहि बुभुक्षाकालो भोजनकाल इति रूढेमध्याह्नादागपि गृहीतप्रत्याख्यानं तीरयित्वा देवपूजापूर्वकं भोजनं कुर्वन्न दुष्यति । अत्र चाऽयं विधिः
जिनपूोचिअदाणं परियणसम्भालणा उचियकिचं । ठाणुवएसो य तहा पञ्चक्खाणस्स सम्भरणं ॥१॥
तथा भोजनाऽनन्तरं सम्भवतो ग्रन्थिसहितादेः प्रत्याख्यानस्य करणं प्रमादपरिजिहीर्पोर्हि प्रत्याख्यानं विना मन युक्तं क्षणमप्यासितुम् । शास्त्रार्थानां रहस्यान्यैदंपर्याणि विचारयदिदमित्थं भवति नेति वा सम्प्रधारयेत्,
कथं! सह साधं । कैः ? तद्विद्भिः तच्छास्त्रार्थरहस्यं विदन्ति ये तैः, गुरुमुखात् श्रुतान्यपि शास्त्रार्थरहस्यानि परिशीलनाविकलानि न चेतसि सुदृढप्रतिष्ठानि भवन्तीति कृत्वा ।। १२६ ॥ ततश्च सन्ध्यासमये कृत्वा देवार्चनं पुनः। कृतावश्यककर्मा च कुर्यात् स्वाध्यायमुत्तमम् ॥१३०॥ . ततस्तदननं यो द्विर्युक्ते स विकालसमये अन्तर्मुहर्तादर्वाग् भोजनं कृत्वा सन्ध्यासमये पुनस्तृतीयवारं देवार्चनं कृत्वा साधुसमीपं गत्वा भूमिकौचित्येन षड्विधावश्यक सामायिक-चतुर्विशतिस्तव-वन्दनक-प्रतिक्रमणकायोत्सर्ग-प्रत्याखानलक्षणं कुर्याततत्र सामायिकमातरौद्रध्यानपरिहारेण धर्मध्यानपरिकरणेन शत्रुमित्रतणकाअनादिषु समता, तच्च पूर्वमेवोक्तम् । चतुर्विशतेस्तीर्थकराणां नामोत्कीर्तनपूर्वकं स्तवो गुणकीर्तनं तस्य च कायो
१ जिनपूजोचितदानं परिजनसंभालनमुचितकृत्यम् । स्थानोपदेशश्च तथा प्रत्याख्यानस्य संस्मरणम् ॥१॥
in Education Interne
For Personal & Private Use Only
Page #488
--------------------------------------------------------------------------
________________
योग- शास्त्रम् ॥२३ ॥
सर्गे मनसाऽनुध्यानं शेषकालं व्यक्तवर्णपाठः । अयमपि पूर्वमुक्तः। वन्दनं वन्दनायोग्यानां धर्माचार्याणां पञ्च- * तृतीयः विंशत्यावश्यकविशुद्ध द्वात्रिंशद्दोषरहितं नमस्करणम् तत्र पञ्चविंशतिरावश्यकानि यथा
प्रकाशः देओणयं अहाजायं किय(इ)कम्मं बारसावयं(तं)। चउसिरं तिगुत्तं च दुपवेसं एगनिक्खमणं ॥१॥ इति ॥
द्वे अवनमने “ इच्छामि खमासमणो वंदिउं जावणिजाए निसीहिआए" इत्यभिधाय गुरो छन्दानुज्ञापनाय प्रथममवनमनम् । १ । यदा पुनः कृतावर्ती निष्क्रान्त इच्छामीत्यादिसूत्रमभिधाय पुनश्छन्दोऽनुज्ञापनायैव तदा द्वितीयम् । २। तथा यथाजातं जातं जन्म तच्च द्वेधा प्रभवः प्रव्रज्याग्रहणं च। तत्र प्रसवकाले रचितकरसंपुटो जायते प्रवज्याकाले च गृहीतरजोहरणमुखवत्रिक इति यथा जातमस्य स यथाजातस्तथाभूत एव वन्दते इति वन्दनमपि यथाजातम् । ३ । तथा द्वादशावर्ताः कायचेष्टाविशेषा गुरुचरणन्यस्तहस्तशिरःस्थापनरूपा यस्मिस्तद् द्वादशावर्तमिह च प्रथमप्रविष्टस्य अहो कायं इत्यादिसूत्रोच्चारणगर्भाः षडावर्ताः निष्क्रम्य पुनः प्रविष्टस्यापि त एव पडिति द्वादश । १५ । चत्वारि शिरांसि यस्मिन् तच्चतु:शिरः प्रथमप्रवेशे क्षामणाकाले शिष्याचार्ययोरवनमच्छिरोद्वयम् , निष्क्रम्य पुनः प्रवेशे तथैव च शिरोद्वयम् । ११ । त्रिगुप्तं मनोवाकायकर्मभिर्गुप्तम् । २२ । तथा प्रथमोऽनुज्ञाप्य प्रवेशो द्वितीयः पुनर्निर्गत्य प्रवेश इति द्वौ प्रवेशौ यत्र तद् द्विप्रवेशमेकं निष्क्रमणमावश्यक्या निर्गच्छतो यत्र तदेकनिष्क्रमणम् । २५ । द्वात्रिंशदोषा यथा(१) यवनतं यथाजातं कृतिकर्म द्वादशावर्तम् । चतुःशिरः त्रिगुप्तं च द्विप्रवेशमेकनिष्क्रमणम् ॥१॥
। २३५
Jain Education
n
n al
For Personal & Private Use Only
T
w.jainelibrary.org
Page #489
--------------------------------------------------------------------------
________________
प्रणाढियं च थटुं च पविद्धं परिपिंडियं । टोलगइ अंकुसं चेव तहा कच्छभरिंगियं ॥१॥ मच्छोव्बत्तं मणसा य पउढें तह य वेइयाबई । भयसा चेव भयंतं मेत्ती गारवकारणा ॥२॥ तेणिभं पडणीअं चेव रुटुं तज्जियमेव य । सढं च हीलिअं चेव तहा विपलिउंचिनं ॥३॥ दिट्ठमदिटुं च तहा सिंगं च करमोश्रणं । आलिद्धमनालिद्धं ऊणं उत्तरचूलिअं ॥४॥ मृअं च ढड्ढरं चेव चुडलिं च अपच्छिमं । बत्तीसदोसपरिसुद्धं किइकम्मं पउंजए ।॥ ५॥
अनादृतं सम्भूमरहितं वन्दनम् । १ । स्तब्धं मदाष्टकवशीकृतस्य वन्दनम् । २। प्रविद्धं वन्दनं ददत एव पलायनम् । ३ । परिपिण्डितं प्रभूतानां युगपद्वन्दनम् , यद्वा कुरुपरि हस्तौ व्यवस्थाप्य परिपिण्डितकरचरणस्याऽव्यक्तसूत्रोच्चारणपुरःसरं वन्दनम् । ४ । टोलगति तिड्डवदुत्प्लुत्योत्प्लुत्य विसंस्थुलं वन्दनम् । ५ । अङ्कुशमुपकरणे चोलपट्टकल्पादौ हस्ते वा अवज्ञया समाकृष्य अङ्कुशेन गजस्येवाचार्यस्योर्ध्वस्थितस्य शयितस्य प्रयोजनान्तरव्यग्रस्य वा वन्दनकार्थमासन उपवेशनम् । न हि पूज्याः कदाचिदप्याकर्षणमर्हन्ति, अविनयत्वादस्य, यद्वा (१) अनादृतं च स्तब्धं च प्रविद्धं परिपिण्डितम् । टोलगति अङ्कुशं च तथा कच्छपरिङ्गितम् ॥ १॥
मत्स्योत्तं मनसा च प्रदुष्टं तथा च वेदिकाबद्धम् । भयादू चैव भजमा मैत्री गौरवकारणम् ॥ २॥ स्तैनिकं प्रत्यनीकं चैव रुष्टं तर्जितमेव च । शठं च हीलितं चैव तथा विपरिकुश्चितम् ॥३॥ दृष्टमदृष्टं च तथा शृङ्गं च करमोचनम् । आश्लिष्टमनाश्लिष्टमूनमुत्तरचूलित(क)म् ॥ ४ ॥ मूकं च ढड्ढरं चैव चुडलिश्चापश्चिमम् । द्वात्रिंशद्दोषपरिशुद्धं कृतिकर्म प्रयुञ्जीत ॥ ५॥
JanEducation intem
For Personal Private Use Only
Page #490
--------------------------------------------------------------------------
________________
योगशाखम्
तृतीयः प्रकाशः।
॥२३६॥
रजोहरणमक्शवत्करद्वयेन गृहीत्वा वन्दनम् , यदि वाशाक्रान्तस्य हस्तिन इव शिरोनमनोत्रमने कुर्वाणस्य वन्दनम् । ६ । कच्छपरिङ्गितमूर्ध्वस्थितस्य तित्तिसणयरा इत्यादिसूत्रमुच्चारयत उपविष्टस्य वा अहो कायं काय इत्यादिसूत्रमुच्चारयतोऽग्रतोऽभिमुखं पश्चादभिमुखं च रिङ्गतश्चलतो वन्दनम् । ७। मत्स्योवृत्तमुत्तिष्ठन्निविशमानो वा जलमध्ये मत्स्य इवोद्वर्तते उद्वेलते यत्र तत् । यद्वा एक वन्दित्वा द्वितीयस्य साधोद्रुतं द्वितीयपान रेचकावर्तेन मत्स्यवत् परावृत्य वन्दनम् । ८ । मनसा प्रदुष्टं शिष्यस्तत्सम्बन्धी वा गुरुणा किश्चित्परुषमभिहितो यदा भवति तदा मनसो दक्षितत्वाद् मनसा प्रदुष्टं, यद्वा वन्दयो हीनः केनचिद्गुणेन ततोऽहमेवंविधेनापि वन्दनं दापयितुमारग्ध इति चिन्तयतो वन्दनम् । ९ । वेदिकाबद्धं जानुनोरुपरि हस्तौ निवेश्य अधो वा पार्श्वयोर्वा उत्सङ्गे वा जानु करद्वयान्तः कृत्वा वा इति पञ्चभिर्वेदिकाभिर्बड युक्तं वन्दनम् । १० । बिभ्यत् सङ्घात् कुलात् गच्छाद क्षेत्राद्वा निष्कासयिष्येऽहमिति भयाद् वन्दनम् । ११ । भजमानं भजते मां सेवायां पतितो मम अग्रे वा मम भजनं करिष्यति ततोऽहमपि वन्दनसत्कं निहोरकं निवेशयामीति बुद्ध्या वन्दनम् । १२ । मैत्रीतो मम मित्रमाचार्य | इति, आचार्येणेदानी मैत्री भवत्विति वा वन्दनम् । १३ । गौरवाद्वन्दनकसामाचारीकुशलोऽहमिति गर्वादन्येऽ
प्यवगच्छन्तु मामिति यथावदावर्तादीनाराधयतो वन्दनम् । १४ । कारणाद् ज्ञानादिव्यतिरिक्ताद्वस्वादिलाभहेतो| वन्दनम् , यद्वा ज्ञानादिनिमित्तमपि लोकपूज्योऽन्येभ्यो वाऽधिकतरो भवामीत्यभिप्रायतो वन्दनम् , यद्वा वन्दनकमृन्यवशीकृतो मम प्रार्थनाभङ्गं न करिष्यतीति बुद्ध्या वन्दनम् । १५ । स्तैनिकं मम लाघवं भविष्यतीति परेभ्य आत्मानं निगृहयतो वन्दनम् , अयमर्थः-एवं नाम शीघ्रं वन्दते यथा स्तेनवत् केनचिद् दृष्टः केनचिन्नेति ।
॥२३६॥
in Education Inter
For Personal & Private Use Only
Page #491
--------------------------------------------------------------------------
________________
१६ । प्रत्यनीकमाहारादिकाले वन्दनम् । १७ । यदाहप्र. वक्खित्तपराहुत्ते पमत्ते मा कयावि वंदिजा ॥ पाहारं च करिते नीहारं वा जइ करेइ ॥१॥
रुष्टं क्रोधाध्मातस्य गुरोर्वन्दनमात्मना वा क्रुद्धेन वन्दनम् । १८ । तर्जितमवन्धमानो न कुप्यसि वन्द्यमानचाविशेषज्ञतया न प्रसीदसि इति निर्भयतो यद्वा बहुजनमध्ये मां वन्दनं दापयस्तिष्ठसि ज्ञास्यते मया तवैकाकिन इति धिया तर्जन्या शिरसा वा तर्जयतो वन्दनम् । १६ । शठं शाठ्येन विश्रम्भार्थ वन्दनं ग्लानादिव्यपदेशं वा कृत्वा न सम्यग्वन्दनम् ।२०। हीलितं हे गणिन् वाचक ! किं भवता वन्दितेनेत्यादिना अवजानतो वन्दनम् ।२१। विपरिकुंचितम् अर्धवन्दित एव देशादिकथाकरणम् । २२ । दृष्टादृष्टं तमसि स्थितः केनचिदन्तरित एवमेवास्ते दृष्टस्तु वन्दत इति । २३ । शृङ्गं अहो कायं काय इत्याद्यावर्तानुच्चारयतो ललाटमध्यदेशमस्पृशतः शिरसो वामदक्षिणे शृङ्गे स्पृशतो वन्दनकरणम् । २४ । करः कर इव राजदेयभाग इव अर्हत्प्रणीतो वन्दनककरोऽवश्यदातव्य इति धिया वन्दनम् ।२५ । मोचनं लौकिककराद्वयं मुक्ता न मुच्यामहे वन्दनकरादिति बुद्ध्या वन्दनम् । २६ । आश्लिष्टानाश्लिष्टमत्र चतुर्भङ्गी, सा च अहो काय काय इत्याद्यावर्तकाले भवति रजोहरणस्य शिरसश्च कराभ्यामाश्लेषणं, रजोहरणस्य न शिरसः, शिरसो न रजोहरणस्य, न रजोहरणस्य नाऽपि शिरसः। अत्र प्रथमः शुद्धः शेषास्तु दुष्टाः । २७ । न्यूनं व्यञ्जनाभिलापावश्यकैरसम्पूर्णम् । २८ । उत्तरचूलं वन्दनं दत्त्वा महता शब्देन मस्तकेन वन्दे इत्यभिधानम् । २९ । मृकं आलापाननुच्चारयतो वन्दनम् । ३० । ढड्ढरं महता
(१) व्याक्षिप्तपराभूतान् प्रमत्तान् मा कदापि वन्दिष्ठाः । आहारं च कुर्वतो नीहारं वा यदि करोति ॥ १॥
in Education Inter
For Personal & Private Use Only
Page #492
--------------------------------------------------------------------------
________________
योगशाखम्
॥ २३७ ॥
Jain Education Intern
शब्देनोच्चारयतो वन्दनम् । ३१ । चुडली उन्मुकं यथोन्मुकं गृह्यते तथा रजोहरणं गृहीत्वा वन्दनं, यद्वा यत्र दीर्घस्तं प्रसा वन्दे इति भणतो वन्दनम्, अथवा हस्तं भ्रमयित्वा सर्वान् वन्दे इति वदतो वन्दनम् | ३२ | वन्दनके च शिष्यस्य षडभिलापा भवन्ति, तद्यथा इच्छा अनुज्ञापना अव्यावाधं यात्रा यापना अपराधक्षामणा च यदाह -
वा अव्वाबाहं च जत्त जवणा य । अवराहखामणा चिय छठाया हुंति वन्दणए ॥ १ ॥ गुरुवचनान्यपि षडेव यथा छन्देन अनुजानामि तथेति तुभ्यमपि वर्तते एवमहमपि क्षमयामीति । यदाहछंदेने अणुजाणामि तह त्ति तुब्भं पि वह एवं । श्रहमवि खामेमि तुमे आलावा वंदरिहस्त ॥ १ ॥ एते च द्वये अपि यथास्थानं सूत्रव्याख्यायां दर्शयिष्यन्ते । सूत्रं च-
इच्छामि खमासमणो वंदिउं जावणिजाए निसीहियाए अनुजाह में मिउग्गहं निसीहि अहो कायं कायसंफ़ासं खमणिज्जो भे किलामो अप्प किलंताणं बहुसुभेण मे दिवसो वइकंतो जत्ता मे जवणिज्जं च मे खामेमि खमासमणो देवसिअं वइक्कमं आवसियाए पडिक्कमामि खमासमणाणं देवसियार असायलाए तित्तीसन्नय राए जं किंचि मिच्छाए मणदुक्कडाए वयदुक्कडाए कायदुक्कडाए कोहाए मायाए मायाए लोहाए सव्वकालियाए सव्वमिच्छोवयाराए सव्वधम्माइकमणाए आसायणाए जो मे अचारो को तस्स खमासमणो ! पडिक मामि
( १ ) इच्छा • चानुज्ञापना अव्याबाधं च यात्रा यापना च । अपराधक्षामणा चैव षट् स्थानानि भवन्ति वन्दनके ॥ १ ॥ ( २ ) छन्देनानुजानामि तथेति तवाऽपि वर्तते एवम् । अहमपि क्षमयामि तवालापाद् वन्दनार्हस्य ॥ १ ॥
For Personal & Private Use Only
तृतीयः
प्रकाशः ।
॥ २३७ ॥
Page #493
--------------------------------------------------------------------------
________________
निंदामि गरिहामि अप्पाणं वोसिरामि । . ___व्याख्या-अत्र हि शिष्यो गुरुवन्दनेन वन्दितुकामः पूर्व लघुवन्दनपुरःसरं संदंशको प्रमृज्योपविष्ट एव मुखवत्रिका पञ्चविंशतिकृत्वः प्रत्युपेक्षते, तया च शरीरं पञ्चविंशतिकृत्व एव प्रमृज्य परेण विनयेन मनोवाक्कायसंशुद्धो गुरोः सकाशादात्मप्रमाणात क्षेत्राद् बहिःस्थितोऽधिज्यचापवदवनतकायः करद्वयगृहीतरजोहरणादि
वन्दनायोद्यत एवमाह-इच्छामि अभिलषामि, अनेन बलाभियोगः परिहृतः, क्षमाश्रमण ! 'समृषि सहने' * इत्यस्य पित्त्वादङि क्षमा सहनमित्यर्थः, श्राम्यति संसारविषये खिन्नो भवति तपस्यतीति वा, नन्द्यादित्वात कर्तरि अने श्रमणः, क्षमाप्रधानः श्रमणः क्षमाश्रमणः तस्य सम्बोधने प्राकृते खमासमणो ! “डो दीर्घो वा"
(सिद्धहेम०८।३।३८)॥ इति आमन्त्र्ये से?कारः, क्षमाग्रहणेन मार्दवार्जवादयो गुणाः सूचिताः । ततश्च
क्षमादिगुणोपलक्षितयतिप्रधान ! अनेन वन्दनार्हत्वं तस्यैव सूचितम् , किं कर्तुं वन्दितुं नमस्कतु भवन्तमिति अगम्यते, कया ? यापनीयया नैषेधिक्या, अत्र नैषधिक्येति विशेष्यं, यापनीययेति विशेषणम्, 'विध गत्याम्'
इत्यस्य निपूर्वस्य पनि निषेधःप्राणातिपातादिनिवृत्तिः स प्रयोजनमस्या नैषेधिकी तनुः तया। कीदृश्या? यापनीयया · यांक प्रापणे' अस्य णिगन्तस्य प्वागमे यापयतीति यापनीया प्रवचनीयादित्वात् कर्तर्यनीयः तया, शक्तिसमन्वितया इत्यर्थः । अयं समुदायार्थः हे श्रमणगुणयुक्त ? अहं शक्तिसमन्वितशरीरः प्रतिषिद्धपापक्रियश्च | त्वां वन्दितुमिच्छामि । अत्र विश्रामः । अत्र चान्तरे गुरुयदि व्याक्षेपबाधायुक्तस्तदा भणति प्रतीक्षखेति । तच्च बाधादिकारणं यदि कथनयोग्यं भवति तदा कथयति अन्यथा तु नेति चूर्णिकारमतम् , वृत्तिकारस्य तु मतं
A
For Personal & Private Use Only
w
Jain Education Intemat
alnelibrary.org
Page #494
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥ २३८ ॥
Jain Education Internat
***←→**O*-**O***O***O*-*OK
त्रिविधेनेति भणति मनसा वचसा कायेन प्रतिषिद्धोऽसीत्यर्थः । ततः शिष्यः संक्षेपवन्दनं करोति । व्याक्षेपादिरहित गुरुः तदा वन्दनमनुज्ञातुकामः छन्देनेति वदति छन्देनाभिप्रायेण ममाऽपि एतदभिप्रेतमित्यर्थः । ततो विनेयोऽवग्रहाद् बहिःस्थित एवैवमाह अनुजानीत अनुमन्यध्वं मे इति आत्मनिर्देशे, किं ? मितश्चासाववग्रहश्च मितावग्रहः इहाचार्यस्य चतसृषु दिक्षु आत्मप्रमाणं क्षेत्र मवग्रहः, तस्मिन्नाचार्य्याऽनुज्ञां विना प्रवेष्टुं न कल्पते, यदाहश्रयमाणमेत्तो चउद्दिसं होइ अवग्गहो गुरुणो । अणणुलायस्स सया न कप्पए तत्थ पविसेउं ॥ १ ॥ ततो गुरुर्भणति – अनुजानामि । ततः शिष्यो भुवं प्रमृज्य नैषेधिकीं कुर्वन् गुर्ववग्रहे प्रविशति । निसीहीति निषिद्धर्वाशुभव्यापारः सन् प्रविशाम्यहमित्यर्थः । ततः संदंशप्रमार्जनपूर्वकमुपविशति । गुरुपादान्तिके च भूमौ निधाय रजोहरणं तन्मध्ये च गुरुचरणयुगलं संस्थाप्य मुखवखिकया वामकर्णादारभ्य वामहस्तेन दक्षिणक यावल्ललाटमविच्छिन्नं च वामं जानु त्रिः प्रमृज्य मुखवत्रिकां वामजानूपरि स्थापयति । ततोऽकारोच्चारणसमकालं रजोहरणं कराभ्यां संस्पृश्य होकारोच्चारणसमकालं ललाटं स्पृशति । ततः काकरोच्चारणसमकालं रजोहरणं स्पृष्ट्वा कारोच्चारण समकालं ललाटं स्पृशति । पुनश्च काकारोच्चारणसमकालं रजोहरणं स्पृष्ट्वा यकारोच्चारणसमकालं ललाटं स्पृशति । ततः संफासमिति वदन् शिरसा पाणिभ्यां च रजोहरणं स्पृशति । ततः शिरसि बद्धाञ्जलिः ' खमणिजो मे किलामो ' इत्यारस्य ' दिवसो वइकंतो ' यावद् गुरुमुखे निविष्टदृष्टिः पठति । श्रधस्तात् ( १ ) आत्मप्रमाणमात्रश्चतुर्दिशं भवत्यवग्रहो गुरोः । अननुज्ञातस्य सदा न कल्पते तत्र प्रवेष्टुम् ॥ १ ॥ ( २ ) त्रिः प्रदक्षिणीकृत्य प्रमृज्य इति प्रत्यन्तरम् ।
For Personal & Private Use Only
*********
तृतीयः
प्रकाशः ॥
॥ २३८ ॥
Page #495
--------------------------------------------------------------------------
________________
कायोऽधःकायः पादलक्षणस्तं प्रति कायेन निजदेहेन हस्तललाटलक्षणेन संस्पर्श आमर्शस्तं 'करोमि' इति गम्यते । एतदपि ममानुजानीध्वमित्यनेन योगः । आचार्यमननुज्ञाप्य हि संस्पर्शो न कार्यः । ततो वक्तिखमणिजो क्षमणीयः सोढव्यः, भे भवद्भिः, किलामो क्रमः संस्पर्श सति देहग्लानिरूपः । तथा अप्पकिलंताणं अल्पं स्तोकं क्लान्तं क्लमो येषां तेऽल्पकान्तास्तेषामल्पवेदनानामित्यर्थः, 'बहुसुभेण ' बहु च तच्छुभं च बहुशुभं तेन बहुसुखेनेत्यर्थः, 'भे ' भवताम् . 'दिवसो वइकतो' दिवसो व्यतिक्रान्तः । अत्र दिवसग्रहणं रात्रिपक्षादीनामुपलक्षणं द्रष्टव्यम् । एवं योजितकरसंपुटं गुरोः प्रतिवचनमीक्षमाणं शिष्यं प्रत्याह गुरुः–' तह त्ति' II
तथेति प्रतिश्रवणे, अत्र तथाकारः यथा भवान् ब्रवीति तथेत्यर्थः । एवं तावदाचार्यशरीरवार्ता पृष्टा । अथ तपो- नियमविषयां वार्ता पृच्छन्नाह-जत्ता मे, 'ज' इत्यनुदात्तस्वरेणोच्चारयन् रजोहरणं कराभ्यां स्पृष्ट्वा रजोहरणH ललाटयोरन्तराले 'त्ता' इति स्वरितेन स्वरेणोच्चार्य, उदात्तस्वरेण 'मे' इत्युच्चारयन् गुरुमुखनिविष्टदृष्टिललाटं स्पृशति, यात्रा संयमतपोनियमादिलक्षणा क्षायिकक्षायोपशमिकौपशमिकभावलक्षणा वा 'मे' भवताम् ' उत्स- 11
पति' इति गम्यते । अत्रान्तरे गरोः प्रतिवचनम 'तुभं पि वट्टा' मम तावदुत्सर्पति, भवतोऽप्युत्सर्पति । | अधुना नियन्त्रणीयपदार्थविषया वातो पृच्छन पुनरप्याह विनेयः- जवणिजं च भे, 'ज' इत्यनुदात्तस्व
रेण रजोहरणं स्पृष्ट्वा 'व' इति स्वरितस्वरेण रजोहरणललाटयोरन्तराले उच्चार्य णिशब्दमुदात्तस्वरेणोच्चारयन् कराभ्यां ललाटं स्पृशति, न पुनः प्रतिवचनं प्रतीक्षते, अर्धसमाप्तत्वात् प्रश्नस्य ततो 'जं' इत्यनुदात्तस्वरेणोच्चार्य कराभ्यां रजोहरणं स्पृशन् पुनरेव रजोहरणललाटान्तराले 'च' इति स्वरितस्वरेणोच्चार्य 'भे' इत्युदात्तस्वरेणो
in Education internet
For Personal Private Use Only
Page #496
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
॥२३8 ।।
चारयन कराभ्यां ललाटं स्पृष्टा प्रतिवचनं शुश्रूषमाणस्तथैवास्ते; 'जवणिजं च' यापनीयामिन्द्रियनोडन्द्रियो
तृतीयः पशमादिना प्रकारेणाबाधितं च 'मे' भवतां 'शरीरम्' इति गम्यम् । एवं परया भक्त्या पृच्छता विनयेन
प्रकाशः। विनयः कृतो भवति । अत्रान्तरे गुरुराह-एवं आम यापनीयं च मे इत्यर्थः । इदानीमपराधक्षामणां कुर्वन् रजो-I7 हरणोपरिन्यस्तहस्तमस्तको विनेय इदमाह-'खामेमि खमासमणो! देवसियं वइक्कम' क्षमयामि क्षमाश्रमण ! दिवसे भवो दैवसिकस्तं व्यतिक्रममवश्यकरणीययोगविराधनारूपमपराधम् । अत्रान्तरे च गुरुर्वदति- अहमवि खामेमि' अहमपि क्षमयामि दैवसिकं खं व्यतिक्रमं प्रमादोद्भवम् । ततो विनेयः प्रणमन् क्षमयित्वा आवसिआए' इत्यादि ‘जो मे अइसारो को' इत्यन्तं स्वकीयातिचारनिवेदनपरमालोचनाहप्रायश्चित्तसूचक सूत्र 'तस्म खमासमणो पडिकमामि' इत्यादिकं च प्रतिक्रमणार्हप्रायश्चित्ताभिधायकं पुनरकरणेनाभ्युत्थित आत्मानं शोधयिष्यामीति बुद्ध्याऽवग्रहाद् निःसृत्य पठति-अवश्यं कर्तव्येषु चरणकरणेषु भवा क्रिया आवश्यकी तया आसेवनाद्वारेण हेतुभूतया यदसाध्वनुष्ठितं तस्मात् प्रतिक्रमामि निवर्ते। इत्थं सामान्येनाभिधाय विशेषेणाभिधत्तेक्षमाश्रमणानां सबन्धिन्या दैवसिक्या ज्ञानाद्यायस्य शातना खण्डना आशातना तया, किंविशिष्टया ? त्रयस्त्रिंशदन्यतरया त्रयस्त्रिंशत्संख्यानामाशातनानामन्यतरया कयाचित् , उपलक्षणत्वाद् द्वाभ्यां तिसृभिरपि, यतो दिवसमध्ये सर्वा अपि संभवन्ति, ताश्च वक्ष्यन्ते, यत् किञ्चित् कदालम्बनमाश्रित्य मिथ्यया मिथ्यायुक्तेन कृतयेत्यर्थः मिथ्याभावोऽत्रास्तीत्यभ्रादित्वाद(दा)कारे मिथ्या, एवं क्रोधयेत्यादावपि; मनसा दुष्कृता मनोदुष्कृता तया प्रद्वेषनिमित्तयेत्यर्थः, वागदुष्कृतया असभ्यपरुषादिवचननिमित्तया, कायदुष्कृतया आसन-गमन-स्थानादिनिमित्तया, क्रोधया 8
"
Jain Educatich interNI
For Personal & Private Use Only
Page #497
--------------------------------------------------------------------------
________________
| क्रोधयुक्तया, मानया मानयुक्तया, मायया मायायुक्तया, लोभया लोभयुक्तया, अयं भावः-क्रोधाद्यनुगतेन या | काचिद् विनयभ्रंशादिलक्षणाऽऽशातना कृता तयेति । एवं दैवसिक्याशातनोक्ता। अधुना पक्ष-चातुर्मास-संवत्सर
कालकृता इहभवान्यभवगतातीतानागतकालकृता च या आशातना तस्याः संग्रहार्थमाह-'सबकालियाए' | सर्वकालेषु भवा सार्वकालिकी तया । अनागतकाले कथमाशातनासंभवः ? इति चेत् उच्यते-'श्वोऽस्य गुरो
रिदमिदं वानिष्टं कर्तास्मि' इति चिन्तया । इत्थं भवान्तरेऽपि तद्वधादिनिदानकरणेन संभवत्येव । सर्व एव Tमिथ्योपचारा मातृस्थानगर्भाः क्रियाविशेषा यस्यां सा सर्वमिथ्योपचारा तया । सर्वे धर्मा अष्टौ प्रवचनमातरः
सामान्येन करणीयव्यापारा वा तेषामतिक्रमणं लङ्घनं विराधनं यस्यां सा सर्वधर्मातिक्रमणा । एवंभूतयाऽऽशातनया || यो मयातिचारोऽपराधः कृतो विहितस्तस्यातिचारस्य हे क्षमाश्रमण ! युष्मत्साक्षिकं प्रतिक्रमामि अपुनःकरणेन निवर्ते; तथा दुष्टकर्मकारिणं निन्दाम्यात्मानं भवोद्विग्नेन प्रशान्तेन चेतसाः तथा गहें आत्मानं दुष्टकर्मकारिणं युष्मत्साक्षिकम् ; व्युत्सृजाम्यात्मानं दुष्टकर्मकारिणं तदनुमतित्यागेन । एवं तत्रस्थ एवार्धावनतकायः पुनरेवं भणति-'इच्छामि खमासमणो' इत्यारभ्य यावद् वोसिरामि' इति; परमयं विशेषः-अवग्रहाद् बहिनिष्क्रमणरहित आवश्यकीविरहितं दण्डकसूत्रं पठति । वन्दनकविधिविशेषसंवादिकाश्चमा गाथा:
आयारस्स उ मूलं विणो सो गुणवत्रओ अपडिवत्ती। सा अविहिवंदणाश्रो विही इमो बारसावत्तो ॥१॥
(१) आचारस्य तु मूलं विनयः स गुणवतश्च प्रतिपत्तिः । सा च विधिवन्दना विधिरयं द्वादशावर्तः ॥ १॥
in Education Internal
For Personel Private Use Only
Page #498
--------------------------------------------------------------------------
________________
योगशाखम्
तृतीयः प्रकाशः।
॥२४०॥
होउमहाजाओ बहिं संडासं पमञ्ज उकुट्टअट्ठाणो । पडिलेहियमुहपत्तीपमजिप्रोवरिमदेहद्धो ॥ २ ॥ उद्वेउं परिसंठिअकुप्परट्ठिअपट्टगोनमिप्रकाओ । जुत्तिपिहिअपच्छद्धो पवयणकुच्छा जह न होइ ॥ ३ ॥ वामंगुलिमुहपोचीकरजुअलतलत्थजुत्तरयहरणो । अवणिय जहोत्तदोसं गुरुसंमुहं भणइ पयडमिणं ॥४॥ इच्छामि खमासमणो इच्चाई जा निसीहिआए त्ति । छंदेणं ति सुणेउं गुरुवयणं उग्गहं जाए ॥५॥ अणुजाणह मे मिउग्गहमणुजाणामि ति भासिए गुरुणा । उग्गहखेत्तं पविसइ पमज संडासए निसीए ॥६॥ वामदसं रयहरणं पमन्ज भूमीए संठवेऊण । सीसफुसणेण होही कजं ति तो पढममेव ॥ ७॥ वामकरगहिअपोती एगद्देसेण वामकनाओ । प्रारंभिऊण णिडालं पमज जा दाहिणो कम्मो ॥८॥ (१) भूत्वा यथाजातो बहिः संदशं प्रमृज्योत्कुटुकस्थानः । प्रतिलिखितमुखवस्त्रिकाप्रमार्जितोपरिमदेहाधः ॥ २॥
उत्थाय प्रतिसंस्थितकूपरस्थितपट्टकावनतकायः । युक्तिपिहितपश्चाधः प्रवचनकुत्सा यथा न भवति ॥३॥ वामाङ्गुलिमुखवस्त्रिकाकरयुगलतलस्थयुक्तरजोहरणः । अपनीय यथोक्तदोषं गुरुसंमुखं भणति प्रकटमिदम् ॥ ४ ॥ इच्छामि क्षमाश्रमण ! इत्यादि यावद् नैषेधिक्येति । छन्देनेति श्रुत्वा गुरुवचनमवग्रहं याति ॥ ५ ॥ अनुजानीध्वं मे मितावग्रहमनुजानामीति भाषिते गुरुणा । अवग्रहक्षेत्रं प्रविशति प्रमृज्य संदंशं निषीदेत् ॥ ६ ॥ वामदशं रजोहरणं प्रमृज्य भूमौ संस्थाप्य । शिरःस्पर्शनेन भविष्यति कार्यमिति तत: प्रथममेव ॥ ७ ॥ वामकरगृहीतमुखवस्त्रिक एकदेशेन वामकर्णात् । आरम्य ललाटं प्रमृज्य यावद् दक्षिणः कर्णः ।। ८ ।।
॥२४
॥
Jain Education in
For Personal & Private Use Only
Page #499
--------------------------------------------------------------------------
________________
4KOR-*-*-*840+008-03
Jain Education Internation
वामयजाणुं नसिऊण तत्थ मुहपोति । रयहरणमज्झदेसम्मि ठावए पुअपायजुगं ॥ ६ ॥ सुपसारि बाहुजुओ ऊरुजुअलंतरं श्रसमा णो । जमलट्ठियग्गपाणी अकारमुच्चारयं फुसइ ।। १० ।। अन्मंतरपरिअट्टिकरयल मुवी सीसफुसणंतं । तो करजुअलं निज होकारोच्चारसमकालं ॥ ११ ॥ पुट्ठा कर काकारसमं ठेविज रयहरणं । यंसदेणं समयं पुणो वि सीसं तहच्चे ॥ १२ ॥ काकारसमुच्चारणसमयं रवहरणमालुहेऊण । यत्ति य सद्देण समं पुणो वि सीसं तहच्चे ॥ १३ ॥ संफासं ति भणंतो सीसेणं पणमिऊण रयहरणे । उन्नामिश्रमुद्धंजलि अव्वाबाहं तत्र पुच्छे ॥ १४ ॥ खमणिजो भे किलामो अप्पकिलंताणं बहुसुमेणं मे । दिण पक्खो वरिसो वा वइकंतो इय तओ तुसिणी ॥१५॥
(१) अव्युच्छिन्नं वामकजानु न्यस्य तत्र मुखवस्त्रिकाम् । रजोहरणमध्यदेशे स्थापयेत् पूज्यपादयुगम् ॥ ६ ॥ सुप्रसारितबाहुयुग ऊरुयुगलान्तरमस्पृशन् । यमलस्थिताग्रपाणिरकारमुच्चारयन् स्पृशति ॥ १० ॥ अभ्यन्तरपरिवर्त्तितकरतलमुपनीय शिरः स्पर्शनान्तम् । ततः करयुगलं नयेद् होकारोच्चारसमकालम् ॥ ११ ॥ पुनरधस्ताद् मुखकरतलं काकारसमं स्थापयेद् रजोहरणम् । यंशब्देन समकं पुनरपि शिरस्तथैव ॥ १२ ॥ काकारससुच्चारणसमकं रजोहरणमाश्लिष्य । य इति च शब्देन समं पुनरपि शिरस्तथैव ॥ १३ ॥ संफासं इति भणन् शिरसा प्रणम्य रजोहरणं । उन्नामितमूर्घाञ्जलिरव्याबाधां ततः पृच्छेत् ॥ १४ ॥ क्षमणीयो भवद्भिः क्लमोऽल्पक्लान्तानां बहुशुभेन भवताम् । दिनं पक्षो वर्षं वा व्यतिक्रान्तमिति ततस्तूष्णीकः ॥ १५ ॥
४१
For Personal & Private Use Only
*.0.KK...
Page #500
--------------------------------------------------------------------------
________________
योगशास्त्र
तृतीयः प्रकाशः।
॥२४१॥
गुरुणा तह त्ति भणिए जत्ता जवणा य पुच्छियव्वा य । परिसंठिएण इणमो सराण जोएण कायम्वं ॥१६॥ तत्थ य परिमासेमो मंदमइविणेअगाहणट्ठाए । नीउच्चमज्झमाओ सरजुचीनो ठवेयव्वा ॥ १७ ॥ नीमो तत्थणुदत्तो रयहरणे उच्चओ.उदत्तो उ । सीसे निर्दसणीमो तदंतरालम्मि सरिओ य ॥ १८ ॥ अणुदत्तो अजकारो ता सरिओ होइ मे उदत्तसरो । पुणरवि जवणिसद्दा अनुदत्ताई मुणेअव्वा ॥१६॥ अं अणुदत्तो अ पुणो च स्सरिओ मे उदत्तसरणामो । एवं रयहरणाइसु तिसु द्वाणेसु सराणेया ॥ २० ॥ पढम आवत्ततिगं वामदुगेणं तु रइयमणुकमसो । बीयावत्ताण तिगं तिहि तिहिं वमेहि निष्फळ ॥ २१॥ रयहरणम्मि जकारं ताकारं करजुएण मज्झम्मि । भेकारं सीसस्मि अकाउं गुरुणो वयं सुणसु ॥ २२ ॥
(१) गुरुणा तथेति भणिते यात्रा यापना च प्रष्टव्या च । परिसंस्थितेनेदं स्वराणां योगेन कर्तव्यम् ॥ १६ ॥
तत्र च परिभाषामहे मन्दमतिविनेयग्राहणार्थम् । नीचोच्चमध्यमाः स्वरयुक्तयः स्थापयितव्याः ॥१७॥ नीचस्तत्रानुदात्तो रजोहरणे उच्चक उदात्तस्तु । शीर्षे निदर्शनीयस्तदन्तराले खरितश्च ॥ १८॥ अनुदात्तश्च जकारः त्ता स्वरितो भवति भे उदात्तस्वरः । पुनरपि जवणिशब्दा अनुदात्तादयो ज्ञातव्याः ॥ १६ ॥ ज्जं अनुदातश्च पुनश्च स्वरितो भे उदात्तस्वरनामः । एवं रजोहरणादिषु त्रिषु स्थानेषु स्वरा ज्ञेयाः ॥ २०॥ प्रथममावर्तत्रिकं वर्णद्विकेन तु रचितमनुक्रमशः । द्वितीयावर्तानां त्रिकं त्रिभिस्त्रिभिर्वणनिष्पन्नम् ॥ २१ ॥ रनोहरणे जकारं त्ताकारं करयुगेण मध्ये । भेकारं शिरसि च कृत्वा गुरोर्वचः शृणु ॥ २२ ।।
॥२४१॥
Jan Education in
For Personal & Private Use Only
Page #501
--------------------------------------------------------------------------
________________
तुम पि वढह ति य गुरुणा भणिम्मि सेसमावत्ता । दुमि वि का तुसिणी जा गुरुणा भणिअमेवं ति ॥२३॥ अह सीसो रयहरणे कयंजली भणइ सविणयं सिरसा। खामेमि खमासमणो ! देवसिआइबइक्कमणं ॥ २४ ॥ अहमवि खामेमि तुमे गुरुणाऽणुमाए खामणे सीसो। निक्खमइ उग्गहारो आवसियाए भणेऊण ॥ २५॥ श्रोणयदेहो अवराहखामणं सव्वमुच्चरेऊण । निंदियगरहिअवोसट्टसव्वदोसो पडिकंतो ॥ २६ ॥ खामित्ता विणएणं तिगुत्तो तेण पुणरवि तहेन । उग्गहजायणपविसण दुओणयं दो पवेसं च ॥ २७॥ पढमे छच्चावत्ता बीयपवेसम्मि हुंति छच्चेव । ते अ अहो इच्चाई असंकरेणं पउत्तव्वा ॥ २८ ॥ पढमपवेसे सिरनामणं दुहा बीए अतह चेव । तेणे वउसिरंतं भणियमिणं एगनिक्खमणं ॥ २६ ॥
(१) तवापि वर्तत इति च गुरुणा भणिते शेषावर्ती । द्वावपि कृत्वा तूष्णीं यावद् गुरुणा भणितमेवमिति ॥ २३ ॥
अथ शिष्यो रजोहरणे कृताञ्जलिर्भणति सविनयं शिरसा । क्षमयामि क्षमाश्रमण ! दैवसिकादिव्यतिक्रमणम् ।। २४ ॥ अहमपि क्षमयामि त्वां गुरुणाऽनुज्ञाते क्षमणे शिष्यः । निष्क्रामत्यवग्रहादावश्यक्या भणित्वा ॥ २५ ॥ अवनतदेहोऽपराधक्षमणं सर्वमुच्चार्य । निन्दितगर्हितव्युत्सृष्टसर्वदोषः प्रतिक्रान्तः ।। २६ ॥ क्षमयित्वा विनयेन त्रिगुप्तस्तेन पुनरपि तथैव । अवग्रहयाचनप्रवेशनहिकावनतं द्वयोः प्रवेशं च ।। २७ ।। प्रथमे षडावर्ता द्वितीयप्रवेशे भवन्ति षडेव । ते च अहो इत्यादयोऽसंकरेण प्रयोक्तव्याः ।। २८ ।। प्रथमप्रवेशे शिरोनामनं द्विधा द्वितीयके च तथैव । तेनैव व्युत्सृजाम्यन्तं भणितमिदमेकनिष्क्रमणम् ॥ २९ ॥
in Education International
For Personal & Private Use Only
Page #502
--------------------------------------------------------------------------
________________
योगशास्त्रम्
तृतीयः प्रकाशः।
॥२४२।
एवमहाजाएगं तिगुत्तिसहिअंच हुंति चत्तारि । सेसेसुं खित्तेसुं पणवीसावस्सया हुंति ॥ ३०॥ 'तित्तीसत्रयराए' इत्युक्तमिति, त्रयस्त्रिंशदाशातना विवेच्यन्ते-गुरोः पुरतो गमनं शिष्यस्य निष्कारणं विनयभङ्गहेतुत्वादाशातना, मार्गदर्शनादिकारणे तु न दोषः, गुरोः पार्थाभ्यामपि गमनम्, पृष्ठतोऽप्यासनगमनम्, निश्वासक्षुतश्लेष्मपातादिदोषप्रसङ्गात् । ततश्च यावता भूभागेन गच्छत आशातना न भवति तावता गन्तव्यम् ।।१।२।३ । एवं पुरतः, पाश्वेता, पृष्ठतश्च स्थानम् । ४।५।६। तथा पुरतः पार्श्वतः पृष्ठतो वा निषदनम् ।७।८।६। प्राचार्येण सहोच्चारभूमि गतस्याचार्यात् प्रथममेवाचमनम् । १० । गुरोरालापनीयस्य कस्य
चिच्छिष्येण प्रथममालपनम् । ११ । शिप्यस्याचार्येण सह बहिर्गतस्य पुनर्निवृत्तस्याचार्यात् प्रथममेव गमना21 गमनालोचनम् ।१२। भिक्षामानीय शिष्येण गुरोः पूर्व शैक्षस्य कस्यचित् पुरत मालोच्य पश्चाद् गुरोरालोचनम् । १३ । भिक्षामानीय प्रथमं शैक्षस्य कस्यचिदुपदर्य गुरोर्दर्शनम् । १४ । भिक्षामानीय गुरुमनापृच्छ्य शैक्षाणां यथारुचि प्रभूतभैक्ष्यदानम् । १५ । भिक्षामानीय शैवं कश्चन निमन्त्र्य पश्चाद् गुरोरुपनिमन्त्रणम् । १६ । शिष्येण भिक्षामानीयाचार्याय यत् किञ्चिद् दत्वा स्निग्धमधुरमनोज्ञाहारशाकादीनां वर्णगन्धरसस्पर्शवतां द्रव्याणां स्वयमुपभोगः । १७ । रात्रौ 'आर्याः ! कः स्वपिति जागर्ति वा ?' इति गुरोः पृच्छतोऽपि जाग्रताऽपि शिष्येणाप्रतिश्रवणम् । १८ । शेषकालेऽपि गुरौ व्याहरति यत्र तत्र स्थितेन शयितेन वा शिष्येण | प्रतिवचनदानम् । १६ । आहूतेनासनं शयनं वा क्त्वा संनिहितीभूय 'मस्तकेन वन्दे' इति वदता गुरुवचनं
(१) एवं यथानातैकं त्रिगुप्तिसहितं च भवन्ति चत्वारि । शेषेषु क्षेत्रेषु पञ्चविंशतिरावश्यका भवन्ति ।। ३० ॥
H॥२४२॥
Iain Education internal
For Personal & Private Use Only
Td
Page #503
--------------------------------------------------------------------------
________________
Jain Education Intern
+40OK+UK+XK
श्रोतव्यम्, तद्कुर्वत श्राशातना । २० । गुरुणा आहूतस्य शिष्यस्य किमिति वचनम्, भि
वन्दे इति । २१ । गुरुं प्रति शिष्यस्य त्वंकारः । २२ । गुरुणा ग्लानादिवैयावृत्यादिहेतोः 'इदं कुरु' इत्यादिष्टः ' स्वमेव किं न कुरुषे ' इति ' त्वमलसः' इत्युक्ते ' त्वमप्यलसः' इति च शिष्यस्य तञ्जातवचनम् । २३ । गुरोः पुरतो बहोः कर्कशस्योच्चैःस्वरस्य च शिष्येण वदनम् । २४ । गुरौ कथां कथयति ' एवमेतत्' इत्यन्तराले शिष्यस्य वचनम् । २५ । गुरौ धर्मकथां कथयति न स्मरसि त्वमेतमर्थम्, नायमर्थः संभवति' इति शिष्यस्य वचनम् | २६ | गुरौ धर्मं कथयति सौमनस्यरहितस्य गुरूक्तमननुमोदमानस्य ' साधूक्तं भवद्भिः' इत्यप्रशंसतः शिष्यस्योपहृतमनस्त्वम् । २७ । गुरौ धर्म कथयति ' इयं भिक्षावेला, सूत्रपौरुषीवेला, भोजनवेला ' इत्यादिना शिष्येण पर्षद्भेदनम् | २८ । गुरौ धर्मकथां कथयति ' अहं कथयिष्यामि ' इति शिष्येण कथाच्छेदनम् | २६ | तथा आचार्येण धर्मकथायां कृतायामनुत्थितायामेव पर्षदि स्वस्य पाटवादिज्ञापनाय शिष्येण सविशेषं धर्मकथनम् । ३० । गुरोः पुरत उच्चासने समासने वा शिष्यस्योपवेशनम् । ३१ । गुरोः शय्यासंस्तारकादिकस्य पादेन घट्टनम्, अननुज्ञाप्य हस्तेन वा स्पर्शनम्, घट्टयित्वा स्पृष्ट्वा वाऽक्षामणम् ; यदाह
संघट्टहत्ता कायेण तहा उवहिणामवि । खमेह अवराहं मे वहज न पुणति ॥ १ ॥ ३२ ॥ गुरोः शय्यासंस्तारकादौ स्थानं निषीदनं शयनं चेति । ३३ । एतदर्थसंवादिन्यो गाथा
(१) संघट्टय कायेन तथोपधीनामपि । क्षमस्वापराधं मे वदेद्र न पुनरिति च ॥ १ ॥
For Personal & Private Use Only
K+K+++
-0-00-0
Page #504
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
॥ २४३ ॥
*10-08-103
पुरच पक्खासन्ने गमणं ठाणं निसीचणं ति नव । सेहे पुव्वं श्रइ (य) मह आलवर तह य आलो ॥ १ ॥ असणाइअमालोइअ पडिदंसह देई उवनिमंते । सेहस्स तहाहारइ लुद्धो निदाइ गुरुपुरो ॥ २ ॥ रात्र गुरुस्स वय तुसिणी सुगिरो वि से सकाले वि । तत्थ गश्रो वा पडिसुखेइ बेइ किंति व तुमं ति गुरुं ॥ ३ ॥ तजाए पsिहणइ बेइ बहु तह कहंतरे वयइ । एवमिमं ति न सरसि नो सुमणे भिंदई परिसं ॥ ४ ॥ छिंदs कहं तहाणुट्टियाइ परिसाइ कहइ सविसेसं । गुरुपुरओ विनिसीयइ ठाइ समुच्चासये सेहो ॥ ५ ॥ संघट्टइ पाएणं सेजासंथारयं गुरुस्स तहा । तत्थेव ठाइ निसियह सुइ अवसेहोत्ति तेत्तीसं ॥ ६ ॥
इह यद्यपि यतिरेव वन्दनककर्तोक्तो न श्रावकः, तथापि यतेः कर्तुर्भणनात् श्रावकोऽपि कर्त्ता विज्ञेयः, प्रायेण यतिक्रियानुसारेणैव श्रावकक्रियाप्रवृत्तेः; भूयते च कृष्णवासुदेवेनाष्टादशानां यतिसहस्राणां द्वादशावर्तव - (१) पुरतः पक्षासन्ने गमनं स्थानं निषीदनमिति नव । शैक्षे पूर्वमाचमति आलपति तथा चालोचयति ।। १ । अशनादिकमालोच्य प्रतिदर्शयति ददात्युपनिमन्त्रयति । शैक्षस्य तथाहरति लुब्धः स्निग्धादि गुरुपुरतः ॥ २ ॥
रात्रौ गुरोर्वदतस्तूष्णीं श्रोताऽपि शेषकालेऽपि । तत्र गतो वा प्रतिशृणोति ब्रवीति किमिति वा त्वमपि (मिति ) गुरुम् ॥३॥ तज्जातेन प्रतिहन्ति ब्रवीति बहु तथा कथान्तरे वदति । एवमिदमिति न स्मरसि नो सौमनस्यं भिनत्ति पर्षदम् ॥४॥ . छिनत्ति कथां तथानुत्थितायां परिष ( पर्ष) दि कथयति सविशेषम् । गुरुपुरतो विनिषीदति तिष्ठति समोच्चासने शैक्षः ॥५॥ संघट्टयति पादेन शय्यासंस्तारकं गुरोस्तथा । तत्रैव तिष्ठति निषीदति शेतेऽपशैक्ष इति त्रयस्त्रिंशत् ॥ ६॥
For Personal & Private Use Only
+++*18+90+
+--08-03+0
तृतीय :
प्रकाश: ।
२४३ ॥
Page #505
--------------------------------------------------------------------------
________________
न्दनमदायि, इत्याशातना अपि यत्यनुसारेण यथासंभवं श्रावकस्य वाच्याः। एवं वन्दनकं दवाऽवग्रहमध्यस्थित एव विनेयोऽतिचारालोचनं कर्तुकामः किश्चिदवनतकायो गुरुं प्रतीदमाह- इच्छाकारेण संदिसह देवसियं आलोएमि' इति । इच्छाकारेण निजेच्छया, संदिशत आज्ञां ददत, दैवसिकं दिवसभवम् 'प्रतीचारम्' इति गम्यम् : एवं रात्रिकपाक्षिकादिकमपि द्रष्टव्यम्, आलोचयामि मर्यादया सामस्त्येन वा प्रकाशयामि । इह च देवसिकादीनामयं कालनियम:-यथा दैवसिकं मध्याहादारभ्य निशीथं यावद् भवति, रात्रिकं निशीथादारभ्य मध्याहं यावद् भवति, पाक्षिकचातुर्मासिकसांवत्सरिकाणि पक्षाद्यन्ते भवन्ति । अत्रान्तरे 'आलोअह' इति गुरुवचनमाकर्ण्य एतदेव शिष्यः समर्थयत्राह-' इच्छं आलोएमि' इच्छाम्यभ्युपगच्छामि गुरुवचः आलोचयामि पूर्वमभ्युपगतमर्थ क्रियया प्रकाशयामीति । इत्थं प्रस्तावनामभिधायालोचनामेव साक्षात्कारणाह-'जो मे देवसिमो भइआरो को काइओ वाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिज्जो दुज्झाओ दुविचिंतिओ अणायारो अणिच्छियव्वो असावगपाउग्गो नाणे दंसणे चरित्ताचरित्ते सुए सामाइए तिण्हं गुत्तीणं चउण्हं कसायाणां पंचण्हमणुव्वयाणं तिण्हं गुणम्बयाणं चउण्हं सिक्खावयाणं बारसविहस्स सावगधम्मस्स जं खंडिअं जं विराहिअं तस्स मिच्छा मि दुक्कडं'।
व्याख्या-यो मया दिवसे भवो दैवसिकोऽतिचारोऽतिक्रमः कृतो निर्वर्तितः, स पुनरतिचार उपाधिभेदेना- | नेकधा भवति, अत एवाह-'काइओ' कायः प्रयोजनं प्रयोजकोऽस्यातिचारस्येति कायिकः, एवं वाइओ वाक् प्रयोजनमस्य वाचिकः, एवं मनः प्रयोजनमस्येति मानसिकः, 'उस्सुत्तो' सूत्रादुत्क्रान्त उत्सूत्रः सूत्रमतिक्रम्य कृत
in Education intern
For Personal & Private Use Only
Page #506
--------------------------------------------------------------------------
________________
तृतीयः
योगशास्त्रम्
॥२४४
इत्यर्थः, 'उम्मग्गो' मार्गःक्षायोपशमिको भावस्तमतिक्रान्त उन्मार्गः चायोपशमिकभावत्यागेनौदयिकभावसंक्रमः कृत इत्यर्थः, 'अकप्पो' कन्पो न्यायो विधिराचारश्चरणकरणम्यापार इति यावत् , न कन्पोऽकल्पोऽतद्रूप इत्यर्थः, करणीयः सामान्येन कर्तव्यः, न करणीयोऽकरणीयः हेतुहेतुमद्भावश्चात्र यत एवोत्सूत्रोऽत एवोन्मार्ग इत्यादि. उक्तस्तावत् कायिको वाचिकश्च । अधुना मानसिकमाह-'दुज्झाओ' दुष्टो ध्यातो दुर्ध्यात एकाग्रचित्ततयाऽऽतरौद्रलक्षणः, 'दुन्विचिंतिओ' दुष्टो विचिन्तितो दुर्विचिन्तितः, अशुभ एव चलचित्ततया 'जं थिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं' इति वचनात् , यत एवेत्थंभूतस्तत एव 'अणायारो' आचरणीयः | श्रावकाणामाचारः, न आचारोऽनाचारः, यत एवानाचरणीयोऽत एव 'अणिच्छियन्वो' अनेष्टव्यः मनागपि मनसापि न एष्टव्य आस्तां तावत् कर्तव्यः, यत एवेत्थंभूतोऽत एव 'असावगपाउग्गो' अश्रावकप्रायोग्यः-- अभ्युपेतसम्यक्त्वः प्रतिपन्नाणुव्रतश्च प्रतिदिवसं यतिभ्यः सकाशात् साधूनामगारिणां च सामाचारी शृणोतीति श्रावकस्तस्य प्रायोग्य उचितः श्रावकप्रायोग्यः, न तथा, श्रावकानुचित इत्यर्थः । अयं चातिचारः क विषये भवतीत्याह-'णाणे दंसणे चरित्ताचरित्ते' इति, ज्ञानविषये, दर्शनविषये, स्थूलसावद्ययोगनिवृत्तिभावाचारित्रं च सूक्ष्मसावद्ययोगनिवृत्त्यभावादचारित्रं च चारित्राचारित्रं तसिन् देशविरतिविषये इत्यर्थः । अधुना भेदेन म्याचष्टे-'सुए' श्रुतविषये, भुतग्रहणं मत्यादिज्ञानोपलक्षणम्, तत्र विपरीतप्ररूपणा, अकालस्वाध्यायश्चाति
इति, ज्ञान
सिन्
तिप्ररूपण
(१) यत् स्थिरमध्यवसायं तद् ध्यानं यच्चलं तच्चित्तम् ।
॥२४४॥
Lain Education internate
For Personal & Private Use Only
Page #507
--------------------------------------------------------------------------
________________
चारः, 'सामाइए' सामायिकविषये, सामायिकग्रहणात् सम्यक्त्वसामायिकदेशविरतिसामायिकयोग्रहणम् । तत्र सम्यक्त्वसामायिकातिचारः शङ्कादिः । देशविरतिसामायिकातिचारं तु भेदेनाह-'तिण्हं गुत्तीणं' तिमृणां गुप्तीनां ' यत् खण्डितम् ' इत्यादिना सर्वत्र योगः, मनोवाक्कायगोपनात्मिकास्तिस्रो गुप्तयो न्याख्याताः, तासां चाश्रद्धानविपरीतप्ररूपणाभ्यां खण्डना विराधना च, चतुर्णा क्रोधमानमायालोभलक्षणानां कषायाणां प्रतिषिद्धानां करणेनाश्रद्धानविपरीतप्ररूपणाभ्यां च; पञ्चानामणुव्रतानां त्रयाणां गुणव्रतानां चतुर्णा शिक्षावतानामुक्तस्वरूपाणाम् , अणुव्रतादिमीलनेन द्वादशविधस्य श्रावकधर्मस्य यत् खण्डितं देशतो भग्नम् , यद् विराधितं सुतरां भग्नं, न पुनरेकान्ततोऽभावमापादितम् , ' तस्स मिच्छा मि दुक्कडं ' तस्य दैवसिकाद्यतिचारस्य ज्ञानादिगोचरस्य, तथा
गुप्तीनां, कषायाणां द्वादशविधश्रावकधर्मस्य च यत् खण्डनं विराधनं चातिचाररूपं तस्य मिथ्येति प्रतिक्रमामि | दुष्कृतमेतदकर्तव्यमिदं ममेत्यर्थः।
अत्रान्तरे विनेयः पुनरप्यर्धावनतकायः प्रवर्धमानसंवेगो मायामदविप्रमुक्त आत्मनः सर्वातिचारविशुद्ध्यर्थ व सूत्रमिदं पठति-' सम्बस्स वि देवसिय दुचिंतिय दुभासिय दुच्चिहिय इच्छाकारेण संदिसह ।' सर्वाण्यपि प्र लुप्तषष्ठीकानि पदानि । ततोऽयमर्थः-सर्वस्यापि देवसिकस्याणुव्रतादिविषये प्रतिषिद्धाचरणादिना जातस्याति|| चारस्येति गम्यते पुनः कीदृशस्य ? दुश्चिन्तितस्य दुष्टमातरौद्रध्यानतया चिन्तितं यत्र स तथा तस्य दुश्चिन्तितो
द्भवस्येत्यर्थः; अनेन मानसमतीचारमाह; दुष्टं सावधवाग्रपं भाषितं यत्र तत् तथा तस्य दुर्भाषितोत्पन्नस्येत्यर्थः, अनेन वाचिकं सूचयति; दुष्ट प्रतिषिद्धं धावनवन्गनादिकायक्रियारूपं चेष्टितं यत्र तत् तथा तस्य
en Education Internet
For Personal Private Use Only
Page #508
--------------------------------------------------------------------------
________________
योगशास्त्रम्
तृतीयः
प्रकाशः।
॥२४५॥
दश्चेष्टितोद्भवस्येत्यर्थः, अनेन कायिकमाह; अस्यातिचारस्य किमित्याह-'इच्छाकारेण संदिसहेति.' आत्मीयच्छया मम प्रतिक्रमणज्ञां प्रयच्छत , इत्युक्त्वा तूष्णीको गुरुमुखं प्रेक्षमाण आस्ते । ततो गुरुराह-'पडिकमह' प्रतिकामत (क्राम)। ततः शिष्यः प्राह-'इच्छं' इच्छाम्येतद् भगवद्वचः, 'तस्स' तस्य देवसिकातिचारस्य 'मिच्छामि दुक्कड' आत्मीयं दुष्कृतं मिथ्येति जुगुप्स इत्यर्थः । तथा, द्वितीयच्छन्दनकावग्रहान्तःस्थित एव विनेयोऽर्धावनतकायः स्वापराधक्षामणां चिकीर्षगुरुं प्रतीदमाह-'इच्छाकारेण संदिसह' इति, इच्छाकारेण स्वकीयाभिलाषेण न पुनर्बलाभियोगादिना संदिशत आज्ञा प्रयच्छत यूयम् । आज्ञादानस्यैव विषयमुपदर्शयनिदमाह-'अन्भुट्टिओ अम्हि अम्भितरदेवसिअं खामेमि' अभ्युत्थितोऽस्मि प्रारम्धोस्मि अहम् , अनेनाभिलाषमात्रस्य व्यपोहेन क्षमणाक्रियायाः प्रारम्भमाह-'अम्भितरदेवसिअं' इति दिवसाभ्यन्तरसंभवम् अतीचारम्' इति गम्यते, क्षमयामि मर्षयामि, इत्येका वाचना । अन्ये वेवं पठन्ति-'इच्छामि खमासमणो अन्भुद्वियो अम्हि अम्भितरदेवसि खामेउं' इति, इच्छामि अभिलषामि क्षमयितुम् इति योगः, हे क्षमाश्रमण ! न केवलमिच्छामि, किन्तु 'अन्भुहिओ अम्हि' इत्यादि पूर्ववदेव । एवं खाभिप्रायं प्रकाश्य तूष्णीमास्ते यावद् गुरुराह–'खामेह' इति क्षमयखेत्यर्थः। ततः स गुरुवचनं बहु मन्यमान आह-' इच्छं खामेमि' इति, इच्छं इच्छामि भगवदाज्ञाम् , खामेमि क्षमयामि च स्वापराधम् । अनेन क्षमणक्रियायाः प्रारम्भमाह । ततो विधिवत् पञ्चभिरङ्गैः स्पृष्टधरणीतलो मुखवत्रिकया स्थगितवदनदेश इदमाह-'जं किंचि अपत्तियं परपचिनं भत्ते पाणे विणए वेयावच्चे पालावे संलावे उच्चासणे समासणे अंतरभासाए उवरिभासाए जं किंचि मज्झ विणयपरिहीणं सुहुमं वा पायरं वा तुम्भे जाणह अहं न याणामि तस्स
५२४५॥ i
Bain Education in
For Personal & Private Use Only
Page #509
--------------------------------------------------------------------------
________________
Jain Education Internation
*10****-1034089***++***0+-**
मिच्छामि दुक्कडं ।
व्याख्या—जं किंचि यत् किञ्चित् सामान्यतो निरवशेषं वा 'अपत्तियं' श्रार्षत्वादप्रीतिकमप्रीतिमात्रम्, 'परपत्ति' प्रकृष्टमप्रीतिकं परप्रत्ययं वा परहेतुकम् उपलक्षणत्वादस्यात्मप्रत्ययं चेति द्रष्टव्यम्, युष्मद्विषये मम जातं युष्माभिर्वा मम जनितमिति वाक्यशेषः, तस्स मिच्छा मि इत्युत्तरेण संबन्धः तथा, 'भत्ते' भक्ते भोजनविषये, 'पाणे' पानविषये, 'विणए' विनयेऽभ्युत्थानादिरूपे, 'वेद्यावच्चे' वैयावृत्ये वैयावृत्ये वा औषधपथ्यादिनावष्टम्भरूपे 'आलावे' आलापे सकृञ्जन्परूपे, 'संलावे' संलापे मिथःकथारूपे, 'उच्चासये गुरोरासनादुच्चैरासने, 'समास' गुर्वासनेन तुल्ये श्रासने, 'अंतरभासाए' अन्तर्भाषायां गुरोर्भाषमाणस्य विचालभाषण रूपायाम् ; 'उवरिभासाए' उपरि भाषायां गुरोर्भाषणानन्तरमेव विशेषभाषणरूपायाम् ; एषु भक्तादिषु 'जं किंचि' यत् किञ्चित् समस्तं सामान्यतो वा, 'मज्झ' मम, 'विणयपरिहीणं' विनयपरिहीनं शिक्षावियुक्तं 'संजातम्' इति शेषः । विनयपरिहीनस्यैव द्वैविध्यमाह-- 'सुडुमं वा बायरं वा' सूक्ष्ममन्पप्रायश्चित्तविशोध्यम्, बादरं बृहत्प्रायश्चित्तविशोध्यम्; वाशब्दौ द्वयोरपि मिथ्यादुष्कृतविषयत्वतुल्यतोद्भावनार्थौ, ' तुब्भे जाणहेतिं ' यूयं जानीथ, सकलभाववेदकत्वात् अहं न 'याणामि ' अहं पुनर्न जानामि, मूढत्वात्, तथा 'यूयं न जानीथ, प्रच्छन्नकृतत्वादिना श्रहं जानामि, स्वयं कृतत्वात् तथा यूयं न जानीथ, परेण कृतत्वादिना, अहं न जानामि, विस्मरणादिना; तथा, यूयमपि जानीथ, अहमपि जानामि, द्वयोः प्रत्यक्षत्वात् ' एतदपि द्रष्टव्यम्; ' तस्स ' तस्य षष्ठीसप्तम्योरभेदात् तस्मिन्नप्रीतिकविषये विनयपरिहीणविषये च ' मिच्छा मि दुक्कडं ' मिथ्या में दुष्कृतमिति स्वदुश्चरितानुपातसूचकं
For Personal & Private Use Only:
-*-+-*0<--~*@*******@**** *→→
Page #510
--------------------------------------------------------------------------
________________
तीय: प्रकाशः।
योग- Lil स्वदोषप्रतिपत्तिमूचकं वा प्रतिक्रमणमिति पारिभाषिकं वाक्यं प्रयच्छामीति शेषः, अथवा, तस्येति विभक्तिपरि- शास्त्रम्
| णामात् तदप्रीतिकं विनयपरिहीनं च मिथ्या मोक्षसाधनविपर्ययभूतं वर्तते मे मम तथा दुष्कृतं पापमिति स्व
दोषप्रतिपत्तिरूपमपराधक्षमण मिति । वन्दनपूर्वके चालोचनक्षमणे भवत इति कृत्वा वन्दनकानन्तरं ते व्याख्याते, H! २४६॥ अन्यथा प्रतिक्रमणे तयोरवसरः; वन्दनकस्य च फलं कर्मनिर्जरा, यदाहु:
'वंदणएणं भंते ! जीवे किं अजिणइ ? । गोप्रमा! अट्ठ कम्मपयडीओ निविडबंधणबद्धाश्रो सिढिलबंधणबद्धाओ करेइ, चिरकालठिइआओ अप्पकालठिइआओ करेइ, तिवाणुभावाओ मंदाणुभावाओ करेइ, बहुपए
सग्गामो अप्पपएसग्गामो करेइ, प्रणाइयं च णं अणवदग्गं संसारकंतारं नो परिअट्टइ । तथा,* 'वंदणएणं भंते ! जीवे किं अजिणइ ? । गोत्रमा ! वंदणएणं नीयागोत्तकम्म खवेइ उच्चागोत्तं निबंधइ, | सोहग्गं च णं अप्पडिहयं आणाफलं निम्वत्तेइ । तथा,
(१) वन्दनकेन भगवन् ! जीवः किमर्जयति ? । गौतम ! अष्ट कर्मप्रकृतीनिबिडबन्धनबद्धाः शिथिलबन्धनबद्धाः करोति, चिरकालस्थितिका अल्पकालस्थितिकाः करोति, तीव्रानुभावा मन्दानुभावाः करोति, बहुप्रदेशिका अल्पप्रदेशिकाः करोति, अनादिकं चानन्तं संसारकान्तारं नो पर्यटति ।
(२) वन्दनकेन भगवन् ! जीवः किमर्जयति ? । गौतम ! वन्दनकेन नीचगोत्रकर्म क्षपयति, उच्चगोत्रं निबध्नाति, सौभाग्यं चाप्रतिहतमाज्ञाफलं निवर्तयति ।
२४६॥
in Education International
For Personal & Private Use Only
Page #511
--------------------------------------------------------------------------
________________
Jain Education Internation
***********
'विणओवयारमाणस्स भजणा पूणा गुरुजणस्स । तित्थयराण य आणा सुअधम्माराहणाकिरिया ॥ १ ॥ अथ प्रतिक्रमणं - प्रतीत्युपसर्गः प्रतीपे प्रातिकूल्ये वा; क्रमू पादविक्षेपे, अस्य प्रतिपूर्वस्य भावानडन्तस्य प्रतीपं क्रमणं प्रतिक्रमणम् ; अयमर्थः - शुभयोगेभ्योऽशुभयोगान्तरं क्रान्तस्य शुभेष्वेव क्रमणात् प्रतीपंक्रमणम् ; यदाहस्वस्थानाद् यत् परस्थानं प्रमादस्य वशाद् गतः । तत्रैव क्रमयं भूयः प्रतिक्रमणमुच्यते ॥ १ ॥ प्रतिकूलं वा गमनं प्रतिक्रमणम् ; यदाह,, -
क्षायोपशमिकाद् भावादौदयिकवशं गतः । तत्रापि च स एवार्थः प्रतिकूलगमात् स्मृतः ॥ १ ॥ प्रति प्रतिक्रमणं वा प्रतिक्रमणम् ; उक्तं च
प्रति प्रतिप्रवर्तनं वा शुभेषु योगेषु मोचफलदेषु । निःशल्यस्य यतेर्यत् तद् विज्ञेयं प्रतिक्रमणम् ॥ १ ॥ तच्चातीतानागतवर्तमान कालत्रयविषयम् । नन्वतीतविषयमेव प्रतिक्रमणम्, यत उक्तम्, “इयं पडिकमामि, पडुप्पन्नं संवरेमि, अणागयं पञ्चक्खामि " इति, तत् कथं त्रिकालविषयता ? । उच्यते-अत्र प्रतिक्रमणशब्दोऽशुभयोगनिवृत्तिमात्रार्थः-
"मिच्छत्तपडिकमणं तदेव अस्संजमे पडिकमणं । कसायाण पडिकमणं जोगाण य अप्पसत्थाणं ॥ १ ॥ (१) विनयोपचारमानस्य भजना पूजना गुरुजनस्य । तीर्थकराणां चाज्ञा श्रुतधर्माराधनाक्रिया ॥ १ ॥ (२) अतीतं प्रतिक्रमामि प्रत्युत्पन्नं संवृणोमि, अनागतं प्रत्याख्यामि ।
(३) मिध्यात्वप्रतिक्रमणं तथैवासंयमे प्रतिक्रमणम् । कषायाणां प्रतिक्रमणं योगानां चाप्रशस्तानाम् ॥ १ ॥
ર
For Personal & Private Use Only
Page #512
--------------------------------------------------------------------------
________________
योग
तृतीयः प्रकाशः।
शास्त्रम्
॥२४७॥
F
ततश्च निन्दाद्वारणाशुभयोगनिवृत्तिरूपमतीतविषयं प्रतिक्रमणम् , प्रत्युत्पन्नविषयमपि संवरद्वारेण अनागतमपि प्रत्याख्यानद्वारेणेति न कश्चिद् दोषः। तच्च दैवसिकादिभेदात् पञ्चधा-दिवसस्यान्ते देवसिकम, रात्रेरन्ते रात्रिकम् , पक्षस्यान्ते पाचिकम् , चतुर्णा मासानामन्ते चातुर्मासिकम् , संवत्सरस्यान्ते सांवत्सरिकम् । पुनधा -ध्रुवम् , अध्रुवं च । ध्रुवं भरतैरावतेषु प्रथमचरमतीर्थकरतीर्थेषु, अपराधो भवतु वा मा वा, उभयकालं प्रतिक्रमणम् । अध्रुवं मध्यमतीर्थकरतीर्थेषु विदेहेषु च कारणजाते प्रतिक्रमणम् ; यदाह,
सपडिक्कमणो धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स। मज्झिमयाण जिणाणं कारणजाए पडिक्कमणं ॥१॥ प्रतिक्रमणविधिश्चैताभ्यो गाथाभ्योऽवसेयः,पंञ्चविहायारविसुडिहेउमिह साहू सावगो वावि । पडिक्कमणं सह गुरुणा गुरुविरहे कुणइ इको वि ॥१॥ वंदित्तु चेइआई दाउं चउराइए खमासमणे । भूनिहिअसिरो सयलाइयारमिच्छोकडं देइ ॥२॥ सामाइअपुव्वमिच्छा मि ठाइउं काउस्सग्गमिच्चाई । सुत्तं भणि पलंबिअभुयकुप्परधरियपहिरणो॥३॥
(१) सप्रतिक्रमणो धर्मः प्रथमस्य च पश्चिमस्य च जिनस्य । मध्यमकानां जिनानां कारणे जाते प्रतिक्रमणम् ॥ १ ॥ (२) पञ्चविधाचारविशुद्धिहेतोरिह साधुः श्रावको वापि । प्रतिक्रमणं सह गुरुणा गुरुविरहे करोत्येकोऽपि ॥ १ ॥ वन्दित्वा चैत्यानि दत्त्वा चतुरादिकान् क्षमाश्रमणान् । भूनिहितशिराः सकलातिचारमिथ्यादुप्कृतं दद्यात् ॥ २॥ सामायिकपूर्वमिच्छा मे स्थापयितुं कायोत्सर्गमित्यादि । सूत्रं भणित्वा प्रलम्बितभुजकूर्परधृतपरिधानः ॥ ३ ॥
॥२४७॥
in Education Internat
For Personal & Private Use Only
Page #513
--------------------------------------------------------------------------
________________
'घोडगमाईदोसेहिं विरहिअं तो करेइ उस्सगं । नाहिनहो जाणुद्धं चउरंगुलठविकडिपट्टो ॥ ४॥ तत्थ य धरेइ हिअए जहक्कम दिणकए अईआरे । पारेत्तु नमुक्कारेण पढइ चउवीसथयदंडं ॥ ५॥ संडासगे पमञ्जिय उवविसिय अलग्गविषयबाहुजुयो । मुहणंतगं च कायं च पेहए पंचवीसइहा ॥६॥ उहियहिओ सविणयं विहिणा गुरुणो करेइ किइकम्मं । बत्तीसदोसरहिरं पणवीसावस्सगविसुद्धं ॥७॥ अह सम्ममवणअंगो करजुअविहिधरिअपुत्तिरयहरणो। परिचिंतिम अइआरे जहक्कम गुरुपुरो वियडे ॥८॥ अह उवविसित्तु सुत्तं सामाइयमाइयं पढिय पयो। अन्भुट्ठियो म्हि इचाइ पढइ दुह उडिओ विहिणा ।।६॥ दाऊण वंदणं तो पणगाइसु जइसु खामए तिमि । किइकम्मं करे आयरिश्रमाइगाहातिगं पढइ ॥ १० ॥
(१) घोटकादिदोषैर्विरहितं ततः करोति उत्सर्गम् । नाभ्यधो जानूल चतुरङ्गलस्थापितकटीपट्टः ॥ ४ ॥ तत्र च धारयति हृदये यथाक्रमं दिनकृतानतिचारान् । पारयित्वा नमस्कारेण पठति चतुर्विशतिस्तवदण्डम् ॥५॥ संदंशं प्रमृज्योपविश्यालग्नविततबाहयुगः । मुखानन्तकं च कायं च प्रेक्षते पञ्चविंशतिधा ॥६॥ उत्थितस्थितः सविनयं विधिना गुरोः करोति कृतिकर्म । द्वात्रिंशद्दोषरहितं पञ्चविंशत्यावश्यकविशुद्धम् ॥७॥ अथ सम्यगवनताङ्गः करयुगविधिधृतवस्त्रिकारजोहरणः । परिचिन्तयत्यति (न्तिताति) चारान् यथाक्रमं गुरुपुरो विस्तृतान् (विस्तृणुयात् ) ॥८॥ अथोपविश्य सूत्रं सामायिकादिकं पठित्वा प्रयतः । अम्युत्थितोऽस्मीत्यादि पठति द्विघोत्थितो विधिना ॥९॥ दत्त्वा वन्दनं ततः पञ्चकादिषु यतिषु क्षमयेत् त्रिः । कृतिकर्म कुर्यादाचार्यादिगाथात्रिकं पठति ॥ १०॥
in Education internation
For Personel Private Use Only
Page #514
--------------------------------------------------------------------------
________________
योग
तृतीयः प्रकाश:।
शास्त्रम्
२४८॥
इस सामाइयउस्सग्गसुचमुच्चरिय काउस्सग्गठिो । चिंतइ उज्जोयदुर्ग चरित्तइयारसुद्धिकए ॥११॥ विहिणा पारिय सम्मत्तसुद्धिहउं च पढइ उजोधे । तह सव्वलोअपरहंतचेयाराहणोसग्गं ॥ १२ ॥ काउं उज्जोअगरं चिंतिय पारेइ सुद्धसम्मत्तो । पुक्खरवरदीवड्ढे कड्ढइ सुअसोहणनिमित्तं ॥ १३ ॥ पुण पणवीसोस्सासं उस्सग्गं कुणइ पारए विहिणा। तो सयलकुसलकिरियाफलाण सिद्धाण पढइ थयं ॥१४॥ अह सुअसमिद्धिहउं सुअदेवीए करेइ उस्सग्गं । चिंतेइ नमोकारं सुणइ वदेह व्व तीइ थुई ॥ १५ ॥ एवं खेत्तसुरीए उस्सग्गं कुणइ सुणइ देइ थुई । पढिऊण पंचमंगलमुवविसइ पमज संडासे ॥ १६ ॥ पुन्नविहिणेव पेहिय पुत्तिं दाऊण वंदणं गुरुणो । इच्छामो अणुसढि ति भणिय जाणूहिंतो ठाइ ॥ १७॥
(१) इति सामायिकोत्सर्गसूत्रमुच्चार्य कायोत्सर्गस्थितः । चिन्तयत्युयोतद्विकं चारित्रातिचारशुद्धिकृते ॥ ११ ॥ विधिना पारयित्वा सभ्यक्त्वशुद्धिहेतोश्च पठेदुद्द्योतम् । तथा सर्वलोकार्हचैत्याराधनोत्सर्गम् ॥ १२॥ कृत्वोद्योतकरं चिन्तयित्वा पारयति शुद्धसम्यक्त्वः । पुष्करवरद्वीपार्ध पठति श्रुतशोधननिमित्तम् । १३ ॥ पुनः पञ्चविंशत्युच्छ्वासमुत्सर्ग करोति पारयति विधिना । तत: सकलकुशलक्रियाफलानां (लेभ्यः) सिद्धानां पठेत् स्तवम् ॥१४॥ अथ श्रुतसमृद्धिहेतोः श्रुतदेव्याः कुर्यादुत्सर्गम् । चिन्तयेद नमस्कारं शृणुयाद् वदेदू वा तस्याः स्तुतिम् ॥ १५ ॥ एवं क्षेत्रसुर्या उत्सर्ग कुर्यात् श्टणुयाद् दद्यात् स्तुतिम् । पठित्वा पञ्चमङ्गलमुपविशेत् प्रमृज्य संदंशम् ॥ १६ ॥ पूर्वविधिनैव प्रेक्ष्य वस्त्रिकां दत्त्वा वन्दनं गुरोः । इच्छामोऽनुशास्तिमिति भणित्वा जानुभ्यां तिष्ठेत् ॥ १७ ॥
२४८॥
Jan Education inY
For Personal & Private Use Only
Ho
Page #515
--------------------------------------------------------------------------
________________
'गुरुथुइगहणे थुइ तिमि बद्धमाणक्खरस्सरो पढइ । सकत्थवं थवं पढि कुणइ पच्छित्तउस्सग्गं ॥१८॥ एवं ता देवसिधे राइयमवि एवमेव नवरि तहिं । पढमं दाउं मिच्छा मि दुक्कडं पढइ सक्कत्थयं ॥ १६ ॥ उद्विय करेइ विहिणा उस्सगं चिंतए अ उजोअं। बीयं दंसणसुद्धीए चिंतए तत्थ इममेव ॥ २० ॥ तइए निसाअइआरं जहक्कम चिंतिऊण पारेइ । सिद्धत्थयं पढित्ता पमज संडासमुवविसइ ॥ २१ ॥ पुग्वं व पुत्तिपेहणवंदणमालोयसुत्तपढणं च । वंदणखामणवंदणगाहातिगपढणमुस्सग्गो ॥ २२ ॥ तत्थ य चिंतइ संजमजोगाण न होइ जेण मे हाणी । तं पडिवजामि तवं छम्मासं ता न काउमलं ॥ २३ ॥ एगाइगुणतीसूणयं पि न सहो न पंचमासमवि । एवं चउ ति दुमासं न समत्थो एगमासं पि ॥२४॥
(१) गुरुस्तुतिग्रहणे स्तुतीस्तिस्रो वर्धमानाक्षरस्वरः पठेत् । शक्रस्तवं स्तवं पठित्वा कुर्यात् प्रायश्चित्तोत्सर्गम् ॥१८॥ • एवं तावद दैवसिकं रात्रिकमप्येवमेव नवरं तत्र । प्रथमं दत्त्वा मिथ्या मे दुष्कृतं पठेत् शक्रस्तवम् ॥ १६ ॥
उत्थाय कुर्याद् विधिनोत्सर्ग चिन्तयेच्चोद्योतम् । द्वितीयं दर्शनशुद्धौ चिन्तयेत् तत्रेदमेव ॥ २०॥ तृतीये निशातीचारं यथाक्रमं चिन्तयित्वा पारयेत् । सिद्धस्तवं पठित्वा प्रमृज्य संदंशमुपविशेत् ॥ २१॥ पूर्वमिव वस्त्रिकाप्रेक्षणं वन्दनमालोचसूत्रपठनं च । वन्दनक्षमणावन्दनगाथात्रिकपठनमुत्सर्गः ॥ २२ ॥ तत्र च चिन्तयेत् संयमयोगानां न भवति येन मे हानिः । तत् प्रतिपद्ये तपः षड् मासांस्तावद न कर्तुमलम् ॥ २३ ।। एकाद्यकोनत्रिंशदूनकमपि न सहो न पञ्च मासानपि । एवं चतुरस्त्रीन् द्वौ मासौ न समर्थ एकमासमपि ॥ २४ ॥
Jain Education internet
For Personal & Private Use Only
Page #516
--------------------------------------------------------------------------
________________
बोगशास्त्रम्
तृतीयः प्रकाशः।
॥२४॥
जा तं पि तेरसूणं चउतीसइमाइग्रं दुहाणीए । जाव चउत्थं तो आयंबिलाइ जा पोरिसि नमो वा ॥ २५॥ जं सकं तं हियए धरेत्तु पारेत्तु पेहए पोतिं । दाउं वंदणमसढो तं चिय पच्चक्खए विहिणा ॥ २६॥ . इच्छामो अणुसद्धि ति भणिय उवविसिव पढइ तिमि थुई । मिउसदेणं सक्कत्थयाइ तो चेइए वंदे ॥ २७ ॥ अह पक्खियं चउद्दसिदिणम्मि पुव्वं व तत्थ देवसिगं । सुत्तंतं पडिक्कमिउं तो सम्ममिमं कमं कुणइ ॥ २८ ॥ मुहपोत्ति वंदणयं संबुद्धाखामणं तहालोए । वंदण पत्तेयक्खामणं च वंदणयमह सुत्तं ॥ २६ ॥ सुत्तं अब्भुवाणं उस्सग्गो पुत्ति वंदणं तह य । पजंतियखामणं तह चउरो थोभवंदणया ॥३०॥ पुन्वविहिणेव सव्वं देवसियं वंदणाइ तो कुणइ । सेजसुरीउस्सग्गे भेश्रो संतिथयपढणे अ॥ ३१ ॥
(१) यादत्तदपि त्रयोदशोनं चतुस्त्रिंशदादिकं द्विहान्या । यावच्चतुर्थ तत आचाम्लादि यावत् पौरुषी नमो वा ॥२५॥ यत् शक्यं तदू हृदये धारयित्वा पारयेत प्रेक्षेत वस्त्रिकाम् । दत्त्वा वन्दनमशठस्तदेव प्रत्याख्यायाद विधिना ॥ २६ ॥ इच्छामोऽनुशास्तिमिति भणित्वोपविश्य पठेत् तिस्त्रः स्तुतीः । मृदुशब्देन शक्रस्तवादि ततश्चैत्यानि बन्देत ॥ २७॥ अथ पाक्षिकं चतुर्दशीदिने पूर्वमिव तत्र दैवसिकम् । सूत्रान्तं प्रतिक्रम्य ततः सम्यगिमं क्रमं कुर्यात् ।। २८ ।। मुखवस्त्रिका वन्दनकं संबुद्धक्षमणा तथालोचः । वन्दनं प्रत्येकं क्षमणा च वन्दनकमथ सूत्रम् ॥ २९ ॥ सूत्रमभ्युत्थानमुत्सर्गो वस्त्रिका वन्दनं तथा च । पार्यन्तिकक्षमणा तथा चत्वारि स्तोभवन्दनकानि ।। ३० ।। पूर्वविधिनैव सर्व देवसिकं बन्दनादि ततः कुर्यात् । शय्यासूर्युत्सर्गे भेदः शान्तिस्तवपठने च ॥ ३१॥
॥२४६॥
in Education inte
For Personal & Private Use Only
Page #517
--------------------------------------------------------------------------
________________
एवं चिय चउमासे वरिसे अजहक्कम विही गणेो । पक्खचउमास वरिसेसु नवरि नामम्मि नाणत्तं ॥३२॥ तह उस्सग्गोजोबा बारस वीसा समंगलिग चत्ता। संबुद्धखामणं ति पण सत्त साहूण जहसंखं ॥ ३३ ॥ प्रतिक्रमणसूत्रविवरणं तु ग्रन्थविस्तरभयाद् नोक्तम् ।।
अथ कायोत्सर्गः । कायस्य शरीस्य स्थानमौनध्यानक्रियाव्यतिरेकेणान्यत्रोच्लसितादिभ्यः क्रियान्तराध्यासमधिकृत्य य उत्सर्गस्त्यागो 'नमो अरहताणं' इति वचनात् प्राक् स कायोत्सर्गः । स च द्विविधः, चेष्टायामभिभवे च । चेष्टायां गमनागमनादावीर्यापथिकादिप्रतिक्रमणभावी, अभिभवे उपसर्गजयार्थम् ; यदाहुः
सो उस्सग्गो दुविहो चेट्टाए अभिभवे अनायव्वो। भिक्खायरिया पढमो उसग्गभिउंजणे बीओ ॥१॥
तत्र चेष्टाकायोत्सर्गोऽष्ट-पञ्चविंशति-सप्तविंशति-त्रिशती-पञ्चशती-अष्टोत्तरसहस्रोच्छ्वासान् यावद् भवति, | अभिभवकायोत्सर्गस्तु मुहूर्तादारभ्य संवत्सरं यावद् बाहुबलेरिव भवति । स च कायोत्सर्ग उच्छ्रित-निषण
शयितभेदेन त्रेधा । एकैकश्चतुर्धा-उच्छितोच्छितो द्रव्यत उच्छित ऊर्ध्वस्थानं भावत उच्छ्रितो धर्मध्यानशुक्नध्याने इति प्रथमः । तथा द्रव्यत उच्छुित ऊर्ध्वस्थानं भावतोऽनुच्छ्रितः कृष्णादिलेश्यापरिणाम इति द्वितीयः । द्रव्यतो नोच्छ्रितो नो स्थानं भावत उच्छ्रितो धर्मध्यान-शुक्लध्याने इति तृतीयः । न द्रव्यतो नापि भावत उच्छित (१) एवमेव चतुर्मासे वर्षे च यथाक्रमं विधि यः । पक्षचतुर्मासवर्षेषु, नवरं नाम्नि नानात्वम् ।। ३२ ॥
तथोत्सर्ग उद्योता द्वादश विंशतिः समङ्गलिकाश्चत्वारिंशत् । संबुद्धक्षमणास्तिस्त्रः पञ्च सप्त साधूनां यथासंख्यम् ।३३। (२) स उत्सर्गों द्विविधश्चेष्टायामभिभवे च ज्ञातव्यः । भिक्षेर्यायां प्रथम उत्सर्गाभियोजने द्वितीयः ॥ १॥
in Education Internation
For Personal & Private Use Only
Page #518
--------------------------------------------------------------------------
________________
याग
तृतीयः प्रकाशः।
शास्त्रम्
1॥२५॥
इति चतुर्थः। एवं निषम-शयितयोरपि चतुर्भङ्गी वाच्या ।
दोषरहितश्च कायोत्सर्गः कार्यः । दोषाश्चैकविंशतिः-आकुञ्चितैकपादस्य घोटकस्येव स्थानं घोटकदोषः ।। खरवातप्रकम्पिताया लताया इव कम्पनं लतादोषः । २। स्तम्भमवष्टभ्य स्थानं स्तम्भदोषः। ३ । कुड्यमवष्टभ्य स्थानं कुड्यदोषः।४ । माले शिरोऽवष्टभ्य स्थानं मालदोषः। ५। हस्तौ गुह्यदेशे स्थापयित्वा शबर्या इव स्थानं
शबरीदोषः। ६ । शिरोऽवनम्य कुलवध्वा इव स्थानं वधुदोषः । ७ । निगडितस्येव विवृतपादस्य मिलितपादस्य | वा स्थानं निगडदोषः।। नाभेरुपर्याजानु चोलपट्टकं निवध्य स्थानं लम्बोत्तरदोषः ।।। दंशादिवारणार्थमज्ञानाद् वा स्तने चोलपट्टकं निबध्य स्थानं स्तनदोषः; 'धात्रीवद् बालार्थ स्तनावुन्नमय्य स्थानं वा' इत्येके ।१० पाणी मीलयित्वाऽग्रचरणौ विस्तार्य, अङ्गुष्ठौ वा मीलयित्वा पाी विस्तार्य स्थानं शकटोर्द्धिकादोषः।११। व्रतिनीवत् | पटेन शरीरमाच्छाद्य स्थानं संयतीदोषः ।१२। खलीनमिव रजोहरणं पुरस्कृत्य स्थानं खलीनदोषः, अन्ये खलीनाहियवर्ध्वाधःशिरःकम्पनं खलीनदोषमाहुः।१३। वायसस्येवेतस्ततो नयनगोलकभ्रमणं दिगवेक्षणं वा वायसदोषः। १४ । षट्पदिकाभयेन कपित्थवच्चोलपट्ट संवृत्य मुष्टौ गृहीत्वा स्थानं कपित्थदोषः; 'एवमेव मुष्टिं बवा स्थानम्' इत्यन्ये ।१॥ भूताविष्टस्येव शीर्ष कम्पयतः स्थानं शीर्षोत्कम्पितदोषः ।१६। मृकस्येवाव्यक्तशब्दं कुर्वतः स्थानं मूकदोषः ।१७। पालापकगणनार्थमङ्गुलीचालयतः स्थानमङ्गुलिदोषः ।१८। व्यापारान्तरनिरूपणार्थ भ्रूनृत्तं कुर्वतः स्थानं भ्रूदोषः ।१६।निष्पद्यमानवारुण्या इव बुडबुडारावेण स्थानं वारुणीदोषः; 'वारुणीमत्तस्येव घूर्णमानस्य स्थानं वारुणीदोषः' इत्यन्ये । २० । अनुप्रेक्षमाणस्येवौष्ठपुटे चलयतः स्थानमनुप्रेक्षादोषः। २१। यदाहुः
स्ततो नयनान खलीनदोष
संवृत्य म
विष्टस्येव शी
H॥२५॥
JanEducation intel
For Personal Private Use Only
Page #519
--------------------------------------------------------------------------
________________
Jain Education Internal
घोडग लयाय खंभे कुड्डे माले य सवरि बहु गियले। लंबोत्तर थण उद्धी संजइ खलिये य वायस कविट्ठे ॥ १ ॥ सीसोकंपि मूह अंगुली भमुहा य वारुणी पेहा । इति । एके त्वन्यानपि कायोत्सर्गदोषानाडु:, यथां
निष्ठीवनं वपुःस्पर्शः प्रपञ्चबहुला स्थितिः । सूत्रोदितविधेयूनं वयोऽपेचाविवर्जनम् ॥ १ ॥ कालापेक्षाव्यतिक्रान्तिर्व्याक्षेपासक्तचित्तता । लोभाकुलितचित्तत्वं पापकार्योद्यमः परः ।। २ ।। कृत्याकृत्यविमूढत्वं पट्टिकाद्युपरि स्थितिः । इति ।
कायोत्सर्गस्यापि फलं निर्जरैव; यदाहु:--
काउस्सग्गे जह संठिअस्स भजंति अंगुवंगाई । इय भिंदंति सुविहिया अट्ठविहं कम्मसंघायं ॥ १ ॥ कायोत्सर्गसूत्रार्थः प्राग् व्याख्यात एव ॥
अथ प्रत्याख्यानम् —प्रति प्रवृत्तिप्रतिकूलतया या मर्यादया ख्यानं प्रकथनं प्रत्याख्यानम् । तच्च द्वेधामूलगुणरूपमुत्तरगुणरूपं च । मूलगुणा यतीनां महाव्रतानि श्रावकाणामणुव्रतानि; उत्तरगुणास्तु यतीनां पिण्डविशुद्धयादयः, श्रावकाणां तु गुणव्रतशिक्षाव्रतानि । मूलगुणानां तु प्रत्याख्यानत्वं हिंसादिनिवृत्तिरूपत्वात्, ( १ ) घोटको लता च स्तम्भः कुड्यं मालं च शबरी वधूर्निगडः । लम्बोत्तरं स्तन उद्धिर्संयती खलीनं च वायसः कपित्थः ॥ १॥ शीर्षोत्कम्पितं मूकोऽङ्गुलिर्भूश्च वारुणी प्रेक्षा ।
( २ ) कायोत्सर्गे यथा संस्थितस्य भज्यन्तेऽङ्गोपाङ्गानि । एवं भिन्दन्ति सुविहिता अष्टविधं कर्मसंघातम् ॥ १ ॥
For Personal & Private Use Only:
Page #520
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥२५॥
उत्तरगुणानां तु पिण्ड विशुद्धयादीनां दिखतादीनां च प्रतिपक्षनिवृत्तिरूपत्वात् । तत्र स्वयं कृतप्रत्याख्यानः काले तृतीयः विनयपूर्वकं सम्यगुपयुक्तो गुरुवचनमनुच्चरन् स्वयं जानन ज्ञस्यैव गुरोः पार्वे प्रत्याख्यानं करोति । ज्ञत्वे चतुर्भङ्गीप्रकाशः।
द्वयोर्शत्वे प्रथमो भङ्गः शुद्धः। १ । गुरो त्वे शिष्यस्याज्ञत्वे द्वितीयः। तत्र तत्कालं शिष्यं संक्षेपतःप्रबोध्य यदा । H गुरुः प्रत्याख्यानं कारयति तदाऽयमपि शुद्धः, अन्यथा त्वशुद्धः ।२। गुरोरज्ञत्वे शिष्यस्य ज्ञत्वे तृतीयः। अयमपि
तथाविधगुरोरप्राप्ती गुरुबहुमानाद् गुरोः पितृ-पितृव्य-मातुल-ज्येष्ठभ्रात्रादिकं साक्षिणं कुर्वतस्तृतीयः शुद्धः, अन्यथा त्वशुद्धः। ३ । द्वयोरज्ञत्वे चतुर्थः, असावशुद्ध एव । ४ ।
उत्तरगुणप्रत्याख्यानं प्रतिदिनोपयोगि द्विविधम्-संकेतप्रत्याख्यानमद्धाप्रत्याख्यानं च। तत्र संकेतप्रत्याख्यानं । श्रावकः पौरुष्यादिप्रत्याख्यानं कृत्वा क्षेत्रादौ गतो गृहे वा तिष्ठन् ' भोजनप्राप्तेः प्राक् प्रत्याख्यानरहितो मा | भूवम् ' इत्यङ्गुष्ठादिकं संकेतं करोति-' यावदङ्गुष्ठं मुष्टिं ग्रन्थि वा न मुश्चामि, गृहं वा न प्रविशामि, स्वेदविन्दवो वा यावद् न शुष्यन्ति, एतावन्तो वोच्छ्रासा यावद् न भवन्ति, जलार्द्रमश्चिकायां यावदेते बिन्दवो न शुष्यन्ति, दीपो वा यावद् न निवोति तावद् न भुञ्जे' इति; यदाहु:
अंगुट्टमुछिगंठीघरसेऊसासथिवुगजोइक्खे । एअं संकेय भणियं धीरेहिं अणंतनाणीहिं ॥ १ ॥
अद्धा कालस्तद्विषयं प्रत्याख्यानमद्धाप्रत्याख्यानम् । तच्च नमस्कारसहितं, पौरुषी, दिनपूर्वार्धः, एकाशनम् , एकस्थानकम्, आचामाम्लम् , उपवासः, चरमम् , अभिग्रहः, विकृतिनिषेधश्चेति. दशविधम् ; यदाहु:(१) अङ्गुष्ठमुष्टिग्रन्थिगृहस्वेदोच्छ्वासस्तिबुकज्योतिष्कान । एतत् सङ्केतं भणितं धीरेरनन्तज्ञानिभिः ॥ १ ॥
॥२५॥
in Education International
For Personal & Private Use Only
Page #521
--------------------------------------------------------------------------
________________
पत्रकाले
नवकार पोरिसीए पुरिमड्ढेक्कासवंगठाणे य । आयंबिल भत्तढे चरमे अ अभिग्गहे विगई ॥१॥
नन्वकाशनादिप्रत्याख्यानंः कथमद्धाप्रत्याख्यानम् । न हि तत्र कालनियमोऽस्ति ? सत्यम् , अद्धाप्रत्याख्यानपूर्वाण्येकाशनादीनि प्रायेण क्रियन्त इत्यद्धाप्रत्याख्यानत्वेनोच्यन्ते । प्रत्याख्यानं चापवादरूपाकारसहितं कर्तव्यम् , अन्यथा तु भङ्गः स्यात् , स च दोषाय; यदाहुः
वेयभंगे गुरुदोसो थेवस्स वि पालणा गुणकरी ओ। गुरु लाघवं च णेयं धम्मम्मि अओ अ आगारा ॥१॥
ते च नमस्कारसहितादिषु यावन्तो भवन्ति तावन्त उपदयन्ते । तत्र नमस्कारसहिते मुहूर्त नमस्कारोचारणावसाने प्रत्याख्याने द्वावाकारौ भवतः । आक्रियते विधीयते प्रत्याख्यानभङ्गपरिहारार्थमित्याकारः प्रत्याख्यानापवादः । ननु कालस्यानुक्तत्वात् संकेतप्रत्याख्यानमेवेदम् । नैवम् , सहितशब्देन मुहूर्तस्य विशेषणात् । अथ मुहूर्तशब्दो न श्रूयते, तत् कथं तस्य विशेष्यत्वम् ? । उच्यते-अद्धाप्रत्याख्यानमध्येऽस्य पाठात् , पौरुषीप्रत्याख्यानस्य वक्ष्यमाणत्वादवश्यं तदर्वाग् मुहूर्त एवावशिष्यते । अथ मुहूर्त्तद्वयादिकमपि कुतो न लभ्यते । उच्यते-अल्पाकारत्वादस्य । पौरुष्यां हि षडाकाराः, तदस्मिन् प्रत्याख्याने आकारद्वयवति स्वल्प एव कालोऽवशिष्यते । स च नमस्कारेण सहितः, पूर्णेऽपि काले नमस्कारपाठमन्तरेण प्रत्याख्यानस्यापूर्यमाणत्वात : सत्यपि नमस्कारपाठे मुहूर्त्ताभ्यन्तरे प्रत्याख्यानभङ्गात् । तत् सिद्धमेतत्-मुहूर्त्तमानकालं नमस्कारसहितं प्रत्याख्यानमिति। (१) नमस्कारः पौरुषी पूर्वार्ध एकाशनमकस्थानं च । आचामाम्लमभक्तार्थश्चरमोऽभिग्रहो विकृतिः ॥१॥ (२) व्रतभङ्गे गुरुदोषः स्तोकस्यापि पालना गुणकरी तु । गुरु लाघवं च ज्ञेयं धर्मेऽतश्चाकाराः ॥१॥
Jain Education international
For Personal & Private Use Only
Page #522
--------------------------------------------------------------------------
________________
योग
तृतीया
प्रकाशः।
अथ प्रथम एव मुर्त इति कुतो लभ्यते ? । सूत्रप्रामाण्यात, पौरुषीवत् । सूत्रं चेदम्शास्त्रम्
उग्गए मरे नमोकारसहि पच्चक्खाइ चउव्विहं पि आहारं असणं पाणं खाइमं साइमं अप्पत्थणाभोगणं
सहसागारेणं वोसिरइ । ॥२५२॥ व्याख्या-उद्गते सूरे सूर्योद्गमादारभ्येत्यर्थः, नमस्कारेण परमेष्ठिस्तवेन सहितं युक्तं नमस्कारसहितं प्रत्या
ख्याति, “ सर्वे धातवः करोत्यर्थेन व्याप्ताः" इतिन्यायाद् नमस्कारेण सहितं प्रत्याख्यानं करोति । इदं गुरोरनुवादभङ्गथा वचनम् । शिष्यस्तु प्रत्याख्यामि' इत्येतदाह । एवं 'व्युत्सृजति' इत्यत्रापि वाच्यम् । कथम् !
चतुर्विधमिति, न पुनरेकविधादिकम् , आहारमभ्यवहार्य ' व्युत्सृजति' इत्युत्तरेण योगः। इदं चतुर्विधाहारस्यैव Ra भवतीति संप्रदायः, रात्रिभोजनव्रततीरणप्रायत्वादस्य । अशनमित्याद्याहारचातुर्विध्यकीर्तनम् । अशनादय
आहाराः पूर्व व्याख्याताः । अत्र नियमभङ्गभयादाकारावाह-अमत्थणामोगेणं सहसागारेणं, अत्र पञ्चम्यर्थे तृतीया, अन्यत्रानाभोगात, सहसाकाराच्च; एतौ वर्जयित्वेत्यर्थः । तत्रानाभोगोऽत्यन्तविस्मृतिः। सहसाकारोऽतिप्रवृत्तयोगानिवर्तनम् । व्युत्सृजति परिहरति ।
अथ पौरुषीप्रत्याख्यानम्
पौरिसिं पच्चरुखाइ उग्गए सूरे चउन्विहं पि आहारं असणं पाणं खाइमं साइमं अस्मत्थणाभोगेणं सहसा| गारेणं पच्छन्नेणं कालेणं दिसामोहेणं साहुवयणेणं सव्वसमाहिवत्तिभागारेणं वोसिरइ ॥
पुरुषः प्रमाणमस्याः पौरुषी छाया तयुक्तः कालोऽपि पौरुषी प्रहर इत्यर्थः, तां प्रत्याख्याति पौरुषीप्रत्याख्यानं
॥२५२॥
in Education
and
For Personal & Private Use Only
Page #523
--------------------------------------------------------------------------
________________
Jain Education Inter
--...-..K++7.1K+
करोतीत्यर्थः । कथम् ? चतुर्विधमशन-पान - खाद्य - खाद्यलक्षणं 'व्युत्सृजति' इत्युत्तरेण योगः । अत्र पडाकाराः । प्रथमौ द्वौ पूर्ववत् । अन्यत्र प्रच्छन्न कालात्, दिग्मोहात्, साधुवचनात् सर्वसमाधिप्रत्ययाकाराच्च । प्रच्छन्नता च कालस्य, यदा मेघेन रजसा गिरिणा वान्तरितत्वात् सूरो न दृश्यते, तत्र पौरुषीं पूर्णां ज्ञात्वा भुञ्जानस्या - पूर्णायामपि तस्यां न भङ्गः; ज्ञात्वा त्वर्धभुक्तेनापि तथैव स्थातव्यं यावत् पौरुषी पूर्णा भवति, पूर्णायां ततः परं भोक्तव्यम्, न पूर्णेति ज्ञाते तु भुञ्जानस्य भङ्ग एव । दिग्मोहस्तु यदा पूर्वामपि पश्चिमेति जानाति तदा पूर्णायामपि पौरुष्यां मोहाद् भुञ्जानस्य न भङ्गः, मोहविगमे तु पूर्ववदर्धभुक्तेनापि स्थातव्यम् ; निरपेक्षतया भुञ्जानस्य भङ्ग एवेति । साधुवचनं 'उद्घाटा पौरुषी ' इत्यादिकं विभ्रमकारणम्, तत् श्रुत्वा भुञ्जानस्य न भङ्गः, भुञ्जान तुज्ञाते अन्न वा कथिते पूर्ववत् तथैव स्थातव्यम् । तथा कृतपौरुपी प्रत्याख्यानस्य समुत्पन्नतीव्रशूलादिदुः खतया संजातयोरात - रौद्र ध्यानयोः सर्वथा निरासः सर्वसमाधिस्तस्य प्रत्ययः कारणं स एवाकारः प्रत्याख्यानापवादः सर्वसमाधिप्रत्ययाकारः-समाधिनिमित्तमैौषधपथ्यादिप्रवृत्तावपूर्णायामपि पौरुष्यां भुङ्क्ते तदा न भङ्ग इत्यर्थः । वैद्यादिर्वा कृतपौरुषी प्रत्याख्यानोऽन्यस्यातुरस्य समाधिनिमित्तं यदाऽपूर्णायामपि पौरुष्यां भुङ्क्ते तदा न भङ्गः, क्त्वातुरस्य समाधौ मरणे वोत्पन्ने ज्ञाते सति तथैव भोजनस्य त्यागः ॥ सार्धपौरुषी प्रत्याख्यानं पौरुषीप्रत्याख्यान एवान्तर्भूतम् ॥ अथ पूर्वार्धप्रत्याख्यानम् -
सूरे उग्गए पुरिम ं पच्चक्खा
चव्विहं पि आहारं असणं पाणं खाइमं साइमं नत्थाभोगेणं
For Personal & Private Use Only
13-08-08-09-04
Page #524
--------------------------------------------------------------------------
________________
योग
शास्रम्
।। २५३ ॥
Jain Education Inter
सहसागारेणं पच्छष्णं कालेणं दिसामोहेणं साहुवययेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ ॥ पूर्व च तदर्थं च पूर्वार्ध दिनस्याद्यं प्रहरद्वयं पूर्वार्धं प्रत्याख्याति पूर्वार्धप्रत्याख्यानं करोति । पडाकाराः पूर्ववत् । ' महत्तरागारेणं ' इति, महत्तरं प्रत्याख्यानानुपालनलभ्यनिर्जरापेक्षया बृहत्तरनिर्जरालाभहेतुभूतं पुरुषान्तरासाध्यं ग्लानचैत्यसंघादिप्रयोजनं तदेवाकारः प्रत्याख्यानापवादो महत्तराकारस्तस्मात् अन्यत्र इति योगः । यच्चात्रैव महत्तराकारस्याभिधानं न नमस्कारसहितादौ तत्र कालस्यान्पत्वं महत्त्वं च कारण - माचक्षते ।
3
अथैकाशनप्रत्याख्यानम् । तत्राष्टावाकाराः यत् सूत्रम् —
एक्कासणगं पच्चक्खाइ चउन्विहं पि आहारं असणं पाणं खाइमं साइमं श्रपत्थणाभोगेणं सहसागारेणं सागारिआगारेणं आउंटणपसारणेणं गुरुग्रन्भुट्टाणेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तिश्रागारेणं वोसिरइ ॥
एकं सकृदशनं भोजनम् एकं वासनं पुताचलनतो यत्र तदेकाशनमेकासनं च प्राकृते द्वयोरपि 'एगासणं' इति रूपम्, तत् प्रत्याख्याति - एकाशनप्रत्याख्यानं करोतीत्यर्थः । अत्राद्यावन्त्यौ च द्वावाकारौ पूर्ववत् । सागारागारे सह अगारेण वर्तते इति सागारः स एव सागारिको गृहस्थः स एवाकारः प्रत्याख्यानापवादः सागारिकाकारस्तस्मादन्यत्र । गृहस्थसमक्षं हि साधूनां भोक्तुं न कल्पते, प्रवचनोपघातसंभवात् श्रत एवोक्तम्; —
For Personal & Private Use Only
K+908-10.→
<-XKK+---
तृतीयः
प्रकाशः ।
॥ २५३ ॥
Page #525
--------------------------------------------------------------------------
________________
छक्कायदयावंतो वि संजो दुल्लहं कुणइ बोहिं । आहारे नीहारे दुगुंछियपिंडगहणे अ॥१॥ ततश्च भुञ्जानस्य यदा सागारिकः समायाति, स यदि चलस्तदा क्षणं प्रतीक्षते, अथ स्थिरस्तदा स्वाध्यायादिव्याघातो मा भूदिति ततः स्थानादन्यत्रोपविश्य भुञ्जानस्यापि न भङ्गः। गृहस्थस्य तु येन दृष्ट भोजनं न जीर्यति स सागारिकः । आउंटणपसारणेणं-आउंटणं आकुश्चनं जवादेः संकोचनं प्रसारणं च तस्यैवाकुञ्चितस्य ऋजूकरणम् , आकुश्चने प्रसारणे चासहिष्णुतया क्रियमाणे किञ्चिदासनं चलति ततोऽन्यत्र प्रत्याख्यानम् । गुरुअब्भुट्ठाणेणं-गुरोरभ्युत्थानार्हस्याचार्यस्य प्राघुणेकस्य वाऽभ्युत्थानं प्रतीत्यासनत्यजनं गुर्वेभ्युत्थानं ततोऽन्यत्र । अभ्युत्थानं चावश्यकर्त्तव्यत्वाद् भुञ्जानेनापि कर्तव्यमिति न तत्र प्रत्याख्यानभङ्गः । पारिद्वावणिआगारेणंपरिष्ठापनं सर्वथा त्यजनं प्रयोजनमस्य पारिष्ठापनिकमन्नं तदेवाकारः पारिष्ठापनिकाकारः, ततोऽन्यत्र । तत्र हि त्यज्यमाने बहुदोषसंभवात् , आश्रीयमाणे चागमिकन्यायेन गुणसंभवाच्च गुर्वाज्ञया पुनर्भुञ्जानस्य न भङ्गः। वोसिरइ इति, अनेकासनमशनाद्याहारं च परिहरति ।
अथेकस्थानकम् । तत्र सप्ताकाराः। अत्र सूत्रम्-एकट्ठाणं पच्चक्खाइ इत्याद्येकाशनवत् । आकुश्चनप्रसारणाकारवर्जमेकमद्वितीयं स्थानमङ्गविन्यासरूपं यत्र तदेकस्थानं प्रत्याख्यानम् । यद् यथा भोजनकालेऽङ्गोपाङ्गं स्थापितम् , तस्मिंस्तथास्थित एवं भोक्तव्यम् । मुखस्य पाणेश्वाशक्यपरिहारत्वाञ्चलनं न प्रतिषिद्धम् । आकुञ्चनप्रसारणाकारवर्जनं चैकाशनतो भेदज्ञापनार्थम् , अन्यथैकाशनमेव स्यात् ॥
(१) षट्कायदयावानपि संयतो दुर्लभं करोति बोधिम् । आहारे नीहारे जुगुप्सितपिण्डग्रहणे च ॥१॥
Jain Education int
For Personal & Private Use Only
I
Page #526
--------------------------------------------------------------------------
________________
योगशास्त्रम्
तृतीयः प्रकाशः।
॥२५४॥
अथाचामाम्लम् । तत्राष्टावाकाराः । अत्र सूत्रम्
आयंबिलं पच्चक्खाइ अन्नत्थणाभोगेणं सहसागारेणं लेवालेवेणं उक्खित्तविवेगेणं गिहत्थसंसडेणं पारिट्ठावणिआगारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरह ।
आचामोऽवस्रावणम् , अम्लं चतुर्थो रसः, एते च प्रायेण व्यञ्जने यत्र भोजने ओदन-कुल्माष-सक्तुप्रभृतिके तदाचामाम्लं समयभाषयोच्यते, तत प्रत्याख्याति-आचामाम्लप्रत्याख्यानं करोतीत्यर्थः । आद्यावन्त्याश्च त्रय आकाराः पूर्ववत् । लेवालेवेणं लेपो भोजनभाजनस्य विक्रत्या तीमनादिना वाऽऽचामाम्लप्रत्याख्यातुरकल्पनीयेन लिप्तता, अलेपो विकृत्यादिना लिप्तपूर्वस्य भोजनभाजनस्यैव हस्तादिना संलेखनतोऽलिप्तता, लेपश्चालेपश्च लेपालेपं तस्मादन्यत्र--भाजने विकृत्याद्यवयवसद्भावेऽपि न भङ्ग इत्यर्थः। उक्खित्तविवेगेणं शुष्कोदनादिभक्ते पतितपूर्वस्याचामाम्लप्रत्याख्यानवतामयोग्यस्याद्रवविकृत्यादिद्रव्यस्योत्क्षिप्तस्योध्धृतस्य विवेको निःशेषतया त्याग उत्क्षिप्तविवेक उत्क्षिप्तत्याग इत्यर्थः, तस्मादन्यत्र-भोक्तव्यद्रव्यस्याभोक्तव्यद्रव्यस्पर्शेनापि न भङ्ग इति भावः । यत्तूत्क्षेप्तुं न शक्यं तस्य भोजने भङ्गः। गिहत्थसंसद्वेणं गृहस्थस्य भक्तदायकस्य संबन्धि करोटिकादिभाजनं विकृत्यादिद्रव्येणोपलिप्तं गृहस्थसंसृष्टं ततोऽन्यत्र । विकृत्यादिसंसृष्टभाजनेन हि दीयमानभक्तमकल्प्यद्रव्यावयवमिश्रं भवति, न च तद् भुञ्जानस्यापि भङ्गः, यद्यकम्प्यद्रव्यरसो बहु न ज्ञायते । वोसिरइ इति-अनाचामाम्लं | चतुर्विधाहारं च व्युत्सृजति ।।
अथाभक्ताथेप्रत्याख्यानम् । तत्र पश्चाकाराः, यत् सूत्रम्
॥२५४॥
Jain Education
n
n
ai
For Personal & Private Use Only
Page #527
--------------------------------------------------------------------------
________________
सूरे उग्गए अब्भत्तहँ पञ्चक्खाइ चउन्विहं पि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरह।
सूर उद्गते सूर्योद्मादारभ्य, अनेन च भोजनानन्तरं प्रत्याख्यानस्य निषेध इत्याह भक्तेन भोजनेनार्थः प्रयोजनं भक्तार्थः, न भक्तार्थोऽभक्तार्थः, अथवा न विद्यते भक्तार्थोऽस्मिन् प्रत्याख्यानविशेषे सोऽभक्तार्थ उपवास | इत्यर्थः । आकाराः पूर्ववत् । नवरं पारिष्ठापनिकाकारे विशेषः । यदि त्रिविधाहारस्य प्रत्याख्याति तदा पारिष्ठापनिकं कल्पते, यदि तु चतुर्विधाहारस्य प्रत्याख्याति पानकं च नास्ति तदा न कल्पते, पानके तूद्वरिते कल्पते । वोसिरइ इति भक्तार्थमशनादि च व्युत्सृजति ॥
अथ पानकम् । तत्र पौरुषीपूर्वार्धकाशनकस्थानाचामाम्लाभक्तार्थप्रत्याख्यानेषत्सर्गतश्चतुर्विधाहारस्य प्रत्याख्यानं न्याय्यम् । यदि तु त्रिविधाहारस्य प्रत्याख्यानं करोति तदा पानकमाश्रित्य षडाकारा भवन्ति, यत् सूत्रम्
पाणस्स लेवाडेण वा अलेवाडेण वा अच्छेण वा बहुलेण वा ससित्थेण वा असित्थेण वा वोसिरइ।
इह 'अन्यत्र' इत्यस्यानुवृत्तेस्तृतीयायाः पञ्चम्यर्थत्वात् लेवाडेण वेति कृतलेपाद् वा पिच्छलत्वेन भाजनादीनामुपलेपकारकात खज्ररादिपानकादन्यत्र तद् वर्जयित्वेत्यर्थः । त्रिविधाहारं 'व्युत्सृजति' इति योगः। वाशब्दोऽलेपकृतपानकापेक्षयाऽवर्जनीयत्वाविशेषद्योतनार्थः, अलेपकारिणेव लेपकारिणाप्युपवासादेन भङ्ग इति भावः । एवमलेपकृताद् वाऽपिच्छलात ; अच्छाद् वा निर्मलादुष्णोदकादेः बहुलाद् वा गड्डुलात् तिलतन्दुलधावनादेः, ससिक्थाद् वा भक्तपुलाकोपेतादवस्रावणादेः, असिस्थाद् वा सिक्थवर्जितात् पानकाहारात् ।।
Jain Education inte
For Personal & Private Use Only
Page #528
--------------------------------------------------------------------------
________________
तृतीयः
प्रकाशः।
योग
__ अथ चरमम् । चरमोऽन्तिमो भागः। स च दिवसस्य भवस्य चेति द्विधा । तद्विषयं प्रत्याख्यानमपि चरमम् ।
- इह च भवचरमं यावज्जीवम् । तत्र द्विविधेऽपि चत्वार आकारा भवन्ति यत्सूत्रम्शास्त्रम्
दिवसचरिमं भवचरिमं वा पञ्चक्खाइ चउन्विहं पि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं ॥२५५॥ सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ।
* नन दिवसचरिमप्रत्याख्यानं निष्फलम् , एकाशनादिप्रत्याख्यानेनैव गतार्थत्वात् । नैवम, एकाशनादिकं
ह्यष्टाद्याकारमेतच चतुराकारम्, अत आकाराणां संक्षेपकरणात् सफलमेव । अत एवैकाशनादिकं दैवसिकमेव भवति, रात्रिभोजनस्य त्रिविधं त्रिविधन यावजीवं प्रत्याख्यातत्वात् । गृहस्थापेक्षया पुनरिदमादित्योद्गमान्तम् , दिवसस्याहोरात्रप-यतयापि दर्शनात् । तत्र येषां रात्रिभोजननियमोऽस्ति, तेषामपीदं सार्थकम् , अनुवादकत्वेन स्मारकत्वात् । भवचरमं तु द्वयाकारमपि भवति । यदा जानाति महत्तरसर्वसमाधिप्रत्ययरूपाभ्यामाकाराभ्यां न प्रयोजनम् , तदाऽनाभोगसहसाकाराकारौ भवतः, अगुल्यादेरनाभोगेन सहसाकारेण वा मुखे प्रक्षेपसंभवात् । अत एवेदमनाकारमप्युच्यते, आकारद्वयस्यापरिहार्यत्वात् ॥ ___ अथाभिग्रहप्रत्याख्यानम् । तच्च दण्डप्रमार्जनादिनियमरूपम् । तत्र चत्वार आकारा भवन्ति, यथा, अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तित्रागारेणं वोसिरइ । यदा त्वप्रावरणाभिग्रहं गृह्णाति तदा 'चोलपट्टगागारेणं' इति पञ्चम आकारो भवति, चोलपट्टकाकारादन्यत्रेत्यर्थः ।।
अथ विकृतिप्रत्याख्यानम् । तत्र नव, अष्टौ वाऽऽकाराः, यत् सूत्रम्
॥ २५५॥
Jain Education intera
For Personal & Private Use Only
.
Page #529
--------------------------------------------------------------------------
________________
विगईओ पच्चक्खाइ अन्नत्थणाभोगेणं सहसागारेणं लेवालेवेणं गिहत्थसंसद्वेणं उक्खित्तविवेगेणं पडुच्चमक्खिएणं पारिट्ठावणिआगारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरह ।
मनसो विकृतिहेतुत्वाद् विकृतयः, ताश्च दश, यदाहुः,छीरं दहि नवणीअं घयं तहा तेल्नमेव गुड मजं । महु मंसं चेव तहा ओगाहिमगं च विगईओ ॥१॥
तत्र पञ्च क्षीराणि, गोमहिष्यजोष्ट्रयेलकासंबन्धभेदात् । दधि-नवनीत-घृतानि तु चतुर्भेदानि, उष्ट्रीणां तद-|| भावात् । तैलानि चत्वारि, तिलातसीलट्टासर्षपसंबन्धभेदात्। शेषतैलानि तु न विकृतयः, लेपकृतानि तु भवन्ति । गुड इक्षुरसक्वाथः । स द्विधा, पिण्डो द्रवश्च । मद्यं द्वेधा काष्ठपिष्टोद्भवत्वात् । मधु त्रेधा-माक्षिकम् कौत्तिकं भ्रामरं च । मांसं त्रिविधम् , जल-स्थल-खेचरजन्तूद्भवत्वात् ; अथवा मांसं त्रिविधम् , चर्म-रुधिर-मांसभेदात् । अवगाहेन स्नेहबोलनेन निवृत्तमवगाहिमं पक्वान्नम् “ भावादिमः" (सिद्धहेम-६-४२११ ) इतीमः, यत् तापिकायां घृतादिपूर्णायां चलाचलं खाद्यकादि पच्यते, तस्यामेव तापिकायां तेनैव घृतेन द्वितीयं तृतीयं च खाद्यकादि विकृतिः, ततः परं पक्कान्नानि योगवाहिनां निर्विकृतिप्रत्याख्यानेऽपि कल्पन्ते । अथैकेनैव पूपकेन तापिका पूर्यते तदा द्वितीयं पकानं निर्विकृतिप्रत्याख्यानेऽपि कल्पते, लेपकृतं तु भवति । इत्येषा वृद्धसामाचारी । एतासु च दशसु विकृतिषु मद्यमांसमधुनवनीतलक्षणाश्चतस्रो विकृतयोऽभक्ष्याः। शेषास्तु षद् भक्ष्याः । तत्र भक्ष्यासु विकतिष्वेकादिविकृतिप्रत्याख्यानं षड्विकृतिप्रत्याख्यानं च निर्विकृतिकसंज्ञं विकृतिप्रत्याख्यानेन संगृहीतम् । आकाराः
(१) क्षीरं दधि नवनीतं घृतं तथा तैलमेव गुडो मद्यम् । मधु मांसं चैव तथाऽवगाहिमकं च विकृतयः ॥१॥
Jain Education Intel
For Personal & Private Use Only
wwwanyong
Page #530
--------------------------------------------------------------------------
________________
योगशास्त्रम्
।। २५६ ।।
Jain Education Inte
पूर्ववत् । नवरम्, गिहत्थसंसद्वेणं इति गृहस्थेन स्वप्रयोजनाय दुग्धसंसृष्ट श्रोदनो दुग्धं च तमतिक्रम्योत्कर्षतश्चस्वार्यङ्गुलानि यावदुपरि वर्तते तदा तद् दुग्धमत्रिकृतिः, पञ्चमाङ्गुलारम्भे विकृतिरेव । अनेन न्यायेनान्यासामपि विकृतीनां गृहस्थासंसृष्टत्वमागमादवसेयम् । उक्तित्तविवेगेणं इति, उत्क्षिप्तविवेक आचामाम्लवदुद्धर्तुं शक्यासु विकृतिषु द्रष्टव्यः, द्रवविकृतिषु नास्ति । पडुच्च मक्खिणं इति, – प्रतीत्य सर्वथा रूक्षमण्डकादिकमपेक्ष्य प्रक्षितं स्नेहितमीषत्सौकुमार्योत्पादनाय प्रक्षणकृतविशिष्टस्वादुतायाश्चाभावाद् ग्रक्षितमिव यद् वर्तते तत् प्रतीत्य म्रक्षितं क्षिताभासमित्यर्थः । इह चायं विधिः – यद्यङ्गुल्या तैलादि गृहीत्वा मण्डकादि प्रक्षितं तदा कल्पते निर्विकृतिकस्य, धारया तु न कल्पते । व्युत्सृजति विकृतिं त्यजतीत्यर्थः । इह च यासु विकृतिपूत्क्षिप्तविवेकः संभवति तासुनवाकाराः, अन्यासु तु द्रवरूपास्वष्टौ ।
एतदर्थसंवादिन्यो गाथाः -
दो चेव नमुकारे आगारा छच्च पोरिसीए उ । सत्तेव य पुरिमड्ढे एक्कास गम्मि अहेव ।। १ ।। सत्तेगट्ठाणस्स उ अट्ठेव य अंबिलम्मि आगारा । पंचैव श्रभत्तट्ठे छप्पा चरिम चत्तारि ॥ २ ॥ पंच चउरो अभिग्गहे निच्चिए अह नव य आगारा । अप्पाउरणे पंच उ हवंति सेसेसु चत्तारि ॥ ३ ॥ (१) द्वावेव नमस्कारे आकारौ पट् च पौरुप्यां तु । सप्तैव च पूर्वार्धे एकाशनेऽष्टैव ॥ १ ॥
सप्तकस्थानस्य त्वष्टैव चाचामाम्ले आकाराः । पञ्चैवाभक्तार्थे षट् पानके चरमे चत्वारः || २ ||
पञ्च चतुरोऽभिग्रहे निर्विकृतिकेऽष्ट नव चाकाराः । अप्रावरणे पञ्च तु भवन्ति शेषेषु चत्वारः || ३ ||
For Personal & Private Use Only
प्र
•K• →→←→O*-*O***@****
तृतीयः
प्रकाशः ।
॥ २५६ ॥
Page #531
--------------------------------------------------------------------------
________________
ननु निर्विकृतिक एवाकाराभिधानाद् विकृतिपरिमाणप्रत्याख्याने कुत आकारा अवगम्यन्ते ?। उच्यतेनिर्विकृतिकग्रहणे विकृतिपरिमाणस्यापि संग्रहो भवति, त एव चाकारा भवन्ति यथा-एकासनस्य पौरुष्याः पूवर्धिस्यैव च सूत्रेऽभिधानेऽपि व्यासनकस्य सार्धपौरुष्या अपार्धस्य च प्रत्याख्यानमदुष्टम् , अप्रमादवृद्धः संभवात् । आकारा अप्येकासनादिसंबन्धिन एवान्येष्वपि न्याय्याः, आसनादिशब्दसाम्यात् चतुर्विधाहारपाठेऽपि द्विविधत्रिविधाहारप्रत्याख्यानवत् । ननु व्यासनादीनि अभिग्रहप्रत्याख्यानानि ततस्तेषु चत्वार एवाकाराः प्राप्नुवन्ति । न, । एकासनादिभिस्तुल्ययोगक्षेमत्वात् । अन्ये तु मन्यन्ते,-एवं हि प्रत्याख्याने संख्या विशीर्येत । तत एकासनादीन्येव प्रत्याख्यानानि, तदशक्तस्तु यावत्सहिष्णुस्तावत् पौरुष्यादिकं प्रत्याख्याति, तदुपरि ग्रन्थिसहितादिकमिति । प्रत्याख्यानं च स्पर्शनादिगुणोपेतं सुप्रत्याख्यानं भवति
यदाहु:फासिनं पालियं चेव सोहिअं तीरिअं तहा । किट्टियमाराहियं चेव एरिसयम्मि पयइअव्वं ॥ १॥
तत्र स्पृष्टं प्रत्याख्यानकाले विधिना प्राप्तम् । १। पालितं पुनःपुनरुपयोगप्रतिजागरणेन रक्षितम् ।२। शोभितं | गुर्वोदिप्रदत्तशेषभोजनासेवनेन ।३। तीरितं पूर्णेऽपि कालावधौ किश्चित्कालावस्थानेन ।४। कीर्तितं भोजनवेलायाममुकं मया प्रत्याख्यातमधुना पूर्ण भोक्ष्य इत्युच्चारणेन ।। आराधितमेभिः प्रकारैः संपूर्णैर्निष्ठा नीतमिति ।६।
प्रत्याख्यानस्य चानन्तर्येण पारम्पर्येण च फलमिदम् - (१) स्पष्टं पालितं चापि शोभितं तीरितं तथा । कीर्तितमाराधितं चैवेदृशे प्रयतितव्यम् ॥ १ ॥
in Education inter
For Personal & Private Use Only
T
Page #532
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥ २५७ ॥
Jain Education Int
1-1-1-1+0.K+K
पैच्चक्खाणम्मि कए आसवदाराई हुंति पिहि आई । श्रसवदारपिहाणे तण्हावुच्छेअ होइ ।। १ ।। तण्हावुच्छेएणय उलोवसमो भवे मणुस्साणं । अउलोवसमेण पुणो पच्चक्खाणं हवइ सुद्धं || २ || तत्तो रित्तधम्म कम्मविवेगो अपुव्वकरणं च । तत्तो केवलणाणं सासयसोक्खो तो मोक्खो ॥ ३ ॥ न चावश्यकर्तव्यमावश्यकं चैत्यवन्दनाद्येव श्रावकस्य, न षड्विधमिति वक्तुं युक्तम्, सेमणेण सावरण् य अवस्सकायन्वयं हवइ जम्हा । तो अहोनिसिस्स य तम्हा आवस्सयं नाम ॥ १ ॥ इत्यागमे श्रावकं प्रत्यावश्यकस्योक्तत्वात् । न चात्र चैत्यवन्दनाद्येवावश्यकं वक्तुमुचितम् तो अहो निसिस्स य' इति कालद्वयाभिधानात् चैत्यवन्दनस्य च त्रैकालिकत्वेनोक्तत्वात् । अनुयोगद्वारेष्वपि जैलं समणो वा समणी वा साव वा साविया वा तच्चित्ते तम्मणे तल्लेसे तदट्ठोवउत्ते तदप्पियकरणे तब्भावणाभाविए उभोकालं आवस्सयं करेइ, से तं लोउत्तरियं भावावस्सयं इति वचनात् श्रावकस्याप्यावश्यकमुक्तमेव । ततः कृतषड्विधाव(१) प्रत्याख्याने कृते आस्रवद्वाराणि भवन्ति पिहितानि । आस्रवद्वारपिधाने तृष्णाव्युच्छेदनं भवति ॥ १ ॥
तृष्णाव्युच्छेदेन चातुलोपशमो भवेद्र मनुष्याणां । अतुलोपशमेन पुनः प्रत्याख्यानं भवति शुद्धम् ॥ २ ॥ ततश्चारित्रधर्मः कर्मविपाकोऽपूर्वकरणं च । ततः केवलज्ञानं शाश्वतसौख्यस्ततो मोक्षः ॥ ३ ॥ (२) श्रमणेन श्रावकेण चावश्यकर्तव्यकं भवति यस्मात् । अन्तेऽह्नो निशश्च तस्मादावश्यकं नाम ।। १ ।। (३) यत् श्रमणो वा श्रमणी वा श्रावको वा श्राविका वा तच्चित्तस्तन्मनास्तछेश्यस्तदर्थोपयुक्तस्तदर्पितकरणस्तद्भावनाभावित उभयकालमावश्यकं कुर्यात्, तोकोत्तरं भावावश्यकम् ।
For Personal & Private Use Only
0-100 *
←→*@*--**-*-**→
तृतीयः प्रकाशः ।
।। २५७ ॥
Page #533
--------------------------------------------------------------------------
________________
Jain Education Interne
06.
**
श्यककर्मा स्वाध्यायम् अणुव्रतविध्यादेः पञ्चनमस्कारस्य वा परिवर्तनं कुर्यात् अथवा, स्वाध्यायं पञ्चविधं वाचना- प्रश्न - परिवर्तनानुप्रेक्षा- धर्मकथारूपं कुर्यात् । यस्तु साधूपाश्रयमागन्तुमशक्तो राजादिर्वा महर्द्धिको वा बह्वपायः स स्वगृह एवावश्यकं स्वाध्यायं च करोति । उत्तममित्युत्तमनिर्जराहेतुम्, यदाह
तथा-
सहमति सम्भितरवाहिरे कुसलदिट्ठे । नवि अस्थि नवि होही सज्झायसमं तवोकम्मं ॥ १ ॥
सेज्झाएण पसत्थं झाणं जाणइ अ सव्वपरमत्थं । सज्झाए वट्टंतो खणे खणे जाइ वेरग्गं ॥ १ ॥ इत्यादि ॥ १३० ॥
न्याय्ये काले ततो देवगुरुस्मृतिपवित्रितः । निद्रामल्पामुपासीत प्रायेणाब्रह्मवर्जकः ॥१३१॥ न्याय्यो न्यायादनपेतः कालः, स च रात्रेः प्रथमयामोऽर्धरात्रं वा शरीरसात्म्येन, तत इति स्वाध्यायकरणानन्तरं, निद्रामल्पामुपासीतेति क्रिया । कथम्भूतः सन् ! देवगुरुस्मृतिपवित्रितः - देवा श्रद्भट्टारकाः, गुरवो धर्माचार्याः, तेषां स्मृतिर्मनस्यारोपणं तया पवित्रितो निर्मलीभूतात्मा । उपलक्षणं चैतच्चतुःशरणगमन दुष्कृत गर्दासुकृतानुमोदना - पञ्चनमस्कारस्मरणप्रभृतीनाम् । न ह्येतत्स्मरणमन्तरेण पवित्रता भवति । तत्र देवस्मृतिः- “ नैमो (१) द्वादशविधेऽपि तपसि साभ्यन्तरबाह्ये कुशलदिष्टे । नाप्यस्ति नापि च भविष्यति स्वाध्यायसमं तपःकर्म ॥ १ ॥ (२) स्वाध्यायेन प्रशस्तं ध्यानं जानाति च सर्व्वपरमार्थम् । स्वाध्याये वर्त्तमानः क्षणे क्षणे याति वैराग्यम् ॥ १ ॥ (३) नमो वीतरागेभ्यः सर्व्वज्ञेभ्यस्त्रैलोक्यपूजितेभ्यो यथास्थितवस्तुवादिभ्यः ।
For Personal & Private Use Only
→→→****@**>*/0/< **O**-**@****K
Page #534
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
॥ २५८ ॥
Jain Education Int
8-19 k
वीयरायाणं सव्वपूणं तिलोकपूइश्राणं जहट्टिश्रवत्थुवाईणं" इत्यादि । गुरुस्मृतिश्च - " धन्यास्ते ग्राम-नगर- जनपदादो येषु मदीया धर्माचार्या विहरन्ति " । निद्रामल्पामिति । निद्रामितिविशेष्यम्, अल्पामिति विशेषणम् । विशेषणस्य चात्र विधिः, “ सविशेषणे हि विधि - निषेधौ विशेषणमुपसंक्रामतः " इति न्यायात् । निद्रामिति च विशेष्यमिति न तत्र विधिः, दर्शनावरणीयकर्मोदयेन निद्रायाः स्वतः सिद्धत्वात्, 'अप्राप्ते हि शास्त्रमर्थवत्' इत्युक्तप्रायम् । अब्रह्म मैथुनं तद् वर्जयति अब्रह्मवर्जकः, प्रायेणेति बाहुल्येन, गृहस्थत्वादस्य ॥ १३१ ॥ पुन -- निद्राच्छेदे योषिदङ्गतत्त्वं परिचिन्तयेत् । स्थूलभद्रादिसाधूनां तन्निवृत्तिं परामृशन् ॥१३२॥ परिणतायां रात्रौ निद्राया छेदे सति योषिदङ्गानां स्त्रीशरीराणां सतत्त्वं स्वरूपं परितश्चिन्तयेत् । किं कुर्वन् ? स्थूलभद्रादीनां साधूनां तन्निवृत्तिं योषिदङ्गनिवृत्तिं परामृशन् अनुस्मरन् । स्थूलभद्रचरितं संप्रादाय गम्यम् । स चायम् ;
अस्ति सौधप्रभाजालधूपधूमैर्निरन्तरैः । जितगङ्गार्कजासङ्गं पाटलीपुत्रपत्तनम् ॥ १ ॥ तत्र त्रिखण्ड पृथिवीपतिः पतिरिव श्रियः । समुत्खातद्विषत्कन्दो नन्दो नामाभवद् नृपः ॥ २ ॥ विसंकटः श्रियां वासोऽसंकटः शकटो धियाम् । शकटाल इति तस्य बभूवामात्यपुङ्गवः | ३ || तस्याभूज्ज्येष्ठतनयो विनयादिगुणास्पदम् । अस्थूलधीः स्थूलभद्रो भद्राकारनिशाकरः || ४ || भक्तिनिष्ठः कनिष्ठोऽस्य श्रीयकोऽजनि नन्दनः । नन्दराहृदयामन्दानन्दगोशीर्षचन्दनः || ५ || बभूव तत्र कोशेति वेश्या रूपश्रियोर्वशी । वशीकृतजगच्चे ताचेतोभूजीवनौषधिः ॥ ६॥ भुञ्जानो विविधान् भोगान् स्थूलभद्रो दिवानिशम् । उवासावसथे तस्या द्वादशाब्दानि तन्मनाः ॥ ७ ॥
For Personal & Private Use Only
* *---*+*00.0
90-60 k
तृतीयः
प्रकाशः ।
।।। २५८ ।।
Page #535
--------------------------------------------------------------------------
________________
श्रीयकस्त्वङ्गरचोऽभूद् भूरिविश्रम्भभाजनम् । द्वितीयमिव हृदयं नन्दस्य पृथिवीपतेः ॥८॥ तत्र चासीद् वररुचिर्नाम द्विजवराग्रणीः । कवीनां वादिनां वैयाकरणानां शिरोमणिः ॥ ६ ॥ स्वयंकृतैर्नवनवैरष्टोत्तरशतेन सः । वृत्तः प्रवृत्तोऽनुदिनं नृपावलगने सुधीः ॥ १०॥ मिथ्यादृगिति तं मन्त्री प्रशशंस न जातुचित् । तुष्टोऽप्यसै तुष्टिदानं न ददौ नृपतिस्ततः ॥ ११ ॥ ज्ञात्वा वररुचिस्तत्र दानाप्रापणकारणम् । आराधयितुमारेभे गृहिणीं तस्य मन्त्रिणः ॥ १२ ॥ संतुष्टया तयाऽन्येद्युः कार्य पृष्टोऽब्रवीदिदम् । राज्ञः पुरस्ताद् मत्काव्यं तव भर्ता प्रशंसतु ॥ १३ ॥ तया तदुपरोधेन तद्विज्ञप्तोऽवदत् पतिः । मिथ्यादृष्टेरमुष्याई प्रशंसामि कथं वचः ? ॥१४॥ तयोक्तः साग्रहं मन्त्री तत् तथा प्रत्यपद्यत । अन्धस्त्रीबालमृर्खाणामाग्रहो बलवान् र खलु ॥ १५ ॥ राज्ञः पुरस्तात् पठतः काव्यं वररुचेस्ततः । अहो ! सुभाषितमिति वर्णयामास मन्त्रिराट् ॥१६॥ दीनारशतमष्टाग्रं ततोऽस्मै नृपतिर्ददौ । राजमान्यस्य वाचापि जीव्यते ह्यनुकूलया ॥ १७॥ दीनाराष्टोत्तरशते दीयमाने दिने दिने । किमेतद् दीयत इति भूपं मन्त्री व्यजिज्ञपत् ॥ १८ ॥ अथोचे नृपतिर्मन्त्रिन् दद्योऽस्मै त्वत्प्रशंसया । वयं यदि स्वयं दद्यो दद्मः किं न पुरा ततः ? ॥ १६ ॥ मन्त्र्यप्यूचे मया देव ! प्रशंसा नास्य निर्ममे । काव्यानि परकीयानि प्रशशंस तदा त्वहम् ॥ २० ॥ पुरो नः परकाव्यानि स्वकीकृत्य पठत्ययम् । किमेतत् सत्यभावेनेत्यभाषत नृपस्ततः ॥ २१ ॥ एतत्पठितकाव्यानि पठन्ति बालिका अपि । दर्शयिष्यामि वः प्रातरित्यूचे सचिवोऽपि च ॥ २२ ॥ यक्षा यक्षदत्ता भूता भूतदत्ता तथैणिका । वेणा रेणेति सप्तासन् प्राज्ञाः पुत्र्योऽस्य मन्त्रिणः ॥ २३ ॥ जग्राह ज्यायसी तासां सकृदुक्तं तथेतराः । द्विव्यादिवारक्रमतो गृहन्ति स्म यथा
For Personal & Private Use Only
Page #536
--------------------------------------------------------------------------
________________
योगशास्रम्
॥ २५६ ॥
Jain Education Inter
क्रमम् ॥ २४ ॥ राज्ञः समीपं सचिवो द्वितीयेऽह्नि निनाय ताः । तिरस्करिण्यन्तरिताः समुपावेशयच्च सः ॥ २५ ॥ अष्टोत्तरशतं श्लोकान् स्वयं निर्माय नैत्यिकान् । ऊचे वररुचिस्ता अप्यनुज्येष्ठमनूचिरे ॥ २६ ॥ ततो वररुचे रुष्ट राजा दानं न्यवारयत् । उपायाः सचिवानां हि निग्रहानुग्रहक्षमाः ॥ २७ ॥
*******@*******OK
For Personal & Private Use Only
तृतीयः
प्रकाशः ।
ततो वररुचिर्गत्वा यन्त्रं गङ्गाजले न्यधात् । तन्मध्ये वस्त्रबद्धं च दीनारशतमष्टयुक् ॥ २८ ॥ प्रातर्गङ्गामसौ स्तुत्वा यन्त्रमाक्रमदंह्रिणा । दीनारास्ते च तत्पाणावुत्पत्य न्यपतंस्ततः ॥ २६ ॥ स एवं विदधे नित्यं जनस्तेन विसिष्मिये । तच्च श्रुत्वा जनश्रुत्या राजाऽशंसञ्च मन्त्रिणे ।। ३० ।। इदं यद्यस्ति सत्यं तत् प्रातर्वीक्षामहे स्वयम् । इत्युक्तो मन्त्रिणा राजा तत्तथा प्रत्यपद्यत ॥ ३१ ॥ दवा शिक्षां चरः सायं प्रेषितस्तत्र मन्त्रिणा । शरस्तम्बनिलीनोऽस्थात् पक्षीवानुपलक्षितः || ३२ || तदा वररुचिर्गत्वा छन्नं मन्दाकिनीजले । दीनाराष्टोत्तरशतग्रन्थिं न्यस्य गृहे || ३३ || जीवितमिवादाय दीनारग्रन्थिमेष तु । चरः समर्पयामास प्रच्छन्नं वरमन्त्रिणे ॥ ३४ ॥ थ गुप्ता दीनारग्रन्थिर्मन्त्री निशात्यये । ययौ राज्ञा समं गङ्गामागाद् वररुचिस्तदा ॥ ३५ ॥ द्रष्टुकामं नृपं दृष्ट्वोत्कृष्टमानी सविस्तरम् | स्तोतुं प्रववृते गङ्गां मूढो वररुचिस्ततः ॥ ३६ ॥ स्तुत्यन्तेऽचालयद् यन्त्रं यदा वररुचिः पदा । दीनारग्रन्थिरुत्पत्य नापतत् पाणि कोटरे || ३७ || द्रव्यं सोऽन्वेषयामास पाणिना तञ्जले ततः । तस्थावपश्यंस्तूष्णीको धूर्तो घृष्टो हि मौनभाक् ॥ ३८ ॥ इत्यूचे च महामात्यः किं ते दत्ते न जाह्नवी । न्यासीकृतमपि द्रव्यमन्वेषयसि यद् मुहुः ? ॥ ३६ ॥ उपलक्ष्य गृहाणेदं निजद्रव्यमिति ब्रुवन् । सोऽर्पयामास दीनारग्रन्थि वररुचेः करे || ४० ॥ दीनारग्रन्थिना तेनोत्सर्पिन्थिनेव सः । दशामासादयामास मरणादपि दुस्सहाम् ॥ ४१ ॥ ॥ २५६ ॥
Page #537
--------------------------------------------------------------------------
________________
विप्रतारयितुं लोकं सायमत्र क्षिपत्यसौ । द्रव्यं प्रातः पुनर्गृहातीत्यूचे सचिवो नृपम् ॥ ४२ ॥ साधु ज्ञातमिदं छ त्यालपन् मन्त्रिपुङ्गवम् । विस्मयस्मेरनयनः खवेश्मागाद् महीपतिः ।। ४३ ।। ___अमर्पणो वररुचिः प्रतिकारं विचिन्तयन् । गृहस्वरूपं सचिवस्यापृच्छच्चेटिकादिकम् ॥ ४४॥ तस्याथ कथयामास काचित् सचिवचेव्यदः । भृपतिः श्रीयकोद्वाहे भोक्ष्यते मन्त्रिवेश्मनि ॥ ४५ ॥ सज्यते चात्र शस्त्रादि दातुं नन्दाय मन्त्रिणा । शस्त्रप्रियाणां राज्ञां हि शस्त्रमाद्यमुपायनम् ॥ ४६ ॥ समासाद्य च्छलज्ञस्तच्छलं वररुचिस्ततः । चणकादि प्रदायेति डिम्भरूपाण्यपाठयत् ॥ ४७ ॥ न वेत्ति राजा यदसौ शकटालः करिष्यति । व्यापाद्य नन्दं तद्राज्ये श्रीयकं स्थापयिष्यति ।। ४८ ॥ स्थाने स्थाने च पठतो डिम्भानेवं दिने दिने । जनश्रुत्या तदोषीदिति चाचिन्तयद् नृपः॥४६॥ बालका यच्च भाषन्ते भाषन्ते यच्च योषितः। औत्पातिकी च या भाषा सा भवत्यन्यथा न हि ॥५०॥ तत्प्रत्ययार्थ राज्ञाथ प्रेषितो मन्त्रिवेश्मनि । पुरुषः सर्वमागत्य यथादृष्टं व्यजिज्ञपत्॥५१॥ ततश्च सेवावसरे मन्त्रिणः समुपेयुषः। प्रणामं कुर्वतो राजा कोपात् तस्थौ पराङ्मुखः ॥५२ ।। तद्भावज्ञोऽथ वेश्मैत्यामात्यः श्रीयकमब्रवीत् । राज्ञोऽस्मि ज्ञापितः केनाप्यभक्तो विद्विषन्निव ॥ ५३॥ असावकस्मादस्माकं कुलक्षय उपस्थितः । रक्ष्यते वत्स ! कुरुषे यद्यादेशमिमं मम ॥५४॥ नमयामि यदा राज्ञे शिरश्छिन्द्यास्तदासिना। अभक्तः स्वामिनो वध्यः पितापीति वदेस्ततः ॥५५॥ जरसापि यियासौ मय्येवं याते परासुताम् । त्वं मत्कुलगृहस्तम्भो नन्दिष्यसि चिरं ततः ॥५६॥ श्रीयकोऽपि रुदन्नेवमवदद् गद्गदखरम् । तात! घोरमिदं कर्म श्वपचोऽपि करोति किम् ? ॥५७॥अमात्योऽप्यब्रवीदेवमेवं कुर्वन् विचारणाम् । मनोरथान् पूरयसे वैरिणामेव केवलम् ॥५॥
in Education in
IN
For Personal & Private Use Only
Page #538
--------------------------------------------------------------------------
________________
योग
शाखम्
२६
॥
राजा यम इवोद्दण्डः सकुटुम्ब न हन्ति माम् । यावत् तावन्ममैकस्य चयाद् रक्ष कुटुम्बकम् ॥ ५६ ।। मुखे विषं तृतीयः | तालपुटं न्यस्य नस्यामि भूपतिम् । शिरः परासो, छिन्द्याः पितृहत्या न ते ततः ॥ ६० ॥ पित्रैवं बोधितस्तत् | प्रकाशः। स प्रतिपदे चकार च । शुभोदाय धीमन्तः कुर्वन्त्यापातदारुणम् ॥६१॥ भवता किमिदं वत्स ? विदधे कर्म दुष्करम् । ससंभ्रममिति प्रोक्तो नृपेण श्रीयकोऽवदत् ॥ ६२ ॥ यदैव स्वामिना ज्ञातो द्रोह्ययं निहतस्तदा ।। भर्तृचित्तानुसारेण भृत्यानां हि प्रवर्तनम् ॥ ६३ ॥ भृत्यानां युज्यते दोषे स्वयं ज्ञाते विचारणा । स्वामिज्ञाते है प्रतीकारो युज्यते न विचारणा ॥ ६४ ॥
कृतौ देहिकं नन्दस्ततः श्रीयकमब्रवीत । सर्वव्यापारसहिता मुद्रेयं गृह्यतामिति ॥ ६५ ॥ अथ विज्ञपयामास प्रणम्य श्रीयको नृपम् । स्थूलभद्राभिधानोऽस्ति पिततुल्यो ममाग्रजः ॥ ६६ ।। पितृप्रसादाद् निबांध कोशायास्तु निकेतने। भोगानुपभुञ्जानस्य तस्याब्दा द्वादशागमन् ॥ ६७ ।। आहूयाथ स्थूलभद्रस्तमथे भूभुजोदितः । पर्यालोच्यामुमादेशं करिष्यामीत्यभाषत ।। ६८ ॥ अद्यैवालोचयेत्युक्तः स्थूलभद्रो महीभुजा । अशोकवनिकां गत्वा विममर्शेति चेतसा ॥६६॥ शयनं भोजनं स्नानं यच्चान्यत सुखसाधनम् । कालेऽपि नानुभूयन्ते रोरिव नियोगिभिः ॥७०॥ नियोगिनां स्वान्यराष्ट्रचिन्ताव्यग्रे च चेतसि । प्रेयसीनां नावकाशः पूर्णकुम्भेऽम्भसामिव ॥७१।। त्यक्त्वा सर्वमपि स्वार्थ राज्ञोऽर्थ कुर्वतामपि । उपद्रवन्ति पिशुना उद्घद्धानामिव द्विकाः ।।७२॥ यथा स्वदेहद्रविणव्ययेनापि प्रयत्यते । राजार्थे तद्वदात्मार्थे यत्यते किं न धीमता? ।। ७३ ॥ विमृश्यैवं व्यधात् केशोत्साटनं पञ्चमुष्टि सः । रत्नकम्बलदशाभी रजोहरणमप्यथ ।। ७४ ।। ततश्च स महासत्त्वो गत्वा सदसि पार्थिवम् । आलोचितमिदं २६०॥
in Education inte
har
For Personal & Private Use Only
al
Page #539
--------------------------------------------------------------------------
________________
*:
*-
धर्मलाभः स्तादित्यवोचत ।। ७५ ॥ ततः स राजसदनाद् गुहाया इव केसरी । निःससार महासारः संसारकरिरो| षणः ।। ७६ ।। किमेष कपटं कृत्वा यायाद् वेश्यागृहं पुनः । इत्यप्रत्ययतः क्षमापो गवाक्षेण निरक्षत ॥ ७७ ।।
प्रदेशे शबदुर्गन्धेऽप्यविकूणितनासिकम् । यान्तं दृष्ट्वा स्थूलभद्रं नरेन्द्रोऽधूनयच्छिरः ॥ ७८ ।। भगवान् वीतरा- गोऽसावस्मिन् धिग् मे कुचिन्तितम् । इत्यात्मानं निनिन्दोच्चैनन्दस्तमभिनन्दयन् ।। ७६ ॥ स्थूलभद्रोऽपि गत्वा श्रीसंभूतिविजयान्तिके । दीक्षां सामायिकोच्चारपूर्विका प्रत्यपद्यत ॥ ८॥
गृहीत्वा श्रीयकं दोष्णि ततो नन्दः सगौरवम् । मुद्राधिकारे निःशेषव्यापारसहिते न्यधात् ॥ ८१ ।। चकार श्रीयको राज्यचिन्तामवहितः सदा । साक्षादिव शकटालः प्रकृष्टनयपाटवात् ॥८२ ॥ स नित्यमपि कोशाया विनीतः सदने ययौ । स्नेहाद् भ्रातस्तत्प्रियापि कुलीनैहु मन्यते ॥८३ ।। स्थूलभद्रवियोगार्ता श्रीयकं प्रेक्ष्य साऽरुदत् । इष्टे दृष्टे हि दुःखार्ता न दःखं धर्तमीशते || ८४॥ ततस्तां श्रीयकोऽवोचदार्ये! कि कुमहे वयम् । असो वररुचिः पापोऽघातयजनकं हि नः ॥ ८५ ॥ अकाण्डोत्थितवज्राग्निप्रदीपनसहोदरम् । स्थूलभद्रवियोगं च भवत्या अकरोदयम् । ८६॥ त्वजाम्यामुपकोशायां यावद् रक्तोऽस्त्यसौ खलः । तावत् प्रतिक्रियां काश्चिद् विचिन्तय मनस्विनि ! ।८७॥ तदादिशोपकोशां यत् प्रतार्य कथमप्यसौ । विधीयतां वररुचिर्मद्यपानरुचिस्त्वया ॥ ८८ ।। प्रेयोवियोजनाद् वैराद् दाक्षिण्याद् देवरस्य च । तत् प्रतिज्ञाय सा सद्योऽप्युपकोशां समादिशत् ।।८।। कोशायाश्च निदेशेनोपकोशा तं तथा व्यधात । यथा पपौ सुरामेष खीवशैः क्रियते न किम् ? ।।६० ॥ सुरापानं वररुचिः स्वैरं भट्टोऽद्य कारितः। उपकोशेति कोशायै शशंसाथ निशात्यये ।।६१॥ अथ कोशामुखात् सर्वे शुश्राव
Jain Education.inta
For Personal & Private Use Only
Page #540
--------------------------------------------------------------------------
________________
योग- शास्त्रम्
तृतीय: प्रकाशः
॥२६१॥
श्रीयकोsपि तत । मेने च पितृवरस्य विहितं प्रतियातनम् ॥४२॥ शकटालमहामात्यात्ययात् प्रभृति सोऽप्यभूत । भट्टो वररुचिर्भूपसेवावसरतत्परः॥१३॥ स प्रत्यहं राजकुले सेवाकाले समापतन्। राज्ञा च राजलोकेश्च सगौरवमदृश्यत ६४ अन्यदा नन्दराड् मन्त्रिगुणस्मरणविह्वलः । सदसि श्रीयकामात्यं जगादैवं सगद्गदम् ॥१५॥ भक्तिमान शक्तिमान नित्यं शकटालो महामतिः। अभवद् मे महामात्यः शक्रस्येव बृहस्पतिः ॥९६।। एवमेव विपन्नोऽसौ दैवादद्य करोमि किम ? । मन्ये शून्यमिवास्थानमहं तेन विनात्मनः ॥ १७ ॥ उवाच श्रीयकोऽप्येवं किं देवेह विदध्महे । इदं वररुचिः सर्व पापं व्यधित मद्यपः॥१८॥ सत्यमेष सुरां भट्टः पिवतीति नृपोदिते । श्वोऽम दर्शयितास्मीति श्रीयकः प्रत्यवोचत ।। 88 ॥ श्रीयकस्तु द्वितीयेदि सर्वेषामीयुषां सदः । वपुंसा शिक्षितेनाय्यं पद्ममेकैकमार्पयत् ॥ १०० ॥ तत्कालं मदनफलरसभावनयाऽश्चितम् । दुरात्मनो वररुचेरर्पयामास पङ्कजम् ॥ १॥ कुतस्त्यमद्धतामोदमिदमित्यभिवर्णिनः । घातुं राजादयो निन्युनर्नासाग्रे स्वं स्वमम्बुजम् ॥ २॥ सोऽपि भट्टोऽनयद् घातं घ्राणाग्रे पङ्कजं निजम् । चन्द्रहाससुरां सद्यो रात्रिपीतां ततोऽवमत् ॥ ३॥ धिगमुं सीधुपं ब्रह्मबन्धुं बन्धवधोचितम् । सर्वैरित्याक्रुश्यमानो निर्ययौ सदसोऽथ सः । ४ ॥ ब्राह्मणा याचितास्तेन प्रायश्चित्तमचीकथन् । तापितत्रपुणः पानं सुरापाणाघघातकम् ॥५।। मृषया तापितमथ पपौ वररुचिस्त्रपु । प्राणैश्च मुमचे सद्यस्तत्प्रदाहभयादिव॥६॥ ___ स्थलभद्रोऽपि संभूतविजयाचार्यसभिधौ । प्रव्रज्यां पालयामास पारदृश्वा श्रुताम्बुधेः ॥ ७ ॥ वर्षाकालेऽन्य
ऽऽयाते संभृतविजयं गुरुम् । प्रणम्य मृद्ध मुनय इत्यगृहनभिग्रहान् ॥ ८॥ अहं सिंहगुहाद्वारे कृतोत्सर्ग उपोपितः । अवस्थास्ये चतुर्मासीमेकः प्रत्यशृणोदिदम् ॥६॥ दृग्विषाहिबिलद्वारे चतुर्मासीमुपोषितः । स्थास्या
२६
in Education inte
For Personal & Private Use Only
Page #541
--------------------------------------------------------------------------
________________
| मि कायोत्सर्गेण द्वितीयोऽभ्यग्रहीदिति ॥ १० ॥ उत्सर्गी कृपमण्डूकासने मासचतुष्टयम् । स्थास्याम्युपोषित इति | तृतीयः प्रत्यपद्यत ॥ ११ ॥ योग्यान् मत्वा गुरुः साधून यावत् तानन्वमन्यत । स्थूलभद्रः पुरोभूय नत्वैवं
ताबदब्रवीत् ॥ १२ ॥ कोशाभिधाया वेश्याया गृहे या चित्रशालिका । विचित्रकामशास्त्रोक्तकरणालेख्यशालिनी ॥१३॥ तत्राकृततपःकर्मविशेषः परसाशनः । स्थास्यामि चतुरो मासानिति मेऽभिग्रहः प्रभो ! ॥ १४ ॥ ज्ञात्वोपयोगाद् योग्यं तं गुरुस्तत्रान्वमन्यत । साधवश्च ययुः सर्वे खं स्वं स्थानं प्रतिश्रुतम् ॥ १५॥ स्थूलभद्रोऽपि संप्राप कोशावेश्यानिकेतनम् । अभ्युत्तस्थौ ततः कोशाऽप्याहिताञ्जलिरग्रतः ॥ १६ ॥ सुकुमारः प्रकृत्यासौ रम्भास्तम्भ इवोरुणा । व्रतभारेण विधुरोऽत्रागादिति विचिन्त्य सा ॥ १७ ।। उवाच स्वागतं स्वामिन ! समादिश करोमि किम् । वपर्धनं परिजनः सर्वमेतत् तवैव हि ॥ १८ ॥ युग्मम् ॥ चतुर्मासी वसत्यै मे चित्रशालेयमर्प्यताम् । इत्युचे स्थूलभद्रोऽपि सा तूचे गृह्यतामिति ॥ १६ ॥ तया च तस्यां प्रगुणीकृतायां भगवानपि । कामस्थानेऽविशद् धर्म इव स्वबलवत्तया ॥ २० ॥ अथ सा पसाहारभोजनानन्तरं मुनेः। विशेषकृतशृङ्गारा क्षोभाय समुपाययौ ॥ २१ ॥ सोपविष्टा पुरस्तस्योत्कृष्टा काचिदिवाप्सराः । चतुरं रचयामास हावभावादिकं मुहुः ॥ २२ ॥ करणानुभवक्रीडोद्दामानि सुरतानि च । तानि तानि प्राक्तनानि सारयामास | साऽसकृत् ॥ २३ ॥ यद् यत् क्षोभाय विदधे तया तत्र महामुनौ । तत् तद् मुधाऽभवद् यद् वजे नखविलेखनम् ॥२४॥ प्रतिवासरमप्येवं तत्क्षोभाय चकार सा । जगाम स तु न क्षोभं मनागपि महामनाः ॥ २५ ॥ तयोपसर्गकारिण्या प्रत्युतास्य महामुनेः । आदीप्यत ध्यानवह्निर्मेघवह्विरिवाम्भसा ॥ २६ ॥ त्वयि पूर्वमिवाज्ञानाद्
JanEducation in lal
Fer Personal & Private Use Only
Page #542
--------------------------------------------------------------------------
________________
योग
तृतीयः प्रकाशः।
शास्त्रम्
॥ २६२
रन्तुकामां धिगीश ! माम् । आत्मानमिति निन्दन्ती साऽपतत तस्य पादयोः ॥ २७॥ मुनेस्तस्येन्द्रियजयप्रकर्षण चमत्कृता । प्रपेदे श्रावकत्वं साऽग्रहींच्चैवमभिग्रहम ॥२८॥ तुष्टः कदापि कस्मैचिद् ददाति यदि मां नृपः। विना पुमांसमेकं तमन्यत्र नियमो मम ।। २६ ।। गते तु वर्षासमये ते त्रयोऽपि हि साधवः । निव्यूढाभिग्रहा एयुगुरुपादान्तिकं कमात् ।। ३० । आयान् सिंहगुहासाधुरहो ! दुष्करकारक! । तव स्वागतमित्यूचे किश्चिदुत्थाय सूरिणा ॥ ३१ ॥ सूरिणा भाषितो तद्वदायान्तावितरावपि । समे प्रतिज्ञानिवाहे समा हि स्वामिसत्क्रिया ॥३२॥ अथायान्तं स्थूलभद्रमुत्थाय गुरुरब्रवीत् । दुष्करदुष्करकार ! महात्मन् ! स्वागतं तव ॥३३॥ सासूयाः साधवस्तेऽथाचिन्तयन्नित्यहो! गुरोः । इदमामन्त्रणं मन्त्रिपुत्रताहेतुकं ननु ॥३०॥ यद्यसौ षड्रसाहारः कृतदुष्करदुष्करः । इदं वर्षान्तरे तर्हि प्रतिज्ञास्यामहे वयम् ॥३॥ एवं मनसि संस्थाप्य सामर्शास्ते महर्षयः । कुर्वाणाः संयम मासानष्टावगमयन् क्रमात् ॥३६॥ उत्तमर्ण इव प्राप्ते काले हृष्टः पुरो गुरोः । साधुः सिंहगुहावासी चकारेति प्रतिश्रवम् ।। ३७ ।। कोशावेश्यागृहे नित्यं षड्रसाहारभोजनः । भगवन् ! समवस्थास्ये चतुर्मासीमिमामहम् ॥ ३८ ॥ स्थूलभद्रेण मात्सर्यादेतदङ्गीकरोत्ययम् । विचार्येत्युपयोगेन ज्ञात्वा च गुरुरादिशत् ॥ ३९ ॥ वत्स! माभिग्रहं कार्षीरतिदुष्करदुष्करम् । स्थूलभद्रः क्षमः कर्तुमद्रिराज इव स्थिरः॥४०॥ न हि मे दुष्करोऽप्येष कथं दुष्करदुष्करः ? । तदवश्यं करिष्यामीत्युवाच स मुनिर्गुरुम् ।। ४१ ॥ गुरुरूचेऽमुना भावी भ्रंशः प्राक्तपसोऽपि ते । आरोपितोऽतिभारो हि गात्रभङ्गाय जायते ॥ १२॥ गुरोर्वचोऽवमन्याथ वीरंमन्यो मुनिः स तु । उन्मीनकेतनं प्राप कोशायास्तु निकेतनम् ॥ ४३ ॥ स्थूलभद्रस्पर्धयेहायाति मन्ये तपस्व्यसौ। भवे पतन् रक्षणीय इत्युत्थाय ननाम सा ॥ ४४ ॥ ब
For Personal & Private Use Only
॥२९॥
Jain Education intennel
TI
Page #543
--------------------------------------------------------------------------
________________
सत्यै याचितां तने मुनिना चित्रशालिकाम । कोशा समर्पयामास स मुनिस्तत्र चाविशत् ॥ ४५ ॥ तं भुक्तपदरसाहारं मध्याह्वेऽथ परीक्षितुम् । कोशापि तत्र लावण्यकोशभूता समाययौ॥ ४६॥ चुक्षोभ स मुनिर्मनु पङ्कजासीमुदीक्ष्य ताम् । स्त्री तादृग् भोजनं तादृग् विकाराय न किं भवेत् ॥ ४७ ।। स्मराा याचमानं तं कोशाप्येवमवोचत । वयं हि भगवन् ! वेश्या वश्याः स्मो धनदानतः ॥ ४८ ॥ स मुनिर्व्याजहाराथ प्रसीद मृगलोचने !। अस्मासु भवति द्रव्यं किं तैलं वालुकाखिव ? ॥ ४६ ॥ नेपालभूपोऽपूर्वस्मै साधये रत्नकम्बलम् । दत्ते तमानयेत्यूचे सा निर्वेदयितुं मुनिम् ॥ ५० ॥ ततश्चचाल नेपालं प्रत्यकालेऽपि बालवत् । पङ्किलायामिलायां स निजव्रत इव स्खलन् ॥ ५१ ।। तत्र गत्वा महीपालाद् रत्नकम्बलमाप्य च । स मुनिर्वलितो वर्त्मन्यासस्तत्र च दस्यवः ॥ ५२ ॥ | आयाति लक्षमित्याख्यद् दस्यूनां शकुनस्ततः । किमायातीत्यपृच्छच्च दस्युराड् द्रुस्थितं नरम् ॥ ५३ ॥ प्रागच्छन् भिक्षुरेकोऽस्ति न कश्चित् तादृशोऽपरः । इत्यशंसद् द्रुमारूढश्चौरसेनापतेः स तु ॥ ५४॥ साधुस्तत्राथ संप्राप्तस्तैर्विधृत्य निरूपितः । कमप्यर्थमपश्यद्भिर्मुमुचे च मलिम्लुचैः॥५५॥ एतल्लक्षं प्रयातीति व्याहरच्छकुनः पुनः । मुनि चौरपतिः प्रोचे सत्यं ब्रूहि किमस्ति ते ? ॥ ५६ ॥ वेश्याकृतेऽस्य वंशस्यान्तः क्षिप्तो रत्नकम्बलः। अस्तीत्युक्ते मुनिश्चोरराजेन मुमुचेऽथ सः ॥ ५७ ॥ स समागत्य कोशायै प्रददौ रत्नकम्बलम् । चिक्षेप सा गृहस्रोतःपङ्के निःशङ्कमेव तम् ॥ ५८ ॥ अजल्पद् मुनिरप्येवं न्यक्षेप्यशुचिकर्दमे । महामूल्यो ह्यसौ रत्नकम्बलः कम्बुकण्ठि ! किम् ? ॥ ५६ ॥ अथ कोशाप्युवाचैवं कम्बलं मूढ ! शोचसि । गुणरत्नमयं श्वघ्र पतन्तं खं न शोचसि ।। ६० ॥ तत् श्रुत्वा जातसंवेगो मुनिस्तामित्यवोचत । बोधितोऽस्मि त्वया साधु संसारात् साधु रक्षितः॥६१ ॥ अघान्यतीचार
Jain Education int
!
For Personal & Private Use Only
Page #544
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥२६३॥
भवान्युन्मलायितुमात्मनः । यास्यामि गुरुपादान्ते धर्मलाभस्तवान! ।। ६२ ॥ कोशापि तमुवाचैवं मिथ्या मे द-|||
तृतीयः कृतं त्वयि । ब्रह्मव्रतस्थयाप्येवं मया यदसि खेदितः॥६३॥ आशातनेयं युष्माकं बोधहेतोर्मया कृता । क्षन्तव्या
प्रकाशः। मा गुरुवचः श्रयध्वं यात सत्वरम् ॥ ६४ ॥ इच्छामीति भणित्वा च गुवेन्तिकमुपेत्य सः । गृहीत्वालोचनां तीक्षणमाचचार पुनस्तपः ॥ ६५ ।। राज्ञा प्रदत्ता कोशापि तुष्टेन रथिनेऽन्यदा । राजायत्तेति शिश्राय विना रागेण सा तु तम् ।। ६६ ॥ स्थूलभद्रं विना नान्यः पुमान् कोऽपीत्यहनिशम् । सा तस्य रथिनोऽभ्यणे वर्णयामास वर्णिनी॥ ६७॥ रथी गत्वा गृहोद्याने पर्यके च निषद्य सः । तन्मनोरञ्जनायेति स्वविज्ञानमदर्शयत् ॥ ६८ ॥ माकन्दलुम्बी बाणेन विव्याध तमपीषुणा । पुढेऽन्येन तमप्यन्येनेत्याहस्तं शरान्यभूत् ॥ ६६ ॥ वृन्तं छित्वा चुरप्रेण बाणश्रेणिमुखास्थिताम् । लुम्बी स्वपाणिनाऽऽकृप्यासीनस्तस्यै स आर्पयत् ।। ७० ॥ इदानीं मम विज्ञानं पश्येत्यालप्य सापि हि । व्यधत्त सार्षपं राशि तस्योपरि ननत च ॥ ७१ ॥ सूची क्षिप्वा तत्र राशौ पुष्पपत्रैः पिधाय ताम् । सा नर्त च नो सूच्या विद्धा राशिश्च न चतः ॥ ७२ ।। ततः स ऊचे तुष्टोऽस्मि दुष्करणामुना तव । याचस्व यद् ममायत्तं ददामि तदहं ध्रुवम् ॥ ७३ ।। सोवाच किं मयाऽकारि दुष्करं येन रञ्जितः । इदमप्यधिकं चासात् किमभ्यासेन दुष्करम् ? ॥ ७४ ॥ किश्चाम्रलुम्बीच्छेदोऽयं नृत्यं चेदं न दुष्करम् । अशिक्षितं स्थूलभद्रो यच्चक्रे तत्तु दुष्करम् ॥ ७५ ॥ द्वादशान्दानि बुभुजे भोगान् यत्र समं मया। तत्रैव चित्रशालायां तस्थौ सोऽखण्डितव्रतः ॥ ७६॥ दुग्धं नकुलसंचारादिव स्त्रीणां प्रचारतः । योगिनां दप्यते चेतः स्थूलभद्रमुनि विना ॥ ७७॥ दिनमेकमपि स्थातुं कोऽलं स्त्रीसंनिधौ तथा ? । चतुर्मासीं यथा तस्थौ स्थूलभद्रोऽ- |२६३॥
Lain Education inte
For Personal & Private Use Only
Page #545
--------------------------------------------------------------------------
________________
Jain Education Internati
क्षतव्रतः ॥ ७८ ॥ श्राहारः पद्रसश्चित्रशालावासोऽङ्गनान्तिके । अप्येकं व्रतलोपायान्यस्य लोहतनोरपि ॥ ५६ ॥ विलीयन्ते धातुमयाः पार्श्वे वद्धेरिव स्त्रियाः । स तु वज्रमयो मन्ये स्थूलभद्रो महामुनिः ॥ ८० ॥ स्थूलभद्रं महासत्त्वं कृतदुष्करदुष्करम् । व्यावर्ण्य युक्ता सुदैव मुखे वर्णयितुं परम् ॥ ८१ ॥ रथको पप्रच्छ य एवं वर्ण्यते त्वया । को नाम स्थूलभद्रोऽयं महासन्वशिरोमणिः १ ॥ ८२ ॥ साऽप्यूचे शकटालस्य नन्दभूपालमन्त्रिणः । तनयः स्थूलभद्रोऽयं तवाग्रे वर्णयामि यम् ॥ ८३ ॥ तच्छ्रुत्वा सोऽपि संभ्रान्त इत्युवाच कृताञ्जलिः । एषोऽस्मि किङ्करस्तस्य स्थूलभद्रमहामुनेः ॥ ८४ ॥ संविग्नं साथ तं ज्ञात्वा विदधे धर्मदेशनाम् । प्रत्यबुध्यत सद्बुद्धिर्मोहनिद्रामपास्य सः ॥ ८५ ॥ प्रतिबुद्धं च तं बुध्ध्वा साऽऽख्यद् निजमभिग्रहम् । तत् श्रुत्वा विस्मयोत्फुल्ललोचनः सोऽब्रवीदिदम् ॥ ८६ ॥ बोधितोऽहं त्वया भद्रे ! स्थूलभद्रगुणोक्तिभिः । यास्यामि तस्य पन्थानं भवत्यैवाद्य दर्शितम् || ८७ || कल्याणमस्तु ते भद्रे ! पालय स्वमभिग्रहम् । उक्तवैवं सद्गुरोः पार्श्वे गत्वा दीक्षां स ददे ॥ ८८ ॥ भगवान् स्थूलभद्रोऽपि तीव्रं व्रतमपालयत् । द्वादशाब्दप्रमाणश्च दुष्कालः समभूत्तदा ||८|| तीरं नीरनिधेर्गत्वा साधु संघोऽखिलोऽप्यथ । गमयामास दुष्कालं करालं कालरात्रिवत् ॥ ९० ॥ श्रगुण्यमानं तु तदा साधूनां विस्मृतं श्रुतम् । अनभ्यसनतो नश्यत्यधीतं धीमतामपि ॥ ६१ ॥ संघोऽथ पाटलीपुत्रे समवायं विनिर्ममे । येदङ्गाध्ययनोद्देशाद्यासीद् यस्य तदाददे ॥ ६२ ॥ ततश्चैकादशाङ्गानि श्रीसंघोऽमेलयत्तदा । दृष्टिवादनिमित्तं च तस्थौ किञ्चिद् विचिन्तयन् ॥६३॥ संघोऽस्मरद् भद्रबाहोर्दृष्टिवादभृतस्ततः । तदानयनहेतोश्च प्रजिघाय मुनिद्वयम् ॥ ६४ ॥ गत्वा नत्वा मुनी तौ तमित्यूचाते कृताञ्जली । समादिशति वः संघस्तत्रागमनहेतवे ॥ ६५ ॥
For Personal & Private Use Only:
*******++
Page #546
--------------------------------------------------------------------------
________________
तृतीयः
प्रकाशः।
योग- HI
सोऽप्युवाच महाप्राणध्यानमारन्धमस्ति यत् । भविष्यति ततो हेतोर्न तत्रागमनं मम ॥ ६ ॥ तद्वचस्तौ सुनी
गत्वा संघस्याशंसतामथ । संघोऽप्यपरमाहूयादिदेशेति मुनिद्वयम् ॥१७॥ गत्वा वाच्यः स आचार्यों यः श्रीसंघस्य शास्त्रम्
शासनम् । न करोति भवेत् तस्य दण्डः क इति शंस नः ॥ ६८ ॥ संघबाह्यः स कर्तव्य इति वक्ति यदा स तु । ॥२६४ । तर्हि तद्दण्डयोग्योऽसीत्याचार्यों वाच्य उच्चकैः ॥ १६ ॥ ताभ्यां गत्वा तथैवोक्त आचार्योऽप्येवमृचिवान् । मैवं
* करोतु भगवान् संघः किन्तु करोत्वदः॥ २०॥ मयि प्रसादं कुर्वाणः श्रीसंघः प्रहिणोत्विह । शिष्यान् मेधाविनस्तेभ्यः सप्त दास्यामि वाचनाः ॥१॥ तत्रैकां वाचनां दास्ये भिक्षाचर्यात आगतः । अन्यां च कालवेलायां बहिर्भूम्यागतोऽपराम् ॥ २॥ अन्यां विकालवेलायां तिस्र आवश्यके पुनः । सेत्स्यत्येवं संघकार्य मत्कार्यस्थावि. बाधया ॥३॥ ताभ्यामेत्य तथाख्याते श्रीसंघोऽपि प्रसादभाक् । प्राहिणोत् स्थूलभद्रादिसाधुपञ्चशतीं ततः॥४॥ तान् सूरिचियामास तेऽप्यल्पा वाचना इति । उद्भज्येयुर्निजं स्थानं स्थूलभद्रस्त्ववास्थित ॥ ५॥ नोद्भज्यसे किमित्युक्तः सूरिणा सोब्रवीदिदम् । नोद्भज्ये भगवन् ! किन्तु ममाल्पा एव वाचनाः॥६॥ सूरिरूचे मम ध्यानं पूर्णप्रायमिदं ततः। तदन्ते वाचनास्तुभ्यं प्रदास्यामि त्वदिच्छया॥७॥ पूर्णे ध्याने ततः सूरिरिच्छया तमवाचयत् । द्विवस्तूनानि पूर्वाणि दश यावत् पपाठ सः॥८॥ विहारक्रमयोगेन पाटलीपुत्रपत्तनम् । श्रीभद्रबाहुरागत्य बाह्योद्यानमशिश्रियत ॥ ६॥ विहारक्रमयोगेन तिन्योऽत्रान्तरे तु ताः । भगिन्यः स्थूलभद्रस्य वन्दनाय समाययुः
॥ १०॥ वन्दित्वा गुरुमूचुस्ताः स्थूलभद्रः कनु प्रभो ! । इहापवरकेऽस्तीति तासां सूरिः शशंस च ॥ ११ ॥ |1| ततस्तममिचेलुस्ताः समायान्तीविलोक्य सः। आश्चर्यदर्शनकृते सिंहरूपं विनिर्ममे ॥१२।। दृष्ट्वा सिंहं तु भीताम:
॥२६४॥
Jain Education intem
-1
For Personal & Private Use Only
Hिww.jainelibrary.org
Page #547
--------------------------------------------------------------------------
________________
सूरिमेत्य व्यजिज्ञपन् । ज्येष्ठाये जग्रसे सिंहस्तत्र सोऽद्यापि तिष्ठति ॥ १३ ॥ ज्ञात्वोपयोगादाचार्योऽप्यादिदेशेति गच्छत । वन्दध्वं तत्र वः सोऽस्ति ज्येष्ठार्यो न तु केसरी ॥ १४ ॥ ततोऽयुस्ताः पुनस्तत्र स्वरूपस्थं निरूप्य च । ववन्दिरे स्थूलभद्रं ज्येष्ठा चाख्यद् निजां कथाम् ॥१॥ श्रीयकः सममस्माभिर्दीक्षां जग्राह किन्त्वसौ । क्षुधावान् सर्वदा कर्तुं नकभक्तमपि क्षमः ॥ १६ ॥ मयोक्तः पर्युषणायां प्रत्याख्याह्यद्य पौरुषीम् । स प्रत्याख्यातवानुक्तो मया पूर्णेऽवधौ पुनः॥ १७ ॥ प्रतीक्षख क्षणं प्रत्याख्याहि पूर्वार्धमप्ययि ? । अद्य यावत् त्वया चैत्यपरिपाटी विधीयते॥१८॥ तथैव प्रतिपेदेऽसौ समयेऽभिहितः पुनः। तिष्ठेदानीमस्त्वपार्धमिति चके तथैव सः॥१०॥ प्रत्यासबाधुना रात्रिः सुखं सुप्तस्य यास्यति । तत्प्रत्याख्याह्यभक्तामित्युक्तः सोऽकरोत् तथा ॥२०॥ ततो निशीथे संप्राप्ते सरन् देवगुरूनसौ । जुत्पीडया प्रसरन्त्या विपद्य त्रिदिवं ययौ ॥२१॥ ऋषिघातो मयाऽकारीत्युत्ताम्यन्ती ततस्त्वहम् । पुरः श्रमणसंघस्य प्रायश्चित्ताय ढौकिता ॥२२॥ संघोऽप्यूचे व्यधायीदं भवत्या शुद्धभावया । प्रायश्चित्तं ततो नेह कर्तव्यं किश्चिदस्ति ते ॥२३॥ ततोऽहमित्यवोचं च साक्षादाख्याति चेजिनः। ततो हृदयसंवित्तिर्जायते मम नान्यथा॥२४॥ अत्रार्थे सकलः संघः कायोत्सर्ग ददावथ । एत्य शासनदेव्यूचे ब्रून कार्य करोमि किम् ? ॥ २५ ॥ संघोऽप्येवमभाषिष्ट जिनपार्श्वमिमां नय । सोचे निर्विघ्नगत्यर्थ कायोत्सर्गेण तिष्ठत ॥ २६ ॥ संघे तत्प्रतिपेदाने मां साऽनैषीजिनान्तिके । ततः सीमन्धरस्वामी वन्दितो भगवान् मया ॥ २७ ॥ भरतादागताऽऽर्येयं निर्दोषेत्यवदजिनः । कृपया मन्निमित्तं च व्याचक्रे चूलिकाद्वयम् ॥ २८ ॥ ततोऽहं छिन्नसंदेहा देव्यानीता यथाश्रयम् । श्रीसंघस्यार्पितवती चूलिकाद्वितयं च तत् ।। २६ ॥ इत्याख्याय स्थूलभद्रानुज्ञाता निजमाश्रयम् । ता ययुः स्थूलभद्रोऽपि वाच
in Education intem
For Personal & Private Use Only
lww.jainelibrary.org
Page #548
--------------------------------------------------------------------------
________________
योगशास्त्रम् ॥२६॥
नार्थमगाद गुरुम् ॥ ३० ॥ न ददौ वाचना तस्थायोग्योऽसीत्यादिशन गुरुः। दीक्षादिनात् प्रभृत्येषोऽप्यपराधान्
तृतीयः व्यचिन्तयत् ॥ ३१ ।। चिन्तयित्वा च न ह्यागः स्मरामीति जगाद च । कृत्वा न मन्यसे शान्तं पापमित्यवदद् प्रकाशः। गुरुः ।। ३२॥ स्थूलभद्रस्ततः स्मृत्वा पपात गुरुपादयोः । न करिष्यामि भूयोऽदः क्षम्यतामिति चाब्रवीत् ॥३३॥ || न करिष्यसि भूयस्त्वमकार्षीर्यदिदं पुनः । न दास्ये वाचनां तेनेत्याचार्यास्तमनूचिरे ॥ ३४ ।। स्थूलभद्रस्ततः सर्वसंघेनामानय गुरुम् । महतां कुपितानां हि महान्तोऽलं प्रसादने ।। ३५ ॥ मूरिः संघं बभाषेऽथ विचक्रेऽसौ यथाधुना । तथाऽन्ये विकरिष्यन्ते मन्दसच्चा अतः परम ।। ३६ ॥ अवशिष्टानि पूर्वाणि सन्तु मत्पावे एव तत। अस्यास्तु दोषदण्डोऽयमन्यशिक्षाकृतेऽपि हि ॥३७ ॥ स संघेनाग्रहादुक्तो विवेदेत्युपयोगतः । न मत्तः शेषपूर्वाणामुच्छेदो भाव्यतस्तु सः ॥ ३८ ॥ अन्यस्य शेषपूर्वाणि प्रदेयानि त्वया नहि । इत्यभिग्राह्य भगवान् स्थूलभद्रमवाचयत् ॥ ३९ ॥ सर्वपूर्वधरोऽथासीत् स्थूलमद्रो महामुनिः । प्राप्य चाचार्यकं भद्रभविनः प्रत्यबोधयत् ॥ ४०॥
स्त्रीभ्यो निवृत्तिमधिगम्य समाधिलीनः, श्रीस्थूलभद्रमुनिराप दिवं क्रमेण । एवंविधप्रवरसाधुजनस्य स संसारसौख्यविरतिं विमृशेद् मनीषी ।। २४१ ॥ १३२ ॥
॥ इति श्रीस्थूलभद्रकथानकम् ॥ योषिदङ्गसतत्त्वं कलापकेनाह(१) सतत्त्वं याथार्थ्यम् ।
॥२६॥
Jan Education int
For Personal & Private Use Only
Page #549
--------------------------------------------------------------------------
________________
यकृच्छकृन्मलश्लेष्ममज्जास्थिपरिपूरिताः। स्नायुस्यूता वही रम्याः स्त्रियश्चर्मप्रसेविकाः।१३३।
यकृत् कालखण्डम् शकृद् विष्ठा, मला दन्ताद्युपलेपाः, श्लेष्मा कफा, मजा षष्ठो धातुः, अस्थीनि पञ्चमो धातुः, एभिः परिपूरिताः स्त्रियः स्त्रीशरीराणि, चर्मप्रसेविका भत्राः, अत एव बहिरेव रम्याः। भत्रा हि मध्ये पूतिद्रव्यपूरिता अपि बाह्ये रम्या भवन्ति, खियोऽप्येवम् । भनाश्च स्यूता भवन्ति, अत एव स्नायुस्यूताः स्नायुभिः नसादिभिः स्मृता इव स्यूताः॥ १३३ । तथावहिरन्तविपर्यासः स्त्रीशरीरस्य चेद्भवेत् । तस्यैव कामुकः कुर्याद् गृध्रगोमायुगोपनम्॥१३४॥
बहिश्चान्तश्च, तयोविपर्यासो विनिमयः बहिर्भागोऽन्तर्भवेत् , अन्तर्भागो वा बहिः, स्त्रीशरीरस्य स्त्रीदेहस्य चेद् यदि भवेत् , तदा तस्यैव स्त्रीशरीरस्य कामुकः कामी गृध्रगोमायुगोपनं गृध्रगोमायुभ्यो रक्षणं कुर्यात् । गृध्रगोमायुग्रहणं दिवानिशं रक्षणीयताप्रतिपादनार्थम् गृध्रा हि दिवा प्रभविष्णवः, गोमायवश्च रात्रौ । ततस्त्रीशरीरस्य | विपर्यासे नक्तंदिनं कामुको गृध्रगोमायुरक्षणव्याकुल एव स्यात् , रे तत्परिभोगः ॥ १३४ ॥ तथास्त्रीशस्त्रेणापि चेत् कामो जगदेतजिगीषति। तुच्छपिच्छमयं शस्त्रं किं नादत्तेस मूढधीः?।१३५॥
स्येव शस्त्रं स्त्रीशस्त्रं तेन जगद्विजयार्थमुपात्तेन, अपीत्यनादरे, चेयदि, कामो मन्मथः, एतजगत् त्रैलोक्यास्मकम् , जिगीषति जेतुमिच्छति, तदा स मूढधीः कामः तुच्छ काकादीनां यत् पिच्छं तन्मयं शस्त्रं किं नादत्ते कुतो हेतोर्न गृह्णाति ? । अयमर्थः यद्यसारेण रसामुग्मांसमेदोऽस्थिमजशुक्रपूरितेन बहुप्रयासलभ्यन स्त्रीरूपेण
in Education inter
For Personal & Private Use Only
Bl
Page #550
--------------------------------------------------------------------------
________________
योग-
शास्त्रम्
॥२६॥
शस्त्रेण जिगीषत्ययम् , तदा तुच्छं पिच्छमेव सुलभमपूति च किं नादत्ते ? इदं हि विस्मृतमस्य मूढधियः,
तृतीयः यल्लौकिकाः पठन्ति
प्रकाशा अर्के चेद् मधु विन्देत किमर्थ पर्वतं व्रजेत् ? । इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरेत् १ ॥१॥१३५।।
तथा इदमपि निद्राच्छेदे चिन्तयेत्सङ्कल्पयोनिनानेन हहा ! विश्वं विडम्बितम् । तदुत्खनामि सङ्कल्पं मूलमस्येति चिन्तयेत्।१३६
सङ्कल्पः कल्पनामात्रं योनिः कारणं यस्य न तु वास्तवं किञ्चित कारणमित्यर्थस्तेन, अनेन सकलजगत्संवेदनसिद्धेन, हहा इति खेदे, विश्वं जगद् ब्रह्म-हरि-हर-संक्रन्दनप्रभृतिक कीटपर्यवसानं तैस्तैः स्त्रीदर्शनालिङ्गनस्सरणादिभिः प्रकारविडम्बितं विगोपितम् । श्रूयते हि पुराणे-हरगौरीविवाहोत्सवे पुरोहितीभूतः पितामहो, गौरीप्रणयप्रार्थनासु हरः, गोपीचाटुकर्मणा श्रीपतिः, गौतमभार्यायां रममाणः सहस्रलोचनः, बृहस्पतेर्भार्यायां तारायां चन्द्रः, अश्वायामप्यादित्यो विडम्बना प्रापितः । तदनेनासारणासारहेतूद्भवेन च यद् विश्वं विडम्ब्यते तदसाम्प्रतम् । तत् तस्मादिदानीमस्यैव जगद्विडम्बनकर्तुः सङ्कल्पलक्षणं मृलमुत्खनामि उन्मूलयामि । इति स्त्रीशरीरस्थाशुचित्वमसारत्वं सङ्कल्पयोन्युपकरणत्वं च विचिन्तयेदिति प्रकुतयोजना ॥ १३६ ॥
तथा, इदमपि निद्राच्छेदे चिन्तयेत्यो यः स्याहाधको दोषस्तस्य तस्य प्रतिक्रियाम् । चिन्तयेद् दोषमुक्तेषु प्रमोद यतिषुवजन् १३७ । ॥२६६॥
Jain Education imaginal
For Personal & Private Use Only
Page #551
--------------------------------------------------------------------------
________________
यो यो राग-द्वेष-क्रोध-मान-माया-लोभ-मोह-मन्मथा-ऽसूया-मत्सरादिदोषो बाधकश्चित्तप्रशान्तिवाहिकायास्तस्य तस्य दोषस्य प्रतिक्रियां प्रतीकारं चिन्तयेत् । तथाहि-रागस्य वैराग्यम् , द्वेषस्य मैत्री, क्रोधस्य क्षमा, मानस्य मार्दवम् , मायाया आर्जवम् , लोभस्य सन्तोषः, मोहस्य विवेकः, मन्मथस्य स्त्रीशरीराशौचभावना, असूयाया अनसूयत्त्वम् , मत्सरस्य परसंपदुत्कर्षेऽपि चित्तानाबाधा च प्रतिक्रिया मता । इदं चाशक्यमिति नाशङ्कनीयम् , दृश्यन्ते हि मुनयस्तत्तदोषपरिहारेण गुणमयमात्मानं विभ्रतः। अत एवाह-दोषमुक्तेषु यतिषु प्रमोदं व्रजन् । सुकर हि दोषमुक्तमुनिदर्शनेन प्रमोदादात्मन्यपि दोषमोक्षणम् ।। १३७ ।। तथादुःस्थां भवस्थिति स्थेम्ना सर्वजीवेषु चिन्तयन्। निसर्गसुखलग तेष्वपवर्ग विमार्गयेत्॥१३८॥ । ____दुस्था दुःखहेतुम् , भवस्थिति संसारावस्थानम् , चिन्तयन् विमृशन् , सर्वजीवेषु तिर्यग्-नारक-नरा-ऽमरेषुः तथाहि-तिरश्चां वध-बन्ध-ताडन-पारवश्य-क्षुत्-पिपासा-ऽतिभारारोपणा-ऽङ्गच्छेदादिभिः, नारकाणां च स्वा भाविक-परस्परोदीरित-परमाधार्मिककृतक्षेत्रानुभावजवेदनामनुभवतां क्रकचदारण-कुम्भीपाक-कूटशाल्मलीसमाश्लेष-वैतरणीतरणादिभिः, नराणां च दारिद्रयव्याधिपारवश्यवधबन्धादिभिः. सुराणां चेा-विषाद-विपक्षसंपद्दर्शनमरणदुःखानुचिन्तनादिभिर्दःस्थैव भवस्थितिः, तां स्थेम्ना स्थैर्येण चिन्तयंस्तेषु सर्वजीवेष्वपवर्ग मोक्षम, किंविशिष्टम् ? निसर्गसुखसर्ग निसर्गेण सुखसंसर्गो यत्र तम्, विमार्गयेदाशंसेत-कथं नु नाम सर्वे संसारिणः सकलदुःखविमोक्षेण मोक्षेण संयुज्येरनिति ।। १३८॥
इदमपि निद्राच्छेद चिन्तयेत्
Jan Education
For Personal Private Use Only
Ti
Page #552
--------------------------------------------------------------------------
________________
योगशास्त्रम्
| ॥२६॥
| संसर्गेऽप्युपसर्गाणां दृढव्रतपरायणाः । धन्यास्ते कामदेवाद्याः श्लाघ्यास्तीर्थकृतामपि॥१३९॥ तृतीयः
संसर्गेऽपि संबन्धेपि, उपसर्गाणां सुरादिकतानाम, दृढव्रतपरायणाः प्रतिपन्नव्रतपालनपराः, कामदेवाद्याः प्रकाश: कामदेवप्रभृतयः, धन्या धर्मधनं लब्धारः, त इति भगवदुपासकत्वेन प्रसिद्धाः। धन्यत्वे विशेषहेतुमाह--लाध्याः प्रशस्यास्तीर्थकृतां श्रीमन्महावीरस्य. पूजायां बहुवचनम् । कामदेवकथानकं च संप्रदायगम्यम् । स चायम्,
अनुगडं पतद्वंशश्रेणीभिरिव चारुभिः । चैत्यध्वजै राजमाना चम्पेत्यस्ति महापुरी ॥१॥ भोगिभोगायतभुजस्तम्भः कुलगृहं श्रियः । जितशत्रुरिति नाम्ना तस्यामासीद् महीपतिः ॥ २ ॥ अभूद् गृहपतिस्तस्यां कामदेवामिधः सुधीः । श्राश्रयोऽनेकलोकानां महातरुरिवाध्वनि ॥३॥ लक्ष्मीरिव स्थिरीभृता रूपलावण्यशालिनी। अभूद भद्राकृतिर्भद्रा नाम तस्य सधर्मिणी ॥ ४ ॥ निधौ षट् स्वर्णकोट्यः षड् वृद्धौ षड् व्यवहारगाः । ब्रजाः षद् चास्य दशगोसहस्रमितयोऽभवन् ।। ५ ॥ तदा च विहरन्नुर्वी तत्रो:मुखमण्डने । पुण्यभद्राभिधोद्याने श्रीवीरः समवासरत् ।।६।। कामदेवोऽथ पादाभ्यां भगवन्तमुपागमत् । शुश्राव च श्रोत्रसुधां स्वामिनो धर्मदेशनाम् ॥७॥ कामदेवस्ततो देवनरासुरगुरोः पुरः। प्रपेदे द्वादशविधं गृहिधर्म विशुद्धधीः ॥ ८॥ प्रत्याख्यात् स विना भद्रां स्त्रीजान् षड्वजीं विना । निधौ वृद्धौ व्यवहारे षद् षट् कोटीविना वसु ॥९॥ हलपश्चशती मुस्वाऽत्याक्षीत् क्षेत्राण्यनांसि तु । दिग्यात्रिकाणि वोदृणि पञ्च पञ्च शतान्यते ॥ १०॥ दिग्यात्रिकाणि चत्वारि चत्वारि प्रवहन्ति च । विहाय वहनान्येष प्रत्याख्यद् वहनान्यपि ॥ ११ ॥ विनैकां गन्धकाषायीं स तत्याजाङ्गमार्जनम् । दन्तधावनमप्याामपास्य मधुयष्टिकाम् ।। १२ ॥ ऋते च क्षीरामलकात् फलान्यन्यानि सोऽमुचत् । अभ्यङ्गं च
॥२६॥
Lain Education inte
For Personal & Private Use Only
Page #553
--------------------------------------------------------------------------
________________
विना तैले सहस्रशतपाकिमे ॥१३॥ विना सुगन्धिगन्धाढ्यमुद्वर्तनकमत्यजत् । विनाष्टावौष्ट्रिकानम्भस्कुम्भान् | मजनकर्म च ॥ १४ ॥ ऋते च चौमयुगलाद् वस्त्रं सर्वमवर्जयत् । चन्दनागुरुघुसणान्यपास्यान्यद् विलेपनम् । ॥ १५ ।। जातीस्रजं च पद्मं च विना कुसुममत्यजत् । कर्णिका नाममुद्रां च विहायाभरणान्यपि ॥ १६ ॥ तुरुकागुरुधूपेभ्य ऋते धूपविधि जहाँ । घृतपूरात् खण्डखाद्यादन्यद् भक्ष्यमवर्जयत् ।। १७ । काष्ठपेयां विना पेयामोदनं कलमं विना । माषमुद्गकलायेभ्य ऋते सूपं च सोऽमुचत् ॥१८॥ तत्याज च घृतं सर्वमृते शारदगोघृतात् । शाकं स्वस्तिकमण्डूक्याः पन्यङ्काच्चापरं जहौ ॥ १६ ॥ अन्यत् स्नेहाम्लदाल्यम्लात् तीमनं वारि | खाम्भसः । जही सुगन्धिताम्बूलाद् मुखवासमथापरम् ॥ २०॥ ततः प्रभुं स वन्दित्वा ययौ निजनिकेतनम् । तद्भार्याप्येत्य जग्राह स्वाम्यग्रे श्रावकवतम् ॥ २१॥ कुटुम्बभारमारोप्य ज्येष्ठपुत्रे ततः स्वयम् । तस्थौ पौषधशालायामप्रमादी व्रतेषु सः ॥ २२॥ तस्थुषस्तस्य तत्राथ निशीथे क्षोभहेतवे । पिशाचरूपमृद् मिथ्यादृष्टिः कोऽप्याययौ सुरः ॥ २३॥ शिरोरुहाः शिरस्यस्य कर्कशाः कपिशत्विषः । चकासामासुरापक्वाः केदार इव शालयः ॥ २४ ॥ भाण्डभित्तनिभं भालं बभ्रुपुच्छोपमे भ्रुवौ । कौँ सूर्पाकृती युग्मचुल्लीतुल्या च नासिका ॥ २५ ॥ उष्ट्रौष्ठलम्बिनावोष्ठौ दशनाः फालसन्निभाः । जिह्वा सर्पोपमा श्मश्रु वाजिवालधिसोदरम् ॥ २६ ॥ तप्तमूषानिभे नेत्रे हनू सिंहहनूपमौ । हलास्यतुल्यं चिबुकं ग्रीवोष्ट्रग्रीवया समा ॥ २७ ॥ उरः पुरकपाटोरु भुजौ भुजगभीषणौ । पाणी शिलाभावाच्यः शिलापुत्रकसन्निभाः ॥२८॥ पातालतुन्यमुदरं नाभिः कूपसहोदरा । शिश्नं चाजगरप्रायं वृषणौ कुतुपोपमौ ॥ २६ ॥ जङ्घ तालद्रुमाकारे पादौ शैलशिलोपमौ । कोलाहलरवोऽकाण्डाशनिध्वनिभयानक:
in Education Interations
For Personal & Private Use Only
Page #554
--------------------------------------------------------------------------
________________
तृतीय:
योगशास्त्रम्
| ॥३०॥ स माखुस्रजं विभ्रत् कण्ठे च सरटस्रजम् । नकुलान् कर्णिकास्थानेऽङ्गदस्थाने च पन्नगान् ॥३१॥ क्रुद्धान्तकसमुत्क्षिप्ततर्जनाङ्गलिदारुणम् । उदस्यन्त्रपकोशासिं कामदेवं जगाद सः ॥ ३२ ।। अप्रार्थितप्रार्थक! रे ! प्रकाशः। किमारब्धमिदं त्वया । किं स्वर्गमपवर्ग वा वराक ! त्वमपीच्छसि ? ॥ ३३ । मुश्चारन्धमिदं नो चेदनेन निशितासिना । तरोरिव फलं स्कन्धात् पातयिष्यामि ते शिरः ॥ ३४ । तर्जयत्यपि तत्रैवं समाधेर्ने चचाल सः । शरभः शैरिभारावैः किं क्षुभ्यति कदाचन ? ॥ ३५ ॥ कामदेवः शुभध्यानाद् न चचाल यदा तदा । व्याजहार तथैवायं द्विस्त्रित्रिदशपांसनः ॥ ३६ ।। तत्राप्यनुभ्यतः सोऽस्य क्षोभायैभं वपुर्व्यधात् । स्वशक्त्यन्तमनालोक्य विरमन्ति खला न हि ।। ३७ ॥ सोऽधत्त विग्रहं तुङ्गं सजलाम्भोदसोदरम् । सर्वतोऽप्येत्य मिथ्यात्वं राशीभूतमिवैकतः ॥ ३८ ॥ स दीर्घदारुणाकारं विषाणद्वन्द्वमुन्नतम् । धारयामास कीनाशभुजदण्डविडम्बकम् ॥ ३९ ।। किश्चिदाकुश्चितां शुण्डां कालपाशामियोद्वहन् । कामदेवं जगादैवं देवः कूटैकदैवतम् ।।४०॥ मायाविन् ! मुच्यतां । माया सुखं तिष्ठ मदाज्ञया । पाखण्डगुरुणा केन त्वमस्येवं विमोहितः १ ॥४१॥ न चेद् मुञ्चस्यमुं धर्म शुण्डादण्डेन तद् द्रुतम् । क्रक्ष्यामि त्वामितः स्थानाद् नेष्यामि च नमोऽङ्गणे ॥ ४२ ॥ व्योम्नः पतन्तं दन्ताभ्यां प्रेषयिष्यामि चान्तरा । अवनम्य ततस्ताभ्यां दारयिष्यामि दारुवत् ॥ ४३ ॥ पादैः कर्दममदं च त्वां मर्दिष्यामि निदेयम् । एकपिण्डीकरिष्यामि तिलपिष्टिमिव क्षणात ॥४४॥ उन्मत्तस्येव तस्यैवं घोरं व्याहरतोऽपि हि । नोत्तरं कामदेवोऽदाद् ध्यानसंलीनमानसः ॥ ४५ ॥ असंक्षुभितमीक्षित्वा कामदेवं दृढाशयम् । द्विस्त्रिश्चतुरभाषिष्ट तथैव १.प्रत्येयिष्यामि' इति प्रत्यन्तरम् ।
॥२६॥
Jain Education int
For Personal & Private Use Only
Page #555
--------------------------------------------------------------------------
________________
स दुराशयः ।। ४६ ॥ ततोऽप्यभीतं तं प्रेक्ष्य शुण्डादण्डेन सोऽग्रहीत । व्योमन्युच्छालयामास प्रतीयेप च पूलबत् ॥४७॥ दलयामास दन्ताभ्यां पादन्यासममर्द च । धर्मकर्मविरुद्धानां किमकृत्यं दुरात्मनाम् ॥४८॥ अधिसेहे च तत सर्व कामदेवो महामनाः । मनागपि च न स्थैर्य जहौ गिरिवि स्थिरः ॥ ४६॥ तस्मिनचलिते ध्यानादीदृशेनापि कर्मणा । सदर्पः सर्परूपं स विदधे विबुधाधमः ॥ ५० ॥ देवः पूर्ववदेवोचे स तं भापयितुं ततः । कामदेवस्तु नाभेपीद् ध्यानसंवर्मितः सुधीः ॥ ५१ ।। भूयो भूयस्तथोक्त्वा तं निर्भीक प्रेक्ष्य दुःसुरः । आतोद्यमिव वर्ऋण खभोगेनाभ्यवेष्टयत् ।। ५२ ॥ निःशूकमेव दशनैदेदशूको ददंश तम् । स तु ध्यानसुधामग्नो न तद्बाधा
मजीगणत् ॥ ५३ ।। दिव्यरूपं ततः कृत्वा पुतिद्योतितदिङ्मुखम् । सुरः पौषधशालायां विवेशैवमुवाच च ।। ५४ ॥ * धन्योऽसि कामदेव ! त्वं देवराजेन संसदि । प्रशंसाऽकारि भवतोऽसहिष्णुस्तामिहागमम् ॥ ५५ ॥ प्रभवः प्राभ
वेणापि वर्णयन्ति ह्यवस्त्वपि । अतः परीक्षितोऽसि त्वं नानारूपभृता मया ॥५६॥ त्वां यथाऽवर्ण यच्छक्रस्तथैवासि न संशयः । क्षम्यतामपराधो मे परीक्षणभवस्त्वया ॥ ५७ ॥ प्रययावभिधायैवं स देवो देवसबनि । कामदेवोऽपि शुद्धात्मा प्रतिमा तामपारयत् ॥ ५८ ॥ उपसर्गसहिष्णुं तमश्लाषिष्ट स्वयं प्रभुः। सभायां भगवान् वीरो गुरवो गुणवत्सलाः ॥५६॥ कामदेवो द्वितीयस्मिन्नति पारितपोषधः । त्रिजगत्स्वामिनः पादवन्दनार्थमथागमत् ॥ ६०॥ * जगद्गुरुरभाषिष्ट गौतमप्रभृतीनिति । गृहिधर्मेऽप्यसावेवमुपसर्गान् विसोढवान् ॥ ६१॥ सर्वसङ्गपरित्यागाद् यतिधर्मपरायणैः । तद्विशेषेण सोढव्या उपसर्गा भवादृशैः ॥ ६२ ॥ कर्मनिर्मूलनोपायान् श्रावकप्रतिमास्ततः । एकादशापि शिश्राय कामदेवः क्रमेण ताः ॥६३॥ सोऽथ संलेखनां कृत्वा प्रपेदेऽनशनव्रतम् । परं समाधिमापन्नः
In Education interations
For Personel Private Use Only
T
Page #556
--------------------------------------------------------------------------
________________
*
तृतीयः प्रकाशः।
योग-* कालधर्ममुपाययौ ॥ ६४ ॥ सोऽरुणाभे विमानेऽभूद् चतुष्पल्यस्थितिः सुरः । च्युत्वा ततो विदेहेधूत्पद्य सिद्धिं शास्त्रम्
जिष्यति ।। ६५ ॥ यथोपसर्गेऽपि निसर्गधैर्यात् स कामदेवो व्रततत्परः सन् । श्लाघ्योऽभवत् तीर्थकृतां तथाऽ
न्ये-ऽप्येवंविधा धन्यतमाः पुमांसः ॥ ६६ ॥ १३६ ।। ॥२६॥
॥ इति कामदेवकथानकं संपूर्णम् ॥ इदमपि निद्राच्छेदे चिन्तयेतजिनो देवः कृपा धर्मो गुरवो यत्र साधवः।श्रावकत्वाय कस्तस्मै न श्लाघेताविमूढधीः? ॥१४॥
श्रावका उक्तनिर्वचनास्तेषां भावः श्रावकत्वं तसै श्रावकत्वाय को न श्लाघेत ? सर्वः श्लाघेतैव, मुक्त्वा मोहमूढान् । अत एवाह-अविमूढधी मृढबुद्धीनां ह्यतत्त्वदर्शिनां तैमिरिकाणामिव चन्द्रद्वितय-शकपीतिमदर्शिनां मा भूत् श्रावकत्वाय श्लाघा, अमूढबुद्धयस्तु तत्वदर्शित्यात् श्लाघन्त एव । तस्मै इति तत्संबन्धिनं यच्छन्दमाह-यत्र श्रावकत्वे जिनो रागादिदोषजेता देवः पूज्यो न तु रागादिमान, कृपा दुःखितदुःखप्रहाणेच्छा धर्मोऽनुष्ठेयरूपो न तु हिंसात्मको यागादिः, साधवः पञ्चमहाव्रतरताः गुरवो धर्मोपदेष्टारो न तु परिग्रहारम्भसक्ताः ।। १४०॥
तथा निद्राच्छेदे तांस्तान् मनोरथान् सप्तभिः श्लोकैराहजिनधर्मविनिर्मुक्तोमा भूवं चक्रवर्त्यपि। स्यां चेटोऽपि दरिद्रोऽपि जिनधर्माधिवासितः।१४१॥
||२६९॥
Lain Education Intel
For Personal & Private Use Only
Page #557
--------------------------------------------------------------------------
________________
Jain Education Inter
58--1+18
*-+-***
जिनधर्मेण ज्ञान - दर्शन - चारित्ररूपेण विनिर्मुक्तो रहितश्चक्रवर्त्यपि सार्वभौमोऽपि मा भूवं मा जनिषि, तस्य नरक मूलत्वात् ; किन्तु स्यां भवेयं चेटोऽपि दासोऽपि दरिद्रोऽपि दुःस्थितोऽपि कथंभूतः १ जिनधर्मेणोक्तस्वरूपेणाधिवासितः || १४१ ।। तथा
त्यक्तसङ्गो जीर्णवासा मलक्लिन्न कलेवर: । भजन् माधुकरीं वृत्तिं मुनिचर्या कदा श्रये ? | १४ |
त्यक्ता गृहगृहिणीप्रभृतयः सङ्गा येन स त्यक्तसङ्गः, जीर्ण जरद् वासो यस्य स जीर्णवासाः, मलेन क्विन्नं कलेवरं यस्य स मलक्किमकलेवरः, मधुकरस्येयं माधुकरी माधुकरीव माधुकरी वृत्तिर्भिक्षा तां भजन् सेवमानः, यदाहु:--
जहा दुमस्स पुप्फेसु भमरो श्राविश्र रसं । न य पुष्कं किलामेइ सो य पीणेइ अप्पयं ॥ १ ॥ एमेए समणा मुत्ता जे लोए संति साहुयो । विहंगमा व पुप्फेसु दानभत्तेसगो रया || २ || वयं च वित्तिं लब्भामो न य कोबुवहम्मइ । अहागडेसु रीयंते पुप्फेसु भमरा जहा ॥ ३ ॥
मुनीनां चर्या मूलगुणोत्तरगुणरूपा तां कदा कर्हि श्रये श्रयिष्यामि कदाको र्नवा ॥ ५ । ३ । ८ ।। इति
(१) यथा द्रुमस्य पुष्पेषु भ्रमर आपिबति रसम् । न च पुष्पं क्रमयति स च प्रीणात्यात्मानम् ॥ १ ॥ एवमेते श्रमणा मुक्ता ये लोके सन्ति साधवः । विहङ्गमा इव पुष्पेषु दानभक्तैषणे रताः ॥ २ ॥ वयं च वृत्तिं लप्स्यामो न च कोऽप्युपहन्यते । यथाकृतेषु रीयन्ते पुष्पेषु भ्रमरा यथा ॥ ३ ॥
(For Personal & Private Use Only
Fork- Jok← + (~+ (·· K• →→Jok←---
Page #558
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥२७०॥
*0-------**-*-*
वर्त्स्यति वर्तमाना ॥ १४२ ॥ तथा
त्यजन् दुःशील संसर्ग गुरुपादरजः स्पृशन् । कदाहं योगमभ्यस्यन् प्रभवेयं भवच्छिदे । १४३ । दुःशीला लौकिका लोकोत्तराश्च । तत्र लौकिका दुःशीला विट-भट-भण्ड - गणिकादयः, लोकोत्तरास्तु पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्छान्दास्तैः संसर्ग संवासादिरूपं, त्यजन् परिहरन् । न च तन्मात्रेण भवतीत्याह—–गुरुपादरजः स्पृशन् । अनेन सत्संसर्गमाह । न चैतावताप्यलमित्याह - योगमभ्यस्यन् योगो रत्नत्त्रयं ध्यानं वा तमभ्यस्यन् पुनः पुनः परिशीलयन् कदाहं प्रभवेयं प्रभविष्यामि । कस्यै ? भवच्छिदे संसारोच्छेदाय
।। १४३ ।। तथा
महानिशायां प्रकृते कायोत्सर्गे पुराद् बहिः । स्तम्भवत् स्कन्धकषणं वृषाः कुर्युः कदा मयि ॥ १४४ ॥
महानिशायां निशीथे, कायोत्सर्गे प्रकृते प्रारब्धे पुराद् बहिर्नगराद् बाह्यप्रदेशे स्तम्भ इव स्तम्भवद् मयि स्कन्धकषणं स्कन्धकण्डूयनं कदा वृषा उत्सृष्टपशवः कुर्युः करिष्यन्ति । इदं च प्रतिनाप्रतिपन्न श्रावकविषयम्, तस्यैव पुराद् बहिष्कृत कायोत्सर्गस्य शिलास्तम्भभ्रान्त्या वृषभैः स्कन्धकषण संभवः; प्रेप्सितयत्यवस्थापेक्षं वा यतीनां जिनकल्पिकादीनां सर्वदा कायोत्सर्गसंभवात् ॥ १४४ ॥ तथा
वने पद्मासनासीनं क्रोडस्थितमृगार्भकम् । कदाऽऽघास्यन्ति वक्त्रे मां जरन्तो मृगयूथपाः । १४५ । वनेऽरण्ये पद्मासनं वक्ष्यमाणं तेनासीनमुपविष्टम्, अहिंस्रत्वेन क्रोड उत्सङ्गे स्थिता मृगार्भका मृगडिम्भा
For Personal & Private Use Only
+1+-+9184
तृतीयः प्रकाशः ।
1120011
Page #559
--------------------------------------------------------------------------
________________
यस्य तं क्रोडस्थितमृगार्भकम् , एवंविधं मामपरिकर्मशरीरं कदा वक्त्रे आघ्रास्यन्ति, के ? मृगयूथपा मृगस्थाधिपतयः, किंविशिष्टाः ? जरन्तो वृद्धाः । जरन्तो हि यथाकथञ्चित् न विश्वसन्ति, परमसमाधिनिश्चलतासंदर्शनात् | तेऽपि विश्वस्ताः सन्तो जातिस्वभावाद् वक्त्रे आजिघ्रन्ति ॥ १४५ ॥ तथाशत्रौ मित्रे तृणे स्त्रेणे स्वर्णेऽश्मनि मणौ मृदि।मोक्षे भवे भविष्यामि निर्विशेषमतिः कदा।१४६।
शत्रौ रिपो, मित्रे सहदि. ठणे शष्पादौ, खैणे स्त्रीसमहे, स्वर्णे काञ्चने, अश्मन्युपले. मणौ रत्ने, मृदि मृत्तिकायाम् , मोक्षे कर्मवियोगलक्षणे, भवे कर्मसंबन्धलक्षणे, निर्विशेषमतिस्तुल्यमतिः कदा भविष्यामि । शत्रुमित्रादिषु निर्विशेषमतित्वमप्यन्यस्यापि भवेत, असौ तु परमवैराग्योपगतो मोक्ष-भवयोरपि निर्विशेषत्वमर्थयते, यदाह:-" मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तमः" । इति । ____ एते च मनोरथाः क्रमेणोत्तरोत्तरप्रकर्षवन्तः, तथाहि-प्रथमे श्लोके जिनधर्मानुरागमनोरथः, द्वितीये तु
यतिधर्मपरिग्रहमनोरथः, तृतीये तु यतिचर्याकाष्ठाधिरोहणमनोरथः, चतुर्थे तु कायोत्सर्गादिमनोरथः, पश्चमे तु | गिरि-गुहाद्यवस्थितमुनिचर्यामनोरथः, षष्ठे तु परमसामायिकपरिपाकमनोरथः ॥ १४६ ।। - इदानीमुपसंहरतिअधिरोढुं गुणश्रेणिं निःश्रेणी मुक्तिवेश्मनः। परानन्दलताकन्दान् कुर्यादिति मनोरथान् ।१४७।।
अधिरोढुमारोढुं गुणश्रेणिमुत्तरोत्तरगुणस्थानरूपाम् , किंविशिष्टाम् ? निःश्रेणीमिव निःश्रेणीम्, कस्य ?
For Personal & Private Use Only
Page #560
--------------------------------------------------------------------------
________________
योगशाखम
॥२७१॥
मुक्तिलक्षणस्य वेश्मनो मन्दिरस्य, कुर्याद् विदध्यात, इति श्लोकषट्केनोक्तान् मनोरथान् , किंविशिष्टान ? तृतीयः परानन्दलताकन्दान् परश्वासावानन्दश्च स एव लता तस्याः कन्दान् कन्दभूतान् । यथा हि कन्दालता प्रभवति || प्रकाशः। तथैतेभ्योऽपि मनोरथेभ्यः परो य आनन्दः परमसामायिकरूपः स प्रभवति । सप्तमिः कुलकम् ॥ १४७॥
अथोपसंहरतिइत्याहोरात्रिकी चर्यामप्रमत्तः समाचरन् । यथावदुक्तवृत्तस्थो गृहस्थोऽपि विशुध्यति ॥१४८॥
इति प्रर्वोक्तक्रमेण, अहोरात्रे भवामाहोरात्रिकी चयो समाचाररूपामप्रमत्तः प्रदादरहितः समाचरन सम्यक कुर्वन, उक्तं जिनागमेऽभिहितं यद् वृत्तं प्रतिमादिलक्षणं तत्र तिष्ठतीत्युक्तवृत्तस्थः, कथम् ? यथावत् सम्यगविधिना,
गृहस्थोऽपि यतित्वमप्राप्नुवन्नपि विशुध्यति क्षीणपापो भवति । | अथ पुनः काः प्रतिमाः, यासु स्थितो गृहस्थोऽपि विशुध्यति ? उच्यते-शङ्कादिदोषरहितं प्रशमादिलिङ्गं स्थैर्यादिभूषणं मोक्षमार्गप्रासादपीठभूतं सम्यग्दर्शनं भय-लोभ-लज्जादिभिरप्यनतिचरन् मासमात्रं सम्यक्त्वमनुपालयति, इत्येषा प्रथमा प्रतिमा। १।
द्वौ मासौ यावदखन्डितान्यविराधितानि च पूर्वप्रतिमानुष्ठानसहितानि द्वादशापि व्रतानि पालयतीति द्वितीया।२। त्रीन् मासानुभयकालमप्रमत्तः पूर्वोक्तप्रतिमानुष्ठानसहितः सामायिकमनुपालयतीति तृतीया ।३। चतुरो मासांश्चतुष्पव्या पूर्वप्रतिमानुष्ठानसहितोऽखण्डितं पौषधं पालयतीति चतुर्थी । ४।। पञ्च मासांश्चतुष्पव्या गृहे तद्द्वारे चतुष्पथे वा परीषहोपसर्गादिनिष्कम्पकायोत्सर्गः पूर्वोक्तप्रतिमानुष्ठानं ॥२७
Latin Education inte
For Personal & Private Use Only
Page #561
--------------------------------------------------------------------------
________________
Jain Education Intern
+*****---**
पालयन् सकलां रात्रिमास्त इति पञ्चमी । ५ ।
एवं वक्ष्यमाणास्वपि प्रतिमासु पूर्वपूर्वप्रतिमानुष्ठाननिष्ठिता अवसेयाः, नवरं षण्मासान् ब्रह्मचारी भवतीति षष्ठी ।६।
सप्त मासान् सचित्ताहारान् परिहरतीति सप्तमी । ७ ।
अष्टौ मासान् स्वयमारम्भं न करोतीत्यष्टमी । ८ ।
नव मासान् प्रेष्यैरप्यारम्भं न कारयतीति नवमी । ।
दश मासानात्मार्थनिष्पन्नमाहारं न भुङ्क्त इति दशमी । १० ।
एकादश मासान् त्यक्तसङ्गो रजोहरणादिमुनिवेषधारी कृत केशोत्पाटः खायत्तेषु गोकुलादिषु वसन् 'प्रतिमाप्रतिपनाय श्रमणोपासकाय भिक्षां दत्त' इति वदन् धर्मलाभशब्दोच्चारणरहितं सुसाधुवत् समाचरतीत्येकादशी । उक्तं हि ;दंसणपडिमा नेत्र सम्मत्तअस्स जा इहे बुंदी । कुग्गहकलंकरहिया मिच्छत्तखओवसमभावा ॥ १ ॥ बी पडिमा या सुडाणुव्वयधारणं । सामाइ पडिमा सुद्धं सामाइयं पि ॥ २ ॥ सम्मं पोसहपालणं । सेसाणुट्ठाजुत्तस्स चउत्थी पडिमा इमा ॥ ३ ॥
ममापव्वे
( १ ) दर्शनप्रतिमा ज्ञेया सम्यक्त्वयुतस्य येह तनुः । कुग्रहकलङ्करहिता मिथ्यात्वक्षयोपशमभावात् ॥ १ ॥ द्वितीया प्रतिमा ज्ञेया शुद्धाणुव्रतपालन (धारण)म् । सामायिकप्रतिमातः शुद्धं सामायिकमपि च ।। २ ।। अष्टम्यादिपर्वसु सम्यक् पौषधपालनम् । शेषानुष्ठानयुक्तस्य चतुर्थी प्रतिमेयम् ॥ ३ ॥
For Personal & Private Use Only
****** / *+K+19+8+
Page #562
--------------------------------------------------------------------------
________________
योगशास्त्रम्
तृतीयः प्रकाशः।
॥२७२।।
'निकंपो काउसग्गं तु पुव्वुत्तगुणसंजुओ । करेइ पव्वराईसु पंचमि पडिवनभो ॥ ४ ॥ छट्ठीए बंभयारी सो फासुआहार सत्तमी । वजे सावजमारंभ अहमि पडिवन्नो ॥ ५॥ अवरेणावि आरंभ नवमी नो करावए । दसमीए प्रणोद्दिष्टुं फासुझं पि न भुंजए ॥६॥ एक्कारसीइ निस्संगो धरे लिंगं पडिग्गहं । कयलोओ सुसाहु व्व पुव्वुत्तगुणसायरो ॥७॥ इति ॥ १४८॥
इदानीं पञ्चभिः श्लोकैर्विधिशेषमाहसोऽथावश्यकयोगानां भङ्गे मृत्योरथागमे । कृत्वा संलेखनामादौ प्रतिपद्य च संयमम् ॥१४९॥ जन्मदीक्षाज्ञानमोक्षस्थानेषु श्रीमदर्हताम् । तदभावे गृहेऽरण्ये स्थण्डिले जन्तुवर्जिते॥१५०॥ त्यक्त्वा चतुर्विधाहारं नमस्कारपरायणः । श्राराधनां विधायोच्चैश्चतुःशरणमाश्रितः ॥१५१॥ इहलोके परलोके जीविते मरणे तथा । त्यक्त्वाशंसां निदानं च समाधिसुधयोक्षितः॥१५२॥
(१ निष्कम्पः कायोत्सर्ग तु पूर्वोक्तगुणसंयुतः । करोति पर्वरात्रीषु पञ्चमी प्रतिपन्नकः ॥ ४ ॥ षष्ठयां ब्रह्मचारी स प्रासुकाहारः सप्तम्याम् । वर्जयेद् सावद्यमारम्भमष्टमी प्रतिपन्नकः ॥ ५ ॥ अपरेणाप्यारम्भं नवम्यां नो कारयेत् । दशम्यां पुनरुद्दिष्टं प्रासुकमपि न भुञ्जीत ॥ ६ ॥ एकादश्यां निस्सङ्गो धरेल्लिङ्ग प्रतिग्रहम् । कृतलोचः सुसाधुरिव पूर्वोक्तगुणसादरः ॥ ७॥
For Personal & Private Use Only
॥ २७
sain Education
Page #563
--------------------------------------------------------------------------
________________
परीषहोपसर्गेभ्यो निर्भीको जिनभक्तिभाक् । प्रतिपद्येत मरणमानन्दः श्रावको यथा ॥१५३॥
व्याख्या-स श्रावकः, अथानम्तरम, आवश्यका अवश्यं करणीया ये योगाः संयमव्यापारास्तेषां भने कर्तमशक्तावित्येकं कारणम् । अथ द्वितीयं-मृत्योरागमे मृत्युसमये संप्राप्त, संलिख्यते तनूक्रियते शरीरं कषायाश्चानयेति संलेखना, तत्र शरीरसंलेखना क्रमेण भोजनत्यागः, कपायसंलेखना तु क्रोधादिकषायपरिहारः । तत्र प्रथमायाः कारणमिदम्,
'देहम्मि असंलिहिए सहसा धाऊहिं खिजमाणेहिं । जायइ अट्टज्झाणं सरीरिणो चरमकालम्मि ॥१॥ द्वितीयायाः पुनरिदम् :न ते एयं पसंसामि किसं साहु सरीरयं । कीस ते अंगुली भग्गा भावं संलिह मा तुर ! ॥ १ ॥
इत्यादिना प्रबन्धेनोक्तम् । संयमं च यथौचित्येन प्रतिपद्यते । तत्रेयं सामाचारी-श्रावकः किल सकलस्य श्रावकधमेस्योद्यापनार्थमिवान्ते संयम प्रतिपद्यते तस्य साधुधर्मशेषभूतैव संलेखना, यदाह-संलहणा उ अंते न निप्रोप्रा जेण पव्वअइ कोई । ततो यः संयमं प्रतिपद्यते स संयमानन्तरं काले संलेखनां कृत्वा मरणं प्रतिपद्यते;
(१) देहेऽसंलिखिते सहसा धातुभिः खिद्यमानैः । जायत आर्तध्यानं शरीरिणश्चरमकाले ॥१॥ (२) न ते एतत् प्रशंसामि कृशं साधो ! शरीरकम् । कस्मात् तेऽङ्गुलिर्भग्ना भावं संलिख मा त्वरस्व ॥ १ ॥ (३) संलेखना त्वन्ते न नियोगादू येन प्रव्रजति कोऽपि ।
in Education
For Personel Private Use Only
Page #564
--------------------------------------------------------------------------
________________
योग
तृतीयः प्रकाशः।
शास्त्रम्
॥२७३॥
यस्तु न संयम प्रतिपद्यते तं प्रति सकलो ग्रन्थः 'आनन्दः श्रावको यथा' इतिपर्यन्तः संबध्यते ॥१४६॥ श्रीमदर्हद्भट्टारकाणां जन्म-दीचा-ज्ञान-मोक्षस्थानेषुः तत्र जन्मस्थानानि,
इक्खागुभूमि उज्झा सावत्थि विीय कोसलपुरं च । कोसंबी वाणारसि चंदाणण तह य कायंदी ॥१॥ भदिलपुरं सीहपुरं चंपा कंपिल्ल उज्झ रयणपुरं । तिन्नेव गयपुरम्मी मिहिला तह चेअ रायगिहं ॥२॥ मिहिला सोरिअनयरं वाणारसि तहय चेअ कुंडपुरं । उसमाईण जिणाणं जम्मणभूमी जहासंखं ॥३॥ दीक्षास्थानानि,'उसभो अविणीआए बारवईए अरिद्ववरनेमी । अवसेसा तित्थयरा निक्खंता जम्मभूमीसु ॥१॥ उसभो सिद्धत्थवणम्मि वासुपुजो विहारगिहगम्मि । धम्मो अ वप्पगाए नीलगुहाए मुणीनामो ॥२॥ आसमपयम्मि पासो वीरजिणिंदो अनायसंडम्मि । अवसेसा निक्खंता सहसंबवणम्मि उजाणे ॥३॥ (१) इक्ष्वाकुभूमिरयोध्या श्रावस्ती विनीता कोशलपुरं च । कौशाम्बी वाणारसी चन्द्रानना तथा च काकन्दी ॥१॥
भद्दिलपुरं सिंहपुरं चम्पा कम्पिलाऽयोध्या रत्नपुरम् । त्रयाणामपि गजपुरं मिथिला तथा चैव राजगृहम् ॥२॥
मिथिला शौर्यनगरं वाणारसी तथैव कुण्डपुरम् । ऋषभादीनां जिनानां जन्मभूम्यो यथासंख्यम् ॥३॥ (२) ऋषभो विनीतायां द्वारबत्यामरिष्टवरनेमिः । अवशेषास्तीर्थकरा निष्क्रान्ता जन्मभूमिषु ॥१॥
ऋषभः सिद्धार्थवने वासुपूज्यो विहारगृहके । धर्मश्च वप्रगायां नीलगुहायां मुनिनामा ॥२॥ आश्रमपदे पार्थो वीरजिनेन्द्रश्च ज्ञातषण्डे । अवशेषा निष्क्रान्ता सहस्राम्रवण उद्याने ॥३॥
२७३॥
Jain Education inte
For Personel
Private Use Only
★
w
.jainelibrary.org
Page #565
--------------------------------------------------------------------------
________________
ज्ञानस्थानानि;उसभस पुरिमताले वीरस्सोज्जुवालिआनईतीरे । सेसाण केवलाई जेसुजाणेसु पव्वइया ॥१॥ मोक्षस्थानानि;अहावयचंपोज्जिलपावासंमेअसेलसिहरेसु । उसभ-वसुपुज्ज-नेमी वीरो सेसा य सिद्धिगया ॥१॥
तदभावे जन्म-दीक्षा-ज्ञान-मोक्षस्थानप्राप्त्यभावे गृहे यतिवसत्यादौ, अरण्ये शत्रुञ्जयादिषु सिद्धिक्षेत्रेषु, तेष्वपि भुवं निरीक्ष्य प्रमृज्य च जन्तुविवर्जिते स्थण्डिले, इदं च जन्मादिस्थानेष्वपि द्रष्टव्यम् ॥ १५० ॥ त्यक्त्वा परित्यज्य चतुर्विधाहारमशन-पान-खाद्य-स्वाद्यरूपम् , नमस्कारः पञ्चपरमेष्ठिस्तवः, तत्परायणस्तदनुस्मरणपरः, आराधना ज्ञानाधाराधना तामतिचारपरिहारेण विधाय चतुर्णामहत्-सिद्ध-साधु-धर्माणां शरणं तेषु स्वात्मसमर्पणं चतुःशरणं तदाश्रितः, यदाहु:- अरहते सरणं पव्वजामि, सिद्धे सरणं पव्वजामि, साहू सरणं पव्वजामि, केवलिपनत्तं धम्म सरणं पयजामि' ति ॥ १५१ । आहारपरिहारप्रतिपत्तिश्च पञ्चविधातिचारपरिहारेण कार्या; तदेवाह-इहलोके इहलोकविषये धन-पूजा-कीर्त्यादिष्वाशंसा, परलोके परलोकविषये स्वर्गादावाशंसा, जीवितं | प्राणधारणम् , तत्र पूजादिविशेषदर्शनात् , प्रभूतपरिवारावलोकनात् , सर्वलोकश्लाघाश्रवणाच्चैवं मन्यते जीवितमेव
(१) ऋषभस्य पुरिमताले वीरस्यर्जुवालिकानदीतीरे । शेषाणां केवलानि येषूद्यानेषु प्रव्रजिताः ॥२॥ (२) अष्टापद-चम्पो-जयन्त-पापा-संमेतशैलशिखरेषु | ऋषभ-वासुपूज्य-नेमयो वीरः शेषाश्च सिद्धिगताः ॥१॥ (३) अर्हतः शरणं प्रपद्ये, सिद्धान् शरणं प्रपद्ये, साधून् शरणं प्रपद्ये, केवलिप्रज्ञप्तं धर्म शरणं प्रपद्य इति ।
For Personal Private Use Only
Page #566
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
श्रेयः, प्रत्याख्यातचतुर्विधाहारस्यापि यत एवंविधा मदुद्देशेनेयं विभूतिर्वर्तत इत्याशंसा, मरणं प्राणत्यागः, तत्र यदा न कश्चित् तं प्रतिपन्नानशनं प्रति सपर्यया आद्रियते, न च कश्चित् श्लाघते तदा तस्यैवंविधश्चित्तपरिणामो जायते, यदि शीघ्रं प्रिये इत्याशंसा तां त्यक्त्वा, निदानं च ' अस्मात् तपसो दुरनुचराजन्मान्तरे चक्रवर्ती, वासु॥। २७४ ।। देव:, महामण्डलेश्वरः, सुभगः, रूपवान् स्याम्' इत्यादिप्रार्थनां त्यक्त्वा, पुनः किंविशिष्टः ? समाधिसुधयोक्षितः समाधिः परमस्वास्थ्यं स एव सुधाऽमृतं तयोक्षितः सिक्तः ।। १५२ || परीषहेभ्यो निर्भयो जितपरीषह इत्यर्थः, तत्र मार्गाच्यवन-निर्जरार्थं परिषद्यन्त इति परीषहाः, ते च द्वाविंशतिः, तद्यथाः - क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्य्यानिषद्याशय्याऽऽक्रोशवधयाञ्चाग्लाभरोगतृण स्पर्शमलसत्कारप्रज्ञाज्ञानदर्शनलक्षणाः, तेषां
--+++*900*103 108+0
Jain Education Inter
जयश्चैवम् ;
चुदार्तः शक्तिमा साधुरेषणां नातिलङ्घयेत् । श्रदीनो विह्वलो विद्वान् यात्रामात्रोद्यतश्चरेत् || १ || पिपासितः पथिस्थोऽपि तत्वविद् दैन्यवर्जितः । न शीतमुदकं वाञ्छेदेषयेत् प्रासुकोदकम् ॥ २ ॥ बाध्यमानोऽपि शीतेन त्वग्-वस्त्र-त्राणवर्जितः । वासोऽकल्प्यं नाददीत ज्वलनं ज्वलयेद् न च ॥ ३ ॥ उष्णेन तप्तो नैवोष्णं निन्देच्छायां च न स्मरेत् । वीजनं मञ्जनं गात्राभिषेकादि च वर्जयेत् ॥ ४ ॥ दष्टोऽपि दंशैर्मशकैः सर्वाहारप्रियत्ववित् । त्रासं द्वेषं निरासं न कुर्यात् कुर्यादुपेक्षणम् || ५ || नास्ति वासोऽशुभं चैतद् तन्नेच्छेत् साध्वसाधु वा । नान्येन विप्लुतो जानँल्लाभालाभविचित्रताम् ॥ ६ ॥ न कदाप्यरतिं कुर्याद् धर्मारामरतिर्यतिः । गच्छंस्तिष्ठंस्तथासीनः स्वास्थ्यमेव समाश्रयेत् ॥ ७ ॥ दुर्थ्यानसङ्गपङ्का हि मोक्षद्वारार्गलाः स्त्रियः । चिन्तिता धर्मनाशाय चिन्तयेदिति
For Personal & Private Use Only
/a/ -•-•**• ->
R+-+10+
तृतीयः प्रकाशः ।
॥ २७४ ॥
Page #567
--------------------------------------------------------------------------
________________
नैव ताः ॥ ८॥ ग्रामाद्यनियतस्थायी स्थानापन्धविवर्जितः । चर्यामकोऽपि कुर्वीत विविधाभिग्रहैर्युतः ॥ ६ ॥ श्मशानादौ निषद्यायां स्त्र्यादिकण्टकवर्जिते । इष्टानिष्टानुपसर्गान् निरीहो निर्भयः सहेत् ॥ १० ॥ शुभाशुभायां । शय्यायां विषहेत सुखासुखे । राग-द्वेषौ न कुर्वीत प्रातस्त्याज्यति चिन्तयेत् । ११ ॥ आक्रुष्टोऽपि हि नाक्रोशेव क्षमाश्रमणतां विदन् । प्रत्युताक्रोष्टरि यतिश्चिन्तयेदुपकारिताम् ।। १२ ।। सहेत हन्यमानोऽपि प्रतिहन्याद् मुनिने तु । जीवानाशात् क्रुधो दौष्टयात् क्षमया च गुणार्जनात् ॥ १३ ॥ नायाचितं यतीनां यत् परदत्तोपजीविनाम् । याचा दुःखं प्रतीच्छेत् तद् नेच्छेत पुनरगारिताम् ॥ १४ ॥ परात् परार्थ स्वार्थ वा लभेतान्नादि नापि वा । मायेद् न लाभाद् नालाभाद् निन्देव स्वमथवा परम् ।। १५॥ उद्विजेत न रोगेभ्यो न च काङ्केचिकित्सितम् । अदीनस्तु सहेद् देहाजानानो भेदमात्मनः ॥१६॥ अभूताल्पाणुचेलत्वे संस्तुतेषु तृणादिषु । सहेत दुःख तत्स्पर्शभवमिच्छेद् न तान् मृदन् ।॥ १७॥ ग्रीष्मातपपरिक्निन्नात् सर्वाङ्गीणाद् मलाद् मुनिः । नोद्विजेत न सिस्नासेद् नोद्वर्तयेत सहेत तु ॥ १८ ॥ उत्थाने पूजने दाने न भवेदभिलाषुकः । असत्कारे न दीनः स्यात् सत्कारे स्यान्न हर्षवान्
॥ १६ ॥ प्रज्ञा प्रज्ञावतां पश्यन्नात्मन्यप्राज्ञतां विदन् । न विषीदेद् न वा मायेत् प्रज्ञोत्कर्षमुपागतः ॥ २०॥ | ज्ञानचारित्रयुक्तोऽस्मि च्छद्मस्थोऽहं तथापि हि । इत्यज्ञानं विषहेत ज्ञानस्य क्रमलाभवित् ।। २१ ॥ जिनास्तदुक्तं जीवो वा धर्माधर्मी भवान्तरम् । परोक्षत्वाद् मृषा नैव चिन्तयेत् प्राप्तदर्शनः ॥ २२ ॥ शारीरमानसानेवं स्वपरप्रेरितान् मुनिः । परीषहान् सहेताभीर्वाक्कायमनसां वशी ॥ २३ ॥ ज्ञानावरणीये वेध मोहनीयान्तराययोः । कर्ममुदयमाप्तेषु संभवन्ति परीषहाः ॥ २४ ॥ वेद्यात् स्यात् क्षुत् तृषा शीतमुष्णं दंशादयस्तथा । चर्या शय्या वधो
Jain Education in
h
al
For Personal & Private Use Only
Page #568
--------------------------------------------------------------------------
________________
तृतीयः
शाखम्
प्रकाशः।
॥२७५॥
रोगस्तुणस्पर्शमलावपि ॥२५॥ प्रज्ञाज्ञाने तु विज्ञेयौ ज्ञानावरणसंभवौ । अन्तरायादलाभोऽमी च्छास्थस्य चतुर्दश ॥ २६ ॥ क्षुत् पिपासा शीतमुष्णं दंशाश्चर्या वधो मलः । शय्या रोगस्तृणस्पर्शो जिने वेद्यस्य संभवात् ॥ २७ ॥ तथा उपसर्गेभ्यो निर्भीकः, तत्रोप सामीप्येन उपसर्जनादुपसृज्यत एभिरिति वा, उपसृज्यन्त इति वोपसर्गाः, ते च:
दिव्यमानुषतैरश्चात्मसंवेदनभेदतः । चतुष्प्रकाराः प्रत्येकमपि ते म्युश्चतुर्विधाः ॥ १॥ हास्याद् द्वेषाद् विमर्शाच्च तन्मिश्रत्वाच्च देवताः । हास्याद् द्वेषाद् विमर्शाद् दुःशीलसङ्गाच मानुषाः ॥ २॥ तैरश्चास्तु भयक्रोधाहारापत्यादिरक्षणात् । घट्टनस्तम्भनश्लेषप्रपातादात्मवेदनाः ॥ ३ ॥ यद्वा वात-पित्त-कफ-संनिपातोद्भवा अमी । परीषहोपसर्गाणामेपां सोढा भवेदमीः ॥४॥ जिनेष्वाराधनाकारिषु भक्तिभाक् बहुमानभाक, 'जिनैरपि हि संसारपारावारपारीणैः पर्यन्ताराधनानुष्ठिता' इति बहुमानात् । तथा च;
निव्वाणमतकिरिया सा चोद्दसमेण पढमनाहस्स । सेसाण मासिएणं वीरजिणंदस्स छटेण ॥ १॥ एवंभूतः सन् मरणं समाधिमरणं प्रतिपद्येत, आनन्दश्रावको यथेति संप्रदायगम्यम् । स चायम्
अस्त्यपास्तापरपुरं परमाभिर्विभूतिभिः । नाम्ना वाणिजकग्राम इति ख्यातं महापुरम् ॥ १॥ तत्र प्रजानां विधिवत् पितेव परिपालकः । जितशत्रुरिति ख्यातो बभूव पृथिवीपतिः॥२॥ आसीद् गृहपतिस्तस्मिन् नयनानन्दिदर्शनः । आनन्दो नाम मेदिन्यामायात इव चन्द्रमाः ॥ ३॥ सधर्मचारिणी तस्य रूपलावण्यहारिणी । बभूव शिवनन्देति शशाङ्कस्येव रोहिणी ॥ ४ ॥ निधौ वृद्धौ व्यवहारे चतस्रोऽस्य पृथक पृथक् । हिरण्यकोटयोऽ
(१) निर्वाणमन्तक्रिया सा चतुर्दशेन प्रथमनाथस्य । शेषाणां मासिकेन वीरजिनेन्द्रस्य षष्ठेन ॥ १॥
॥२७५||
Jain Education intell
For Personal & Private Use Only
Page #569
--------------------------------------------------------------------------
________________
भूवंश्चत्वारश्च वजा गवाम् ॥ ५ ॥ तत्पुरादुत्तरप्राच्यां कोल्लाकाख्योपपत्तने । आनन्दस्यातिबहवो बन्धुसंवन्धिनोऽ- | भवन् ॥ ६ ॥ तदा च पृथिवीं विहरन् जिनः सिद्धार्थनन्दनः । तत्पुरोपवने दृतिपलाशे समवासरत् ॥ ७॥ जितशत्रुर्महीनाथस्त्रिजगन्नाथमागतम् । श्रुत्वा ससंभ्रमोऽगच्छद् वन्दितुं सपरिच्छदः ॥ ८ ॥ आनन्दोऽपि ययौ पद्भयां पादमूले जगत्पतेः । कर्णपीयूषगण्डपकल्पां शुश्राव देशनाम् ।। 8॥ अथानन्दः प्रणम्याही त्रिजगत्स्वामिनः पुरः। जग्राह द्वादशविधं गृहिधर्म महामनाः ॥१०॥ शिवनन्दामन्तरेण स्त्रीः स तत्याज हेम तु । चतस्रश्चतस्रः स्वर्णकोटीनिध्यादिगा विना ।। ११ । प्रत्याचख्यौ बजानेष ऋते च चतुरो बजान् । क्षेत्रत्यागं च विदधे हलपञ्चशतीं विना ।। १२ ।। शकटान् वर्जयामास पञ्च पञ्च शतान्यते । दिग्यात्राव्यापूतानां च बहतां चानसामसौ ॥ १३ ॥ दिग्यात्रिकाणि चत्वारि स सांवहनिकानि च । विहाय वहनान्यन्यवहनानि व्यवर्जयत् ॥ १४ ॥ अपरं गन्धकाषाय्याः स तत्याजाङ्गपुंसनम् । दन्तधावनमाद्राया मधुयष्टेऋते जहौ ॥ १५ ॥ वर्जयामास च क्षीरामलकादपरं फलम् । अभ्यङ्गं च विना तैले सहस्रशतपाकिमे ॥ १६ ॥ अन्यत् सुरभिगन्धाढयादुद्वर्तनकमत्यजत् । अष्टभ्य औष्ट्रिकपयस्कुम्भेभ्योऽन्यच्च मजनम् ॥ १७ ॥ अपरं क्षौमयुगलाद् वासः सर्वमवर्जयत् । श्रीखण्डागुरुघुसणान्यपास्यान्यद् विलेपनम् ॥ १८॥ ऋते च मालतीमान्यात् पद्माच्च कुसुमं जहौ । कर्णिकानाममुद्राभ्यामन्यच्चाशेषभूषणम् ॥ १६ ॥ तुरुष्कागुरुधृपेभ्य ऋते धूपविधि जहौ । घृतपूरात् खण्डखाद्यादपरं भक्ष्यमत्यजत् ॥ २० ॥ काष्ठपेयां विना पेयां कलमादन्यदोदनम् । माषमुद्गकलायेभ्य ऋते सूपमपाकरोत् ॥ २१ ॥ घृतं च वर्जयामास विना शारदगोघृतात् । शाकं स्वस्तिकमण्डूकी पालक्यां च विना जहौ ।। २२ ॥ अते स्नेहाम्ल
Education
For Personel Private Use Only
Page #570
--------------------------------------------------------------------------
________________
योग
तृतीयः प्रकाशः।
शास्त्रम्
।। २७६॥
दाल्यम्लात् तीमनं चाम्बु खाम्बुनः । पञ्चसुगन्धिताम्बूलाद् मुखवासं च सोऽमुचत् ॥ २३ ॥ आनन्दः शिवनन्दाया उपेत्याथ ससंमदः । अशेषं कथयामास गृहिधर्म प्रतिश्रुतम् ॥ २४ ॥ शिवाय शिवनन्दापि यानमारुह्य तत्क्षणम् । भगवत्पादमृलेगाद् गृहिधार्थिनी ततः॥ २५ ॥ तत्र प्रणम्य चरणौ जगत्रयगुरोः पुरः। प्रपेदे शिवनन्दापि गृहिधर्म समाहिता ॥ २६ ॥ अभिरुह्य ततो यानं विमानमिव भासुरम् । भगवद्वाकसुधापानमुदिता सा गृहं ययौ ॥ २७ ॥ अथ प्रणम्य सर्वज्ञमिति पप्रच्छ गौतमः। महात्मायं किमानन्दो यतिधर्म ग्रहीष्यति ? ॥ २८ ॥ त्रिकालदर्शी भगवान् कथयामासिवानिति । श्रावकव्रतमानन्दः सुचिरं पालयिष्यति ॥ २६ ॥ ततः सौधर्मकल्पेऽसौ विमाने चारुणप्रभे । भविष्यत्यमरवरश्चतुष्पन्योपमस्थितिः॥ ३० ॥ सततं जागरूकस्य द्वादशव्रतपालने । आनन्दस्य ततोऽतीयुहायनानि चतुर्दश ॥ ३१ ॥ निशान्ते चिन्तयामास सोऽन्येद्युरिति शुद्धधीः । आश्रयः श्रीमतामस्मि भूयसामिह पत्तने ॥ ३२॥ विक्षिप्तश्चिन्तया तेषां मा स्म स्खलमहं क्वचित् । अङ्गीकतेऽस्मिन् सर्वज्ञप्रज्ञप्ते धर्मकर्मणि ॥ ३३ ॥ ततो मनसिकृत्यैवं प्रातरुत्थाय कृत्यवित् । कोल्लाके पोपधशालां सुविशालामचीकरत् ॥ ३४॥ निमन्त्र्य मित्रसंबन्धिबान्धवादीनसावथ । भोजयित्वाऽखिलं ज्येष्ठे भारं पुत्रेऽध्यरोपयत् ॥ ३५ ॥ ततश्च पुत्रमित्रादीन् सर्वानप्यनुमान्य सः। ययौ पौषधशालायां धर्मकर्मविधित्सया ।। ३६ ॥ तस्थौ तत्र महात्मासौ कर्मेव कृशयन् वपुः। धर्म भगवदादिष्टमात्मानमिव पालयन् ।। ३७ ॥ निःश्रेणिकल्पां स्वर्गापवर्गसौधाधिरोहणे । श्रावकप्रतिमापक्तिमारुरोह क्रमेण सः ॥ ३८ ॥ तपसा तेन तीव्रण शुष्कामुकपिशिताङ्गकः। चर्मवेष्टितयष्टयाभो महासचो बभूव सः॥३६॥ धर्मजागयया जाग्रनिशीथसमयेऽन्यदा। अभग्नस्तपसानन्दश्च
॥२७६ ॥
For Personal & Private Use Only
in Education Intel
Page #571
--------------------------------------------------------------------------
________________
तस्येवमचिन्तयत् ॥ ४०॥ यावदुत्थातुमीशोऽस्मि शब्दायितुमपीश्वरः । धर्माचार्यश्च भगवान् यावद् विहरते मम ॥४१॥ संलेखनामुभयथापि कृत्वा मारणान्तिकीम् । तावच्चतुर्विधाहारप्रत्याख्यानं करोम्यहम् ॥ ४२ ॥ चिन्तयित्वैवमानन्दस्तथैव विदधेऽपि च । विसंवदति चिन्तायाश्चेष्टितं न महात्मनाम् ॥ ४३ ॥ निराकासस्य कालेऽपि समत्वाध्यवसायिनः । तस्य जज्ञेऽवधिज्ञानं तदावरणशुद्धितः॥४४॥ तत्राजगाम भगवान् श्रीवीरो विहरंस्तदा। दूतिपलाशे समवासरचक्रे च देशनाम् ॥ ४५ ॥ गौतमश्च तदा भिक्षाचर्यया प्राविशत् पुरे । आत्तानपानः कोलाके ययावानन्दभूषिते ॥४६॥ मिलितं तत्र भूयांसं लोकं संजातविस्मयम् ।। ४७ ॥ शिष्यो जगद्गुरोर्वीरस्यानन्दो नाम पुण्यधीः । प्रपन्नानशनोऽस्तीहः निरीहः सर्वथापि हि॥४८॥ गौतमस्तु तदाकर्ण्य पश्याम्यमुमुपासकम् । इति बुद्धया जगामाथ तत्पोषधनिकेतनम् ॥४६॥ अकस्माद् रत्नवृष्टयाभं तमचिन्तितमागतम् । दृष्ट्वा सानन्दमानन्दोऽ वन्दतैवमुवाच च ॥५०॥ भगवन ! तपसाऽनेन क्लिष्टमुत्थातुमक्षमः। इहैवनभियोगेन यथा पादौ स्पृशामि ते॥५१॥ उपेत्य पुरतस्तस्य तस्थुषोऽस्य महामुनेः । अवन्दत त्रिधानन्दश्चरणौ शिरसा स्पृशन् ॥ ५२ ।। किं भवत्यवधिज्ञानं भगवन् गृहमेधिनः । इत्यानन्देन पृष्टः सन्नामेत्यूचे महामुनिः ॥५३॥ आनन्दोऽथावदत् स्वामिन् ! तर्हि मे गृहमेधिनः। अवधिज्ञानमुत्पेदे गुरुपादप्रसादतः ॥ ५४ ॥ आपं च योजनशती पूर्वाग्धौ दक्षिणोदधौ । पश्चिमाब्धौ च वीक्षेऽहमुदीच्यां त्वा हिमाचलात् ॥ ५५ ॥ ऊर्ध्व सौधर्मकल्पादा पश्यामि भगवन्नहम् । अधो रत्नप्रभायास्तु पृथव्या ा लोलुपाद् वनात् ।।५६॥ मुनिरूचेऽवधिज्ञानं जायते गृहमेधिनः । न त्वियन्मात्रविषयं स्थानस्सालोचयास्य तत् ।। ५७ ।। आनन्दोऽप्यनवीदेतदस्ति मे तत, सतामपि । भावानामभिधाने किं भवेदालो
in Education International
For Personal & Private Use Only
Page #572
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥ २७७॥
चना कचित् ? ॥ ५८॥ मवेदालोचना नो चेद् ननु तद् यूयमेव हि । आलोचनामाददीध्वं स्थानस्यामुष्य तृतीयः संप्रति ॥ ५६ ॥ प्रानन्देनेत्यभिहिते साशको गौतमस्ततः । ययौ श्रीवीरपादान्ते भक्तपानाद्यदर्शयत् ॥ ६॥
प्रकाशः। आनन्दस्यावधिज्ञानमानविप्रतिपत्तिजम् । वादं चावेदयाश्चक्रे गौतमस्तं जगद्गुरोः ॥६१ ॥ आलोचनीयं तदिह किमानन्देन किं मया । गौतमेनेति विज्ञप्ते भवतेत्यादिशत् प्रभुः॥ ६२ ॥ तथैव प्रतिपेदे तद् विदधे च तथैव सः। धमयामास चानन्दं चमिणं क्षमिणां वरः ॥६३॥ वर्षाणि विंशतिमिति प्रतिपाल्य धर्म-मानन्द आसददथानशनेन मृत्युम् । जज्ञे सुरोऽरुणविमानवरे विदेहेषत्पद्य यास्यति पदं परमं ततश्च ॥ ६४ ॥ १५३ ।।
॥ इति आनन्दश्राद्धकथानकम् ॥ अथ प्रकृतस्य श्रावकस्योत्तरां गतिं श्लोकद्वयेनाहप्राप्तःस कल्पेष्विन्द्रत्वमन्यद्वास्थानमुत्तमम् ।मोदतेऽनुत्तरप्राज्यपुण्यसंभारभाक्ततः॥१५४॥
च्युत्वोत्पद्य मनुष्येषु भुक्ता भोगान् सुदुर्लभान् ।
विरक्तो मुक्तिमाप्नोति शुद्धात्मान्तर्मवाष्टकम् ॥ १५५ ॥ व्याख्या–स श्रावको यथोक्तश्रावकधर्मपरिपालनात् कल्पेषु सौधर्मादिषु, सम्यग्दृष्टीनामन्यत्रोत्पादाभावात् + इन्द्रत्वं शक्रत्वम् , अन्यद् वा सामानिक-त्रायस्त्रिंश-पारिषद्य-लोकपालादिसंबन्धि स्थानं पदं प्राप्तः, उत्तममित्या- ॥ २७७ ॥
For Personal & Private Use Only
www.n
ary.org
Page #573
--------------------------------------------------------------------------
________________
भियोग्यादिस्थानव्यवच्छेदार्थम्, तत्रोत्पन्नश्च मोदते प्राप्तरत्नविमानमहोद्यानमज्जनवापीविचित्ररत्नवस्त्राभरणः सुरसुन्दरीचामरव्यजनव्याजवार्यमाणमौलिमन्दारमान्यमधुकरोहमहमिकासेवासमायातत्रिदशकोटीचाटुकारजयजयध्वनिप्रतिध्वनितनभोङ्गणो मनोमात्रपरिश्रमसंमिलितसकलवैषयिकसुखलालितो नानासिद्धायतनयात्रासमुत्पन्नहर्षप्रकर्षः सन् प्रमोदमाग भवति । अथ हेतुमाह-अनुत्तरा अनन्यसाधारणाः प्राज्या बहवो ये पुण्यसंभारास्तान भजते तद्भाक् ॥ १५४॥ ततः कन्पेभ्यश्युत्वा मनुष्यायुर्निबन्धेन च्यवनमनुभूय मनुष्येषु विशिष्टदेशजातिकुलबलैश्वर्यरूपवत्सूत्पद्यौदारिकशरीरत्वेन जन्म लब्ध्वा, भुक्त्वाऽनुभूय भोगान् शब्द-रूप-रस-गन्ध-स्पर्शलक्षणानकृतपुण्यरतिशयेन दुर्लभान, यत किञ्चिद् निमित्तमवाप्य सांसारिकेभ्यः सुखेभ्यो विरक्तो वैराग्यस्यैव परमप्रकर्षयोगेन सर्वविरतिं प्रतिपद्य तत्रैव जन्मनि आपकश्रेण्याक्रमणक्रमेण केवलज्ञानमुत्पाद्य निःशेषकर्मनिर्मूलनेन शुद्धात्मा मुक्तिमामोति । अथ न तत्रैव जन्मनि मुक्तिस्तदा कियत्सु जन्मान्तरेषु मुक्तिः स्यादित्याह-'अन्तर्भ: वाष्टकम् ' इति भवाष्टकाभ्यन्तर इत्यर्थः ॥ १५५ ॥
प्रकाशत्रयोक्तमर्थमुपसंहरतिइति संक्षेपतः सम्यग्रत्नत्रयमुदीरितम् । सर्वोऽपि यदनासाद्य नासादयति निर्वृतिम् ॥१५६॥ - इति प्रकाशत्रयेण रत्नत्रयं ज्ञानदर्शनचारित्रात्मकं योगत्वेन प्रत्याख्यातमुदीरितं कथितम् । कथम् ? सम्यग् जिनागमाविरोधेन । विस्तरस्यासर्वविदा वक्तुमशक्यत्वादाह-संक्षेपतः । रत्नत्रयं विनाऽन्यतोऽपि कारणाद् * निर्वाणप्राप्तिं शङ्कमानं प्रत्याह-सर्वोऽपि, प्रास्तां कश्चिदेकः, यद् रत्नत्रयमनासाद्य काकतालीयेनापि न्यायेन
For Personel
Private Use Only
Page #574
--------------------------------------------------------------------------
________________
प्रकाशः।
योग- नामोति निर्वृतिं मोक्षम् । न ह्यज्ञाततवोऽश्रद्दधानो नवं कर्म निबन्धन पूर्वोपात्तानि कर्माणि शुक्लध्यानवलेनाचपयन् शास्त्रम् | संसारबन्धनाद् मुक्तिमामोतीति सर्व समञ्जसम् ।। १५६ ॥
॥ इति परमाईतश्रीकुमारपालभूपालशुभूषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषन्नाम्नि संजातपट्टबन्धे ॥२७८i
श्रीयोगशास्त्रे स्वोपज्ञं तृतीयप्रकाशविवरणम् ॥ ३ ॥
॥ अहम् ॥ अथ चतुर्थः प्रकाशः।
धर्मधर्मिणोर्भेदनयमधिकृत्यात्मनो रत्नत्रयं मुक्तिकारणत्वेनोक्तम् । इदानीमभेदनयाश्रयेणात्मनो रत्नत्रयेणैकत्वमाहश्रात्मैव दर्शनज्ञानचारित्राण्यथवा यतेः । यत्तदात्मक एवैष शरीरमधितिष्ठति ॥ १॥
अथवेति भेदनयापेक्षया प्रकारान्तरस्याभेदनयस्य प्रकाशनार्थम् । आत्मैव न ततो भिन्नानि दर्शनज्ञानचाारत्राणि । यतेरिति संबन्धिपदम् । अत्रोपपत्तिमाह-यद् यस्मात् तदात्मक एव दर्शन-ज्ञान-चारित्रात्मक एव
॥२७॥
in Education interrel
For Personal & Private Use Only
Il
Page #575
--------------------------------------------------------------------------
________________
10.K+16+ *****
Jain Education Inter
तदभेदमापन एवैष आत्मा शरीरमधितिष्ठति । श्रात्मभिन्नानां हि दर्शनादीनां नात्मनि मुक्तिहेतुत्वं स्यात्, दत्तसंबन्धिनामिव यज्ञदत्ते ॥ १ ॥ भेदमेव समर्थयितुमाह
श्रात्मानमात्मना वेत्ति मोहत्यागाद्य श्रात्मनि । तदेव तस्य चारित्रं तज्ज्ञानं तच्च दर्शनम् ||२|| आत्मानं कर्मतापनमात्मन्याधारभूते आत्मना स्वयमेव यो वेत्ति जानीते । एतच्च ज्ञानं न मूढानां भवतीत्याह — मोहत्यागात् । तदेवात्मज्ञानमेव तस्यात्मनश्चारित्रम्, अनाश्रवरूपत्वात् ; तज्ज्ञानं तदेव ज्ञानम्, त्वात् ; तच्च दर्शनम्, तदेव दर्शनं श्रद्धानरूपत्वात् ॥ २ ॥
1
बोधरूप
श्रात्मज्ञानमेव स्तौति
देव
आत्माज्ञानभवं दुःखमात्मज्ञानेन हन्यते । तपसाप्यात्मविज्ञानहींनैश्छेत्तुं न शक्यते ॥ ३ ॥
इह सर्व दुःखमनात्मविदां भवति, तदात्माज्ञानभवं प्रतिपक्षभूतेनात्मज्ञानेन शाम्यति क्षयमुपयाति तम इव प्रकाशेन । ननु कर्मक्षयहेतुः प्रधानं तप उक्तम्, यदाहु:, - " पुवि दुच्चिन्नाणं दुष्पडिकंताणं कडाणं कम्माणं वेत्ता मोक्खो, नत्थि अवेयइत्ता, तवसा वा झोसइत्ता " इत्याह, तपसापि आस्तामन्येनानुष्ठानेन तदात्माज्ञानभवं दुःखमात्मविज्ञानहीनैर्न च्छेत्तुं शक्यते, ज्ञानमन्तरेण तपसोऽल्पफलत्वात् यदाह; -
(१) पूर्व दुश्चरितानां दुष्प्रतिक्रान्तानां कृतानां कर्मणां वेदयित्वा मोक्षो नास्त्यवेदयित्वा तपसा वा क्षपयित्वा ।
For Personal & Private Use Only
03
108+0
FO**K
Page #576
--------------------------------------------------------------------------
________________
योग
चतुर्थः
शास्त्रम्
प्रकाशः।
॥२७६ ॥
जं अन्नाणी कम्म खवेइ बहुआहिं वासकोडीहिं । तं णाणी तिहिं गुत्तो खवेइ ऊसासमेत्तेण ॥ १॥
तत स्थितमेतत-बाह्यविषयव्यामोहमपहाय रत्नत्रयसर्वस्वभूते आत्मज्ञाने प्रयतितव्यम् , यदाहुर्बाह्या अपि"आत्मा रे श्रोतव्यो मन्तव्यो निदिध्यासितव्य" इति । आत्मज्ञानं च नात्मनः कर्मभूतस्य पृथक् किञ्चित् , अपि त्वात्मनश्चिद्रपस्य स्वसंवेदनमेव मृग्यते, नातोऽन्यदात्मज्ञानं नाम, एवं दर्शनचारित्रे अपि नात्मनो भिन्ने। एवं च चिद्रूपोऽयं ज्ञानाद्याख्याभिरभिधीयते । ननु विषयान्तरव्युदासेन किमित्यात्मज्ञानमेव मृग्यते ? विषयान्तरज्ञानमेव ह्यज्ञानरूपं दुःखं छिन्द्यात् । नैवम् , सर्वेविषयेभ्य आत्मन एव प्रधानत्वात् , तस्यैव कर्मनिबन्धनशरीरपरिग्रहे दु:खितत्वात , कर्मचये च सिद्धस्वरूपत्वात् ।।
एतदेवाहअयमात्मैव चिद्रूपः शरीरी कर्मयोगतः। ध्यानाग्निदग्धकर्मा तु सिद्धात्मा स्यान्निरञ्जनः ॥४॥ __अयमिति सकलप्रमाणप्रतिष्ठितश्चिद्रपश्चेतनस्वभावः, उपयोगलक्षणत्वाजीवस्य तथा स एव शरीरी भवति, कर्मयोगात, न त्वन्ये विषयाः; तेन न विषयान्तरज्ञानं मृग्यते । प्रात्मैव च शुक्रध्यानाग्निदग्धकर्माऽशरीरः सन् मुक्तस्वरूपो भवति निरञ्जनो निर्मलः। अतोऽपि कारणादात्मज्ञानं मृग्यते ॥ ४ ॥ तथाअयमात्मैव संसारः कषायेन्द्रियनिर्जितः। तमेव तद्विजेतारं मोक्षमाहुर्मनीषिणः ॥ ५॥ (२) यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटिभिः । तज्ज्ञानी त्रिमिर्गुप्तः क्षपयत्युच्चासमात्रेण ॥ १ ॥
R
२७६॥
.JainEducation into
For Personal Private Use Only
Page #577
--------------------------------------------------------------------------
________________
'अयमात्मैव ' इति पूर्ववत । संसारो नारक-तिर्यग-नरा-ऽमररूपतया । किंविशिष्टः सन् ? कषायोन्द्रियनिर्जितः कषायैरिन्द्रियैश्च पराभूतः । तमेव चात्मानं तद्विजेतारं कषायेन्द्रियजेतारं मोक्षमाहुः । न हि स्वरूपलाभादन्यो मोक्षः । याऽप्यानन्दरूपता सापि स्वरूपलाभरूपैव । तसादात्मज्ञानमुपासनीयम् , दर्शन-चारित्रादेरत एव सिद्धेरिति ॥ ५॥
'कषायेन्द्रियनिर्जितः' इत्युक्तम् , तत्र कषायान् विवृणोतिस्युः कषायाः क्रोधमानमायालोभाः शरीरिणाम् । चतुर्विधास्ते प्रत्येकं भेदैःसंज्वलनादिभिः ॥६॥ - क्रोधमानमायालोमाः कषायशब्दवाच्या भवन्ति कष्यन्ते हिंस्यन्ते प्राणिनोऽस्मिन्ननेनेति वा कपः संसारः कर्म वा तस्याया लाभाः प्राप्तय इति कृत्वा, अथवा, कषं संसारमयन्त एभिरिति कृत्वा । ते च शरीरिणां संसारिणां न तु मुक्तानाम् । ते च क्रोधादयः प्रत्येकं चतुर्विधाश्चतुष्प्रकाराः संज्वलनादिभिर्भेदैः। तत्र क्रोधः संज्वलनः, प्रत्याख्यानावरणः, अप्रत्याख्यानावरणः, अनन्तानुबन्धी च । एवं मानः, माया लोमश्चेति ॥६॥
__संज्वलनादीनां लक्षणमाह| पक्षं संज्वलनः प्रत्याख्यानो मासचतुष्टयम्।अप्रत्याख्यानको वर्ष जन्मानन्तानुबन्धकः ॥७॥
पक्षं मासार्धमभिव्याप्य संज्वलनः क्रोधो मानो माया लोभश्च भवति । संज्वलन इति तृणाग्निवदीपज्ज्वलनात्मकः, परीपहादिसंपाते सपदि ज्वलनात्मको वा । प्रत्याख्यानो " भीमो भीमसेन" इति न्यायेन प्रत्याख्या
Jain Education
a
l
For Personal & Private Use Only
Page #578
--------------------------------------------------------------------------
________________
योग
चतुधः
शास्त्रम्
२८०।
नावरणः प्रत्याख्यानं सर्वविरतिमावृणोतीति कृत्वा । स मासचतुष्टयमभिव्याप्य भवति । अप्रत्याख्यानोऽप्रत्या-1 ख्यानावरणः, नोऽल्पार्थत्वादन्पमपि प्रत्याख्यानमावृणोतीति कृत्वा । स वर्ष संवत्सरमभिव्याप्य भवति ।
प्रकाशन अनन्तं भवमनुबन्नातीत्यनन्तानुबन्धकः मिथ्यात्वसहचरितत्वादस्यानन्तभवानुबन्धित्वम् । स जन्म जीवितकालमभिव्याप्य भवति । प्रसन्नचन्द्रादेः क्षणमात्रस्थितीनामपि कषायाणामनन्तानुवन्धित्वम् , अन्यथा नरकयोग्यकर्मोपार्जनाभावात् ॥ ७॥
इति कालनियमकृते संज्वलनादिलक्षणेऽपरितुष्यलक्षणान्तरमाहवीतरागयतिश्राद्धसम्यग्दृष्टिवघातकाः । ते देवत्वमनुष्यत्वतिर्यक्त्वनरकप्रदाः ॥ ८॥
त्वशब्दः प्रत्येकमभिसंबध्यते, तेन वीतरागत्वस्य, यतित्वस्य, श्रावकत्वस्य, सम्यग्दृष्टित्वस्य च क्रमेण घातकाः, तथाहि-संज्वलनोदये यतित्वं भवति न पुनर्वीतरागत्वम् ; प्रत्याख्यानावरणोदये श्रावकत्वं भवति न पुनयतित्वम् । अप्रत्याख्यानावरणोदये सम्यग्दृष्टित्वं भवति न पुनः श्रावकत्वम् । अनन्तानुबन्ध्युदये सम्यग्दृष्टित्वं न भवति । एवं वीतरागत्वघातकत्वं संज्वलनस्य, यतित्वघातकत्वं प्रत्याख्यानावरणस्य, श्रावकत्वघातकत्वमप्रत्याख्यानावरणस्य, सम्यग्दृष्टित्वघातकत्वमनन्तानुबन्धिनः स्थितं लक्षणं भवति । उत्तरार्धेनामीयां फलदायक त्वमाह-ते संज्वलनादयो देवत्वादिफलदायकाः; तथाहि-संज्वलनाः क्रोधादयो देवगतिम् , प्रत्याख्यानावरणा मनुष्यगतिम् , अप्रत्यानावरणास्तिर्यग्गतिम् , अनन्तानुबन्धिनो नरकगतिं प्रयच्छन्तीति । एतेषां च संज्वलनादिभेदानां चतुर्णा कषायाणां स्पष्टदृष्टान्तकथनेन स्वरूपमुच्यते-जलराजि-रेणुराजि-पृथिवीराजि-पर्वतराजिसदृशाः ॥२८० ॥
Jain Education inted
For Personal & Private Use Only
Page #579
--------------------------------------------------------------------------
________________
* →→ **<--+ (·) %+
Jain Education Interna
क्रोधाः संज्वलनादिभेदाः, विनिशलता - काष्ठा-स्थि - शैलस्तम्भसदृशाश्चत्वारो मानाः, अवलेखन - गोमूत्रिका - मेषशृङ्ग-वंशिमूलसमाश्चतस्रो मायाः, हरिद्रा - खञ्जन - कर्दम- कृमिरागसदृशाश्चत्वारो लोभाः, यदाह
जलरेणुपुढविपन्चयराईसरिसो चउन्त्रिहो कोहो । तिनिसलयाकडुट्ठियले लत्थंभोवमो माणो ॥ १ ॥ मायावलेहगोमुत्तिमिंढसिंगथणवंसिमूलसमा । लोहो हलिद्दखंजणकद्दमकिमिरागसारिच्छो ॥ २ ॥ इति ॥ ८ ॥ _r कषायाणां जेतव्यत्वमुपदर्शयितुं दोषानाहतत्रोपतापकः क्रोधः क्रोधो वैरस्य कारणम् । दुर्गतेर्वर्तनी क्रोधः क्रोधः शमसुखार्गला ॥ २ ॥
तत्रेति तेषु कषायषु क्रोधः प्रथमकषाय उपतापयति शरीरमनसी इत्युपतापकः, तथा वैरस्य परस्परोपघातात्मनो विरोधस्य सुभूम - परशुरामयोरिव कारणम्, तथा दुर्गतेर्नरकलक्षणायास्तयोरिव वर्तनी मार्गः क्रोधः; तथा शमसुखस्य प्रशमानन्दस्यात्मनि प्रविशतोऽर्गलेवार्गला, तदुपरोधकारित्वात् । पुनः पुनः क्रोधग्रहणं तस्यातिदौष्ट्वज्ञापनार्थम् ॥ ६ ॥
स्व-परोपतापकारित्वेऽपि क्रोधस्य कृशानुदृष्टान्तेन स्वोपतापकत्वं समर्थयते,— उत्पद्यमानः प्रथमं दहत्येव स्वमाश्रयम् । क्रोधः कृशानुवत्पश्चादन्यं दहति वा न वा ॥ १०॥ ( १ ) जलरेणुष्टथ्वी पर्वतराजिसदृशश्चतुर्विधः क्रोधः । तिनिशलताकाष्ठास्थिकशैलस्तम्भोपमो मानः ॥ १ ॥ मायाऽवलेख गोमूत्रिकामें ढकशृङ्गघनवंशिमूलसमा । लोभो हरिद्राखञ्जन कर्दम कृमिरागसदृशः ॥ २ ॥
For Personal & Private Use Only
1700608+0+1-1++**-+103+0
Page #580
--------------------------------------------------------------------------
________________
योगशास्रम्
॥ २८१ ॥
Jain Education Intera
下
तथाविधकारण संपाते उत्पद्यमानः क्रोधः कृशानुवत् स्वं स्वकीयमाश्रयं यत्र स उत्पद्यते तं नियमेन दहति, पश्चात् कृशानुवदेवान्यं दाह्यान्तरं दहति वा न वा, परस्य क्षमाशीलत्वादिना साई ( सान्द्र ) दुमादिवत् दग्धुमशक्यत्वात् । अत्रान्तरश्लोकाः,
अर्जितं पूर्वकोव्या यद् वर्षैरष्टभिरूनया | तपस्तत् तत्क्षणादेव दहति क्रोधपावकः ॥ १ ॥ शमरूपं पयः प्राज्यपुण्यसंभारसंचितम् । श्रमर्षविषसंपर्काद सेव्यं तत्क्षणाद् भवेत् ||२|| चारित्रचित्ररचनां विचित्रगुणधारिणीम् । समुत्सर्पन् क्रोधधूमो श्यामलीकुरुतेतराम् ॥ ३ ॥ यो वैराग्यशमीपत्र पुटैः समरसोऽर्जितः । शाकपत्रपुटामेन क्रोधेनोत्सृज्यते स किम् ? ।। ४ ।। प्रवर्धमानः क्रोधोऽयं किमकार्य करोति न १ । जज्ञे हि द्वारका द्वैपायनक्रोधानले समित् ॥ ५ ॥ क्रुध्यतः कार्यसिद्धिर्या न सा क्रोधनिबन्धना । जन्मान्तरार्जितोर्जस्विकर्मणः खलु तत्फलम् ॥ ६ ॥ स्वस्य लोकद्वयोच्छियै नाशाय स्वपरार्थयोः । धिगहो ! दधति क्रोधं शरीरेषु शरीरिणः ||७|| क्रोधान्धाः पश्य निम्नन्ति पितरं मातरं गुरुम् । सुहृदं सोदरं दारानात्मानमपि निर्घृणाः ॥ ८ ॥ १० ॥
क्रोधस्य स्वरूपमुक्त्वा तज्जयोपायमुपदिशति
क्रोधवह्नेस्तदह्नाय शमनाय शुभात्मभिः । श्रयणीया चमैकैव संयमारामसारणिः ॥ ११ ॥ यस्मात् क्रोध एवंविधस्तस्मात् क्रोधवह्नेरह्वाय झटिति शमनाय शान्तये शुभात्मभिः पुण्यात्मभिः, अह्नाय - ग्रहणं झटिति क्रोधोपशमोपदेशार्थम्, क्रोधो हि प्रथममेवाप्रतिहतः सन् विवर्धमानो दवानल इव पश्चात् निवारयितुमशक्यः, यदाह
For Personal & Private Use Only
08-10+20+10+-*-*--
चतुर्थः
प्रकाशः ।
॥ २८१ ॥
Page #581
--------------------------------------------------------------------------
________________
अणथोवं वणथोवं अग्गिथोवं कसायथोवं च । न हु मे वीससियव्वं थोवं पि हुतं बहुं होई॥१॥
श्रयणीया आश्रयितव्या एकैव क्षमा । न हि क्षमामन्तरेण क्रोधोपशमोपायो जगत्यस्ति, क्रोधफलसंप्रदानं तु वैरहेतुत्वेन प्रत्युत क्रोधवृद्धिहेतुः, न तु तत्पशमाय इत्येकग्रहणम् । क्षमा विशिनष्टि-संयमारामसारणिः संयम एव नवनवानां संयमस्थानानां तरूणामारोपहेतुत्वेन तद्वृद्धिहेतुत्वेन चारामो विचित्रतरुसमूहात्मकस्तस्य सारणिः कुल्या संयमारामवृद्धिहेतुतया पुष्पफलप्राप्तिहेतुतया च । क्षमा हि प्रशान्तवाहितारूपा चित्तपरिणतिः सा सारणित्वेन रूपिता नवनवप्रशमपरम्पराप्रवाहरूपत्वात् । अत्रान्तरश्लोकाः___अपकारिजने कोपो निरोधुं शक्यते कथम् । शक्यते सत्त्वमाहात्म्याद् यद्वा भावनयाऽनया ॥१॥ अङ्गीकत्यात्मनः पापं यो मां बाधितुमिच्छति । स्वकर्मनिहि (ह) तायास्मै का कुप्येद् बालिशोऽपि सन् ॥२॥ प्रकुप्याम्यपकारिभ्य इति चेदाशयस्तव । तत् किं न कुप्यसि स्वस्य कर्मणे दुःखहेतवे ॥३॥ उपेक्ष्य लोष्टक्षेप्तारं लोष्टं दशति मण्डलः । मृगारिः शरमप्रेक्ष्य शरक्षेप्तारमृच्छति ॥४॥ यैः परः प्रेरितः क्रूरैर्मह्यं कुप्यति कर्मभिः । तान्युपेक्ष्य परे क्रुध्यन् किं श्रये भषणश्रियम् । श्रूयते श्रीमहावीरः शान्त्यै म्लेच्छेषु जग्मिवान् । अयत्नेनागतां क्षान्ति वोढुं किमिव नेच्छसि ॥ ६॥ त्रैलोक्यप्रलयत्राणक्षमाश्चेदाश्रिताः क्षमाम् । कदलीतुल्यसत्त्वस्य क्षमा तव न किंक्षमा १॥ ७॥ तथा किं नाकृथाः पुण्यं यथा कोऽपि न बाधते ?। स्वप्रमादमिदानीं तु शोचनङ्गीकुरु क्षमाम् ॥ ॥क्रोधान्धस्य मुनेश्चण्डचण्डालस्य च नान्तरम् । तस्मात् क्रोधं परित्यज्य भजोज्ज्वलधियां पदम् ।
(१) ऋणस्तोकं वनस्तोकमग्निस्तोकं कषायस्तोकं च । न खलु भवता विश्वसितव्यं स्तोकमपि तद् बहु भवति ॥१॥
in Education Interna
For Personal & Private use only
Ediww.jainelibrary.org
Page #582
--------------------------------------------------------------------------
________________
चतुर्थ: प्रकाश
योग- 1॥६॥ महर्षिः क्रोधसंयुक्तो निष्क्रोधः कूरगड्डकः । ऋषि मुक्त्वा देवताभिर्ववन्दे कूरगड्डुकः ॥ १०॥ अरुन्तुशाखम् दैवचःशस्त्रैस्तुद्यमानो विचिन्तयेत् । चेत् तथ्यमेतत् कः कोपोऽथ मिथ्योन्मत्तभाषितम् ॥ ११॥ वधायोपस्थितेऽ
न्यस्मिन् हसेद् विस्मितमानसः । वधे मत्कर्मसंसाध्ये वृथा नृत्यति बालिशः ॥ १२ ॥ निहन्तुमुद्यते ध्यायेदायुषः ॥२५२॥
क्षय एष नः । तदसौ निर्भयः पापात् करोति मृतमारणम् ॥ १३ ।। सर्वपुरुषार्थचौरे कोपे कोपो न चेत् तव । धिक् त्वां स्वन्पापराधेऽपि परे कोपपरायणम् ॥ १४॥ सर्वेन्द्रियग्लानिकरं विजेतुं, कोपं प्रसर्पन्तमिवोग्रसर्पम् ।
विद्यां सुधीर्जाङलिकीमिवान-वद्यां क्षमा संततमाद्रियेत ॥ १५ ॥ ११ ॥ A मानकषायस्य स्वरूपमाह| विनयश्रुतशीलानां त्रिवर्गस्य च घातकः। विवेकलोचनं लुम्पन् मानोऽन्धङ्करणो नृणाम् ॥१२|| ___विनयश्च गुर्वादिषूपचारलक्षणः, श्रुतं च विद्या, शीलं च सुस्वभावता, तेषां घातकः । जात्यादिमदाध्मातो | हि पिशाचकिप्रायो न गुर्वादीनां विनीतो भवति । अविनीतश्च गुरूनशुश्रूषमाणो न विद्या प्रतिलभते । अत एव सर्वजनावज्ञाकारी स्वस्य दुःस्वभावतां प्रकटयति । न केवलं विनयादीनामेव घातको मानो यावत् त्रिवर्गस्य धर्मार्थकामलक्षणस्य । मदावलिप्तस्य हि नेन्द्रियजयः, तदधीनश्च धर्मः कथं स्यात् । अर्थोऽपि राजादिसेवापरायत्तवृत्तिानस्तब्धस्य कथं स्यात् ? । कामस्तु मार्दवमूल एव, तत् कथं मानस्तब्धे स्थाणाविव भवेत् । किश्च | अनन्धोऽन्धः क्रियतेऽनेनेत्यन्धङ्करणो मानः । केषां ? नृणाम् । किं कुर्वन् ? लुम्पन् । किं तत् ? विवेकलोचनं विवेकः कृत्याकृत्यविचारणं स एव लोचनम्, "एक हि चक्षुरमलं सहजो विवेकः" इति वचनात् । मानवतो हि
॥ २८
॥
JanEducation
For Personal & Private Use Only
PC
Page #583
--------------------------------------------------------------------------
________________
वृद्धसेवामकुर्वाणस्य विवेकलोचनलोपनमवश्यंभावि, तसिंश्च सत्यन्धकरणत्वं मानस्य सुवचमेव ॥ १२॥ ___ इदानीं मानस्य भेदानुपदर्शयस्तत्फलमाहजातिलाभकुलै श्वर्यदलरुपतपःश्रुतैः । कुर्वन् मदं पुनस्तानि हीनानि लभते जनः ॥ १३ ॥ ___ जातिश्च लाभश्चेत्यादिद्वन्द्वः, तैर्मदं मदलिप्तचित्ततां कुर्वन् , तान्येव जात्यादीनि जन्मान्तरे हीनानि लभते । अनान्तर श्लोकाः
जातिभेदान् नैकविधानुत्तमाधममध्यमान् । दृष्ट्वा को नाम कुर्वीत जातु जातिमदं सुधीः ॥१॥ उत्तमां जातिमाप्नोति हीनामामोति कर्मतः । तत्राशाश्वतिकी जाति को नामासाद्य माद्यतु ॥२॥ अन्तरायक्षयादेव लाभो भवति नान्यथा । ततश्च वस्तुतत्वज्ञो न लाभमदमुद्हेत् ॥ ३॥ परप्रसादशक्त्यादिभवे लाभे महत्यपि । न लाभमदमृच्छन्ति महात्मानः कथञ्चन ॥४॥ अकुलीनानपि प्रेक्ष्य प्रज्ञाश्रीशीलशालिनः । न कर्तव्यः कुलमदो महाकुलभवैरपि ॥५॥ किं कुलेन कुशीलस्य सुशीलस्यापि तेन किम् । एवं विदन् कुलमदं विदध्याद् न विचक्षणः ॥ ६ ॥ श्रुत्वा त्रिभुवनैश्वर्यसंपदं वज्रधारिणः । पुरग्रामधनादीनामैश्वर्ये कीदृशो मदः ॥ ७ ॥ गुणोज्ज्वलादपि भ्रश्येद् दोषवन्तमपि श्रयेत् । कुशीलस्त्रीवदेश्वर्य न मदाय विवेकिनाम् ॥ ८ ॥ महाबलोऽपि रोगाद्यैरबलः क्रियते क्षणात् । इत्यनित्ये बले पुंसां युक्तो बलमदो न हि ॥ ६ ॥ बलवन्तोऽपि जरसि मृत्यौ कर्मफलान्तरे । अबलाश्चेत, ततो हन्त ! तेषां बलमदो मुधा ॥ १०॥ सप्तधातुमये देहे चयापचयधर्मिणि । जरारुजाभिभाव्यस्य को रूपस्य मदं वहेत् ॥ ११॥ सनत्कुमारस्य रूपं तत्क्षयं च
Iain Education inte
४८
For Personal & Private Use Only
HT
Page #584
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥२८॥
विचारयन् । को वा सकर्णःस्वप्नेऽपि कुर्याद् रूप मदं किल ॥ १२॥ नाभेयस्य तपोनिष्ठां श्रुत्वा वीरजिनस्य च । चतुर्थः है को नाम स्वल्पतपसि स्वकीये मदमाश्रयेत् ॥ १३ ॥ येनैव तपसा त्रुट्येत् तरसा कर्मसंचयः। तेनैव मददिग्धेन
नप्रकाशः। वर्धते कर्मसंचयः ।। १४ ॥ स्वबुद्ध्या रचितान्यन्यैः शास्त्राण्याघ्राय लीलया। सर्वज्ञोऽस्मीति मदवान् स्वकीयाङ्गानि खादति ।। १५॥ श्रीमद्गणधरेन्द्राणां श्रुत्वा निर्माणधारणे । कः श्रयेत श्रुतमदं सकर्णहृदयो जनः ॥१६॥
केचित्तु ऐश्वर्यतपसोः स्थाने वाल्लभ्यबुद्धिमदौ पठन्ति, उपदिशन्ति च,द्रमकैरिव च दुष्कर्मकमुपकारनिमित्तकं पर जनस्य । कृत्वा यद् वाल्लभ्यकमवाप्यते को मदस्तेन ॥ १ ॥ गर्व परप्रसादात्मकेन वाल्लभ्यकेन यः कुर्यात् । तद्वाल्लभ्यकविगमे शोकसमुदयः परामृशति ॥ २॥ तथाग्रहणोद्धाहणनवकृतिविचारणार्थावधारणायेषु । बुद्ध्यङ्गविधिविकल्पेष्वनन्तपर्यायवृद्धेषु ॥ ३ ॥ पूर्वपुरुषसिंहानां विज्ञानातिशयसागरमनन्तम् । श्रुत्वा सांप्रतपुरुषाः कथं स्वबुद्ध्या मदं यान्ति ? ॥४॥१३॥
मानस्य स्वरूपं भेदांश्च प्रतिपाद्य, इदानीं समानप्रतिपचभूतं मार्दवं मानजयोपायमुपदिशति,उत्सर्पयन् दोषशाखा गुणमूलान्यधो नयन् । उन्मूलनीयो मानदुस्तन्मादवसरित्प्लवैः ॥१४॥
मान एव दुर्दुम उन्नतिविशेषधारित्वेन । मानदुमयोः साधर्म्यमाह-उत्सर्पयन्नूचं नयन्' दोषा एव प्रसरणशीलत्वेन शाखा दोषशाखास्ताः, गुणा एव मूलानि गुणमूलानि तान्यधो नयन न्यकुर्वन् । कैरुन्मूलनीयः ? मार्दवसरित्सवैर्दिवमेव सततवाहितया सरित् तस्याः सवैः प्रसरैः। मदद्रुमो हि यथा यथा वर्धते तथा तथा ॥२८३
Education inte
w
For Personal & Private Use Only
Page #585
--------------------------------------------------------------------------
________________
गुणमूलानि तिरोदधाति, दोपशाखाश्च विस्तारयति । तदयं कुठारादिभिरुन्मूलयितुमशक्यो मार्दवभावनासरित्प्रT] बाहेण समूलमुन्मूलनीय इत्यर्थः । अत्रान्तरश्लोकाः-- .
मार्दवं नाम मृदुता तच्चौद्धृत्यनिषेधनम् । मानस्य पुनरौद्धत्यं स्वरूपमनुपाधिकम् ॥ १॥ अन्तः स्पृशेद् यत्र है यत्रौद्धत्यं जात्यादिगोचरम् । तत्र तस्य प्रतीकारहेतोर्मादेवमाश्रयेत् ॥२॥ सर्वत्र मार्दवं कुर्यात् पूज्येषु तु विशे
षतः । येन पापाद् विमुच्येत पूज्यपूजाव्यतिक्रमात् ॥ ३॥ मानाद् बाहुबलिबद्धो लताभिरिव पाप्मभिः । मार्दवात तत्क्षणं मुक्तः सद्यः संजातकेवलः ॥४॥ चक्रवर्ती त्यक्तसङ्गो वैरिणामपि वेश्मसु । भिक्षायै यात्यहो! मानच्छेदायामृदु मार्दवम् ॥ ५ ॥ चक्रवर्त्यपि तत्कालदीक्षितो रङ्कसाधये । नमस्यति त्यक्तमानश्चिरं च वरिवस्यति ॥६॥ एवं च मानविषयं परिमृश्य दोष, ज्ञात्वा च मार्दवनिपेवण गुणौघम् । मानं विहाय यतिधर्मविशेषरूपं, सद्यः समाश्रयत मार्दवमेकतानाः ॥ ७॥ १४ ॥
इदानी मायाकषायस्वरूपमाहअसूनृतस्य जननी परशुः शीलशाखिनः । जन्मभूमिरविद्यानां माया दुर्गतिकारणम् ॥१५॥
असूनृतस्यानृतस्य जननीव जननी, मायामन्तरेण प्रायेणासूनृतस्याभावात् , 'माया' इति वक्ष्यमाणं संबध्यते, माया वञ्चनात्मकः परिणामः, तथा परशुः कुठारः शीलं सुस्वभावता तदेव शाखी तस्य परशुरिव परशुः, छेदकत्वात् ; तथा जन्मभूमिरुत्पत्तिस्थानम् , कासाम् ? अविद्यानां मिथ्याज्ञानानाम् । सा च दुर्गतेः कारणमिति प्रधानफलनिर्देशः॥ १५ ॥
Jain Education inter
For Personal & Private Use Only
ITT
Page #586
--------------------------------------------------------------------------
________________
योगशास्त्रम्
चतुर्थः प्रकाशः।
||२८४H
.. परवञ्चनार्थ प्रयुक्ताया मायायाः परमार्थतः स्ववञ्चनमेव फलमित्याहकौटिल्यपटवः पापा मायया बकवृत्तयः । भुवनं वश्चयमाना वञ्चयन्ते स्वमेव हि ॥२१६॥ ___मायया तृतीयकषायेण भुवनं जगद् वञ्चयमानाः प्रतारयन्तः स्वमेवात्मानमेव वश्चयन्ते । के ? पापाः पापकर्मकारिणः । पापकर्मनिवार्थमेव बकवृत्तयः, यथा बको मत्स्यादिवश्चनार्थं मन्दं मन्दं विचेष्टते तथा तेऽपि जगद्वश्चनार्थ तथा चेष्टन्ते यथा बकसदृशा भवन्ति । ननु मायया जगदश्चनम् , तस्याश्च निसवः, इति कुत इयन्तं भारं ते वोढुं समर्थाः ? इत्याह-कौटिल्यपटवः कौटिल्यपाटवरहितो हि न कदाचित् परं वश्चयते, न वा कदाचिद् निद्भुत इति, कौटिल्यपाटवे तु द्वयं भवति परवञ्चनं वश्वनाच्छादनं चेति । अत्रान्तरश्लोकाः.. कूटपाड्गुण्ययोगेन च्छलाद् विश्वस्तपातनात् । अर्थलोभाच्च राजानो वश्चयन्तेऽखिलं जनम् ॥ १ ॥ तिलकैमुद्रया मन्त्रैः क्षामतादर्शनेन च। अन्तःशून्या बहिःसारा वश्चयन्ते द्विजा जनम् ॥२॥ कूटाः कूटतुलामानाशुक्रिया
कारियोगतः । वश्चयन्ते जनं मुग्धं मायाभाजो वणिगजनाः॥३॥ जटामौण्ड्यशिखाभरमावल्कनाग्न्यादिधारणैः । *मुग्धं श्राद्धं गर्धयन्ते पाखण्डा हृदि नास्तिकाः ॥४॥ अरक्ताभिर्भावहावलीलागतिविलोकनैः । कामिनो रञ्ज
यन्तीभिर्वेश्याभिर्वञ्च्यते जगत् ।। ५ ॥ प्रतार्य कूटैः शपथैः कृत्वा कूटकपर्दिकाम् । धनवन्तः प्रतार्यन्ते दुरोदरपरायणैः ॥ ६ ॥ दम्पती पितरः पुत्राः सोदर्याः सुहृदो निजाः। ईशा भृत्यास्तथान्येऽपि माययाऽन्योन्यवश्चकाः ॥७॥ अर्थलुब्धा गतघृणा बन्दकारा मलिम्लुचाः । अहर्निशं जागरूका छलयन्ति प्रमादिनम् ॥ ८॥ कारवश्चान्त्यजाश्चैव स्वकर्मफलजीविनः । माययाऽलीक रापथैः कुर्वते साधुवचनम् ।। ६ ।। व्यन्तरादिकुयोनिस्था दृष्ट्वा प्रायः
॥२८॥
For Personal & Private Use Only
H
ww janeitrary.org
Page #587
--------------------------------------------------------------------------
________________
प्रमादिनः । क्रूरा छलैहविधैर्वाधन्ते मानवान् पशून् ॥१०॥ मत्स्यादयो जलचराग्छलात् स्वापत्यभक्षकाः । बध्यन्ते धीवरैस्तेऽपि माययाऽऽनायपाणिभिः ॥ ११॥ नानोपायैर्मृगयुभिर्वश्चनप्रवणर्जडाः। निबध्यन्ते विनाश्यन्ते प्राणिनः स्थलचारिणः । १२ ॥ नभश्चरा भूरिभेदा वगका लावकादयः । बध्यन्ते माययाऽत्युग्रैः स्वल्पकग्रासगृध्नुभिः ॥ १३ ॥ तदेवं सर्वलोकेऽपि परवश्चकतापराः । स्वस्य धर्म सद्गतिं च नाशयन्तः स्ववञ्चकाः ॥ १४ ॥ तथा,
तिर्यगजातेः परं बीजमपवर्गपुरार्गला। विश्वासद्रुमदावाग्निर्माया हेया मनीषिभिः ॥१५ ।। मल्लिनाथः पूर्वभवे कृत्वा मायां तनीयसीम् । मायाशयमनुत्खाय स्त्रीत्वं प्राप जगत्पतिः ॥ १६ ॥ १६ ॥
इदानीं मायाजयाय तत्प्रतिपक्षभूतमार्जवमुपदिशन्नाहतदार्जवमहौषध्या जगदानन्दहेतुना । जयेज्जगद्रोहकरी मायां विषधरीमिव ॥ १७ ॥
यतो माया एवंविधा तत तस्माद मायां विषधरीमिव जयेत् । मायाविषधर्योः साधर्म्यमाह-जगद्रोहकरी जगतो जङ्गमलोकस्य द्रोहोऽपकारस्तं करोतीत्येवंशीला जगद्रोहकरी ताम् । केन जयेत? आर्जवमहौषध्या आर्जवमकौटिल्यं तदेव महानुभावा ओषधिर्महौषधिस्तया । उभयोः साधर्म्यमाह-जगदानन्दहेतुना जगतो जंगमलोकस्य यथायथं य आनन्दः कायारोग्यप्रभवः प्रीतिविशेषो वञ्चकत्वपरिहारेण कषायजयाद् मोक्षरूपश्च तस्य हेतुना कारणेन । अत्रान्तरश्लोकाः
आर्जवं सरलः पन्था मुक्तिपुर्याः प्रकीर्तितः । आचारविस्तरः शेषो बाह्या अपि यचिरे ॥ १ ॥ सर्व जिलं
For Personel Private Use Only
+T
www.sainelibrary.org
Page #588
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥२८॥
मृत्युपदमार्जवं ब्रह्मणः पदम् । एतावाज्ञानविषयः प्रलापः किं करिष्यति? ॥२॥ इति ॥ भवेयुरार्जवजुषो लोकेऽपि
चतुर्थः प्रीतिकारणम् । कुटिलादुद्विजन्ते हि जन्तवः पनगादिव ॥३॥ अजिह्मचित्तवृत्तीनां भववासस्पृशामपि । अकृत्रिम प्रकाशः। मुक्तिसुखं स्वसंवेद्यं महात्मनाम् ।। ४ ॥ कौटिल्यशङ्कुना लिष्टमनसां वश्चकात्मनाम् । परव्यापादनिष्ठानां स्वमेऽपि स्यात् कुतः सुखम् ॥ ५ ।। समग्रविद्यावै दुष्येऽधिगतासु कलासु च । धन्यानामुपजायेत बालकानामिवार्जवम् ॥६॥ अज्ञानामपि बालानामार्जवं प्रीतिहेतवे । किं पुनः सर्वशास्त्रार्थपरिनिष्ठितचेतसाम् १ ॥ ७॥ स्वाभाविकी हि ऋजुता कृत्रिमा कुटिलात्मता । ततः स्वाभाविकं धर्म हित्वा का कृत्रिमं श्रयेत् ॥८॥ छलपैशुन्यवक्रोक्तिवञ्चनाप्रवणे जने । धन्याः केचिद् निर्विकाराः सुवर्णप्रतिमा इव ॥३॥ श्रुताब्धिपारप्राप्तोऽपि गौतमो गणभूद्वरः। अहो! शैक्ष इवाश्रीषीदार्जवाद् भगवद्गिरः ॥ १०॥ अशेषमपि दुष्कर्म ऋज्वालोचनया क्षिपेत् । कुटिलालोचना कुर्वचल्पीयोऽपि विवर्धयेत् ॥ ११ ॥ काये वचसि चित्ते च समन्तात् कुटिलात्मनाम् । न मोक्षः किन्तु मोक्षः स्यात् सर्वत्राकुटिलात्मनाम् ॥ १२ ॥ इति निगदितमग्रं कर्म कौटिल्यभाजा-मृजुपरिणतिभाजां चानवा चरित्रम् । तदुभयमपि बुद्ध्या संस्पृशन् मुक्तिकामो, निरुपममृजुभावं संश्रयेच्छुद्धबुद्धिः ।। १३ ॥ १७ ॥
इदानीं लोभकषायस्वरूपमाहपाकरः सर्वदोषाणां गुणग्रसनराक्षसः । कन्दो व्यसनवल्लीनां लोभः सर्वार्थबाधकः ॥ १८॥
आकरः खानिः सर्वदोषाणां प्राणातिपातादीनां ' लोहादीनामिव' इति गम्यते; गुणानां ज्ञानादीनां प्राणिनामिव यद् ग्रसनं कवलनं तत्र राक्षस इव राक्षसः; तथा कन्दो मूलाधोऽवयवः, कासां व्यसनवल्लीनां IT ॥२८॥
"१२ ॥ इति निच समन्तात् कुटिलासाचनया क्षिपेत् । कुटिलावद्धर
JanEducation int
For Personal & Private Use Only
worm.jainelibrary.org
Page #589
--------------------------------------------------------------------------
________________
Jain Education Intern
व्यसनानि दुःखानि तान्येव वल्लयस्तासाम्, लोभश्चतुर्थकषायः, तस्य स्वरूपसंग्रहमाह - सर्वार्थबाधकः सर्वेषामर्थ्यन्त इत्यर्था धर्मार्थकाममोक्षलक्षणास्तेषां बाधकः प्रतिकूलः । लोभस्य सर्वदोषाकरत्वम्, गुणघातकत्वम्, व्यसन हे - तुत्वं, सर्व पुरुषार्थघातकत्वं च प्रसिद्धमेव ।। १८ ।।
लोभस्य दुर्जयत्वं श्लोकत्रयेणाह -
धनहीनः शतमेकं सहस्रं शतवानपि । सहस्राधिपतिर्लक्षं कोटिं लक्षेश्वरोऽपि च ॥ १६ ॥ कोटीश्वरो नरेन्द्रत्वं नरेन्द्रश्चक्रवर्तिताम् । चक्रवर्ती च देवत्वं देवोऽपीन्द्रत्वमिच्छति ॥२०॥ इन्द्रत्वेऽपि हि संप्राप्ते यदिच्छा न निवर्तते । मूले लघीयांस्तलोभः सराव इव वर्धते ॥ २१ ॥
स्पष्टम् अत्रान्तरश्लोकाः—
हिंसे सर्वपापानां मिथ्यात्वमिव कर्मणाम् । राजयक्ष्मेव रोगाणां लोभः सर्वागसां गुरुः ॥ १ ॥ अहो ! लोभस्य साम्राज्यमेकच्छत्रं महीतले । तरवोऽपि निधिं प्राप्य पादैः प्रच्छादयन्ति यत् ॥ २ ॥ अपि द्रविण लोभेन ते द्वित्रिचतुरिन्द्रियाः । स्वकीयान्यधितिष्ठन्ति प्राग्निधानानि मूर्च्छया || ३ || भुजङ्गगृहगोधाखुमुख्याः पश्चेन्द्रिया अपि । धनलोभेन लीयन्ते निधानस्थानभूमिषु ॥ ४ ॥ पिशाचमुद्गलप्रेतभूतयक्षादयो धनम् । स्वकीयं परकीयं वाऽप्यधितिष्ठन्ति लोभतः || ५ || भूषणोद्यानवाप्यादौ मूर्च्छितास्त्रिदशा अपि । च्युत्वा तत्रैव जायन्ते पृथ्वी काया दियोनिषु || ६ || प्राप्योपशान्तमोहत्वं क्रोधादिविजये सति । लोभांशमात्रदोषेण पतन्ति यतयोऽपि
For Personal & Private Use Only
+-*-*-**
0-11-06-1.01
Page #590
--------------------------------------------------------------------------
________________
चतुर्थः
योगशास्त्रम्
प्रकाशा
२८६॥
* हि ।। ७ ।। एकामिपाभिलाषेण मारमेया इव द्रुतम् । सोदर्या अपि युध्यन्ते धनलेशजिघृक्षया ॥८॥ लोभाद्
ग्रामाद्रिसीमानमुद्दिश्य गतसौहृदाः । ग्राम्या नियुक्ता राजानो वैरायन्ते परस्परम् ।। ३ । हासशोकद्वेषहर्षानसतोऽप्यात्मनि स्फुटम् । स्वामिनोऽग्र लोभवन्तो नाटयन्ति नटा इव ॥ १० ॥ प्रारभ्यते पूरयितुं लोभगतॊ यथा यथा।
तथा तथा महच्चित्रं मुहुरेष विवर्धते ॥ ११ ॥ अपि नामैप पूर्येत पयोभिः पयसां पतिः। न तु त्रैलोक्यराज्येऽपि *प्राप्ते लोभः प्रपूर्यते ॥ १२॥ अनन्ता भोजनाच्छादविषयद्रव्यसंचयाः । भुक्तास्तथापि लोभस्य नांशोऽपि परिपूर्यते ॥ १३ ॥ लोभस्त्यक्तो यदि तदा तपोभिरफलैरलम । लोभस्त्यक्तो न चेत् तर्हि तपोभिरफलैरलम् ॥१४॥ मृदित्वा शास्त्रसर्वस्वं मयैतदवधारितम् । लोभस्यैकस्य हानाय प्रयतेत महामतिः ॥१३॥१६॥२०॥२१॥
लोभस्वरूपं निरूप्य तज्जयोपायमुपदिशतिलोभसागरमुढेलमतिवेलं महामतिः ! संतोषसेतुबन्धेन प्रसरन्तं निवारयेत् ॥ २२ ॥
लोभ एवाप्राप्तपारत्वेन सागरस्तम्, उद्वेलमुद्दतवेलं तत्तदुत्कलिकावत्वेन विवृद्धोच्छायम्, अतिवेलं भृशम्, । एतच्च 'निवारयेत्' इति क्रियाया विशेषणम् । 'प्रसरन्तम्' इति लोभसागरस्य विशेषणम् । महामतिर्मुनिः। निवारण
कारणमुपदिशति-संतोषसेतुबन्धेन संतोषो लोभप्रतिपक्षभूतो मनोधर्मः स एव सेतुबन्धो जलस्खलनार्थ पाल बन्धः, तेन प्रतिपक्षभूतेन संतोषेण लोभकषायं निरुन्ध्यादिति भावः । अत्रान्तरश्लोकाः
यथा नृणां चक्रवर्ती सुराणां पाकशासनः। तथा गुणानां सर्वेषां संतोषः प्रवरो गुणः॥१॥ संतोषयुक्तस्य यतेरसंतुष्टस्य चक्रिणः । तुलया संमितो मन्ये प्रकर्षः सुखदःखयोः॥२॥ स्वाधीनं राज्यमुत्सृज्य संतोषामृ
H॥२८६॥
For Personal & Private Use Only
in Education inte
Page #591
--------------------------------------------------------------------------
________________
ततृष्णया। निस्सङ्गत्वं प्रपद्यन्ते तत्क्षणाचक्रवर्तिनः ॥३।। निवृत्तायां धनेच्छायां पार्श्वस्था एव संपदः। अङ्गल्या पिहिते कर्णे शब्दाद्वैतं विजृम्भते ॥४॥ संतोषसिद्धौ संसिद्धाः प्रतिवस्तु विरक्तयः । अक्षणोः पिधाने पिहितं ननु विश्वं चराचरम् ॥ ५॥ किमिन्द्रियाणां दमनैः किं कायपरिपीडनैः ? । ननु संतोषमात्रेण मुक्तिश्रीमुखमीक्षते ॥६॥ जीवन्तोऽपि विमुक्तास्ते ये मुक्तिसखशालिनः। किं वा विमुक्तेः शिरसि शृङ्गं किमपि वर्त्तते ॥ ७॥ किं रागद्वेषसंकीर्ण किंवा विषयसंभवम । येन संतोषजं सौख्यं हीयेत शिवसौख्यतः ॥८॥ परप्रत्यायनासारैः किं वा शास्त्रमुभाषितैः । मीलितामा विमृशन्तु संतोषास्वादजं सुखम् ॥ ६ ॥ चेत् कारणानुकारीणि कार्याणि प्रतिपद्यसे । संतोषानन्दजन्मा तन्मोक्षानन्दः प्रतीयताम् ॥ १०॥ ननु तीव्र तपःकर्म कर्मनिर्मूलनं जगुः । सत्यं तदपि संतोषरहितं विफलं विदुः ॥ ११ ॥ कृषिसेवापाशुपाल्यवाणिज्यैः किं सुखार्थिनाम् । ननु संतोषपानात् किं नात्मा निवृतिमाप्यते ? ॥ १२ ॥ यत् संतोषवतां सौख्यं तृणसंस्तरशायिनाम् । क तत् संतोषवन्ध्यानां तूलिकाशायिनामपि ॥ १३ ॥ असंतुष्टास्तृणायन्ते धनिनोऽपीशिनां पुरः । ईशिनोऽपि तृणायन्ते संतुष्टानां पुरःस्थिताः ॥ १४ ॥ श्रायासमात्रं नश्वर्यश्चक्रिशक्रादिसंपदः। अनायासं च नित्यं च सुखं संतोषसंभवम् ॥१५॥ इति प्रत्यादेष्टुं निखिलमपि लोभस्य ललितं, मयोक्तः संतोषः परमसुखसाम्राज्यसुभगः । कुरुध्वं लोभाग्निप्रसरपरितापं शमयितुं, तदस्मिन् संतोषामृतरसमये वेश्मनि रतिम् ॥ १६ ॥ २२ ॥
एवं चइत्यनेन वक्ष्यमाणसंग्रहश्लोकस्यावसरमाहक्षान्त्या क्रोधो मृदुत्वेन मानो मार्जिवेन च।लोभश्चानीहया जेयाः कषाया इति संग्रहः॥२३॥
Jain Education in
For Personal & Private Use Only
Page #592
--------------------------------------------------------------------------
________________
GK
चतुर्थः
योगशास्त्रम्
प्रकाशः।
॥२८७||
पूर्वोक्तस्यार्थस्य संग्रहणात् संग्रहः ।। २३ ॥ ___ यद्यपि तुल्ययोगितया कषायेन्द्रियजयौ मोक्षरूपत्वेनोक्तौ, तथाप्यनयोः कषायजयः प्रधानम् , तद्धेतस्तु इन्द्रियजयः, तदेवाहविनेन्द्रियजयं नैव कषाया तुमीश्वरः । हन्यते हैमनं जाड्यं न विना ज्वलितानलम् ॥२४॥
समकालसंभविनोरपि कषायजयेन्द्रियजययोः प्रदीपप्रकाशयोरिवास्ति कार्यकारणभावः; अत उक्तम्-इन्द्रियजयं विना न कषायजयः। हन्यते इत्यादिना दृष्टान्तः। हैमनजाड्यसदृशाः कषायाः, ज्वलितानलप्रायश्चेन्द्रियजयः। हेमन्ते भवं हैमनम् , " हेमन्ताद् वा तलुक् च" ॥६।३।६१ ।। इत्यनेनाणि तलोपे वृद्धौ च सिद्धम् ॥२४॥
इन्द्रियजयः कषायजयहेतुत्वेनोक्तः, अजितानां त्विन्द्रियाणां न कषायजयहेतुत्वं प्रत्युतापायहेतुत्वमेवेत्याहश्रदान्तैरिन्द्रियहयैश्चलेरपथगामिभिः। श्राकृष्य नरकारण्ये जन्तुः सपदि नीयते ॥ २५ ॥
इन्द्रियाण्येव हया अश्वा इन्द्रियहयास्तैश्चलैरेकवानवस्थायिभिः प्रकृत्या, अदान्तैरजितैः सद्धिरपथगामिभिरुन्मार्गचारिभिराकृष्य बलात्कारेण कृष्ट्वा जन्तुः प्राणी, नरक एवारण्यं विविधभीतिहेतुत्वाद् नरकारण्यं तस्मिन् सपदि तत्क्षणाद् नीयते । यथाऽदान्तो हयोऽपथगामित्वेन खमारोहकमरण्ये नयति तथैवाजितैरिन्द्रियैर्जन्तुर्विविधापायबहुले नरके नीयत इत्यर्थः॥२५॥
कथमजितानीन्द्रियाणि नरकं नयन्तीत्याह
1॥२८७॥
For Personal & Private Use Only
wrane.lainelibrary.org
Education inte
Page #593
--------------------------------------------------------------------------
________________
* इन्द्रियविजितो जन्तुः कषायैरभिभूयते। वीरैः कृष्टेष्टकः पूर्वं वप्रः कैः कैर्न खण्ड्यते ? ॥२६॥
___ इन्द्रियाणि जेतुमशक्तोऽत एव तैर्विजितः, यान् जेतुमिन्द्रियजय उपदिश्यते तैरेव प्रत्युत कषायैरभिभूयते । कषायाभिभूतश्च नरकं यातीति सुप्रसिद्धमेव | ननु यदीन्द्रियजयेऽशक्तो जन्तुः, तहीन्द्रियजनितैव बाधास्तु, कोऽवसरः कषायबाधायाः ? इत्याशङ्कामपनेतुं दृष्टान्तमाह-वीरविक्रान्तैः कृष्टा इष्टका यस्मात् स कृष्टेष्टकः वप्रः प्राकारः पूर्व प्रथमम् , पश्चात कैः कैरवीरैरपि एकैकेष्टकाशकलकर्षणेन न खण्ड्यते न खण्डशो नीयते । अयमर्थःयथा वीरपुरुषपातितच्छिद्रः प्राकारः कर्मकरप्रायाणामपि गम्यो भवति तथैव वप्रप्रायः प्राणी वीरप्रायैरिन्द्रियैर्भग्नप्राय इतरपुरुषप्रायः कषायैर्वाध्यते, इन्द्रियानुसारित्वात् कषायाणाम् ॥ २६ ॥
न केवलमनिर्जितैरिन्द्रियैः कपायाभिभूतो जन्तुर्नरके नीयते, यावदिहलोकेऽपि अनिर्जितानीन्द्रियाण्यपायकारणान्येवेत्याहकुलघाताय पाताय बन्धाय च वधाय च । अनिर्जितानि जायन्ते करणानि शरीरिणाम् ॥२७॥ ____ शरीरिणां जन्तूनां करणानीन्द्रियाणि अनिर्जितानि अदान्तानि जायन्ते । कस्मै ? कुलघाताय कुलघातो वंशोच्छेदः, पाताय पातो राज्यादिभ्रंशः, बन्धाय बन्धो नियमनम् , वधाय वधः प्राणनिग्रहः । तत्र कुलघातायेन्द्रियाणि रावणस्येव । तस्य निर्जितेन्द्रियस्य परदारान् रिरंसमानस्य रामलक्ष्मणाभ्यां कुलक्षयः कृत इत्युक्तपूर्वम् । पातायेन्द्रियाणि सोदासस्येव । स हि राज्यं पालयन् मांसप्रियतया नानाविधैांसैरात्मानं प्रीणयनेकदा
Jan Education inteH
Fer Personal Private Use Only
Page #594
--------------------------------------------------------------------------
________________
योग
दापत
चतुर्थः प्रकाशः।
शास्त्रम्
॥२८॥
सूपकारैः संस्कृते मांसे बिडालादिभिर्भक्षिते सति तस्मिन् दिने धार्मिकैः श्रावकजनै राजानं प्रसाद्यामारिपटहे दापिते जीववधाभावादन्यमांसाप्राप्तौ सुलभस्य कस्यचिड्डिम्भस्य मांसं परिवेष्य राजा परितोषितः । स चैकान्ते सूपकारान् शपथदानपूर्वकं पप्रच्छ । तैश्च यथास्थिते कथिते मानुषमांसगृद्ध्या सकलनगरे डिम्भमानुषग्रहणाय स्खपुरुषान् नियुक्तवान् । एतच्च ज्ञात्वा पौरजानपदैमन्त्रिभिश्च भीतभीतैरेकमतीभूय मद्यपानप्रमत्तो बध्ध्वाऽरण्ये विमुक्तः। स *च राज्यात् , कुलात् परिवाराच्च पतितोऽरण्ये श्वापद इव दुःखमनुबभूव । बन्धायेन्द्रियाणि चण्डप्रद्योतस्येव । वधाय H मृत्यवे इन्द्रियाणि रावणस्येवेत्युक्तपूर्वम् । अत्रान्तरश्लोका:
इन्द्रियैः स्वार्थविवशैः कस्को नैव विडम्ब्यते । अपि विज्ञातशास्त्रार्थाश्चेष्टन्ते बालका इव ॥१॥ किमतोऽपि घृणास्थानमिन्द्रियाणां प्रकाश्यते । यद् बन्धौ बाहुबलिनि भरतोऽप्यस्वमक्षिपत् ।। २॥ जयो यद् बाहुबलिनि भरते च पराजयः । जिताजितानां तत् सर्वमिन्द्रियाणां विजृम्भितम् ॥ ३॥ यच्छनाशस्त्रि युध्यन्ते चरमेऽपि भवे स्थिताः । दुरन्तानामिन्द्रियाणां महिम्नानेन लजिताः॥४॥ दण्ड्यन्तां चण्डचरितैरिन्द्रियैः पशवो जनाः। शान्तमोहा: पूर्वविदो दण्ड्यन्ते यत् तदद्भतम् ॥५॥ जिता हृषीकैरत्यन्तं देवदानवमानवाः । जुगुप्सितानि कर्माणि ही! तन्वन्ति तपस्विनः ॥ ६॥ अखाद्यान्यपि खादन्त्यपेयान्यपि पिबन्ति च । अगम्यान्यपि गच्छन्ति हृषीकवशगा नराः ॥७॥ वेश्यानां नीचकर्माणि दास्यान्यपि च कुर्वते । कुलशीलोज्झितास्त्यक्तकरुणैः करणैर्हताः
॥ ८॥ परद्रव्ये परस्त्रीषु मोहान्धमनसां नृणाम् । या प्रवृत्तिः सेन्द्रियाणामतन्त्राणां विजृम्भितम् ॥६॥ al पाणिपादेन्द्रियच्छेदमरणानि शरीरिभिः । प्राप्यन्ते यद्वशात् तेभ्यः करणेभ्यो नमो नमः ॥१०॥ विनयं ग्राह-
॥२८॥
Jain Education inter
For Personal & Private Use Only
Page #595
--------------------------------------------------------------------------
________________
Jain Education Inter
•-****
*
यन्त्यन्यान् ये स्वयं करणैर्जिताः । पिधाय पाणिना वक्त्रं तान् हसन्ति विवेकिनः ॥ ११ ॥ आ विरिञ्चादा च कीटाद् ये केचिदिह जन्तवः । विमुच्यैकं वीतरागं ते सर्वेऽपीन्द्रियैर्जिताः ॥ १२ ।। २७ ।।
एवं सामान्येनेन्द्रियदोषानभिधाय स्पर्शनादीन्द्रियाणां श्लोकपञ्चकेन दोषानाह— शास्पर्शसुखास्वादप्रसारितकरः करी । श्रालानबन्धन क्लेशमासादयति तत्क्षणात् ॥ २८ ॥ पयस्यगाधे विचरन् गिलन् गलगतामिषम् । मैनिकस्य करे दीनो मीनः पतति निश्चितम् निपतन् मत्तमातङ्गकपोले गन्धलोलुपः । कर्णतालतलाघाताद् मृत्युमाप्नोति षट्पदः ॥३०॥ कनकच्छेदसंकाशशिखा लोकविमोहितः । रभसेन पतन् दीपे शलभो लभते मृतिम् ॥३१॥ हरिणो हारिणीं गीतिमाकर्णयितुमुद्धुरः । आकर्णाकृष्टचापस्य याति व्याधस्य वेध्यताम् स्पष्टाः नवरं वशा हस्तिनी, गलो रज्जुबद्धो लोहकण्टकः, मीनान् हन्तीति मैनिको धीवर, कर्णताल एव तलश्चपेटस्तेनाघातः, गीतिं गीतम् ॥ २८ ॥ २६ ॥ ३० ॥ ३१ ॥ ३२ ॥
उपसंहरति
एवं विषय एकैकः पञ्चत्वाय निषेवितः । कथं हि युगपत् पञ्च पञ्चत्वाय भवन्ति न ? ॥३३॥ विषय इन्द्रियस्य गोचरः, इन्द्रियप्रकरणेऽपि यद् विषयस्य दोषदर्शनम्, तद् विषयद्वारेणैवेन्द्रियाणां दोष
४९
For Personal & Private Use Only
Page #596
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥२८६ ॥
जनकत्वमिति दर्शनार्थम् । एकैको विषयो गजादीनां पञ्चत्वाय मरणाय । यस्तु पुमान् सर्वेषु विषयेष्वासक्तस्तं
चतुर्थः प्रत्याह-कथं हि युगपत् पश्चापि विषयाः सेविताः पञ्चत्वाय न भवन्ति ? अपि तु भवन्त्येवेति । यदाह
प्रकाशः। पञ्चसु सक्ताः पश्च विनष्टा यत्रागृहीतपरमार्थाः । एकः पञ्चसु सक्तः प्रयाति भस्मान्ततां मूढः॥१॥३३॥
इन्द्रियदोषानभिधाय तज्जयोपदेशमाहतदिन्द्रियजयं कुर्याद् मनःशुद्ध्या महामतिः। यांविना यमनियमैः कायक्लेशो वृथा नृणाम् ॥३४॥ ___ यस्मादेवंविधानर्थसार्थसमर्थकानीन्द्रियाणि तत् तस्मादिन्द्रियाणां भावेन्द्रियाणां जयं कुर्यात् । द्विविधानि हीन्द्रियाणि, द्रव्येन्द्रियाणि भावेन्द्रियाणि च। तत्र द्रव्येन्द्रियाणि स्पर्शनेन्द्रियाद्याकारपरिणतानि पुद्गलद्रव्याणि, भावेन्द्रियाणि स्पर्शादिष्वभिलाषोपायरूपाणि तेषां जयो लौन्यपरिहारेणावस्थानम् । अत्रान्तरश्लोकाः___ अनिर्जितेन्द्रियग्रामो यतो दुखैः प्रबाध्यते । तस्माज्जयेदिन्द्रियाणि सर्वदुःखविमुक्तये ॥१॥न चेन्द्रियाणां विजयः। सर्वथैवाप्रवर्त्तनम् । रागद्वेषविमुक्त्या तु प्रवृत्तिरपि तज्जयः॥२॥ अशक्यो विषयोऽस्पष्टुमिन्द्रियैः स्वसमीपगः। रागद्वेषो पुनस्तत्र मतिमान् परिवर्जयेत् ॥३॥ हताहतानीन्द्रियाणि सदा संयमयोगिनाम् । अहतानि हितार्थेषु हतान्यहितवस्तुषु ॥४॥ जितान्यक्षाणि मोक्षाय संसारायाजितानि तु । तदेतदन्तरं ज्ञात्वा यद् युक्तं तत् समाचर ॥५॥ स्पर्श मृदौ च तून्यादेरुपलादेश्च कर्कशे । भव रत्यरती हित्वा जेता स्पर्शनमिन्द्रियम् ॥ ६॥ रसे स्वादौ च भक्ष्यादेरितरस्मिन्नथापि वा । प्रीत्यप्रीती विमुच्यो चैर्जिहेन्द्रियजयी भव ॥ ७ ॥ घ्राणदेशमनुप्राप्ते शुभे गन्धेऽपरत्र वा । ज्ञात्वा वस्तुपरीणामं घ्राणेन्द्रियजयं कुरु ॥८॥ मनोज्ञं रूपमालोक्य यदिवा तद्विलक्षणम् । त्यजन् हर्ष ॥२८ ॥
For Personal & Private Use Only
Jan Educationin
"
ware.ainelibrary.org
Page #597
--------------------------------------------------------------------------
________________
ROCIR+K++++
Jain Education Interna
*****-)+*
जुगुप्सां च जय त्वं चक्षुरिन्द्रियम् ॥ ६ ॥ स्वरे श्रव्ये च वीणादेः खरोष्ट्रादेव दुःश्रवे । रतिं जुगुप्सां च जयन् श्रोत्रेन्द्रियजयी भव || १० | कोऽपि नास्तीह विषयो मनोज्ञ इतरोऽपि वा । य इन्द्रियैर्नोपभुक्तस्तत्स्वास्थ्यं किं न सेव्यते ? ॥ ११ ॥ शुभा श्रप्यशुभायन्ते शुभायन्तेऽशुभा श्रपि । विषयास्तत् व रज्येत विरज्येत क्व चेन्द्रियैः ॥ १२ ॥ स एव रुच्यो द्वेष्यो वा विषयो यदि हेतुतः । शुभाशुभत्वं भावानां तन्न तत्वेन जातुचित् ॥ १३ ॥ एवं विमृश्य विषयेषु शुभाशुभत्व - मौपाधिकं तदविमुक्तिविरक्तचेताः । हन्तेन्द्रियार्थमधिकृत्य जहीहि रागं, द्वेषं तथेन्द्रियजयाय कृताभिलाषः ।। १४ ।।
अथैवं दुर्जयेन्द्रियजयं प्रति कोऽसाधारण उपाय इत्याह- मनः शुद्ध्या मनसो निर्मलत्वेन सन्त्यन्यान्यपि यमनियमवृद्धसेवाशास्त्राभ्यासादीनीन्द्रियजयकारणानि किन्तु साधकतमं मनःशुद्धिरेव । अन्यानि तु नैकान्तिकान्यात्यन्तिकानि वा अविशुद्धे हि मनसि यमनियमादीनि सन्त्यपि नेन्द्रियजयनिबन्धनानि, एतदेवाह – यां विना यमेत्यादि । यां मनः शुद्धिं विना यमा मूलगुणा नियमा उत्तरगुणास्तैरुपलक्षणत्वाद् वृद्धसेवादिभिश्च यः कायक्लेशः स नृणां पुरुषाणां वृथा । सा च मनःशुद्धिः केषाञ्चित् स्वभावत एव भवति मरुदेव्यादीनाम् । | केषाञ्चित् तु यमनियमाद्युपायबलाद् नियन्त्रिते मनसि भवति ॥ ३४ ॥
अनियन्त्रितं मनो यत्करोति तदाह
मनःक्षपाचरो भ्राम्यन्नपशङ्कं निरङ्कुशः । प्रपातयति संसाराऽऽवर्त्तगर्त्ते जगत्रयीम् ॥३५॥
For Personal & Private Use Only
***********6400
Page #598
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
॥ २६
॥
इह द्विविधं मनः-द्रव्यमनो भावमनश्च । तत्र द्रव्यमनो विशिष्टाकारपरिणताः पुद्गलाः । भावमनस्तु तद्रव्योपाधिसंकल्पात्मक आत्मपरीणामः । मन एव संकल्परूपं क्षपाचरो राक्षसः, अविषयेऽपि
प्रकाशन प्रवृत्तिशीलत्वात, भ्राम्यन् तत्र तत्र विषये स्थैर्यमनवलम्बमानः । कथं भ्राम्यन् ? अपशक़ निर्भयं यथा भवति । तदपि कुतः? निर्गतस्तत्त्वभावनादिनि(नि)वारकत्वात अङ्कशो यस्माद् स तथा । प्रपातयति प्रकर्षेण पातयति संसार एवावर्त्तप्रधानोगतस्तत्र । जगत्रयीमिति । न स कश्चिद् जन्तुर्जगत्त्रयेऽप्यस्ति, यो निरङ्कुशेन मनसा संसारावर्त्तगर्ने न पात्यते । जगत्रयगतानां जन्तूनां संसारावर्तगर्ने पातनाद् जगत्रयीं पातयतीति उपचारादुक्तम् ॥ ३५ ॥
पुनरनियन्त्रिते मनसि दोषमाहतप्यमानांस्तपो मुक्तौ गन्तुकामान् शरीरिणः। वात्येव तरलं चेतः क्षिपत्यन्यत्र कुत्रचित्॥३६॥
तप्यमानान् कुर्वाणान्, किं तत् ? तपः। तथा मुक्ती मोक्षे गन्तुकामान् गन्तुमध्यवसितान् शरीरिणो जन्तून् तरलमेकत्रानवस्थायि चेतो भावमनः कई क्षिपत्यन्यत्र कुत्रचित् मोक्षादन्यत्र नरकादौ । किंवद् ? वात्येव, यथान्यत्र गन्तुकामान् मनुष्यादीन् वातसमूहो विवक्षिताद् देशात अन्यत्र नयति, एवं तरलं चेतोऽपि ॥ ३६॥ ___ पुनरनियन्त्रितस्य मनसो दोषमाहअनिरुद्धमनस्कः सन् योगश्रद्धां दधाति यः। पद्भ्यां जिगमिषुामं स पङ्गुरिव हस्यते॥३७।।
न निरुद्धं चापल्यात् च्यावितं मनो येन सोऽनिरुद्धमनस्कः सन् योगश्रद्धा अहं योगीत्यभिमानं यो दधाति |:॥ २६० ॥
in Education inte
For Personal & Private Use Only
Page #599
--------------------------------------------------------------------------
________________
40.+1+++***++*493
धारयति स हस्ते विवेकिभिः । क इव कथम्भूतः । पङ्गुरिव पद्भ्यां पादाभ्यां ग्रामान्तरं जिगमिषुः । पादप्रचाररूपो हि मनोरोधस्तदभावे कथं पङ्गुग्रामान्तरजिगमिषातुल्या योगश्रद्धेति ॥ ३७ ॥
न केवलमनिरुद्धमनस्कस्य योगश्रद्धा विफला यावदशुभकर्माणि बहुतराण्यस्य प्रादुःषन्तीत्युत्तरार्द्धेन प्रतिपादयितुं पूर्वार्डेन काका मनोरोधमुपदिशति
मनोरोधे निरुध्यन्ते कर्माण्यपि समन्ततः । अनिरुद्धमनस्कस्य प्रसरन्ति हि तान्यपि ॥ ३८ ॥ मनसो रोधो विषयेभ्यो निवारणं तस्मिन् सति निरुध्यन्ते प्रतिबाध्यन्ते श्राश्रवनिरोधात् कर्माण्यपि ज्ञानावरयादीन्यतिप्रबलानि समन्ततः सामस्त्येन । मनोरोवायत्तत्वात् कर्मरोधस्य । प्रकृते योजयति - अनिरुद्धमन स्कस्य पुंस्तान्यपि कर्माणि प्रसरन्ति विवर्द्धन्ते मनःप्रसराधीनत्वात् कर्मप्रसरस्य ॥ ३८ ॥
तदेतन्निश्चित्य मनोनियन्त्रणाय चत्नः कार्य इत्येतदाह
मनःकपिरयं विश्वपरिभ्रमण लम्पटः । नियन्त्रणीयो यत्नेन मुक्तिमिच्छुभिरात्मनः ॥ ३९ ॥ मनो भावमन एव कपिर्मर्कटः । श्रयमिति सर्वेषां स्वसंवेदनसिद्धः । कपित्वरूपेण साधर्म्यमाह – विश्वस्मिन् जगति परिभ्रमणमन्यान्यविषयग्रहरूपमनवस्थानं तत्र लम्पटो लोलुपस्तदेवंविधो मनः कपिर्नियन्त्रणीयो निरोद्धव्यः चापलं परित्याज्योचिते विषये परिस्थाप्यः । यत्नेन तत्त्वाभ्यासरूपेण । किं कुर्वद्भिः ? मुक्तिं मोक्षमिच्छन्तीत्येवंशीलास्तैरात्मनः स्वस्य । मनश्चापलनिरोधस्य साध्या हि मुक्तिरिति ॥ ३६ ॥
For Personal & Private Use Only
19/0/+******+*()+-*+k
www.jainvelibrary.org
Page #600
--------------------------------------------------------------------------
________________
योग
शाखम
॥२१॥
इदानीमिन्द्रियजयहेतुं मनःशुद्धिं प्रस्तौति
चतुर्थः दीपिका खल्वनिर्वाणा निर्वाणपथदर्शिनी। एकैव मनसः शुद्धिः समाम्नाता मनीषिभिः॥४०॥ प्रकाशः ।
एकैव सा यमनियमादिरहितापि मनःशुद्धिः दीपिकेव दीपिका, किंविशिष्टा ? अनिर्वाणा अविध्याता, निर्वाणस्य मोक्षस्य पन्था निर्वाणपथस्तं दर्शयतीत्येवंशीला निर्वाणपथदर्शिनी, मुमुक्षोः इति शेषः, समाम्नाता पारम्पर्येण कथिता, कैः ? मनीषिभिः पूर्वाचायः, यदाहज्ञाने ध्याने दाने माने मौने सदोद्यतो भवतु । यदि निर्मलं न चित्तं तदा हुतं भस्मनि समग्रम् ॥१॥४०॥
मनःशुद्धेरन्वयव्यतिरेकाभ्यां गुणान्तरदर्शनेनोपदेशमाहसत्यां हि मनसः शुद्धौ सन्त्यसन्तोऽपि यद्गुणाः । सन्तोऽप्यसत्यां नोसन्ति सैव कार्या बुधैस्ततः । ___यद् यस्मात् सत्यां विद्यमानायां मनसः शुद्धावसन्तोऽप्यविद्यमाना अपि सन्ति भवन्ति तत्फलसद्भावाद् गुणाः क्षान्त्यादयः। सन्तो विद्यमाना अपि गुणा असत्यां मनसः शुद्धौ नो सन्ति न सन्त्येव, तत्फलाभावात् । ततः कारणादन्वयव्यतिरेकाभ्यां निश्चितफला सैव मनःशुद्धिः कार्या बुधैर्विवेकिमिः ॥४१॥
ये तु "आस्तामेषा मनःशुद्धिः, तपोबलेनैव मुक्तिं वयं साधयिष्यामः," इति प्रतिपद्यन्ते तान् प्रत्याहमनःशुद्धिमबिभ्राणा ये तपस्यन्ति मुक्तये । त्यक्त्वा नावं भुजाभ्यां ते तितीर्षन्ति महार्णवम् ॥४२॥
मनःशुद्धिमबिभ्राणा अधारयन्तो ये मुक्तये मुक्तिनिमित्तं तपस्यन्ति तपःक्लेशमनुभवन्ति, ते दुर्ग्रहग्रहिलाः । ॥२६१॥
For Personal & Private Use Only
Jan Education intedal
wrane.lainelibrary.org
Page #601
--------------------------------------------------------------------------
________________
संनिहितां नावं परित्यज्य महार्णवं भुजाभ्यां तरीतुमिच्छन्ति । यथा नावमन्तरेण महार्णवो भुजाभ्यां दुस्तरः तथा मनःशुद्धिमन्तरेण तपसा मुक्तिर्दुष्प्रापा ॥ ४२ ॥
ये तु ध्यानं तपःसहितं मुक्तिदं इति वदन्तो मनःशुद्धिमुपेक्षन्ते, ध्यानमेव तु कर्मक्षयकारणं इति प्रतिपन्नास्तान् प्रत्याहतपस्विनो मनःशुद्धिविनाभूतस्य सर्वथा । ध्यानं खलु मुधा चक्षुर्विकलस्येव दर्पणः ॥४३॥ __तपखिनोऽपि ध्यानं, खलु निश्चयेन, मुधा । किंविशिष्टस्य ? सर्वथा मनःशुद्धिविनाभूतस्य लेशेनापि मनःशुद्धिरहितस्य । यद्यपि मनःशुद्धिरहितानामपि तपोध्यानबलेन नवमग्रेवेयकं यावद् गतिः श्रूयते, तथापि तत् प्रायिकम्, न च तत् फलत्वेन विवक्षितम् , मोक्षस्यैव फलरूपत्वात् । अतो ध्यानं मुधा । यथा दर्पणो रूपनिरूपणकारणमपि चक्षुर्विकलस्य मुधा, तथा ध्यानमपीति भावः ॥ ४३ ॥
उपसंहरतितदवश्यं मनःशुद्धिः कर्तव्या सिद्धिमिच्छता । तप:श्रुतयमप्रायैः किमन्यैः कायदण्डनैः ॥४४॥
तत् तस्मात् अवश्यं निश्चयेन मनःशुद्धिः कर्त्तव्या सिद्धिं मोक्षमभिलषता । आवश्यकत्वे हेतुमाह-किमन्यैः कायदण्डनैः ? कायो दण्ड्यत एभिरिति कायदण्डनास्तैः, कैः ? तपःश्रुतयमप्रायैः-तपोऽनशनादि, श्रुतमागमः, यमा महाव्रतानि । प्रायग्रहणाद् नियमादयो गृह्यन्ते । अत्रेदमनुयोक्तव्यम्-केयं मनसः शुद्धिः ? लेश्याविशुद्ध्या
an Education Intel
For Personal Private Use Only
Page #602
--------------------------------------------------------------------------
________________
याग
चतुर्थः प्रकाशः।
शास्रम्
॥२६२॥
मनसो निर्मलत्वम् । काः पुनर्लेश्याः? कृष्णानीलकापोततेजःपद्मशुक्लत्रणेद्रव्यसाचिव्यादात्मनस्तदनुरूप: परिणामः, यदाह
कृष्णादिद्रव्यसाचिव्यात् परिणामो य आत्मनः । स्फटिकस्येव तत्रायं लेश्याशब्दः प्रवर्त्तते ॥१॥
तत्र कृष्णवणेपुद्गलसन्निधाने य आत्मनोऽशुद्धतमः परिणामः सा कृष्णलेश्या । नीलद्रव्यसन्निधाने य | आत्मनोऽशुद्धतरः परिणामः सा नीललेश्या। कापोतवर्णद्रव्यसान्निध्यात्तदनुरूपोऽशुद्ध आत्मपरिणामः कापोतलेश्या । तेजोवर्णद्रव्यसान्निध्यात्तदनुरूपः शुद्ध प्रात्मपरिणामस्तेजोलेश्या । पद्मवर्णद्रव्यसानिध्यात्तदनुरूपः शुद्धतर आत्मपरिणामः पद्मलेश्या। शुक्लवर्णद्रव्यसान्निध्याच्छद्धतम आत्मपरिणामः शुक्ललेश्या । कृष्णादिद्रव्याणि च सकलकमेप्रकृतिनिःस्यन्दभूतानि, तदपाधिजन्माना भावलेश्याः कमस्थितिहेतवः । यदाह
ताः कृष्णनीलकापोततेजसी(स)पद्मशुलनामानः । श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधायः ॥२॥
एताश्चाऽशुद्धतमाऽशुद्धतरा शुद्धशुद्धशुद्धतरशुद्धतमात्मपरिणामरूपा जम्बूफलखादकदृष्टान्ताद् ग्रामघातकदृष्टान्ताचावसेयाः। आगमगाथाश्चात्र
जह जम्बुतरुवरेगो सुपक्कफलभरियनमियसालग्गो । दिदो छहि पुरिसेहिं ते बिती जंबु भक्खेमो ॥१॥ किह पुण ते बितेगो पारुहमाणाण जीसंदेहो । ता जिंदिऊण मूले पाडेउं ताहि भक्खेमो ॥ २ ॥ (१) यथा जम्बूतरुवर एकः सुपक्कफलभरितनमितसालाग्रः । दृष्टः षद्भिः पुरुषैस्ते ब्रुवन्ति जम्बूनि भक्षयामः ॥१॥
कथं पुनस्ते बुवन्ति एक ( आह ) आरोहतां जीवसन्देहः । ततश्छित्त्वा मूलतः पातयित्वा तानि भक्षयामः ॥२॥
२९२॥
Jain Education inteSE
For Personal & Private Use Only
5d
w ww.jainelibrary.org
Page #603
--------------------------------------------------------------------------
________________
Jain Education Inte
*****1-13+-1K-X1K+-*****
'बीयाह एeti किं नेण तरुण उ अम्हंति । साहा महल्ल छिंदह तइओ बेई पसाहाओ || ३ || गुच्छे चउत्थओ पुण पंचमओ बेह गण्हह फलाई । छट्टो बेई पडिया एइच्चिय खायह य घेत्तुं ॥ ४ ॥ दि ंतस्सोवणयो जो बेइ तरुं तु छिंद मूलाओ । सो बट्टइ किण्हाए साल महल्लाओ नीलाए ॥ ५ ॥ हवइ पसाहा काऊ गुच्छे तेऊ फलागि पम्हाए । पडियाणि सुकलेसा अहवा अन्नं उआहरणं || ६ ॥ चोरा गामवहथ्यं विणिग्नया एगु बेइ घाएह । जं पेच्छह तं सव्वं दुपयं चउप्पयं वावि ॥ ७ ॥ माणूस पुरिसे ओ साउहे चउथ्यो । पंचमओ जुज्यंते बट्टो उण तथ्थमं भणइ || ८ || एकं ता हरह धणं बी मरिह मा कुह एयं । केवल हरह धणं ता उपसंहारो इमो तेसिं ॥ ६ ॥
(१) द्वितीय आह एतावता किं छिन्नेन तरुणा तु अस्माकमिति ! | शाखा महतीछिन्त तृतीयो ब्रवीति प्रशाखाः ॥ ३ ॥ गुच्छांश्चतुर्थकः पुनः पंचमी ब्रवीति गृहणीत फलानि । षष्ठस्तु ब्रवीति पतितान्येवैतानि खादत च गृहीत्वा ॥ ४ ॥ टोपनयत् तरुं तु छिन्त मूलतः । स वर्त्तते कृष्णायां शाखा महतीर्नीलायाम् ॥ ५ ॥ भवति प्रशाखाः ( छिन्तेति ) कापोती गुच्छांस्तैजसी फलानि पद्मा । पतितानि शुक्ललेश्या अथवाऽन्यदुदाहरणम् ॥६॥ चौरा ग्रामवधार्थं विनिर्गता एको ब्रवीति घातयत । यं प्रेक्षध्वं तं सर्वं द्विपदं चतुष्पदं वापि ॥ ७ ॥ द्वितीयो मनुष्यान्, पुरुषान् तृतीयः सायुधांश्चतुर्थस्तु | पंचमस्तु युध्यतः षष्ठः पुनस्तत्रेदं भणति ॥ ८ ॥ एकं तावद हरत / धनं द्वितीयं मारयथ मा कार्ष्टतत् । केवलं हरत धनं तदुपसंहारस्त्वयं तेषाम् ॥ ६ ॥
For Personal & Private Use Only
**@*--**<---+-----+→sk:**<><><
Page #604
--------------------------------------------------------------------------
________________
चतुर्थः
योगशाखम्
प्रकाशा
सव्वे मारेहत्ति वा सो किण्हलेसपरिणामो । एवं कमेण सेसा जा चरमो सुक्कलेसाए ॥१०॥
एतास्वाद्यास्तिस्रोप्रशस्ताः, उत्तराः प्रशस्ताः एताश्च मनुष्याणां परिवर्तमाना भवन्ति । ततश्च यदा उत्तरास्तिस्र प्रात्मनो भवन्ति तदा विशुद्धिरित्याख्यायते । यदा चैता मरणकाले भवन्ति, तदा तदनुरूपासु गतिध्वात्मा प्रयाति । तत्र कृष्णनीलकापोतलेश्यापरिणतो नरकेषु तिर्यक्षु चोत्पद्यते । पीतपद्मशुक्ललेश्यापरिणतस्तु मनुष्येषु देवेषु चोत्पद्यते । यदाहुर्भगवन्तः-" जलसे मरइ तन्नेसेसु उववजइ ।" लौकिकास्त्वाहुः
"अन्ते च भरतश्रेष्ठ ! या मतिः सा गतिर्नृणामिति"। अत्र यदि मतिश्चेतनामात्रं तदा या मतिः सा गतिरिति HI कि केन संगतम् ? । अथाशुद्धतमादिपरिणामयुक्ता मतियाख्यायते तीदमेव पारमर्ष वचनं साध्वित्यलं प्रसङ्गेन । एवं तावदशुद्धलेश्यात्यागेन विशुद्धलेश्यापरिग्रहेण च मनसः शुद्धिरुक्ता ॥४४॥
इदानीं मनःशुद्धिनिमित्तमीपत्करमुपायान्तरमुपदिशतिमनःशुद्धथै च कर्तव्यो रागद्वेषविनिर्जयः। कालुष्यं येन हित्वात्मा स्वस्वरूपेऽवतिष्ठते॥४५॥
मनसो भावमनस आत्मरूपस्य शुद्धिहेतवे कर्तव्यो रागद्वेषयोः प्रीत्यप्रीत्यात्मकयोर्विनिर्जयो निरोधः, उदितयोर्विफलीकरणेन अनुदितयोश्चानुत्पादनेन । तथा सति किं स्यात् ? कालुष्यमशुद्धत्वं हित्वा आत्मा भावमनोरूपः स्वकीये स्वरूपे परमशुद्धिलक्षणेऽवतिष्ठते स्थिरो भवति ॥ ४५ ॥ (१) सर्वान् मारयतेति वर्तते स कृष्णलेश्यापरिणामः । एवं क्रमेण शेषा यावच्चरमः शुक्ललेश्यायाम् ॥ १० ॥ (२) यल्लेश्यो म्रियते तासु लेश्यासु उत्पद्यते ।
॥२३॥
in Education Intel
For Personal & Private Use Only
Page #605
--------------------------------------------------------------------------
________________
अथ राग-द्वेषयोर्जयत्वं श्लोकत्रयेणाहआत्मायत्तमपि स्वान्तं कुर्वतामत्र योगिनाम् । रागादिभिः समाक्रम्य परायत्तं विधीयते ॥४६
आत्मायचमपि आत्मनि निमग्नमपि खान्तं मनः कुर्वतां योगिनामत्र जगति रागादिभी रागद्वेषाभ्यां तदविनाभूतेन च मोहेन समाक्रम्य रक्तं द्विष्टं मूढं च कृत्वा परायत्तमात्मनोऽनधीनं क्रियते ॥ ४६ ॥ तथारक्ष्यमाणमपि स्वान्तं समादायमनागमिषम्। पिशाचा इव रागाद्याश्छलयन्ति मुहुर्मुहुः॥४७॥
रक्ष्यमाणमपि गोप्यमानमपि यमनियमादिभिर्मन्त्रतन्त्रप्रायैः स्वान्तं भावमनः समादाय पुरस्कृत्य मनाग् मिषं स्वल्पं छलं प्रमादरूपं, छलयन्ति-आत्मवशं कुर्वन्ति | क एते ? रागादयः । क इव ? पिशाचा इव । मुहुर्मुहुरिति यदा यदा प्रमादलेशोऽपि भवति तदा तदा छलयन्ति । यथा हि पिशाचा मन्त्रादिकृतरचमपि साधक छलं प्राप्यात्मवशं कुर्वन्ति, तथा रागादयोऽपि योगिमन इति ॥ ४७ ।। तथारागादितिमिरध्वस्तज्ञानेन मनसा जनः । अन्धेनान्ध इवाकृष्टः पात्यते नरकावटे॥४८॥
रागादय एव सम्यग्दर्शनविघातहेतुत्वात तिमिरमणोविप्लवः तेन ध्वस्तं ज्ञानं तवालोको यस्य तेन तथाविधेन मनसा आकृष्टो जनो नरकावटे नरककूपे पात्यते । केन क इव ? अन्धेनान्ध इव । रागादिभिरन्धीकृतेन मनसा जनोऽप्यन्धः, तस्यैव मार्गदर्शकत्वात् । ततो यथाज्धेनान्धः समाकृष्यावटे पात्यते तथाऽन्धेन मनसा अन्धो जनो नरकावटे पात्यते । अत्रान्तरश्लोकाः
Jain Education intential
For Personal & Private Use Only
I
Page #606
--------------------------------------------------------------------------
________________
योगशास्त्रम्
चतुर्थः
प्रकाशः।
॥ २६४॥
द्रव्यादिषु रतिप्रीती राग इत्यभिधीयते । तेष्वेवारतिमप्रीतिं चाहुढेष मनीषिणः ॥१॥ उभावेतो दृढतरं बन्धनं सर्वजन्मिनाम् । सर्वदुःखानोकहानां मूलकन्दौ प्रकीर्तितौ ॥ २॥ कः सुखे विस्मयस्मेरो दुःखे कः कृपणो भवेत् ? । मोक्षं को नाप्नुयाद् रागद्वेषौ स्यातां न चेदिह ॥ ३॥ रागेण ह्यविनाभावी द्वेषो द्वेषेण चेतरः । तयोरेकतरत्यागे परित्यक्तावुभावपि ॥४॥दोषाः स्मरप्रभृतयोरागस्य परिचारकाःमिथ्याभिमानप्रमुखा द्वेषस्य तु परिच्छदः ॥॥ तयोर्मोहः पिता बीजं नायकः परमेश्वरः । ताभ्यामभिन्नस्तद्रक्ष्यः सर्वदोपपितामहः॥६॥ एवमेते त्रयो दोषा नातो दोषान्तरं कचित् । तैरमी जन्तवः सर्वे भ्रम्यन्ते भववारिधौ ॥ ७॥ स्वभावेन हि जीवोऽयं स्फटिकोपलनिर्मलः । उपाधिभूतैरेतैस्तु तादात्म्येनावभासते ॥८॥ अराजकमहो! विश्वं यदेभिः पश्यतोहरैः । हियते ज्ञानसर्वस्खं स्वरूपमपि जन्मिनाम् ॥ 8 ॥ ये जन्तवो निगोदेषु येऽपि चासनमुक्तयः । सर्वत्रास्पृष्टकरुणा पतत्येषां पताकिनी ॥ १० ।। मुक्त्या वैरं किमेतेषां मुक्तिकामैः सहाथवा । येनोभयसमायोगस्तैर्भवन् प्रतिषिध्यते ॥ ११ ॥ दोषक्षयक्षमाणां हि किमुपेक्षा क्षमार्हताम् । जगद्दाहकरं यन शान्तं दोषप्रदीपनम् ॥ १२॥ व्याघ्रव्यालजलाग्निभ्यो न बिभेति तथा मुनिः। लोकद्वयापकारिभ्यो रागादिभ्यो भृशं यथा ॥ १३ ॥ वातिसंकटमहो ! योगिभिः समुपाश्रितम् । रागद्वेषौ व्याघ्रसिंही पार्श्वतो यस्य तिष्ठतः ॥ १४ ॥४८॥ __ अथ रागद्वेषजयोपायमुपदिशतिअस्ततन्द्ररतः पुंभिनिर्वाणपदकाक्षिभिः । विधातव्यः समत्वेन रागद्वेषद्विषजयः ॥ ४९ ॥
यत एवंविधौ रागद्वेषौ, अतः कारणादस्ततन्द्रनिरस्तप्रमादैः पुंभिः पुरुषधर्मोपेतैर्योगिभिः, किंविशिष्टैः ?
॥२६४॥
in Education intematon
For Personal Private Use Only
Page #607
--------------------------------------------------------------------------
________________
*++***+******+1084030
निर्वाणपदकाङ्क्षिभिः निर्वान्ति रागद्वेषोपतप्ताः शीतीभवन्त्यस्मिन्निति निर्वाणं तदेव पद्यमानत्वात् पदं तत्काङ्क्षणशीला निर्वाणपदकाङ्क्षिणः, तैर्विधातव्यो विधेयो रागद्वेषावेवोपतापकारित्वाद् द्विषन्तौ तयोर्जयोऽभिभवः, केनोपायेनेत्याह- समत्वेन, रागहेतुषु द्वेषहेतुषु च माध्यस्थ्येनौदासीन्येनेति यावत् ॥ ४६ ॥
यथा साम्यं रागद्वेषजयोपायस्तथाऽऽद
अमन्दानन्दजनने साम्यवारिणि मज्जताम् । जायते सहसा पुंसां रागद्वेषमलक्षयः ॥ ५० ॥ साम्यमेवातिशीतीभावजनकत्वाद् वारि तत्र । किंविशिष्टे ? अमन्दस्तीव्रो य आनन्द आह्लादस्तस्य जनने, मञ्जतां तन्मध्यमवगाहमानानां सहसा अकस्मात् । केषां पुंसां । रागद्वेषावेव मलस्तस्य चयः । प्रसिद्धमेतद् यथा वारिणि मज्जतां मलायो भवति, एवं साम्ये निमज्जतां लीयमानानां रागद्वेषतयो भवति ॥ ५० ॥
न परं रागद्वेषयोरेवापनायकं साम्यम्, अपि तु सर्वकर्मणामपीत्याह
प्रणिहन्ति क्षणार्धेन साम्यमालम्ब्य कर्म तत्। यन्न हन्यान्नरस्तीत्रतपसा जन्मकोटिभिः ॥ ५१ ॥ प्रणिहन्ति निहन्ति चणार्धेनान्तर्मुहूर्तेन साम्यमुक्तलक्षणमालम्ब्याश्रित्य तत् कर्म ज्ञानावरणीयादि, यत् किश्चित् कर्म न हन्याद् नापनयेद् नरः पुमान् तीव्रतपसा तीव्रेण शरीरमनसोः संतापहेतुनाऽनशनादिरूपेणार्थात् साम्यरहितेन जन्मकोटिभिर्बहुभिरपि जन्मभिः ।। ५१ ।। कथमन्तर्मुहूर्त्तमात्रेण साम्यं सर्वकर्मापनायकमित्याह
For Personal & Private Use Only
18++++*****084-
Page #608
--------------------------------------------------------------------------
________________
चतुर्थः
शास्त्रम्
प्रकाश
२४५॥
कर्म जीवं च संश्लिष्टं परिज्ञातात्मनिश्चयः। विभिन्नीकुरुते साधु: सामायिकशलाकया ॥५२॥
सामायिकमेव समत्वमेव शलाका वंशादिमयी तया विभिन्नीकुरुते पृथक् करोति साधुर्यतिः । किं विभिन्नीकुरुते ? कर्म जीवं च संश्लिष्टं संपृक्तम्, यथा श्लेषद्रव्यसंपृक्तानां पात्रादीनां शलाकया पृथग भावः क्रियते तथा जीवकर्मणोरपि तादात्म्येन संबद्धयोः सामायिकेनेति । अयमेव कर्मक्षयः। न हि कर्मपुद्गलानामात्यन्तिकः क्षयः संभवति, नित्यत्वात् तेषाम्, आत्मनस्तु पृथग्भूतानि कर्माणि वीणानि इत्युच्यन्ते । ननु वामात्रमेतद् यत् सामायिकशलाकया साधुः कर्माणि पृथक् करोतीत्याह-परिज्ञातात्मनिश्चयः परित्रातः पुनः पुनः संविदित आत्मनिश्चय आत्मनिर्णयो येन स तथा । अयमर्थः-आत्मज्ञानमभ्यस्यंस्तथाविधावरणापगमेन तथा पुनः पुनः स्वसंवेदनेनात्मनिश्चयं दृढं करोति यथात्मरूपाद् भिन्नरूपाणि आत्मरूपावारकाणि च कर्माणि परमसामायिकबलेन निर्जरयति ॥ ५२ ॥
न केवलमात्मनिश्चयबलेन कर्माणि पृथक् करोति यावदात्मनि परमात्मदर्शनमपि भवतीत्याहरागादिध्वान्तविध्वंसे कृते सामायिकांशुना। स्वस्मिन्स्वरूपं पश्यन्ति योगिन: परमात्मनः ॥५३॥
रागादय एव स्वरूपतिरोधायकत्वाद् ध्वान्तं तस्य विध्वंसस्तस्मिन् कृते । केन ? सामायिकमेवांशुरादित्यस्तेन । ततः किं स्यात् ? स्वस्मिन्नात्मनि परमात्मनः स्वरूपं योगिनः पश्यन्ति । सर्वेऽपि ह्यात्मानस्तत्त्वतः
in Education inte
For Personal & Private Use Only
Page #609
--------------------------------------------------------------------------
________________
परमात्मान एव, केवलज्ञानस्य येन तेनांशेन सर्वत्र भावात् , यत् पारमर्षम्-"'सव्वजीवाणं पि अणं प्रकावरस्सातभागो निच्चम्पाडियो चेव" । केवलं रागद्वेषादिदोषकलुषितत्वाद् न साक्षात परमात्मस्वरूपाभिव्यक्तिः । सामायिकांशुमत्प्रकाशनेन तु रागादितिमिरेऽपगते आत्मन्येव परमात्मस्वरूपमभिव्यक्तं भवति ॥५३॥
इदानी साम्यप्रभावं व्यनक्ति-- स्निह्यन्ति जन्तवोनित्यं वैरिणोऽपि परस्परम् । अपि स्वार्थकृते साम्यभाजः साधोः प्रभावतः॥५४॥
अपि स्वार्थकृते स्वार्थनिमित्तमपि साम्यवतः साधोः प्रभावाद् नित्यवैरिणोऽप्यहिनकुलादयः नियन्ति परस्परं मैत्री कुर्वन्ति । अयमर्थः-ईदृशः साम्यस्य महिमा यदेतत् स्वनिमित्तं कृतमपि परेषु नित्यवैरिषु पर्यवस्यति, यत् स्तुवन्ति विद्वांसः
देवाकृष्य करेण केशरिपदं दन्ती कपोलस्थली, कण्डूयत्यहिरेष बभ्रुपुरतो मार्ग निरुध्य स्थितः। व्याघ्रव्यातविशालवलकुहरं जिघ्रत्यजस्रं मृगो, यत्रैवं पशवः प्रशान्तमनसस्तामर्थये त्वद्भवम् ॥ १॥ लौकिका अपि साम्यवतां योगिनां स्तुतिमाहुर्यथा-तत्सन्निधौ वैरत्याग इति । अत्रान्तर श्लोकाः
चेतनाचेतन वैरिष्टानिष्टतया स्थितैः । न मुह्यति मनो यस्य तस्य साम्यं प्रचक्षते ॥१॥ गोशीर्षचन्दनालेपे वासीच्छेदे च वाहयोः। अभिन्ना चित्तवृत्तिश्चेत् तदा साम्यमनुत्तरम् ॥२॥ अभिष्टोतरि च प्रीते रोषान्धे चापि
१ सर्वजीवानामप्यक्षरस्यानन्तभागो नित्योद्घाटित एव । २ भुजयोः
Jain Education international
For Personal & Private Use Only
Page #610
--------------------------------------------------------------------------
________________
योग
शास्त्रम् ॥ २६६ ॥
Jain Education Inter
40+0
शप्तरि । यस्याविशेषणं चेतः स साम्यमवगाहते || ३ || न हूयते तप्यते न दीयते वा न किश्चन । अहो ! अमूल्यक्रीतीयं साम्यमात्रेण निर्वृतिः ॥ ४ ॥ प्रयत्नकृष्टैः क्रिष्टैश्च रागाद्यैः किमुपासितैः ? । अयत्नलभ्यं हृद्यं च श्रय साम्यं सुखावहम् || ५ || परोक्षार्थप्रतिचेपात् स्वर्गमोक्षाव पहुताम् । साम्यशर्म स्वसंवेद्यं नास्तिकोऽपि न निह्नुते ।। ६ ।। कविप्रलापरूढेऽस्मिन्नमृते किं विमुह्यसि । स्वसंवेद्यरसं मूढ ! पिब साम्यरसायनम् ॥ ७ ॥ खाद्यलेह्यचू (चो) प्यपेयरसेभ्यो विमुखा अपि । पिचन्ति यतयः स्वैरं साम्यामृतरसं मुहुः ॥ ८ ॥ कण्ठपीठे लुठन् भोगिभोगो मन्दारदाम च । यस्याप्रीत्यै न वा नो वा प्रीत्यै स समतापतिः ॥ ६ ॥ न गूढं किञ्चनाचार्यमुष्टिः काचिद् न चापरा । बालानां सुधियां चैकं साम्यं भवरुजौषधम् ॥ १० ॥ अतिक्रूरतरं कर्म शान्तानामपि योगिनाम् । यद् घ्नन्ति साम्यशस्त्रेण रागादीनां कुलानि ते ॥ ११ ॥ अयं प्रभावः परमः समत्वस्य प्रतीयताम् । यत् पापिनः चणेनापि पदमिति शाश्वतम् ॥ १२ ॥ यस्मिन् सति सफलतामसत्यफलतां व्रजेत् । रत्नत्रयं नमस्तस्मै समत्वाय महौजसे || १३ || विगाह्य सर्वशास्त्रार्थमिदमुच्चैस्तरां बुवे । इहामुत्र स्वपरयोर्नान्यत् साम्यात् सुखाकरम् ॥ १४ ॥ संसर्गेऽप्युपसर्गाणामपि मृत्यावुपस्थिते । नैतत्कालोचितं किञ्चित् साम्यादौपयिकं परम् ॥ १५ ॥ रागद्वेषादिशत्रुप्रतिइतिनिपुणां साम्यसाम्राज्यलक्ष्मी, मुक्ता भुक्त्वा निरन्ताः शुभगतिपदवीं लेभिरे प्राणभाजः । तेनैतद् मानुषत्वं सपदि सफलतां नेतुकामैर्निकामं, साम्ये निस्सीमसौख्यप्रचयपरिचिते न प्रमादो विधेयः ॥ १६ ॥ ५४ ॥ नन्ववगतमेतत् सर्वदोषनिवारणकारणं समत्वम् श्रीताः स्मः यदि तु साम्यं प्रत्यप्युपायः कश्चन स्यात् । तदुपायेऽप्युपायान्तरमीषत्करं स्यात्, तदा निराकाङ्क्षाः प्रमोदामहे, इत्येतद् मनसि कृत्वा श्लोकद्वयमाह
For Personal & Private Use Only
चतुर्थः
प्रकाशः ।
॥ २६६ ॥
www.jainvelibrary.org
Page #611
--------------------------------------------------------------------------
________________
साम्यं स्याद् निर्ममत्वेन तत्कृते भावना:श्रयेत्। अनित्यतामशेरणं भवमेकत्वमन्यताम् ॥५५॥ अशौचमाधैवविधि संवरं कर्मनिर्जराम् । धर्मस्वाख्याततां लोकं द्वादशी बोधिभावनाम् ॥५६॥ . साम्यं यथोक्तस्वरूपं निर्ममत्वेनोपायेन स्यात् । ननु साम्यनिर्ममत्वयोः को भेदः १ उच्यते-साम्यं राग-द्वेषयोरुभयोरपि प्रतिपक्षभूतम् , निर्ममत्वं रागस्यैकस्य प्रतिपचभूतम् । तद्दोषद्वयनिवारणाय साम्ये चिकीर्षिते भवति बलवत्तरस्य रागस्य प्रतिपक्षभूतं निर्ममत्वमुपायः। यथा हि बलवत्यां सेनायां बलवत्तरस्य कस्यचिद् विनाश इतरेषां विनाशाय, तथा रागनिग्रहहेतु निर्ममत्वं हीनबलानां द्वेषादीनां विनाशायेति अलं प्रसङ्गेन । निर्ममत्वस्याप्युपायं दर्शयति-तत्कृते निर्ममत्वनिमित्तं भावना अनुप्रेक्षाः श्रयेद् योगी । प्रकृता भावना नामतः कथ- । यति-अनित्यतामित्यादि, स्पष्टं चैतत् ॥ ५५ ॥ ५६ ॥
तद्यथा । तद्यथा इत्युपस्कारपूर्वकमनित्यताख्यां प्रथमा भावनां दर्शयतियत्प्रातस्तन्न मध्याह्ने यन्मध्याह्ने नतनिशि। निरीक्ष्यते भवेऽस्मिन्ही! पदार्थानामनित्यता।५७ शरीरं देहिनां सर्वपुरुषार्थनिबन्धनम् । प्रचण्डपवनोधूतघनाघनविनश्वरम् ॥ ५८ ॥ कल्लोलचपला लक्ष्मीः संगमाः स्वप्नसंनिभाः। वात्याव्यतिकरोक्षिप्ततूलतुल्यं च यौवनम् ॥५९॥
श्लोकत्रयं स्पष्टम् , नवरं शरीरमित्यादिश्लोके पूर्वार्द्ध यदिति शेषः; उत्तरार्द्ध तदिति शेषः । अत्रान्तरश्लोकाः
Jan Education inte
For Personal & Private Use Only
Page #612
--------------------------------------------------------------------------
________________
योगशास्त्रम्
चतुर्थः प्रकाशः।
॥२६
॥
स्वतोऽन्यतश्च सर्वाभ्यो दिग्भ्यश्चागच्छदापदः। कृतान्तदन्तयन्त्रस्थाः कष्टं जीवन्ति जन्तवः ॥ १॥ वज्रमारेषु देहेषु यद्यास्कन्दत्यनित्यता । रम्भागर्भसगर्भेषु का कथा तर्हि देहिनाम् ? ॥२॥ असारेषु शरीरेषु स्थेमानं यश्चिकीर्षति । जीर्णशीर्णपलालोत्थे चश्चापुंसि करोतु सः ।। ३ ।। न मन्त्रतन्त्रभैषज्यकरणानि शरीरिणाम् । त्राणाय मरणव्याघ्रमुखकोटरवासिनाम् ॥ ४ ॥ प्रवर्द्धमानं पुरुषं प्रथमं ग्रसते जरा । ततः कृतान्तस्त्वरते धिगहो! जन्म देहिनाम ॥ ५ ॥ यद्यात्मानं विजानीयात् कृतान्तवशर्तिनम् । को ग्रासमपि गृहीयात् पापकर्मसु का कथा? ॥६॥ समुत्पद्य समुत्पद्य विपद्यन्तेऽप्सु बुद्बुदाः । यथा तथा क्षणेनैव शरीराणि शरीरिणाम् ॥ ७ ॥ आढ्यं निःस्वं नृपं रत मूर्ख सजनं खलम् । अविशेषेण संहर्तुं समवर्ती प्रवर्तते ॥ ८ ॥ न गुणेष्वस्य दाक्षिण्यं द्वषो दोषेषु चास्ति न । दवाग्निवदरण्यानि विलुम्पत्यन्तको जनम् ॥ ६ ॥ इदं तु मा स्म शङ्किष्ठाः कुशास्त्रैरपि मोहितः । कुतोऽप्युपायतः कायो निरपायो भवेदिति ॥१०॥ ये मेरुं दण्डसात् कर्तु पृथवीं वा छत्रसात् क्षमाः । तेऽपि त्रातुं स्वमन्यं वा न मृत्योः प्रभविष्णवः ॥११॥श्रा कीटादा च देवेन्द्रात् प्रभावन्तकशासने । अनुन्मत्तो न भाषेत कथञ्चित् कालवञ्चनम् ॥१२॥ पूर्वेषां चेत् कचित् कश्चिजीवन् दृश्येत तद् वयम् । मनोरथातीतमपि प्रतीमः कालवञ्चनम् ।। १३ ॥ अनित्यं यौवनमपि प्रतियन्तु मनीषिणः। बलरूपापहारिण्या जरसा जर्जरीभवेत् ॥ १४ ॥ यौवने कामिनीभिर्ये काम्यन्ते कामलीलया। निकामकृतथत्कारं त्यज्यन्ते तेऽपि वाईके ॥ १५ ।। यदर्जितं बहुक्नेशैरभुत्वा यच्च पालितम् । तद् याति क्षणमात्रेण निधनं धनिनां धनम् ॥ १६ ॥ उपमानपदं किं स्यात् फेनबुद्दविद्युताम् । धनस्य नश्यतोऽवश्यं पश्यतामपि तद्वताम् ? ॥१७॥
॥२६७
lain Education
For Personal & Private Use Only
Page #613
--------------------------------------------------------------------------
________________
समागमाः सापगमाः सुहृद्भिर्बन्धुभिर्निजैः। स्वस्य वाऽन्यस्य वा नाशे विकृतेऽपकृतेऽपि वा ॥१८॥ ध्यायन्ननित्यतां नित्यं मृतं पुत्रं न शोचति । नित्यतामहमूढस्तु कुड्यभङ्गेऽपि रोदिति ॥ १६ ॥ एतच्छरीरधनयौवनबान्धवादि, तावद् न केवलमनित्यमिहासुभाजाम् । विश्वं सचेतनमचेतनमप्यशेष-मुत्पत्तिधर्मकमनित्यमुशन्ति सन्तः ॥ २० ॥ ५७ ॥ ५८ ॥ ५६ ॥ ___ अनित्यताभावनामुपसंहरन्नुपदर्शयतिइत्यनित्यं जगद्वत्तं स्थिरचित्तःप्रतिक्षणम् ।तृष्णाकृष्णाहिमन्त्राय निर्ममत्वाय चिन्तयेत् ॥६०॥
इति पूर्वोक्तप्रकारेण जगद्वृत्तं जगत्स्वरूपमनित्यं प्रतिक्षणं चिन्तयेदवधारयेत् , स्थिरचिचो निश्चलचित्तः सन् । किमर्थम् ? निर्ममत्वाय-अनित्यत्वादिभावनासाध्यवीतरागत्वनिमित्तम् । किविशिष्टाय ? तृष्णाकृष्णाहिमन्त्रायतृष्णा रागः सेव कृष्णाहिस्तस्था मन्त्राय मन्त्रस्वरूपाय । अहिशद्व: स्त्रीलिङ्गोऽप्यस्तीति नोपमानोपमेययोभिन्नलिङ्गत्वम् । अनित्यता ॥१॥ ६० ।
अथाशरणभावनामुपदिशतिइन्द्रोपेन्द्रादयोऽप्येते यन्मृत्योर्यान्ति गोचरम्।अहो! तदन्तकातङ्के कः शरण्यः शरीरिणाम? ॥ ____ इन्द्रः सुरनाथः, उपेन्द्रो वासुदेवस्तावादी येषां सुरमनुष्यादीना, चक्रवर्तिपरिहारेणोपेन्द्रग्रहणं लोके मृत्युकाले शरणत्वोपहासपरम् , तेऽपि यद् यस्माद् मृत्योर्गोचरं वशं यान्ति; अहो इति विस्मये, तत् तस्मादन्तकातङ्के मृत्यु
in Education
For Personal & Private Use Only
|
Page #614
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥२६८
भये उपस्थिते कः शरण्यः शरणे साधुः शरीरिणां जन्तूनाम् ?-कोऽपि नास्तीत्यर्थः ॥ ६१॥ तथा
चतुः पितुर्मातुःस्वसु तुस्तनयानां च पश्यताम् । अत्राणो नीयते जन्तुः कर्मभिर्यमसद्मनि ॥६२|| प्रकाशः । . पित्रादीनां पश्यतां ताननादृत्यैवात्राणोऽशरणो जन्तुः कर्मभिः परभववेदनीयैः शुभाशुभैर्यमसमनि यमालये नीयते । एतच्च लोकप्रसिध्यपेचम, न पुनर्यमसदनि कश्चिद् नीयते, अपि तु चतुर्गतिस्वरूपे संसारे तत्तद्वत्युचितैः कमेभिस्तत्र तत्र नीयत इति परमार्थः ॥ ६२ ॥ तथाशोचन्ति स्वजनानन्तं नीयमानान् स्वकर्मभिः। नेष्यमाणंतु शोचन्ति नात्मानं मूढबुद्धयः॥१३॥
शोचन्ति शोकविषयतां नयन्ति वजनान् बन्धून् , अन्तमवसानं नीयमानान् स्वकर्मभिर्भवान्तरवेदनीयमंढ इत्युत्तरेण योगः आत्मानं तु स्वकर्मभिरेवान्तं नेष्यमाणं न शोचन्ति । संनिहितपरित्यागे हि व्यवहितं प्रति कारणं वाच्यम् , संनिहितश्चात्मा, तस्य शोचनीयतां मुक्त्वा व्यवहितस्य स्वजनादेः शोचनं बुद्धिमोहनिबन्धनमेव ॥६३॥
अशरणभावनामुपसंहरतिसंसारे दुःखदावाग्निज्वलज्ज्वालाकरालिते। वने मृगार्भकस्येव शरणं नास्ति देहिनः ॥६४॥ ___संसारे शरणं देहिनो नास्ति । कस्येव कुत्र ? बने मृगार्भकस्येव । किंविशिष्टे संसारे ? दुःखमेव दावाग्निस्तस्य ज्वलन्त्यो या ज्वाला दुःखस्यैव प्रभेदास्तैः करालिते रौद्रे। वने किंविशिष्टे ? दुःखो दुःखहेतुर्यो दावाग्निस्तस्य ज्वलन्त्यो या ज्वालास्ताभिः करालिते ।अर्भकाहणमतिमौग्ध्यख्यापनार्थम् । अशरणभावना । अत्रान्तरश्लोकाः- ॥२८॥
For Personal & Private Use Only
Page #615
--------------------------------------------------------------------------
________________
अष्टाङ्गेनायुर्वेदेन जीवातुभिरथागदैः । मृत्यंजयादिभिर्मन्त्रैखाणं नैवास्ति मृत्युतः ॥१॥ खड्गपञ्जरमध्यस्थश्चतुरङ्गचमूवृतः । रङ्कवत् कृष्यते राजा हठेन यमकिकरैः ॥२॥ जलमध्यस्थितस्तम्भमूर्ध्वपञ्जरमध्यगम् । राज्ञः प्रियसुतं मृत्युश्चकर्षान्यस्य का कथा ? ॥ ३॥ षष्टिं पुत्रसहस्राणि सगरस्यापि चक्रिणः । तृणवत् वाणरहितान्यदहज्ज्वलनप्रभः ॥४॥ आस्कन्ध स्कन्दकाचार्य मुनिपञ्चशती नतः । न कश्चिदभवत् त्राता पालकादन्तकादिव ॥५॥ यथा मृत्युप्रतीकारं पशवो नैव जानते । विपश्चितोऽपि हि तथा धिक प्रतीकारमृढताम् ॥ ६॥ येऽसिमात्रोपकरणाः कुवेते दमामकण्टकाम् । यमभ्रूभङ्गभीतास्तेऽप्यास्ये निदधतेऽङ्गलीः ।। ७ ।। स्नेहादाश्लिष्य शक्रेणार्द्धासनेऽ. ध्यास्यते स यः । श्रेणिकः सोऽप्यशरणोऽश्रोतव्यां प्राप तां दशाम् ॥ ८॥ मुनीनामप्यपापानामसिधारोपमैक्रेतेः । न शक्यते कृतान्तस्य प्रतिकर्तु कदाचन ॥ ॥ अशरण्यमहो ! विश्वमराजकमनायकम् । यदेतदप्रतीकारं ग्रस्यते | यमरक्षसा ॥ १०॥ योऽपि धर्मप्रतीकारो न सोऽपि मरणं प्रति । शुभां गतिं ददानस्तु प्रतिकर्तेति कीयेते
॥११॥ एवं विश्वमनाकुलः कवलयन्नाब्रह्म कीटावधि, श्रान्ति याति कथञ्चनापि न खलु त्रैलोक्यभीमो यमः । | नैवास्य प्रतिकारकर्मणि सुराधीशोऽप्यलंभूष्णुता-मालम्बेत शरण्यवर्जितमिदं हा! हा ! जगत् ताम्यति ॥ १२ ॥ मशरणभावना ॥२॥६४॥
अथ संसारभावनां श्लोकत्रयेणाहश्रोत्रियः श्वपचः स्वामी पत्तिर्ब्रह्मा कृमिश्च सः। संसारनाट्ये नटवत् संसारी हन्त! चेष्टते॥६५॥
संसारो नानायोनिषु सञ्चरणं स एव नाट्यं नटकर्म तत्र नटवत् नर्तकवत् संसारी जन्तुश्चेष्टते विविधां चेष्टां करो
Iain Education Inter
For Personal & Private Use Only
.
Page #616
--------------------------------------------------------------------------
________________
योग
| चतुर्थः प्रकाशः।
शास्त्रम्
॥२६
तीति । हन्तेत्यामन्त्रणे । केनोल्लेखेन चेष्टते ? श्रोत्रियो वेदपारगः स एव श्वपचो भवति, स्वामी प्रभुः स एव पत्तिर्भवति, ब्रह्मा प्रजापतिः स एव कृमिर्भवति । यथेष्टं च विध्यनुवादौ, तेन श्वपचः श्रोत्रियः, पत्तिः स्वामी, कृमिब्रह्मा, इत्यपि द्रष्टव्यम् । यथा हि नाट्ये विविधवर्णकादियोगाद् भूमिकान्तरं नटाः प्रतिपद्यन्ते तथैव संसारी विविधकर्मोपाधिः श्रोत्रियादितां प्रतिपद्यते, न पुनरस्य तथाविधं परमार्थतो रूपमस्ति ॥६५॥ तथान याति कतमां योनि कतमा वा न मुञ्चति । संसारी कर्मसम्बन्धादवक्रयकुटीमिव ॥६६॥
योनिमेकेन्द्रियादिलक्षणां कतमां न याति ? सर्वामपि यातीत्यर्थः, कतमां वा योनिं न मुश्चति ? सर्वामपि मुश्चतीत्यर्थः, संसारी जन्तुः । कुतो हेतोरित्याह-कर्मसम्बन्धात् । अवक्रयकुटीमिव भाटककुटीमिव । यथा हि तथाविधोपयोगहेतोहमेधी एका कुटीं प्रविशति, उपयोगाभावे तां मुश्चति ; उपयोगान्तराच्च कुट्यन्तरमादत्ते, परिहरति च ; एवं नियतकर्मोपभोगहेतोरेका योनि जन्तुः प्रविशति, तद्योग्यकर्मोपभोगानन्तरं तु तां विमुञ्चति, योन्यन्तरं तूपादत्ते पुनश्च परिहरति, न पुनर्नियतः कोऽपि योनिपरिग्रहोऽस्तीति ॥६६॥ तथासमस्तलोकाकाशेऽपि नानारूपैः स्वकर्मतः। वालाग्रमपि तन्नास्ति यन्न स्पृष्टं शरीरिभिः ॥७॥
इहाकाशं द्विविधं-लोकाकाशमलोकाकाशं च । यत्र धर्माधर्मजीवपुद्गलानां सम्भवोऽस्ति तल्लोकाकाशम् , A इतरत्वलोकाकाशम् , यदाह ;
धर्मादीनां वृत्तिर्द्रव्याणां यत्र भवति तत् क्षेत्रम् । तैव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ॥ १ ॥
॥ २६
॥
JainEducation in
For Personal & Private Use Only
Page #617
--------------------------------------------------------------------------
________________
ततः समग्रेऽपि लोकाकाशे चतर्दशरज्ज्वात्मके वालाग्रमपि वालाग्रप्रमाणमपि तत् क्षेत्रं नास्ति यत शरीरिभिरुत्पद्यमानैर्विपद्यमानैश्च न स्पृष्टम् । अत्र हेतुमाह-किविशिष्टैः शरीरिभिः ? सूक्ष्मबादरप्रत्येकसाधारणैकेन्द्रियभेदतो द्वित्रिचतुष्पश्चैन्द्रियभेदतश्च यथायोग्यं नानारूपैः । नानारूपत्वमपि कुतः स्वकर्मतः, न त्वीश्वरादिप्रेरणया, यदाहुः परे
अज्ञो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा ॥१॥ ___तत्रेश्वरप्रेरणा यदि कर्मनिरपेक्षा तदा विश्वस्य वैश्वरूप्यं विलीयेत । कर्मसापेक्षतायां त्वीश्वरस्यास्वातन्त्र्यं वैफल्यं वा स्यादिति कर्कवास्तु प्रेरकम , किमीश्वरेण ? यदवोचाम वीतरागस्तोत्रे
कर्मापेक्षः स चेत् तहि न स्वतन्त्रोऽस्मदादिवत् । कर्मजन्ये च वैचित्र्ये किमनेन शिखण्डिना? ॥१॥ अत्रान्तरश्लोकाः
संसारिणश्चतुर्भेदाः श्वभ्रतिर्यग्नरामराः। प्रायेण दुःखबहुलाः कर्मसम्बन्धबाधिताः ॥१॥ आयेषु त्रिषु नरकेषणं शीतं परेषु च । चतुर्थे शीतमुष्णं च दुःखं क्षेत्रोद्भवं त्विदम् ॥ २॥ नरकेषुष्णशीतेषु चेत् पतेनोह| पर्वतः। विलीयेत विशीर्येत तदा भुवमनाप्नुवन् ॥३॥ उदीरितमहादुःखा अन्योन्येनासुरैश्च ते । इति त्रिविध| दुःखार्ता वसन्ति नरकावनौ ॥ ४॥ समुत्पन्ना घटीयन्त्रेष्वधार्मिकसुरैर्बलात् । आकृष्यन्ते लघुद्वाराद् यथा सीसशलाकिकाः॥५॥ गृहीत्वा पाणिपादादौ वज्रकण्टकसङ्कटे । आस्फाल्यन्ते शिलापृष्ठे वासांसि रजकैरिव ॥६॥ दारुदारं विदार्यन्ते दारुणैः कुकचैः कचित् । तिलपेषं च पिष्यन्ते चित्रयन्वैः क्वचित पुनः॥७॥ पिपासार्ताः
॥ गृहीत्वा पाणिण समुत्पन्ना घटीयन् पारितमहादुःखा अन्य
in Education Interna
For Personal & Private Use Only
Page #618
--------------------------------------------------------------------------
________________
योगशाखम् का
प्रकाशः।
॥ ३००
पुनस्तप्तत्रपुसीसकवाहिनीम् । नदी वैतरणी नामावतार्यन्ते वराककाः ॥ ८॥ छायामिकाशिणः क्षिप्रमसिपत्रवनं गताः । पत्रशस्त्रैः पतद्भिस्ते छिद्यन्ते तिलशोऽसकृत् ॥॥आश्लेष्यन्ते च शाल्मल्यो वज्रकण्टकसङ्कटाः । तप्ताय:पुत्रिकाः कापि स्मारितान्यवधृतम् ॥१० ।। संस्मार्य मांसलोलत्वमाश्यन्ते मांसमङ्गजम् । प्रख्याप्य मधुलोन्यं च पाय्यन्ते तापितं त्रपु ॥ ११ ॥ भ्राष्ट्रकन्दुमहाशूलकुम्भीपाकादिवेदनाः । अश्रान्तमनुभाव्यन्ते भृज्यन्ते च
भटित्रवत् ॥ १२ । छिन्नभिन्नशरीराणां पुनर्मिलितवर्मणाम । नेत्राधङ्गानि कृष्यन्ते वककङ्कादिपचिभिः ॥ १३ ॥ 1 एवं महादुःखहताः सुखांशेनापि वर्जिताः । गमयन्ति बहुं कालमात्रयस्त्रिंशसागरम् ॥ १४ ।।
तिर्यग्गतिमपि प्राप्ताः सम्प्राप्यैकेन्द्रियादिताम् । तत्रापि पृथिवीकायरूपता समुपागताः ॥१५॥ हलादिशस्त्रैः पाट्यन्ते मृद्यन्तेश्वगजादिमिः । वारिप्रवाहैः माव्यन्ते दह्यन्ते च दवामिना ॥ १६ ॥ व्यथ्यन्ते लवणाचाम्लमत्रादिसलिलैरपि । लवणचारतां प्राप्ताः कथ्यन्ते चोष्णवारिणि ॥ १७॥ पच्यन्ते कुम्भकाराद्यैः कृत्वा कुम्भेष्टकादिसात् । चीयन्ते भित्तिमध्ये च कृत्वा कर्दमरूपताम् ॥ १८ ॥ केचिच्छाणैनिघृष्यन्ते विपच्य चारमृत्युः। टङ्कान्दुकेर्विदार्यन्ते पाठ्यन्तेऽद्रिसरित्सवैः ॥ १६॥ अप्कायतां पुनः प्राप्तास्ताप्यन्ते तपनांशुभिः । धनीक्रियन्ते
तुहिनैः संशोध्यन्ते च पांशुभिः ॥ २० ॥ धारेतररसाश्लेषाद विपद्यन्ते परस्परम् । स्थान्यन्तस्था विपच्यन्ते | पीयन्ते च पिपासितैः ॥ २१ ॥ तेजस्कायत्वमाप्ताश्च विध्याप्यन्ते जलादिभिः । घनादिभिः प्रकुट्यन्ते ज्वान्यन्ते
चेन्धनादिभिः ॥ २२ ॥ वायुकायत्वमप्याता हन्यन्ते व्यजनादिभिः। शीतोष्णादिद्रव्ययोगाद् विपद्यन्ते क्षणे क्षणे ॥ २३ ॥ प्राचीनाद्यास्तु सर्वेऽपि विराध्यन्ते परस्परम । मखादिवातैर्वाध्यन्ते पीयन्ते चोरगादिभिः ॥२४ ।
For Personal & Private Use Only
Jan Education intel
PSI www.ainelibrary.org
Page #619
--------------------------------------------------------------------------
________________
वनस्पतित्वं दशधा प्राप्ताः कन्दादिभेदतः । छिद्यन्ते चाथ भिद्यन्ते पच्यन्ते चाग्नियोगतः ॥६५॥ संशोष्यन्ते निपिष्यन्ते प्लुष्यन्तेऽन्योन्यघर्षणैः। क्षारादिभिश्च दह्यन्ते संधीयन्ते च भोक्तृभिः ॥ २६ ॥ सर्वावस्था खाद्यन्ते भज्यन्ते च प्रभजनैः। क्रियन्ते भस्मसाद दावैरुन्मन्यन्ते सरित्सवैः ।। २७ ॥ सर्वेऽपि वनस्पतयः सर्वेषां भोज्यतां गताः । सधैः शस्त्रैः सर्वदाउनुभवन्ति क्लेशसन्ततिम् ॥ २८ ॥ द्वीन्द्रियत्वे च ताप्यन्ते पीयन्ते पूतरादयः । चूर्ण्यन्ते कमयः पादेर्भक्ष्यन्ने चटकादिभिः ।। २६ ।। शङ्खादयो निखन्यन्ते निकृष्यन्ते जलौकसः। गण्डूपदाद्याः पात्यन्ते जठरादौषधादिभिः ॥ ३०॥ त्रीन्द्रियत्वेऽपि सम्प्राप्ते पदयदीमत्कुणादयः । विमृज्यन्ते शरीरेण ताप्यन्ते चोष्णवारिया ॥ ३१ ॥ पिपीलिकास्तु तुद्यन्ते पादैः सम्माजनेन च । अदृश्यमानाः कुन्थ्वाद्या मथ्यन्ते चासनादिभिः॥ ३२ ॥ चतुरिन्द्रियताभाजः सरघाभ्रमरादयः । मधुभवैर्विराध्यन्ते यष्टिलोष्टादिताडनैः ॥३३ ।। ताड्यन्ते तालवृन्ताद्याग देशमशकादयः । ग्रस्यन्ते गृहगोधाद्यैर्मक्षिकामर्कटादयः॥ ३४ ॥ पञ्चन्द्रिया जलचराः खादन्त्यन्योन्यमुत्सुकाः। धीवरैः परिगृह्यन्ते गिल्यन्ते च बकादिभिः ॥ ३५॥ उत्कील्यन्ते त्वचयद्भिः प्राप्यन्ते च भटित्रताम् । भोक्तुकामैपिच्यन्ते निगाल्यन्ते वसाथिभिः ॥ ३६ ॥ स्थलचारिषु चोत्पन्ना अबला बलवत्तरैः । मृगाद्याः सिंहमुखैार्यन्ते मांसकादिभिः ॥ ३७॥ मृगयासक्तचित्तैश्च क्रीडया मांसकाम्यया । नरैस्तत्तदुपायेन हन्यन्तेऽनपराधिनः ॥ ३८॥ नुधापिपासाशीतोष्णातिभारारोपणादिना । कशाङ्कशप्रतोदैश्च वेदनां प्रसहन्त्यमी ॥३६ ।। खेचरास्तित्तिरशुककपोतचटकादयः । श्येनसिश्चानगृधाद्यग्रस्यन्ते मांसगृनुभिः ॥ ४०॥ मांसलुब्धैः शाकुनिकै नोपायप्रपञ्चतः। संगृह्य प्रतिहन्यन्ते नानारूपैविडम्बनैः ॥४१॥ जलाग्निशस्त्रादिभवं
Education inte
For Personal Private Use Only
Page #620
--------------------------------------------------------------------------
________________
योगशास्रम्
॥३०१ ॥
Jain Education Internationa
तिरवां सर्वतो भयम् । कियद् वा वर्ण्यते स्वस्वकर्मबन्धनिबन्धनम् ॥ ४२ ॥
मनुष्यत्वेनार्यदेशे समुत्पन्नाः शरीरिणः । तत् तत् पापं प्रकुर्वन्ति यद् वक्तुमपि न क्षमम् ॥ ४३ ॥ उत्पन्ना आर्यदेशेऽपि चण्डालश्वपचादयः । पापकर्माणि कुर्वन्ति दुःखान्यनुभवन्ति च ॥ ४४ ॥ आर्यवंशसमुद्भूता अप्यनार्यविचेष्टिताः । दुःखदारिद्रयदौर्भाग्यनिर्दग्धा दुःखमासते ॥ ४५ ॥ परसम्पत्प्रकर्षेणापकर्षेण स्वसम्पदाम् । परप्रेष्यतया दग्धा दुःखं जीवन्ति मानवाः || ४६ ।। रुग्जरामरणैर्ग्रस्ता नीचकर्मकदर्थिताः । तां तां दुःखदशां दीनाः प्रपद्यन्ते दयास्पदम् ॥ ४७ ॥ जरा रुजा मृतिर्दास्यं न तथा दुःखकारणम् । गर्भवासो यथा घोरनरके वाससन्निभः ।। ४८ ॥ सूचिभिरग्निवर्णाभिर्भिन्नस्य प्रतिरोम यत् । दुःखं नरस्याष्टगुणं तद् भवेद् गर्भवासिनः ॥ ४६ ॥ योनियन्त्राद् विनिष्क्रामन् यद् दुःखं लभते भवी । गर्भवासभवाद् दुःखात् तदनन्तगुणं खलु ॥ ५० ॥ बाल्ये मूत्रपुरीषाभ्यां यौवने रतचेष्टितैः । वार्द्धक्ये श्वासकासाद्यैर्जनो जातु न लज्जते ॥ ५१ ॥ पुरीषशूकरः पूर्वं ततो मदन गर्दभः । जराजरद्भवः पश्चात् कदापि न पुमान् पुमान् ॥ ५२ ॥ स्याच्छैशवे मातृमुखस्तारुण्ये तरुणीमुखः । वृद्धभावे सुतमुखो मूर्खो नान्तर्मुखः कचित् ॥ ५३ ॥ सेवाकर्षणवाणिज्यपाशुपाल्यादिकर्मभिः । क्षपयत्यफलं जन्म धनाशाविह्वलो जनः ॥ ५४ ॥ कचिच्चौर्य कचिद् द्यूतं कचिद् नीचैर्भुजङ्गता । मनुष्याणामहो ! भूयो भवभ्रमनिबन्धनम् || ५५ || सुखित्वे कामल लितैर्दुःखित्वे दैन्यरोदनैः । नयन्ति जन्म मोहान्धा न पुनर्द्धर्मकर्मभिः || ५६ ॥ श्रनन्तकर्मप्रचयचयक्षममिदं क्षणात् । मानुषत्वमपि प्राप्ताः पापाः पापानि कुर्वते ||७| ज्ञानदर्शनचारित्ररत्नत्रितयभाजने । मनुजत्वे पापकर्म स्वर्णभाण्डे सुरोपमम् ॥ ५८ ॥ संसारसागरगतैः शमिला -
For Personal & Private Use Only
20-→
चतुर्थः
प्रकाशः
॥३०१ ॥
Page #621
--------------------------------------------------------------------------
________________
युगयोगवत् । लब्धं कथञ्चिद् मानुष्यं हा! रत्नमिव हार्यते ॥५६॥ लब्धे मानुष्यके स्वर्ग-मोक्षप्राप्तिनिवन्धने। हा! नरकायुपायेषु कर्मसूत्तिष्ठते जनः ॥ ६० ॥ आशास्यते यत् प्रयत्नादनुत्तरसुरैरपि । तत् सम्प्राप्तं
मनुष्यत्वं पापैः पापेषु योज्यते ॥६१॥ परोक्षं नरके दुःखं प्रत्यक्षं नरजन्मनि । तत्प्रपश्चः प्रपञ्चेन | किमर्थमुपवर्ण्यते ? ॥ ६२ ॥
शोकामर्षविषादेादैन्यादिहतबुद्धिषु । अमरेष्वपि दुःखस्य साम्राज्यमनुवर्तते ॥ ६३ ।। दृष्ट्वा परस्य महतीं प्रियं प्राग्जन्मजीवितम् । अर्जितस्वल्पसुकृतं शोचन्ति सुचिरं सुराः ।। ६४ ॥ विराद्धा बलिनान्येन प्रतिकर्तु तमक्षमाः । तीक्ष्णेनामर्षशल्येन दोयन्ते निरन्तरम् ।। ६५ ।। न कृतं सुकृतं किञ्चिदाभियोग्यं ततो हि नः। दृष्टोत्तरोत्तरश्रीका विषीदन्तीति नाकिनः ॥६६॥ दृष्ट्वान्येषां विमानस्त्रीरत्नोपवनसम्पदम् । यावजीवं विपच्यन्ते जलदानलोमिभिः ॥६७।। हा प्राणेश ! प्रभो! देव! प्रसीदेति सगद्गदम् । परैर्मुषितसर्वस्वा भाषन्ते दीनवृत्तयः ॥६८॥ प्राप्तेऽपि पुण्यतः स्वर्गे कामक्रोधभयातुराः। न स्वस्थतामश्नुवते सुराः कान्दर्पिकादयः ॥६९॥ अथ च्यवनचिह्नानि दृष्ट्वा दृष्ट्वा विमृश्य च । विलीयन्तेऽथ जन्पन्ति क निलीयामहे वयम् ? ॥ ७० ॥
तथाहि
अम्लाना अपि हि मालाः सुरद्रुमसमुद्भवाः । म्लानीभवन्ति देवानां वदनाम्भोरुहैः समम् ।। ७१ ॥ हृदयेन समं विष्वग विश्लिष्यत्सन्धिबन्धनाः । महाबलैरप्यकम्प्याः कम्पन्ते कन्पपादपाः ॥ ७२ ॥ अकालप्रतिपन्नाभ्यां प्रियाभ्यां च सहैव हि । श्रीहीभ्यां परिमुच्यन्ते कृतागस इवामराः ॥ ७३ ॥ अम्बरश्रीरपमला मलिनीभवति
Jain Education in
For Personal & Private Use Only
Page #622
--------------------------------------------------------------------------
________________
योगशास्त्रम्
प्रकाश:।
॥३०२॥
क्षणात् । अप्यकस्माद्विसमरैरपौधर्मलिनैपनैः ।। ७४ ॥ अदीना अपि दैन्येन विनिद्रा अपि निद्रया । आश्रीयन्ते मृत्युकाले पक्षाभ्यामिव कीटिकाः ।। ७५ ॥ विषयेष्वतिरज्यन्ते न्यायधर्मविबाधया। अपथ्यान्यपि यत्नेन स्पृहयन्ति मुमूर्षवः ।। ७६ ॥ नीरुजामपि भज्यन्ते सर्वाङ्गोपाङ्गसन्धयः । भाविदुर्गतिपातोत्थवेदनाविवशा इव ॥ ७७॥ पदार्थग्रहणेऽकस्माद् भवन्त्यपटुदृष्टयः। परेषां सम्पदुत्कर्षमिव प्रेक्षितुमक्षमाः ।। ७८ । गर्भावासनिवासोत्थदुःखागमभयादिव । प्रकम्पतरलैरङ्गैर्भापयन्ते परानपि ॥ ७६ ।। निश्चितच्यवनाश्चिहर्लभन्ते न रतिं कचित् । विमाने नन्दने वाप्यामगारालिङ्गिता इव ।। ८०॥ हा ! प्रिया ! हा ! विमानानि! हा वाप्यो! हा! & सुरद्रुमाः ! । क द्रष्टव्याः पुनर्पुयं हतदैववियोजिताः ? ॥ ८१॥ अहो ! स्मितं सुधावृष्टिरहो! बिम्बाधरः सुधा । अहो ! वाणी सुधावर्षिण्यहो ! कान्ता सुधामयी ।। ८२ ॥ हा ! रत्नघटिताः स्तम्भाः हा श्रीमन्मणिकुट्टिम ! । हा ! वेदिका ! रत्नमय्यः ! कस्य यास्यथ संश्रयम् ? ॥ ८३ ॥ हा ! रत्नसोपानचिताः कमलोत्पलमालिताः । भविष्यन्त्युपभोगाय कस्येमाः पूर्णवापयः ॥८४॥ हे ! पारिजात ! मन्दार ! सन्तान ! हरिचन्दन !। कल्पद्रुम ! विमोक्तव्यः किं भवद्भिरयं जनः ? ॥ ५॥ हा ! हा ! स्त्रीगर्भनरके वस्तव्यमवशस्य मे । हहाऽशुचिरसास्वादः कर्तव्यो मयका मुहुः ॥८६॥ हहा हा ! जठराङ्गारशकटीपाकसम्भवम् । मया दुःखं विसोढव्यं बद्धेन निजकर्मणा ॥ ८७।। रतेरिव निधानानि क तास्ताः सुरयोषितः ? । काशुचिस्सन्दबीभत्सा भोक्तव्या नरयोषितः १ ॥८८॥ एवं स्वर्लोकवस्तूनि स्मारं स्मारं दिवौकसः । विलपन्तः क्षणस्यान्तर्विध्यायन्ति प्रदीपवत् ॥18॥ (नवभिः कुलकम् ।) एवं नास्ति सुखं चतुर्गतिजुषामप्यत्र संसारिणां, दुःखं केवलमेव मानसमथो शारीर
॥३०२॥
in Education Internation
For Personal & Private Use Only
Page #623
--------------------------------------------------------------------------
________________
मत्यायतम् ।ज्ञात्वैवं ममतानिरासविधये ध्यायन्तु शुद्धाशया अश्रान्तं भवभावनां भवभयच्छेदोन्मुखत्वं यदि ॥१०॥
॥ संसारभावना ३ ॥ ६७ ॥ अथैकत्वभावनां श्लोकद्वयेनाहएक उत्पद्यते जन्तुरेक एव विपद्यते। कर्माण्यनुभवत्येकः प्रचितानि भवान्तरे ॥ ६८ ॥ | एकोऽसहाय उत्पद्यते शरीरसम्बन्धमनुभवति जन्तुः प्राणी, विपद्यते शरीरेण वियुज्यते, कर्माणि ज्ञानावरPणीयादीनि भवान्तरे पूर्वजन्मनि प्रचितानि कृतानि अनुभवति वेदयते, भवान्तरग्रहणमुपलक्षणम् ,
इहजन्मकृतानामप्यनुभवात, यदाहर्भगवन्तः :-परलोअकडा कम्मा इहलोए वेइजंति, इहलोअकडा कम्मा इहलोए वेइजंति ।। ६८ ॥ तथाअन्यैस्तेनार्जितं वित्तं भूयः संभूय भुज्यते । स त्वेको नरकक्रोडे क्लिश्यते निजकर्मभिः ॥६९॥
तेनैकेन जन्तुनाऽर्जितं महारम्भपरिग्रहादिनोपार्जितं वित्तमन्यैः सम्बन्धिबन्धुभृत्यप्रभृतिभिः सम्भूय मिलित्वा भूयः पुनः पुनर्भुज्यते वित्तस्य विनियोगः क्रियते । स तु वित्तस्यार्जयिता एको भोक्तृलोकविरहितो नरककोडे | नरकोत्सङ्गे क्लिश्यते बाध्यते निजकर्मभिर्धनार्जनकालप्रचितैः पापकर्मभिः ॥ अत्रान्तरश्लोकाः
दुःखदावाग्निभीष्मेऽस्मिन् वितते भवकानने । बम्भ्रमीत्येक एवासी जन्तुः कर्मवशीकृतः ॥१॥ ननु जीवस्य | (१) परलोककृतानि कर्माणि इहलोके वेद्यन्ते । इहलोके कृतानि कर्माणि इहलोके वेद्यन्ते ।।
Jain Education inted
For Personal & Private Use Only
Page #624
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥३०३||
मा भूवन् सहाया बान्धवादयः । शरीरं तु सहायोऽस्तु सुखदुःखानुभूतिदम् ॥ २ ॥ नायाति पूर्वभवतो न याति / चतुर्थः च भवान्तरम् । ततः कायः सहायः स्यात् संफटमिलितः कथम् ॥ ३॥ धर्माधर्मों समासन्नौ सहायाविति चेद् प्रकाशः। मतिः । नैषा सत्या न मोक्षेऽस्ति धर्माधर्मसहायता ॥ ४॥ तस्मादेको बम्भ्रमीति भवे कुर्वन शुभाशुभे । जन्तुर्वेदयते चैतदनुरूपे शुभाशुभे ।। ५ ॥ एक एव समादत्ते मोक्षश्रियमनुत्तराम् । सर्वसम्बन्धिविरहाद द्वितीयस्य न सम्भवः ॥ ६ ॥ यद् दुःखं भवसम्बन्धि यत् सुखं भोक्षसम्भवम् । एक एवोपभुते तद् न सहायोऽस्ति कश्चन ॥७॥ यथैवैकस्तरन् सिन्धुं पारं व्रजति तत्क्षणात् । न तु हृत्पाणिपादादिसंयोजितपरिग्रहः ॥ ८॥ तथैव धनदेहादिपरिग्रहपराङ्मुखः । स्वस्थ एको भवाम्भोधेः पारमासादयत्यसौ ॥६॥ एकः पापात् पतति नरके याति पुण्यात खरेकः, पुण्यापुण्यप्रच्यविगमाद् मोक्षमेकः प्रयाति । एवं ज्ञात्वा चिरमवितथां निर्ममत्वस्य हेतो-रेकत्वाख्यामवहितधियो भावनां भावयन्तु ।। १० ॥
॥ एकत्वभावना ४ ॥ ६६ ।। अथान्यत्वभावनामाहयत्रान्यत्वं शरीरस्य वैसदृश्याच्छरीरिणः । धनबन्धुसहायानां तत्रान्यत्वं न दुर्वचम् ॥७॥ ___ यत्रेति प्रक्रमार्थमन्ययम् । अन्यत्वं भेदः शरीरस्य कायस्य । कस्माद् भेदः ? शरीरिण आत्मनः सकाशात् । | कुतो हेतोः। वैसदृश्यात् । प्रतीतमेव हि वैसदृश्यं शरीरशरीरिणोर्मूर्तत्वातत्वाभ्याम , अचेतनत्वचेतनत्वाभ्याम् , अनित्यत्वनित्यत्वाभ्याम् , भवान्तरेष्वगमनगमनाभ्यां च । तत्रेति प्रक्रमोपसंहारे, शरीरिणः सकाशादन्यत्वं न ॥३०३॥
Jain Education intonal
For Personal & Private Use Only
www.jalnelibrary.org
Page #625
--------------------------------------------------------------------------
________________
दुर्वचं न दुर्भणम् । केषाम् ? धनबन्धुसहायानां धनानां धनधान्यादिभेदैर्नवविधानाम् , बन्धूनां मातृपितृपुत्रादीनाम् , सहायानां सुहृत-सेवक-पच्यादीनाम् । अयमर्थ:-यो जीवात शरीरस्योपपच्या भेदं ग्राहितः स धनादिभ्यो भेदं ग्राहयितुं सुशक एवेति ॥ ७० ॥
न केवलमन्यत्वभावनाया निर्ममत्वमेव फलम् , किन्तु तत्फलान्तरमप्यस्ति, तदेवाहयो देहधनबन्धुभ्यो भिन्नमात्मानमीक्षते। क्व शोकशङ्कुना तस्य हन्तातङ्कः प्रतन्यते ॥७१॥ ___यः प्राणी देहाद् धनाद् बन्धुभ्यश्च भिन्नमात्मानं स्वमीक्षते विवेकालोकेन, तस्य भेदप्रेक्षितुः, क्व नैवेत्यर्थः,
शोकशङ्खना शोकशल्येन, हन्तेति हर्षार्थमव्ययम् , आतङ्कः पीडा प्रतन्यते क्रियते । अत्रान्तरश्लोकाः| इहान्यत्वं भवेद् भेदः स वैलक्षण्यलक्षणः । आत्मदेहादिभावानां साक्षादेव प्रतीयते ॥ १॥ देहाद्या इन्द्रियग्राह्या आत्मानुभवगोचरः । तदेतेषामनन्यत्वं कथं नामोपपद्यते ।। २ ॥ आत्मदेहादिभावानां यद्यन्यत्वं स्फुटं ननु । ततो देहप्रहारादौ कथमात्मा प्रपीच्यते ॥ ३॥ सत्यं येषां शरीरादौ भेदबुद्धिर्न विद्यते । तेषां देहप्रहारा| दावात्मपीडोपजायते ॥ ४॥ ये तु देहात्मनोर्मेदं सम्यगेव प्रपेदिरे । तेषां देहप्रहारादावपि नात्मा प्रपीड्यते । ५॥ तथाहि लोहचक्रेण क्षरेयीपचनेन च । देहबाधेऽप्यबाधात्मा तद्भेदज्ञोऽन्तिमो जिनः ॥ ६॥ नमिर्धनात्मभेदज्ञः पूर्दाहेऽपीन्द्रमब्रवीत् । दाहेऽपि मिथिलापुर्या न मे किमपि दह्यते ॥ ७॥ भेदं विद्वान् न पीड्येत पितदुःखेऽप्युपस्थिते । आत्मीयत्वाभिमानेन भृत्यदुःखेपि मुह्यति ॥ ८॥ अस्वत्वेन गृहीतः सन् पुत्रोऽपि पर एव
in Education in
For Personal & Private Use Only
Page #626
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
॥३०४ ॥
Jain Education Intern
YUK-----
हि । स्वकीयत्वेन भृत्योऽपि स्वपुत्रादतिरिच्यते ॥ ६ ॥ ममेति मतिमाश्रिताः परतरेऽपि वस्तुन्यहो !, निवध्य दधतेतरां स्वमिह कोशकारा इव । विविच्य तदिदं मुहुर्वितथभावनावर्जनाद्, भजेत ममताच्छिदे सततमन्यत्वभावनाम् || १० ||
|| अन्यत्वभावना ५ ॥ ७१ ॥
थाशुचित्वभावनामाहरसग्मांसमेदोऽस्थिमज्जाशुक्रान्त्रवर्चसाम्। श्रशुचीनां पदं कायः शुचित्वं तस्य तत् कुतः ? ॥७२॥
रसो भुक्तपीतान्नपानपरिणामजो निस्यन्दः, श्रसृग् रक्तं रससम्भवो धातु; मांसं पिशितमसृग्भवम्, मेदो वसा मांससम्भवम्, अस्थि कीकसं मेदसम्भवम्, मज्जासारोऽस्थिसम्भवः, शुक्रं रेतो मज्जासम्भवम्, अन्त्रं पुरीतत्, वर्चो विष्टा, एतेषामशुचिद्रव्याणां पदं स्थानं कायः । तत् तस्मात् तस्य कायस्य कथं शुचित्वम् ? न कथञ्चिदित्यर्थः ॥७२॥ पशुविमाननस्तानुपालभते-
नवस्रोतःस्रवद्विस्ररसनिःस्यन्दपिच्छिले । देहेऽपि शौच सङ्कल्पो महन्मोहविजृम्भितम् ॥७३॥
नव नेत्रनासामुखपायूपस्थेभ्यः स्रोतोम्यो निर्गमद्वारेभ्यः स्रवन् क्षरन् विस्रमामगन्धिर्योऽसौ रसस्तस्य निःस्यन्दो निर्यासस्तेन पिच्छिलो यः कायस्तस्मिन्नपि शौचसङ्कल्पः शुचित्वाभिमानो यः स महद् गुरुतरं मोहस्य विजृम्भितम् । अत्रान्तरश्लोकाः
For Personal & Private Use Only
(०-०१ +++***++-+01.
चतुर्थः
प्रकाशः ।
॥३०४ ॥
www.jainvelibrary.org
Page #627
--------------------------------------------------------------------------
________________
शुक्रशोणितसम्भूतो मलनिःस्यन्दवर्धितः । गर्भे जरायुसंछन्नः शुचिः कायः कथं भवेत् ? ॥१॥ मातृजग्धानपानोत्थरसं नाडीक्रमागतम् । पायं पायं विवृद्धः सन् शौचं मन्येत कस्तनौ ? ॥ २॥ दोषधातुमलाकीर्ण कृमिगण्डूपदास्पदम् । रोगभोगिगणैर्जग्धं शरीरं को वदेत् शुचि ।। ३ । सुस्वादून्यन्नपानानि क्षीरेक्षुविकृती अपि । भुक्तानि यत्र विष्टायै तच्छरीरं कथं शुचि ? ॥ ४॥ विलेपनार्थमासक्तः सुगन्धिर्यक्षकर्दमः । मलीभवति यत्राशु क शौचं तत्र वर्मणि ? || ५॥ जग्ध्वा सुगन्धि ताम्बूलं सुप्तो निश्युत्थितः प्रगे । जुगुप्सते वक्त्रगन्धं यत्र तत् किं वपुः शुचि ॥ ६ ॥ स्वतः सुगन्धयो गन्धधूपपुष्परगादयः । यत्सङ्गाद् यान्ति दौगन्ध्यं सोऽपि कायः शुचीयते ? ॥७॥ अभ्यक्तोऽपि विलिप्तोऽपि धौतोऽपि घटकोटिभिः। न याति शुचितां कायः शुण्डाघट इवाशुचिः ||८|| मृजलानलवातांशुस्नानः शौचं वदन्ति ये । गतानुगतिकैस्तैस्तु विहितं तुषकण्डनम् ।।६।। शरीरकस्यैवमशीचभावनां, मदाभिमानस्सरसाददायिनीम् । विभावयन् निर्ममतामहाभरं, वोढुं दृढः स्याद् बहुमोदितेन किम् ? ॥१०॥ अशौचभावना ॥६॥७३ ।। अथाश्रवभावनामाहमनोवाकायकर्माणि योगाः कर्म शुभाशुभम् । यदाश्रवन्ति जन्तूनामावास्तेन कीर्तिताः।७४।
मनश्च वाक् च कायश्च मनोवाकायास्तेषां कर्माणि व्यापारा योगशब्देनोच्यन्ते तत्रात्मना शरीरवता सर्वप्रदेशैर्गृहीता मनोयोग्याः पुद्गलाः शुभादिमननार्थ करणभावमालम्बन्ते, तत्सम्बन्धादात्मनः पराक्रमविशेषो मनोयोगः, स च पश्चेन्द्रियाणां समनस्कानां भवति । तथा आत्मना शरीरवता वाग्योग्यपुद्गला गृहीता विसज्यमाना बाक्त्वेन करणातामापद्यन्ते, तेन वाकरणेन सम्बन्धादात्मनो भाषणशक्तिर्वाग्योगः । सा च द्वीन्द्रिया
JanEducation.indeta
-
For Personal Private Use Only
Page #628
--------------------------------------------------------------------------
________________
योगशास्त्रम्
चतुर्थः प्रकाशः
मदीनाम् । कायः शरीरमात्मनो निवासस्तद्योगाजीवस्य वीर्यपरिणामः काययोगः। ते चामी त्रयोऽपि मनोवाक्कायसम्बन्धादग्निसम्बन्धादिष्टकादे रक्ततेवात्मनो वीर्यपरिणतिविशेषा योगा इत्युच्यन्ते, यदाह;
योगो वीरिअं थामो उच्छाह परिक्कमो तहा चेट्ठा । सत्ती सामत्थं चित्र जोगस्स हवंति पजाया ॥१॥ ॥३०॥
एते च स्थविरस्य दुर्बलस्य वा आलम्बनयष्ट्यादिवजीवस्योपग्राहकाः । तत्र मनोयोग्यपुद्गलात्मप्रदेशपरिणामो मनोयोगः, भाषायोग्यपुद्गलात्मप्रदेशपरिणामो वाग्योगः, काययोग्यपुद्गलात्मप्रदेशपरिणामो गमनादिक्रियाहेतुः | काययोगः । एते योगाः, यस्मात् शुभं सद्वेद्यादि, अशुभमसद्वेद्यादि कर्माश्रवन्ति प्रसुवते, तेन कारणेनाश्रवा इति कीर्तिताः, आश्रूयते कमॆभिरित्याश्रवाः । एतेषां च करणभूतानामपि कर्तृत्वमिहोक्तम् , स्वातन्त्र्यविवक्षणात्। यथा असिश्छिनत्ति इति ॥ ७४॥ ___'योगाः कर्म शुभाशुभमाश्रवन्ति' इत्युक्तम् , कार्याणां च कारणानुकारित्वं दृष्टम् , इति शुभानां शुभकर्म| हेतुत्वम् , अशुभानामशुभकर्महेतुत्वं च विवेकेन दर्शयति| मैत्र्यादिवासितं चेतः कर्म सूते शुभात्मकम् । कषायविषयाक्रान्तं वितनोत्यशुभं पुनः ॥७५॥ ___ मैत्रीमुदिताकरुणोपेक्षालक्षणाभिश्चतमृभिर्भावनाभिर्वासितं भावितं चेतो मनः कर्तु, शुभात्मकं पुण्यात्मकं कर्म सूते । तच्च सद्वेद्य-सम्यक्त्व-हास्य-रति-पुरुषवेद-शुभायु-नाम-गोत्रलक्षणम् । तदेव मनः, कषायाः
(१) योगो वीर्य स्थामोत्साहः पराक्रमस्तथा चेष्टा । शक्तिः सामर्थ्यमेव योगस्य भवन्ति पर्यायाः ॥ १ ॥
॥३०
॥
Jain Education inter
For Personal & Private Use Only
Page #629
--------------------------------------------------------------------------
________________
Jain Education Inter
1++1.03--);
0-04-1
क्रोधादयो, विषिण्वन्ति बघ्नन्ति संसारिणं काम्यमानाः सन्त इन्द्रियार्थाः स्पर्शादयो विषयाः कषायाच विषयाञ्च तैराक्रान्तं वशीकृतं वितनोति करोत्यशुभमसद्वेद्यादि कर्म ॥ ७५ ॥ तथा
शुभार्जनाय निर्मिथ्यं श्रुतज्ञानाश्रितं वचः । विपरीतं पुनर्ज्ञेयमशुभार्जन हेतवे ॥ ७६ ॥
निर्मिथ्यमवितथम्, तच्च जैनमेव वचनं भवतीत्याह श्रुतज्ञानाश्रितं वचः श्रुतज्ञानं द्वादशाङ्गं गणिपिटकं तदाश्रितं तदविरोधेन वर्तमानं वचो वाग्योगः स शुभस्य कर्मणोऽर्जनाय । तदेव वचो विपरीतं मिथ्या श्रुतज्ञानविरोधि चाशुभस्य कर्मणोऽर्जनाय ॥ ७६ ॥ तथा
शरीरेण सुगुप्तेन शरीरी चिनुते शुभम् । सततारम्भिणा जन्तुघातकेनाशुभं पुनः ॥ ७७ ॥
शरीरेण कायेन सुगुप्तेनासच्चेष्टारहितेन कायोत्सर्गाद्यवस्थायां निश्चेष्टेन शरीरी जन्तुश्चिनुते करोति शुभं सद्यादि कर्म | सततारम्भणा पुनर्महारम्भिणा अत एव जन्तुघातकेन प्राणिव्यापादकेनाशुभं कर्मासद्वेद्यादि चिनोति । इति शुभाशुभयोगमूलत्वेन शुभाशुभकर्मणां जन्मप्रतिपादनाद् न कार्यकारणभावविरोधः ॥ ७७ ॥
शुभयोगानां शुभफल हेतुत्वं प्रसङ्गादुक्तम् । भावनाप्रकरणे त्वशुभयोगानामशुभफल हेतुत्वं वैराग्योत्पादनाय प्रतिपादनीयम्, इत्युक्तानुक्तान शुभहेतून् संगृह्णाति -
कषायाविषया योगाः प्रमादाविरती तथा । मिथ्यात्वमार्तरौद्रे चेत्यशुभं प्रति हेतवः ॥ ७८ ॥ कषायाः क्रोध-मान-माया-लोभलक्षणाः, नोकषायाच कषायसहचरिता हास्यरत्यरतिभयशोकजुगुप्सा पुंस्त्री
For Personal & Private Use Only
1.).).
ik+K++*108+-*-*-*
te
Page #630
--------------------------------------------------------------------------
________________
योग
चतुर्थः
प्रकाशः।
शास्त्रम्
॥३०६।।
नपुंसकवेदलक्षणा नव कषायशब्देन गृह्यन्ते, विषयाः काम्यमानाः स्पर्शादयः, योगा मनोवाकायकर्मलक्षणाः, प्रमादोऽज्ञान-संशय-विपर्यय-राग-द्वेष-स्मृतिभ्रंश-धर्मानादर-योगदुष्प्रणिधानभेदैरष्टधा, अविरतिनियमाभावः, मिथ्यात्वं मिथ्यादर्शनम् , आत-रौद्रे ध्यानभेदावुक्तपूर्वो, इत्येतेऽशुभं कर्म प्रति हेतवः । नन्वेते बन्धं प्रति हेतुत्वेनोक्ताः, यद् वाचकमुख्या:--" मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः" इति. तत् किमावभावनायां बन्धहेतूनामतेषामाभिधानम् ? सत्यम् , आश्रवभावनेव बन्धभावनापि न महद्भिर्भावनात्वेनोक्ता, आश्रवभावनयव गतार्थत्वात् । आश्रवेण ह्युपात्ताः कर्मपुद्गला आत्मना सम्बध्यमाना बन्ध इत्यभिधीयते, यदाह-सकषायत्वाज्जीवः कर्मणो योग्यान पुद्गलानादत्ते स बन्धः इति । ततश्च बन्धाश्रवयोर्भेदो न विवक्षितः । ननु कर्मपुद्गलैः सह क्षीरनीरन्यायेनात्मनः सम्बन्धो बन्ध उच्यते, तत् कथमाश्रव एव बन्धः ? युक्तमेतत् , तथाप्याश्रवेणानुपात्तानां कर्मपुद्गलानां कथं बन्धः स्यात् ? । इत्यतोऽपि कर्मपुद्गलादानहेतावावे बन्धहेतूनामभिधानमदुष्टम् । ननु तथापि बन्धहेतूनां पाठो निरर्थकः । नैवम् , बन्धाश्रवयोरेकत्वेनोक्तत्वात् , आश्रवहेतूनामेवायं पाठ इति सर्वमवदातम् । अत्रान्तरश्लोकाः
यः कर्मपुद्गलादानहेतुः प्रोक्तः स आश्रवः । कर्माणि चाष्टधा ज्ञानावरणीयादिभेदतः ॥ १॥ ज्ञानदर्शनयोस्तद्वत तद्धेतूनां च ये किल । विघ्ननिवपैशुन्याशातनाघातमत्सराः ॥२॥ ते ज्ञानदर्शनाचारकर्महेतव आश्रवाः। देवपूजा गुरूपास्तिः पात्रदानं दया क्षमा ॥ ३ ॥ सरागसंयमो देशसंयमोऽकामनिर्जरा । शौचं बालतपश्चेति सद्वेद्यस्य स्युराश्रवाः ॥ ४॥ दुःखशोकवधास्तापाक्रन्दने परिदेवनम् । स्वान्योभयस्थाः स्युरसद्वेद्यस्यामी इहाश्रवाः
॥३०६॥
Jain Education in
For Personal & Private Use Only
Page #631
--------------------------------------------------------------------------
________________
-11-04-11 .
|| ५ || वीतरागे श्रुते संघे धर्मे सर्वसुरेषु च । श्रवर्णवादिता तीव्रमिध्यात्वपरिणामिता || ६ || सर्वज्ञसिद्धदेवापद्धवो धार्मिकदूपणम् । उन्मार्गदेशनाऽनर्थाग्रहोऽसंयतपूजनम् ॥ ७ ॥ श्रसमीक्षितकारित्वं गुर्वादिष्ववमानना । इत्यादयो दृष्टिमोहस्याश्रवाः परिकीर्तिताः ॥ ८ ॥ कपायोदयतस्तीत्रः परिणामो य आत्मनः । चारित्रमोहनीयस्य स आश्रव उदीरितः || ६ || उत्प्रासनं सकन्दर्पोपहासो हासशीलता । बहुप्रलापो दैन्योक्तिर्हासस्यामी स्युराश्रवाः ।। १० ।। देशादिदर्शनौत्सुक्यं चित्रे रमणखेलने । परचित्तावर्जनं चेत्याश्रवाः कीर्तिता रतेः ॥ ११ ॥ असूया पापशीलत्वं परेषां रतिनाशनम् । अकुशलप्रोत्साहनं चारतेराश्रवा अभी ।। १२ ।। स्वयं भयपरीणामः परेषामथ भावनम् | त्रासनं निर्दयत्वं च भयं प्रत्याश्रवा श्रमी || १३ || परशोकाविष्करणं स्वशोकोत्पादशोचने । रोदनादिप्रसक्तिश्च शोकस्यैते स्युराश्रवाः || १४ || चतुर्वर्णस्य सङ्घस्य परिवादजुगुप्सने । सदाचारजुगुप्सा च जुगुप्सायाः स्युराश्रवाः ।। १५ ।। ईर्ष्याविषयगा च मृषावादोऽतिवक्रता । परदाररतासक्तिः स्त्रीवेदस्याश्रवा इमे ॥ १६ ॥ स्वदारमात्र सन्तोषोनी मन्दकषायता । श्रवक्राचारशीलत्वं पुंवेदस्याश्रवा इति ॥ १७ ॥ स्त्रीपुंसानङ्गसेवोग्राः कषायास्तीव्रकामता । पाखण्डस्त्रीव्रतभ्रंशः षण्ढवेदाश्रवा अमी ॥ १८ ॥ साधूनां गर्हणा धर्मोन्मुखानां विनारिता | मधुमांसविरतानामविरत्यभिवर्णनम् ॥ १६ ॥ विरताविरतानां चान्तरायकरणं मुहुः | अचारित्रगुणाख्यानं तथा चारित्रदूषणम् || २० || कषायनोकषायायामन्यस्थानामुदीरणम् । चारित्र मोहनीयस्य सामान्येनाश्रवा श्रमी ।। २१ ।। पञ्चेन्द्रियप्राणिबधो वहारम्भपरिग्रहौ । निरनुग्रहता मांसभोजनं स्थिरवैरता || २२ || रौद्रध्यानं मिथ्यात्वानन्तानुबन्धिकपायता । कृष्णनीलकापोताश्च लेश्या अनृतभाषणम् || २३ || परद्रव्यापहरणं मुहमैथुन सेवनम् ।
For Personal & Private Use Only
主
110**+ YORK++*(*KK
Page #632
--------------------------------------------------------------------------
________________
शास्त्रम्
॥ ३०७ ॥
**@**-**0K+ →→→**← →→→
श्रवशेन्द्रियता चेति नारकायुष आश्रवाः ॥ २४ ॥ उन्मार्गदेशना मार्गप्रणाशो मूढचित्तता । श्रार्तध्यानं सशम्यत्वं मायारम्भपरिग्रहौ || २५ || शीलवते सातिचारे नीलकापोतलेश्यता । अप्रत्याख्यानाः कषायास्तिर्यगायुप आश्रवाः ॥२६॥ अल्पौ परिग्रहारम्भौ सहजे मार्दवार्जवे । कापोतपीतलेश्चत्वं धर्मध्यानानुरागिता ॥ २७ ॥ प्रत्याख्यान कषायत्वं परिणामश्च मध्यमः | संविभागविधायित्वं देवतागुरुपूजनम् || २८ || पूर्वालापप्रियालापौ सुखप्रज्ञापनीयता । लोकयात्रासु माध्यस्थ्यं मानुपयुष श्राश्रवाः ||२६|| सरागसंयमो देशसंयमोऽकामनिर्जरा | कल्याणमित्रसम्पर्को धर्मश्रवणशीलता ||३०|| पात्रे दानं तपःश्रद्धा रत्नत्रय्या विराधना । मृत्युकाले परीणामो लेश्ययोः पद्मपीतयोः ॥३१॥ बालतपोऽग्नितोयादिसाधनोलम्वनानि च । अव्यक्तसामायिकता देवस्यायुप आश्रवाः ||३२|| मनोवाक्कायवक्रत्वं परेषां विप्रतारणम् । मायाप्रयोगो मिथ्यात्वं पैशून्यं चलचित्तता ||३३|| सुवर्णादिप्रतिच्छन्दकरणं कूटक्षिता । वर्णगन्धरसस्पर्शीद्यन्यथापादनानि च ॥ ३४ ॥ अङ्गोपाङ्गच्यावनानि यन्त्रपञ्जरकर्म्म च । कूटमानतुलाकर्मान्य निन्दात्मप्रशंसनम् || ३५ || हिंसा नृतस्तेयाब्रह्ममहारम्भपरिग्रहाः । परुषासभ्यवचनं शुचिवेपादिना मदः ॥ ३६ ॥ मौखर्याक्रोशौ सौभाग्येोपघातः कार्मणक्रिया । परकौतूहलोत्पादः परिहासविडम्बना || ३७ ॥ वेश्यादीनामलङ्कारदानं दावाग्निदीपनम् । देवादिव्याजाद् गन्धादिचौर्य तीव्रकपायता ॥ ३८ ॥ चैत्यप्रतिश्रयारामप्रतिमानां विनाशनम् | अङ्गारादिक्रिया चेत्यशुभस्य नाम्न श्राश्रवाः || ३६ || एते एवान्यथारूपास्तथा संसारभीरुता । प्रमादहानं सद्भावार्पणं ज्ञान्त्यादयोऽपि च ।। ४० ।। दर्शने धार्मिकाणां च संभ्रमः स्वागतक्रिया । याश्रवाः शुभनाम्नोऽथ तीर्थकृन्नाम्न आश्रवाः || ४१ || भक्तिरत्सु सिद्धेषु गुरुषु स्थविरेषु च । बहुश्रुतेषु गच्छे च श्रुतज्ञाने तपस्विषु
For Personal & Private Use Only
K• •*()*• - *••* CFK*~**@**
चतुर्थः
प्रकाशः ।
॥ ३०७ ॥
Page #633
--------------------------------------------------------------------------
________________
1॥ ४२ ॥ आवश्यके व्रतशीलेष्वप्रमादो विनीतता । ज्ञानाभ्यासस्तपस्त्यागौ मुहुर्ष्यानं प्रभावना ॥ ४३ ॥ संधे
समाधिजननं वैयावृत्त्यं च साधुषु । अपूर्वज्ञानग्रहणं विशुद्धिर्दर्शनस्य च ॥४४॥ आद्यन्ततीर्थनाथाभ्यामेते विंशतिराश्रवाः । एको द्वौ वा त्रयः सर्वे चान्यैः स्पृष्टा जिनेश्वरैः ॥४५॥ परस्य निन्दावज्ञोपहासाः सद्गुणलोपनम् । सदसद्दोषकथनमात्मनस्तु प्रशंसनम् ॥ ४६ ॥ सदसद्गुणशंसा च सदोषाच्छादनं तथा । जात्यादिभिर्मदश्चेति नीचैर्गोत्राश्रवा अमी ।। ४७॥ नीचैर्गोत्राश्रवविपर्यासो विगतगर्वता । वाक्कायचित्तर्विनय उच्चैर्गोत्राश्रवा अमी ॥४८॥ दाने लाभे च वीर्ये च तथा भोगोपभोगयो। सव्याजाव्याजविघ्नोऽन्तरायकर्मण आश्रवाः ॥४६॥ प्रस्तावतः खलु शुभाश्रव एप उक्तो, वैराग्यकारणमसौ न तु देहभाजाम् । ज्ञात्वा तदेवमशुभाश्रव एव भाव्यो भव्यैर्जनैः सपदि निर्भमतानिमित्तम् ॥ ५० ॥ श्राश्रवभावना ॥ ७ ॥ ७८ ।।
अथ संवरभावनामाहसर्वेषामाश्रवाणां तु निरोधः संवरः स्मृतः । स पुनर्भिद्यते द्वेधा द्रव्यभावविभेदतः ॥७॥ ___ सर्वेषां पूर्वोक्तानामाश्रवाणां निरुध्यन्तेऽनेनेति निरोधः संवर उक्तः सत्रियतेऽनेनेति कृत्वा । स चायोगिकेवलिनामेव । इदं च सर्वसंवरस्य स्वरूपम् । एकहिच्याद्यास्रवनिरोधस्तु सामाद् देशसंवरः। स चायोगिकेवलिनः प्रारगुणस्थानकेषु । सर्वसंवरो देशसंवरश्च प्रत्येकं द्रव्यभावभेदेन द्विविधः ॥ ७९ ॥
द्वैविध्यमेवाह
Iain Education interna
l
For Personal & Private Use Only
Page #634
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥३०॥
यः कर्मपुद्गलादानच्छेदः स द्रव्यसंवरः । भवहेतुक्रियात्यागः स पुनर्भावसंवरः ॥८०॥ चतुर्थ
प्रकाशः। ___ कर्मपुद्गलानामाश्रवद्वारेणादानं प्रवेशनं तस्य यश्छिद्यतेऽनेनेति च्छेदः स द्रव्याणां संवरो द्रव्यसंवरः ।
भावसंवरस्तु संसारकारणभूतायाः क्रियाया आत्मव्यापाररूपायास्त्याग इति ॥ ८०॥ ___ इदानीं कषाया विषया यागा इत्यादिनाभिहितानामशुभकर्महेतूनां प्रतिपक्षभूतानुपायान् स्तौतियेन येन युपायेन रुध्यते योय आश्रवः । तस्य तस्य निरोधाय स सयोज्यो मनीषिभिः॥८१॥ ___ स्पष्टः ॥ १॥ उपायानाहक्षमया मृदुभावेन ऋजुत्वेनाऽप्यनीहया। क्रोधं मानं तथा मायां लोभं रुन्ध्याद् यथाक्रमम्॥
क्षमया प्रतिपक्षभूतया क्रोधम् , मृदुभावेन मानम् , ऋजुत्वेन मायाम् , अनीहया लोभं निरुन्ध्यात् संवरार्थ | * कृतोद्यम इति चतुर्थश्लोकपदेन योगः ॥२॥ ____ कषायाणां प्रतिपक्षतः क्षयमुक्त्वा विषयाणामाहअसंयमकृतोत्सेकान् विषयान् विषसंनिभान् । निराकुर्यादखण्डेन संयमेन महामतिः ।। ८३ ॥ ___ असंयमेनेन्द्रियोन्मादेन कृत उत्सेकः स्वकार्यजननं प्रति सामर्थ्य येषां तान् विषयान् स्पर्शादीन , किंविशि
टान् ? विपसंनिभान् आपातरम्पत्वेन परिणामदारुणत्वेन च विपतुल्यान् , निराकुर्याद् निवारयेत् । केन ? संयHI मेनेन्द्रियजयन । किंविशिष्टेन ? अखण्डेनाप्रतिहतेन ॥ ८३ ॥
al||३०८।।
in Education Intera
For Personal Private Use Only
Page #635
--------------------------------------------------------------------------
________________
इदानीं योगप्रमादाविरतीनां प्रतिपक्षानाहतिमृभिर्गुप्तिभिर्योगान् प्रमादं चाप्रमादतः। सावद्ययोगहानेनाविरतिं चापि साधयेत् ॥८४॥
गुप्तिभिर्मनोवाक्कायरक्षणलक्षणाभिः, तिमभिरिति तासां संख्यावचनम् , योगान् मनोवाक्कायव्यापारलक्षणान् प्रमादं मद्यविषयकषायनिद्राविकथालक्षणं पञ्चविधम् , अज्ञानसंशयविपर्ययरागद्वेषस्मृतिभ्रंशधर्मानादरयोगदुष्प्रणिधानरूपतयाऽष्टविधं वाप्रमादेन तत्प्रतिपक्षभृतेन साधयेत् ; सावद्या ये योगा व्यापारास्तेषां हानेन त्यागेनाविरतिमनियमं साधयेत् ।। ८४ ॥
इदानीं मिथ्यात्वातरौद्रध्यानानां प्रतिपक्षानाह- . सदर्शनेन मिथ्यात्वं शुभस्थैर्येण चेतसः। विजयेतातरौद्रे च संवरार्थं कृतोद्यमः ॥ ८५ ॥ __ सद्दर्शनेन सम्यग्दर्शनेन मिथ्यात्वं मिथ्यादर्शनं विजयेत, शुभं धर्मशुक्लध्यानरूपं यच्चेतसः स्थैर्य तेनातरौद्रध्याने विजयेत, संवरार्थ संवरनिमित्तं कृतोद्यमः प्रयत्नवान् योगी । अत्रान्तरश्लोकाः
यथा चतुष्पथस्थस्य बहुद्वारस्य वेश्मनः । अनावृतेषु द्वारेषु रजः प्रविशति ध्रुवम् ॥ १॥ प्रविष्टं स्नेहयोगाच्च तन्मयत्वेन बध्यते । न विशेन च बध्येत द्वारेषु स्थगितेषु तु ॥२॥ यथा वा सरसि कापि सर्वैारैर्विशेअलम् । तेषु तु प्रतिरुडेषु प्रविशेद् न मनागपि । ३॥ यथा वा यानपात्रस्य मध्ये रन्धर्विशेजलम् । कृते रन्ध्रपिधाने तु न स्तोकमपि तद् विशेत ॥ ४॥ योगादिष्वाश्रवद्वारेष्वेवं रुद्धेषु सर्वतः । कर्मद्रव्यप्रवेशो न जीवे
in Education International
For Personal & Private Use Only
Page #636
--------------------------------------------------------------------------
________________
योगशाखम
संवरशालिनि ॥ ५ ॥ संवरादाश्रवद्वारनिरोधः संवरः पुनः । चान्त्यादिभेदाद् बहुधा तथैव प्रतिपादितः॥६॥F चतुर्थः गुणस्थानेषु यो यः स्यात् संवरः स स उच्यते । मिथ्यात्वानुदयादुत्तरेषु मिथ्यात्वसंवरः ॥ ७ ॥ तथा देशविर- भाशः। त्यादौ स्यादविरतिसंवरः । अप्रमत्तसंयतादौ प्रमादसंवरो मतः॥ ॥ प्रशान्त क्षीणमोहादौ भवेत् कषायसंवरः । अयोगायकेवलिनि सम्पूर्णो योगसंवरः॥ ६ ॥ एवमाश्रवनिरोधकारणं संवरः प्रकटितः प्रपश्चतः । भावनागणशिरोमणिस्त्वयं, भावनीय इह भव्यजन्तुभिः ॥ १० ॥ संवरभावना ॥८॥५॥
अथ निर्जराभावनामाहसंसारबीजभूतानां कर्मणां जरणादिह । निर्जरा सा स्मृता द्वेधा सकामा कामवर्जिता ॥८६॥ __जन्तूनां चतुर्गतिभ्रमणरूपस्य संसारस्य बीजभूतानां कारणभूतानां कर्मणां जरणादात्मप्रदेशेभ्योऽनुभूतरस| कर्मपुद्गलपरिशाटनादिह प्रवचने निर्जरोच्यते । सा निर्जरा द्वेधा-सह कामेन 'निर्जरा मे भूयात् ' इत्यभिलाषेण युक्ता सकामा, न पुनरिहलोकपरलोकफलादिकामेन युक्ता, तस्य प्रतिषिद्धत्वात् , यदाहुः;"-नो इहलोगट्ठयाए तवमहिद्विजा, नो परलोगट्ठयाए तवमहिद्विजा, नो कित्तिवमसहसिलोगहयाए तवमहिद्विजा नपत्थ निजरट्ठयाए तवमहिडिजा" इत्येका निर्जरा । द्वितीया तु कामवर्जिता कामेन पूर्वोक्तेन वर्जिता । अत्र चकारमन्त- |
(१) नो इहलोकार्थ तपोऽधितिष्ठेत् , नो परलोकार्थ तपोऽधितिष्ठेत् । नो कीर्तिवर्णशब्दश्लोकार्थ तपोऽधितिष्ठेत् , नान्यत्र निरर्थात् तपोऽधितिष्टेत् ।
in Education Inter
For Personal & Private Use Only
Page #637
--------------------------------------------------------------------------
________________
08010811
रेणापि समुच्चयो गम्यते, इति चकारो नोक्तः, यथा -
अहरहर्नयमानो गामश्वं पुरुषं पशुम् । वैवस्वतां न तृष्यति सुराया इव दुर्मदी ।। १ ।। ८६ ।।
उभयमपि निर्जरां व्याचष्टे
ज्ञेया सकामा यमिनामकामा त्वन्यदेहिनाम् । कर्मणां फलवत्पाको यदुपायात् स्वतोऽपि हि।८७
सकामा निर्जराऽभिलापवती यमिनां यतीनां विज्ञेया । ते हि कर्मक्षयार्थं तपस्तप्यन्ते । अकामा तु कर्मक्षयलक्षणा फलनिरपेक्षा निर्जराऽन्यदेहिनां यतिव्यतिरिक्तानामेकेन्द्रियादीनां प्राणिनाम्; तथाहि एकेन्द्रियाः पृथिव्यादयो वनस्पतिपर्यन्ताः शीतोष्ण वर्षाजलाग्निशस्त्राद्यभिघातच्छेदभेदादिनाऽसद्वेद्यं कर्मानुभूय नीरसं कर्म स्वदेशेभ्यः परिशायन्ति । विकलेन्द्रियाश्च चुत्पिपासाशीतोष्णादिभिः, पञ्चेन्द्रियतिर्यञ्चश्व छेदभेददाहशस्त्रादिभिः, नारकाच त्रिविधया वेदनया. मनुष्याश्च क्षुत्-पिपासा-व्याधि- दारिद्रयादिना, देवाश्च पराभियोग - किल्विषत्वादिनाऽसद्वेद्यं कर्मानुभूय स्वप्रदेशेभ्यः परिशाटयन्ति । इत्येषामकामा निर्जरा । ननु सकामत्वाकामत्वस्वरूपेण निर्जराया द्वैविध्यं कुत्र दृष्टम् इति प्रश्ने स्पष्टं दृष्टान्तमाह- कर्मणामसद्वेद्यादीनां फलवत् फलानामिव यद् यस्मात् पाक उपायाद् निवात प्रदेशपलालाच्छादनादिरूपात् स्वतोऽपि वा वृक्षस्थानामेव । तदेवं यथा फलानां पाकस्य स्वत उपायतश्च द्वैविध्यं दृश्यते तद्वत् कर्मणामपि इत्युक्तम् - सकामा कामवर्जिता च निर्जरा इति । ननु फलपाकस्य द्वैविध्ये कर्मणां पाकस्य किमायातम् ? नैवम्, पाकस्य निर्जरारूपत्वात् । ततो यथा फलपाको द्वेधा भवति तथा कर्मनिर्जरापि ||८७||
For Personal & Private Use Only
*1374
**-त्रा
Page #638
--------------------------------------------------------------------------
________________
चतुर्थः
योगशास्त्रम्
प्रकाशः।
३१० ॥TI
--
अथ सकामनिर्जराया हेतुं स्पष्ट दृष्टान्तेनाहसदोषमपि दीप्तेन लुवर्णं वह्निना यथा। तपोऽग्निना तप्यमानस्तथा जीवो विशुध्यति॥८८।।
सदोषमपि किट्टिकादिदोषयुक्तमपि सुवर्ण दीप्तेन वतिना तप्यमानं यथा विशुध्यति तथा जीवोऽप्यसद्वद्यादिकर्मदोषयुक्तस्तपोऽग्निना तप्यमानो विशुध्यति । तपस्तु तप्यन्ते रसादिधातवः कर्माणि चानेनेत्यन्वयात् यदाह
रसरुधिरमांसमेदोऽस्थिमजाशुक्राण्यनेन तप्यन्ते । कर्माणि चाशुभानीत्यतस्तपो नाम नैरुक्तम् ॥ १॥ तच निर्जराहतुः, यदाह;यद् विशोपणादुपचितोऽपि यत्नेन जीयते दोषः । तद्वत कर्मोपचितं निर्जरयति संवृतस्तपसा ।। १ ।। ८८ ॥
तच्च बाह्याभ्यन्तरभेदेन द्विविधम् तत्र बाह्यं तपस्तावद् भेदेनाहअनशनमौनोदयं वृत्तेः संक्षेपणं तथा । रसत्यागस्तनुक्लेशो लीनतेति बहिस्तयः ।। ८९ ॥
अशनमाहारस्तत्परित्यागोऽनशनम् । तद् द्विधा-इत्वरं यावजीविकं च । इत्वरं नमस्कारसहितादि श्रीमन्म| हावीरतीर्थे षण्मासपर्यन्तम् , श्रीनाभेयतीर्थे तु संवत्सरपर्यन्तम् , मध्यमतीर्थकरतीर्थेषु त्वष्टौ मासान् यावत् । | यावज्जीविकं तु पादपोपगमनेङ्गिनीभक्तप्रत्याख्यानभेदात् त्रिविधम् । तत्र पादपोपगमनं द्विधा-सव्याघातमव्याघातं च । तत्र सतोऽप्यायुषः समुपजातव्याधिविधुरेणोत्पन्नमहावेदनेन वा देहिना यदुत्क्रान्तिः क्रियते तत् सव्याघातम् । निर्व्याघातं तु
॥३१०॥
in Education international
For Personal & Private Use Only
Page #639
--------------------------------------------------------------------------
________________
निष्काइया य सीसा गच्छो परिपालिओ महाभागा । अम्भुञ्जित्रो विहारो अहवा अन्भुजयं मरणं ॥१॥
इति दशावयःपरिणामे सति त्रस-स्थावरविरहिते स्थण्डिले पादपवद् निश्चेष्टस्य येन तेन संस्थानेन प्रशस्तध्यानव्यापृतान्तःकरणस्य प्राणोत्क्रान्ति यावदवस्थितिरिति । तदेतद् द्विविधमपि पादपोपगमनम् । इङ्गिनी श्रुतविहितः क्रियाविशेषस्तविशिष्टमनशनमिङ्गिनी । अस्य प्रतिपत्ता तेनैव क्रममायुपः परिहाणिमववुध्य तथाविध एव स्थण्डिले एकाकी कृतचतुर्विधाहारप्रत्याख्यान छायात उष्णमुष्णाच्छायां संक्रामन् सचेष्टः सम्यग्ध्यानपरायणः प्राणान् जहाति । इत्येतदिङ्गिनीरूपमनशनम् । यस्तु गच्छमध्यवर्ती समाश्रितमृदुसंस्तारकः समुत्सृष्टशरीरोपकरणममत्वविविधं चतुर्विधं वाऽऽहारं प्रत्याख्याय स्वयमेवोद्वाहितनमस्कारः समीपवर्तिसाधुदत्तनमस्कारो | बोद्वर्त्तन-परिवर्तनादि कुर्वागः समाधिना कालं करोति, तस्य भक्तप्रत्याख्यानमनशनम् । ___अथौनोदर्यम् -ऊनमवममुदरं यस्य स ऊनोदरस्तस्य भाव औनोदर्यम् । तच्च चतुर्धा-अल्पाहारौनोदर्यम् , उपाधानोदर्यम् , अानोदर्य्यम् , प्रमाणप्राप्तात् किश्चिदूनौनोदयं च । तत्राहारः पुंसो द्वात्रिंशत्कवलप्रमाणः ।
कवलश्चोत्कृष्टापकृष्टौ वर्जयित्वा मध्यम इह गृह्यते । स चाविकृतस्वमुखविवरप्रमाणः । तत्र कवलाष्टकाभ्यवहारोऽT ल्पाहारौनोदर्यम् । अर्धस्य समीपमुपाध द्वादश कवलाः, यतः कवल चतुष्टयप्रक्षेपात् सम्पूर्णमधं भवति, ततो
द्वादश कवला उपाधौनोदर्यम् । पोडश कवला अधौनोदर्य्यम् । प्रमाणप्राप्त आहारो द्वात्रिंशत् कवलाः, स चैकादिकवलैरूनश्चतुर्विशतिकवलान् यावत् प्रमाणप्राप्तात् किश्चिनौनोदर्यम् । चतुर्विधेऽप्यस्मिन्नेकैककवलहानेन
(१) निप्पादिताश्च शिप्या गच्छः परिपालितो महाभागः । अभ्युद्यतो विहारोऽथवाऽभ्युद्यतं मरणम् ॥ १॥
an Education intematon
For Personal Private Use Only
Page #640
--------------------------------------------------------------------------
________________
योग- है। बहूनि स्थानानि जायन्ते । सर्वाणि चामृन्यौनोदर्यविशेषाः । योषितस्तु अष्टाविंशतिकवलाहारप्रमाणम् , यदाह;- || चतुर्थः
बत्तीसं खलु कवला आहारो कुच्छिपूरो भणियो । परिसस्स महिलिआए अट्ठावीसं भवे कवला ॥१॥ शास्त्रम्
प्रकाशः। तस्याः पुरुषानुसारेण न्यूनाहारादिकं भावनीयम् । ॥३११॥
तथा वर्ततेऽनयेति वृत्तिर्भेक्ष्यम् , तस्याः संक्षेपणं हासः । तच्च दत्तिपरिमाणरूपम् । एकद्विव्याद्यगारनियमो रथ्याग्रामार्धग्रामनियमश्च । अत्रैव द्रव्य-क्षेत्र-काल-भावाभिग्रहा अन्तर्भूताः ।
तथा रसानां मतुलोपाद् विशिष्टरसवतां वृष्याणां विकारहेतूनाम् , अत एव विकृतिशब्दवाच्यानां मद्यमांस मधुनवनीतानां दुग्ध-दधि-घृत-तैल-गुडावग्राह्यादीनां च त्यागो वर्जनं रसत्यागः ।
तथा तनुः कायस्तस्याः क्लेशः शास्त्राविरोधेन बाधनं तनुक्नेशः । ननु तनोरचेतनत्वात् कथं क्लेशसम्भवः ? उच्यते-शरीर-शरीरिणाः क्षीरनीरन्यायेनाभेदादात्मक्लेशे तनुक्लेशस्यापि सम्भवात् तनुक्लेश इत्युक्तम् । स च विशिष्टासनकरणे नाप्रतिकर्मशरीरत्वकेशोन्लुचनादिना चावसेयः । ननु परीषहेभ्यः कोऽस्य विशेषः ? उच्यतेस्वकृत क्लेशानुभवरूपस्तनुक्लेशः, परीषहास्तु स्वपरकृतक्लेशरूपा इति विशेषः ।
तथा लीनता विविक्तशय्यासनता । सा चैकान्तेनाबाधेऽसंसक्ते स्त्रीपशुपण्डकविवर्जिते शून्यागारदेवकुलसभापर्वतगुहादीनामन्यतमस्मिन् स्थानेऽवस्थानं, मनोवाक्कायकषायेन्द्रियसंवृतता च । इति पदप्रकारं बहिस्तपो बाह्यं तपः। बाह्यत्वं च बाह्यद्रव्यापेक्षत्वात् , परप्रत्यक्षत्वात् , कुतीर्थिकैर्गृहस्थैश्च कार्यत्वाच । अस्मात् षड्विधादपि
(१) द्वात्रिंशत् खलु कवला आहारः कुक्षिपूरको भणितः । पुरुषस्य महिलाया अष्टाविंशतिर्भवेयुः कवलाः ॥ १ ॥
in Education International
For Personal & Private Use Only
Page #641
--------------------------------------------------------------------------
________________
बाह्यात् तपस सङ्गत्याग-शरीरलाघवे-न्द्रियविजय-संयमरक्षण-कर्मनिर्जरा भवन्ति ॥ ८२ ॥
आभ्यन्तरं तप आहप्रायश्चित्तंवैयावृत्त्यं स्वाध्यायो विनयोऽपि च । व्युत्सर्गोऽथशुभंध्यानं षोढेत्याभ्यन्तरं तपः।१०।
मलोत्तरगुणेषु स्वन्पोऽप्यतीचारो निश्चितं मलिनयतीति तच्छुद्ध्यर्थ प्रायश्चित्तम्-प्रकर्षण अयते गच्छत्यस्मादाचारधर्म इति प्रायो मुनिलोकस्तेन विचिन्त्यते मर्यतेऽतिचारविशुद्ध्यर्थमिति निरुक्तात् प्रायश्चित्तमनुष्ठानविशेषः । अथवा प्रायो बाहुल्येन व्रतातिक्रमं चेतसि सञ्जानीते चेतश्च न पुनराचरतीत्यतः प्रायश्चित्तम् । अथवा | प्रायोऽपराध उच्यते स येन चेतति विशुध्यति तत् प्रायश्चित्तम् । भीमसेनात् पूर्वे आचायोश्चितै(ती)धातुं विशुद्धावपि पठन्ति, यदाहुः-'चिती संज्ञानविशुद्ध्योः ।
प्रायश्चित्तं च दशविधम्-आलोचनम् , प्रतिक्रमणम् , मिश्रम् , विवेकः, व्युत्सर्गः, तपः, छेदः, मूलम् , अनवस्थाप्यता, पाराश्चिकमिति ।
तत्रालोचनं गुरो पुरतः स्वापराधस्य प्रकटनम् । तच्चासेवनानुलोम्येन प्रायश्चित्तानुलोम्येन च । आसेवनानुलोम्यं येन क्रमेणातिचार प्रासेवितस्तेनैव क्रमेण गुरोः पुरतः प्रकटनम् । प्रायश्चित्तानुलोम्यं च गीतार्थस्य शिष्यस्य भवति । स हि पञ्चक-दशक-पञ्चदशकक्रमेण प्रायश्चित्तानि गुरुलध्वपराधानुरूपाणि विज्ञाय योऽपराधो गुरुस्तं तं प्रथममालोचयति, पश्चालघु लघुतरं च ।
अतीचाराभिमुख्यपरिहारेण प्रतीपं क्रमणमपसरणं प्रतिक्रमणं मिथ्यादुष्कृतसंयुक्तेन पश्चात्तापेन 'पुनरेवं न
in Education Internat
For Personal & Private Use Only
Page #642
--------------------------------------------------------------------------
________________
योग
चतुर्थः
शास्त्रम्
प्रकाशः।
।।३१२॥
करिष्यामि' इति प्रत्याख्यानम् ।
मिश्रमालोचनप्रतिक्रमणरूपम् , प्रागालोचन पश्चाद गुरुसन्दिष्टेन प्रतिक्रमणम् । विवेकः संसक्तानपानोपकरणशय्यादिविषयस्त्यागः।
व्युत्सर्गोऽनेपणीयादिषु त्यक्तेषु गमनागमनसावद्यस्वमदर्शननौसन्तरणोच्चारप्रश्रवणेषु च विशिष्टप्रणिधानपूर्वकः कायवाल्मनोव्यापारत्यागः ।
तपस्तु च्छेदग्रन्थानुसारेण जीतकल्पानुसारेण वा येन केनचित तपसा विशुद्धिर्भवति तत तद् देयमासेवनीयं च । छेदस्तपसा दुर्दमस्याहोरात्रपञ्चकादिना क्रमेण श्रमणपर्यायच्छेदनम् । मूलं महाव्रतानां मूलत आरोपणम् ।
तथा अवस्थाप्यत इत्यवस्थाप्यस्तनिषेधादनवस्थाप्यस्तस्य भावोऽनवस्थाप्यता दुष्टतरपरिणामस्याकृततपोविशेषस्य व्रतानामारोपणम् , तपः कर्म चास्योत्थाननिषदनादिकर्मकरणाशक्तिपर्यन्तम् । स हि यदोत्थानाद्यपि कर्तुमशक्तस्तदाऽन्यान् प्रार्थयते-'पार्याः ! उत्थातुमिच्छामि' इत्यादि । ते तु तेन सह संभाषणमकुर्वाणास्वत्कृत्यं कुर्वन्ति, यदाह
उडिज निसीअज व भिक्खं हिंडिज मत्तगं पेहे । कविप्रपिप्रबंधवस्स करेइ इयरो वि तुसिणीओ ॥ १॥ एतावति तपसि कृते तस्योत्थापना क्रियते । (१) उत्तिट निषीद वा भिक्षां हिण्ड मात्रकं प्रेक्षस्व । कुपितप्रियबान्धवस्य करोतीतरोऽपि तूष्णीकस्तु ॥ १॥
॥३१२॥
For Personal & Private Use Only
Page #643
--------------------------------------------------------------------------
________________
तथा पारमन्तं प्रायश्चित्तानां तत उत्कृष्टतरप्रायश्चित्ताभावात् , अपराधानां वा पारमश्चति गच्छतीत्येवंशीलं पाराश्चि तदेव पाराश्चिकम् । तच्च महत्यपराधे लिङ्गकुलगणसंघेभ्यो बहिष्करणम् ।
एतच छेदपर्यन्तं प्रायश्चित्तं व्रणचिकित्सातुल्यं पूर्वसूरिभिरभिहितम् । तत्र तनुरतीक्ष्णमुखो रुधिरमप्राप्तस्त्वग्लग्नः शल्यो देहादुध्रियते, न तत्र व्रणस्य मर्दनं विधीयते शल्याल्पत्वेन व्रणस्याल्पत्वात् । द्वितीये तु लग्नोध्धृतशल्ये मर्दनं क्रियते न तु कर्णमलेन पूर्यते । तृतीये तु दूरतरगतशल्ये शल्योद्धारमलनकरणमलपूरणानि क्रियन्ते । चतुर्थे तु शल्यकर्षणमर्दनरुधिरगालनानि वेदनापहारार्थ क्रियन्ते । पञ्चमे तु गाढतरावगाढशल्योद्धरणं, ततो गमनादिचेष्टा निवार्यते । षष्ठे हितमित भोज्यभोजनोऽभोजनो वा शल्योद्धारानन्तरं भवति । सप्तमे तु शन्योद्धारानन्तरं यावच्छल्येन मांसादिदषितं तावत् छिद्यते, गोनसभक्षितादौ पादवल्मीके वा पूर्वोक्तक्रियाभिरनुपशमाद् विसर्पति; अङ्गच्छेदः सहास्थ्ना शेषरक्षणार्थ विधीयते । एवं द्रव्यव्रणदृष्टान्तेन मृलोत्तरगुणरूपस्य चारित्रपुरुषस्यापराधरूपो व्रण आलोचनादिना छेदान्तेन प्रायश्चित्तविधिना शोधनीयः, यदाहुर्भगवद्भद्रबाहुस्वामिपादाः
तणुप्रो अतिक्खतुंडो असोणियो केवलं तयालग्गो । उद्धरिउं अवउज्झइ मल्लो न मलिजइ वणो उ॥१॥
लग्गुद्धियम्मि बीए मलिजइ परं अदूरगे सल्ले । उद्धरणमलणपूरण दूरयरगए तइयगम्मि ॥ २॥ | (१) तनुकोऽतीक्ष्णतुण्डोऽशोणितः केवलं त्वग्लग्नः । उध्धृत्यापत्यज्यते शल्यो न मृद्यते व्रणस्तु ॥१॥ लग्नोध्धृते द्वितीये मृद्यते परमदूरगे शल्ये । उद्धरणमलनपूरणानि दूरतरगते तृतीयके ॥२॥
For Personal & Private Use Only
Jain Education internate
ww.jainelibrary.org
Page #644
--------------------------------------------------------------------------
________________
योग
चतुर्थः
शास्त्रम्
प्रकाशः।
॥३१३॥
मा वेयणा उ तो उद्धरित्तु गालंति सोणि चउत्थे । रुज्झइ लहुँ ति चेट्ठा वारिजइ पंचमे वणिणो ॥३॥ रोहेइ वणं छठे हिअमिअभोइ अभुंजमाणो वा । तत्तियमेत्तं छिज्जइ सत्तमए पूइमंसाई ॥ ४ ॥ तहवित्र अट्ठायमाणे गोणसखड्याइ रप्फए वावि । कीरइ तयंगछेप्रो समडिओ सेसरक्खट्ठा ॥५॥ मृलोत्तरगुणरूवस्स ताइणो परमचरणपुरिसस्स । अवराहसलपहवो भाववणो होइ नायवो ॥६॥ भिक्खायरियाइ सुज्झइ अइयारो कोइ वियडणाए उ । बीओह असमियो मित्ति कीस सहसा अगुत्तो वा ॥७॥ सद्दाइएसु रागं दोसं च मणा गो तइअगम्मि । नाउं अणेसणिजं भत्ताइविगिचण चउत्थे ।। ८॥ उस्सग्गेण वि सुज्झइ अइयारो कोइ कोइ उ तवेणं । तेण वि असुज्झमाणं छेयविसेसा विसोहिंति ॥६॥
(१) मा वेदनास्तत उध्धृत्य गालयन्ति शोणितं चतुर्थे । रुह्यते लघु इति चेष्टा वार्यते पञ्चमे व्रणिनः॥३॥
रोहयति व्रणं षष्ठे हितमितभोजी अभुञ्जानो वा । तावन्मात्रं छिद्यते सप्तमके पूतिमांसादि ॥४॥ तथापि अतिष्ठति गोनसभक्षितादौ रप्फकैर्वापि । क्रियते तदङ्गच्छेदः सहास्थिकः शेषरक्षार्थम् ॥ ५ ॥ मूलोत्तरगुणरूपस्य तायिनः परमचरणपुरुषस्य । अपराधशल्यप्रभवो भावव्रणो भवति ज्ञातव्यः ॥ ६ ॥ भिक्षाचर्यादिः शुध्यत्यतिचारः कश्चिद्विकटनयैव । द्वितीयोहासमितोऽस्मीति किं सहसाऽगुप्तो वा ॥ ७॥ शब्दादिकेषु राग द्वेषं च मनाक् गतस्तृतीयके । ज्ञात्वाऽनेषणीयं भक्तादिविगिञ्चना चतुर्थे ।। ८॥ उत्सर्गेणापि शुध्यत्यतिचारः कश्चित् कश्चित् तु तपसा । तेनाप्यशुध्यमानं छेदविशेषा विशोधयन्ति ॥९॥
३१३ ॥
Juin Education Inter
For Personal & Private Use Only
www.jalnelibrary.org
Page #645
--------------------------------------------------------------------------
________________
प्रमाददोषव्युदासभावप्रसादनैः शल्यानवस्थाव्यावृत्तिमर्यादात्यागसंयमदााराधनादिप्रायश्चित्तफलम् ।
अथ वैयावृत्यम्-व्यावृत्तो व्यापारप्रवृत्तः प्रवचनोदितक्रियानुष्ठानपरस्तस्य भावः कर्म वा वैयावृत्त्यम् । व्याधिपरीषहमिथ्यात्वायुपनिपाते तत्प्रतीकारो बाह्यद्रव्यासम्भवे स्वकायेन तदानुकूल्यानुष्ठानं च । तच्चाचार्योपाध्यायस्थविरतपस्विशेक्षग्लानसाधर्मिककुलगणसङ्घलक्षणविषयभेदेन दशधा । तत्र स्वयमाचरति परांश्चाचारयति, आचर्यते सेव्यत इति वाऽऽचार्यः । स पञ्चधाप्रव्राजकाचार्यः, दिगाचार्यः, उद्देशकाचार्यः, समुद्देशानुज्ञाचार्यः, आम्नायार्थवाचकाचार्य इति । तत्र सामायिकवतादेरारोपयिता प्रव्राजकाचार्यः । सचित्ताचित्तमिश्रवस्त्वनुज्ञायी दिगाचार्यः। प्रथमत एव श्रुतमुद्दिशति यः स उद्देशाचार्यः । उद्देष्ट्रगुर्वभावे तदेव श्रुतं समुद्दिशत्यनुजानीते वा यः स समुद्देशानुज्ञाचार्यः । आम्नायमुत्सर्गापवादलक्षणमर्थ वक्ति यः स प्रवचनार्थकथनेनानुग्राहकोऽक्षनिषद्याद्यनुज्ञायी आम्नायार्थवाचकः, आचारगोचरविषयं स्वाध्यायं वा । आचार्याल्लब्धानुज्ञाः साधव उप समीपेऽधीयतेऽस्मादित्युपाध्यायः । स्थविरो वृद्धः। स श्रुत-पर्याय-वयोभेदात् त्रिविधः । श्रुतस्थविरः समवायाङ्गं यावदध्येता, पर्यायस्थविरो यस्य दीक्षितस्य विंशत्यादीनि वर्षाणि, वयःस्थविरः सप्तत्यादिवर्षजीवितः । विकृष्टं दशमादि किश्चिन्न्यूनषण्मासान्तं तपः कुर्वस्तपस्वी । अचिरप्रव्रजितः शिक्षाहः शैक्षः । रोगादिक्लिष्टशरीरो ग्लानः । साधर्मिकाः समानधर्मिणो द्वादशविधसम्भोगवन्तश्च । बहूनां गच्छानामेकजातीयानां समूहः कुलं चन्द्रादि । गच्छस्त्वेकाचार्यप्रणेयः साधुसमूहः। कुलसमुदायो गणः कोटिकादिः। सङ्घः साधुसाध्वीश्रावकश्राविकासमुदायः । एषामाचार्यादीनामनपानवस्त्रपात्रप्रतिश्रयपीठफलकसंस्तारकादिभिर्धर्मसाधनैरुपग्रहः शुश्रूषा
For Personal & Private Use Only
in Education inte
Page #646
--------------------------------------------------------------------------
________________
योग
शाखम् ३१४ ॥
Jain Education Intergr
भैषजक्रिया, कान्ताररोगोपसर्गेषु परिपालनम् एवमादि वैयावृश्यम् ।
अथ स्वाध्यायः । सुष्ठु मर्यादया कालवेलापरिहारेण पौरुष्यपेक्षया वाऽध्ययनं स्वाध्यायः । स पञ्चविधः - वाचनम्, प्रच्छनम्, अनुप्रेक्षा, आम्नायः धर्मोपदेशचेति । तत्र वाचनं शिष्याध्यापनम् । प्रच्छनं ग्रन्थार्थयोः सन्देहच्छेदाय निश्चितच लाधानाय वा परानुयोगः । अनुप्रेक्षा ग्रन्थार्थयोरेव मनसाऽभ्यासः । श्राम्नायो घोषविशुद्धं परिवर्तनम्, गुणनम्, रूपादानमिति यावत् । धर्मोपदेशोऽर्थोपदेशो व्याख्यानमनुयोगो वर्णनमिति यावत् ।
अथ विनयः विनीयते क्षिप्यतेऽप्रकारं कर्मानेनेति विनयः । स चतुर्धा, ज्ञान-दर्शन- चारित्रोपचारभेदात् । तत्र बहुमानं ज्ञानग्रहणाभ्यासस्मरणादि ज्ञानविनयः । सामायिकादो लोकविन्दुसारपर्यन्ते श्रुते भगवत्प्रकाशित पदार्थान्यथात्वासम्भवात् तत्त्वार्थश्रद्धानिः शङ्कितत्वादिना दर्शनविनयः । चारित्रवतश्चारित्रे समाहितचित्तता चारित्र विनयः । प्रत्यक्षेष्वाचार्यादिष्वभ्युत्थानाभिगमनाञ्जलि करणादि उपचारविनयः, परोक्षेष्वपि काय वाग्मनोभिरञ्जलिक्रियागुण संकीर्त्तनानुस्मरणादिरुपचारविनयः ।
अथ व्युत्सर्गः -- व्युत्सर्जनीयस्य परित्यागो व्युत्सर्गः । स द्विविधः वाह्य श्राभ्यन्तरश्च । तत्र बाह्यो द्वादशादिभेदस्योपधेरतिरिक्तस्य, अनेपणीयस्य संसक्तस्य वाऽनपानादेव त्यागः । अभ्यन्तरः कषायाणाम्, मृत्युकाले शरीरस्य च त्यागः । ननु व्युत्सर्गः प्रायश्चित्तमध्य एवोक्तस्तत् किं पुनरत्र वचनेन ? सत्यम्, सोsतिचारविशुद्ध्यर्थ उक्तः, श्रयं तु सामान्येन निर्जरार्थ इत्यपौनरुक्त्यम् ।
१ अन्नपात्रादेव इति वा माठः ।
For Personal & Private Use Only
•CK +6
चतुर्थः
प्रकाशः ।
॥ ३९४ ॥
Page #647
--------------------------------------------------------------------------
________________
__ अथ शुभध्यानध-शुभमातरौद्रविवेकेन शुभरूपं धर्म-शुक्लरूप ध्यानम् अत्रातरौद्रध्याने उक्तपूर्वे, धर्म | शुक्नं च शुभध्याने वक्ष्यते । इत्यनेन प्रकारेण पोढाऽऽभ्यन्तरं तपः । इदं चाभ्यन्तरस्य कर्मणस्तापकत्वात, अभ्यन्तरैरेवान्तर्मुखैर्भगवद्भिर्जायमानत्वाचाभ्यन्तरम् । ध्यानस्य सर्वेषां तपसामुपरि पाठो मोक्षसाधनेष्वस्य प्राधान्यख्यापनार्थः, यदाह;I'संवरविणिजराओ मोक्खस्स पहो तवो पहो तासि । ज्झाणं च पहाणं गं तबस्स तो मोक्खहेऊ तं ॥ १ ॥१०॥
अथ तपसो निर्जराहेतुत्वं प्रकटयन्नाहदीप्यमाने तपोवह्नौ बाह्ये चाभ्यन्तरेऽपि च ।यमी जरति कर्माणि दुर्जराण्यपि तत्क्षणात् ॥९॥
तप एव वह्निः पापवनदाहकत्वात् तपोवह्निस्तस्मिन् दीप्यमाने प्रबलीभूते । किंविशिष्टे ? बाह्येऽनशनादौ, आभ्यन्तरे प्रायश्चित्तादौ सति । यमी संयमवान जरति भस्मसात करोति । अन्तर्भूतण्यर्थत्वात् सकर्मकता। कर्माणि ज्ञानावरणीयादीनि दुर्जराण्यपि दुःखक्षयाण्यपि । निर्जराहेतुत्वं तपस उपलक्षणम् , संवरहेतुत्वादप्यस्य, यदाह वाचकमुख्यः-तपसा निर्जरा च तपसा निर्जरा संवरश्च भवतीत्यर्थः । तपश्च संवरत्वादभिनवकर्मोपचयप्रतिषेधकम् , निर्जरणफलत्वाच्चिरन्तनकर्मनिर्जरकम् , तथा च निर्वाणप्रापकमिति । अत्रान्तरश्लोकाः
यथा हि पिहितद्वारमुपायैः सर्वतः सरः । नवैर्नवैर्जलापूरैः पूर्यते नैव सर्वथा ॥ १। तथैवाश्रवनिरोधेन कर्म(१) संवरविनिमेरे मोक्षस्य पन्थास्तपः पन्थास्तयोः । ध्यानं च प्रधानाङ्गं तपसस्ततो मोक्षहेतुस्तत् ।। १॥
For Personal & Private Use Only
T
w
w .dainelibrary.org
Page #648
--------------------------------------------------------------------------
________________
योग
प्रकाशः
नवनवैः । अयं न पूर्यते जीवः संवरेण समावृतः ॥२॥ यथैव सरसस्तोयं संशुष्यति पुरा चितम् । दिवाकशास्त्रम्
रकरालातपातिसन्तापितं मुहुः ॥ ३ ॥ तथैव पूर्वसम्बद्धं सर्वकर्म शरीरिणा । तपसा ताप्यमानं सत् क्षयमायाति
ना ॥ निर्जराकरणे बाह्याच्छ्रेष्ठमाभ्यन्तरं तपः। तत्राप्येकातपत्रत्वं ध्यानस्य मुनयो जगुः ॥ ५॥ ॥ ३१५ । तिानि भयांसि प्रबलान्यपि तत्क्षणात् । कर्माणि निर्जरन्त्येव योगिनो ध्यानशालिनः ॥६॥ यथैवोप
चितो दोषः शोपमायाति लक्चनात् । तथैव तपसा कर्म क्षीयते पूर्वसश्चितम् ।। ७ । यथा वा मेघसङ्घाताः प्रच
ण्डपवनईताः । इतस्ततो विशीयन्ते कमोणि तपसा तथा ॥८॥ प्रतिक्षणं सम्भवन्त्यावपि संवरनिर्जरे । प्रकृसाने गया मोक्ष प्रसुवाते तदा ध्रुवम् ॥ ॥ निर्जरां निर्जरां कुर्वस्तपोभिर्द्विविधैरपि । सर्वकर्मविनिर्मोकं मोक्ष
मापदधीः ॥ १० ॥ एवं तपोभिरभितैः परिचीयमाना, स्यानिर्जरा सकलकर्मविघातहेतुः । सेतुर्भवोदधिसमुत्तरणे ममत्व व्याघातकारणमतः खलु भावयेत् ताम् ।। ११॥
॥निर्जराभावना ॥ १ ॥ अथ धर्मस्वाख्यातभावनास्वाख्यातःखलु धर्मोऽयं भगवद्भिर्जिनोत्तमैः।यं समालम्बमानो हि न मजेद् भवसागरे ॥१२॥
सष्ठ कृतीधिकापेक्षया प्राधान्येन, अविधिप्रतिषेधमर्यादया ख्यातः कथितः खलु निश्चयेन धर्मो वक्ष्यमाणलक्षणः अयं विपश्चितां चेतसि विवर्त्तमानः । कैः ? जिनोत्तमैरवधिजिनादिभ्यः प्रकृष्टः केवलिभिः । कथम्भूतैः ? भगवद्भिर्व्याख्यातस्वरूपैरर्हद्भिरिति यावत् । स्वाख्याततामेवाह-यं धर्म समालम्बमानो दुर्गतिपातभयादाश्रयन् ,
॥३१५॥
For Personal Private Use Only
म
Sain Education intere!
Page #649
--------------------------------------------------------------------------
________________
जन्तुरिति गम्यते, न मजेद् ब्रुडेद् भवसमुद्रे ॥ १२ ॥ ____ स्वाख्यातं धर्ममाह
संयमः सूनृतं शौचं ब्रह्माकिञ्चनता तपः । क्षान्तिर्दिवमृजुता मुक्तिश्च दशधा स तु॥९३॥ ___ स तु धर्मो दशधा दशप्रकारः । तत्र संयमः प्राणिदया सप्तदशाविधः । तत्र पृथिव्यप्तेजोवायुवनस्पतिद्विविचतुष्पश्चेन्द्रियाणां मनोवाकायकर्मभिः करणकारणानुमतिभिश्च संरम्भसमारम्भारम्भवर्जनमिति नवधा । अजी वरूपाण्यपि पुस्तकादीनि दुःषमादोषात् प्रज्ञाबलहीनशिष्यानुग्रहार्थ यतनया प्रति लेखनाप्रमार्जनापूर्व धारयतोऽजीवसंयमः । तथा प्रेक्ष्य चक्षुषा दृष्ट्वा स्थण्डिलं बीजजन्तुहरितादिरहितं, तत्र श यनासनादीनि कुर्वीतेति प्रेक्षासंयमः। गृहस्थान् सावद्यव्यापारप्रसक्तानव्यापारणेनोपेक्षमाण स्योपेक्षासंयमः । प्रेक्षितेऽपि स्थण्डिले रजोहरणादिना प्रमृज्य शयनासनादीन् कुर्वतः स्थाण्डिलाच स्थण्डिलं संक्रामतः सचित्ताचित्तमिश्रासु पृथिवीषु रजोऽवगुण्ठितौ चरणौ प्रमायं गच्छतो वा प्रमार्जनासंयमः। भक्तपानादिकमनेषणीयं वस्त्रपात्रादिकं चानुपकारकं संसक्तं वा निर्जन्तुके स्थण्डिले परिष्ठापयतः परिष्ठापनासंयमः । मनसोऽभिद्रोहाभिमानेादिभ्यो निवृत्तिधर्मध्यानादिषु च प्रवृत्तिर्मनःसंयमः । वाचो हिंस्रपरुषादिवचोभ्यो निवृत्तिः शुभभाषायां च प्रवृत्तिाक संयमः। कायस्य धावनवगनादिभ्यो निवृत्तिः शुभक्रियासु च प्रवृत्तिः कायसंयम इति । एवं सप्तदशप्रकार: प्राणातिपातनिवृत्तिरूपः संयमः, यदाहुः
Jain Education andel
For Personal & Private Use Only
Page #650
--------------------------------------------------------------------------
________________
चतवेः
योगशास्त्रम्
प्रकाशः।
॥३१६॥
पुढविदगअगणिमारुयवणस्सइबितिचउपणिदिअजीवे । पेहुप्पेहपमजणपरिट्ठवणमणोवईकाए ॥ १॥
तथा 'ऊनण् परिहाणे' अस्य धातोः सुष्ठु ऊन्यतेऽप्रियमात्राश्रयणं मितीक्रियते इति सून् , सून् च तदृतं च सूनृतं प्रियं सत्यं च । तच्च पारुष्य-पैशून्या-सभ्यत्व-चापला-विलत्व-विरलत्व-संभ्रान्तत्व-सन्दिग्धत्व ग्राम्यत्व-रागद्वेषयुक्तत्वो-पधावद्यविकत्थनपरिहारेण माधुर्योदार्यस्फुटत्वाभिजात्यपदार्थाभिव्याहाराहद्वचनानुसारार्थत्वार्थिजनभावग्राहकत्वदेशकालोपपनत्वयतमितहितत्वयुक्तं वाचनप्रच्छनप्रश्नव्याकरणादिरूपमिति मृपावादपरिहाररूपं सूनृतम् ।
शौचं संयम प्रति निरुपलेपा । सा चादत्तादानपरिहाररूपा । लोभात्तॊ हि परधनं जिघृतन संयम मलिनयति । लौकिका अप्याहु:
सर्वेषामेव शौचानामर्थशौचं परं स्मृतम् । योऽर्थेषु शुचिः स शुचिर्न मृद्वारिशुचिः शुचिः ॥ १॥
अशुचिर्हि भावकल्मपसंयुक्त इहामुत्र चाशुभं कर्मोपचिनोति, उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते, इत्यदत्तादानपरिहाररूपं शौचम् ।
नवब्रह्मगुप्तिसनाथमुपस्थसंयमो ब्रह्म 'भीमो भीमसेनः' इति न्यायाद् ब्रह्मचर्य वृहत्वाद् ब्रह्मात्मा तत्र चरणं ब्रह्मचर्यमात्मारामतेत्यर्थः । तदर्थ गुरुकुलसेवनमपि ब्रह्मचर्यमित्यब्रह्मनिवृत्तिरूपं ब्रह्मचर्यम् । नास्य किश्चन द्रव्यमस्तीत्यकिश्चनस्तस्य भावोऽकिञ्चनता। उपलक्षणं चैतत, तेन शरीरधर्मोपकरणादिष्वपि निर्ममत्वमकिश्चनत्वम् ।
(१) पृथिवीदकाग्निमारुतवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रियाजीवाः । प्रेक्षोप्रेक्षाप्रमार्जनपरिष्ठापनमनोवाककायाः ॥ १॥
Education tema
For Personal & Private Use Only
anw.jainelibrary.org
Page #651
--------------------------------------------------------------------------
________________
Jain Education Intern
शरीरमपि धारयन्तो मुनयो निर्ममत्वात् तत् परिग्रहरहिता भोजनादिकमपि संयमयात्रार्थं शकटाक्षलेपनवत् कुर्वन्ति न मूर्च्छया । उपकरणमपि च रजोहरणादिकं संयमरक्षार्थं वस्त्रपात्रादिकं च संयमशरीरपरित्राणार्थं धारयन्ति, न पुनर्लोभादिना इति निष्परिग्रहा एव । इति परिग्रहपरिहाररूपाऽकिञ्चनता ।
तप उक्तनिर्वचनम्, उक्तस्य संयमादेर्वच्यमाणस्य चान्त्यादेः संवर हेतोर्धर्मस्य मध्ये पठितम् संचरनिर्जराहेतुत्वात् । तच्च द्वादशप्रकारं पूर्वमुक्तम् । प्रकीर्णकं चेदमनेकविधम्, तद्यथा यवमध्यं वज्रमध्यं, चान्द्रायणं, कनकरत्नमुक्तावल्यस्तिस्रः सिंहविक्रीडिते द्वे, सप्त सप्तमिकाद्याः प्रतिमाश्चतस्रः सर्वतोभद्रम् भद्रोत्तरम्, आचाम्लवर्धमानमित्येवमादि । तथा, द्वादशभिक्षुप्रतिमा मासिक्याद्या श्री सप्तमासिक्याः सप्त सप्तरात्रिक्यस्तिस्रः, होरात्रिकी, एकरात्रिकी च ।
चान्तिः क्षमा शक्तस्याशक्तस्य वा सहनपरिणामः । सा च क्रोधनिमित्तस्यात्मनि भावाभावचिन्तनात्, क्रोधदोषचिन्तनात्, बालस्वभावचिन्तनात्, स्वकृतकर्मफलाभ्यागमचिन्तनात्, क्षमागुणानुप्रेक्षणाच्च । तत्र येन दोषेण मामाक्रोशति परः स दोषो मयि यद्यस्ति तदस्य सद्भूतमर्थं प्रकाशयतः कोऽपराध: ? । अथ नास्ति, तर्हि मृपाऽसौ वदतीति भावाभावविचिन्तनात् क्षमितव्यमेव, यदाह
आष्टेन मतिमता तवार्थविचारणे मतिः कार्या । यदि सत्यं कः कोषः स्यादनृतं किं नु कोपेन ॥ १ ॥ क्रोधदोषचिन्तनादपि क्षमितव्यमेव । क्रुद्धस्य तावद् ध्रुवं कर्मबन्धः, ततः पराभिघातः, ततोऽप्यहिंसाव्रतलोपः, क्रुद्धस्य चापवदतः सूनृतव्रतलोपः, विस्मृतप्रव्रज्याप्रतिपत्तिश्चादत्तमपि गृह्णीयात् ततोऽस्तेयत्रतलोपः, द्वेषात्
For Personal & Private Use Only
***1-1+1kk*
Page #652
--------------------------------------------------------------------------
________________
परपाखा
चतुर्थः
योगशास्त्रम्
प्रकाश:
॥३१७॥
परपाखण्डिनीवब्रह्मासेवमानस्य ब्रह्मचर्यव्रतलोपः, प्रद्विष्टस्याविरतेषु गृहस्थेषु सहायबुद्ध्या मूर्छापि स्यादित्यपरिग्रहवतलोपः । उत्तरगुणभङ्गप्रसङ्गे तु का कथा ?। क्रुद्धश्च गुरूनप्यासातयेदधिक्षिपेद् वा। इति क्रोधदोषa चिन्तनम् । बालस्वभावचिन्तनाच्च क्षन्तव्यम् । बालोऽज्ञस्तत्स्वभावचिन्तनं पुनर्बालः कदाचित् परोक्षमाक्रोशति
कदाचित प्रत्यक्षम् । आक्रोशबपि कश्चित् ताडयति, कश्चिद् मारयति, कश्चिद् धर्मभ्रंशमपि चिकीर्षति, तद् दिष्टचा वर्धामहे मामेष परोक्षमाक्रोशति न प्रत्यक्षम्, प्रत्यक्ष वाऽऽक्रोशति न ताडयति, ताडयति वा न मारयति, मारयति वा न धर्माद् भ्रंशयति, इत्युत्तरस्योत्तरस्याभावे लाभ एष ममेति मन्यते, यदाहुः;
अकोसहणणमारणधम्मभंसाण बालसुलहाण | लाभं मन्त्रह धीरो जहोत्तराणं अभावम्मि ॥१॥
इति बालस्वभावचिन्तनम् । स्वकृतकर्मफलाभ्यागमचिन्तनादपि क्षन्तव्यमेव । पूर्वकृतकर्मणां फलाभ्यागम एपः, फलभोगं तपो वा विना न निकाचितस्य कर्मणः क्षय इत्यवश्यभोक्तव्ये फले निमित्तमात्रमेव परः, यदाहा
सव्वो पुवकयाणं कम्माणं पावफलविवागो । अवराहेसु गुणेसु अनिमित्तमित्तं परो होइ ॥१॥
इति स्वकृतकर्मफलाभ्यागमचिन्तनम् । क्षमागुणानुप्रेक्षणाच्च क्षन्तव्यम्-अनायासः क्रोधनिमित्तप्रायश्चित्ताभावः, शुभध्यानाध्यवसायः, परसमाधानोत्पादनम् , स्तिमितप्रसन्नान्तरात्मत्वम् , प्रहरणसहायान्वेषणाभावः, असंरम्भः, प्रसन्नमुखता, धवलविलोचनता, अस्वेदता, निष्कम्पता परप्रहारवेदनाऽभाव इति क्षमागुणाः । इति
(१) आक्रोशहननमारणधर्मभ्रंशानां बालसुलभानाम् । लाभं मन्यते धीरो यथोत्तराणामभावे ॥ १ ॥ (२) सर्वः पूर्वकृतानां कर्मणां पापफलविपाकः । अपराधेषु गुणेषु च निमित्तमात्रं परो भवति ॥ १ ॥
For Personal & Private Use Only
॥३१७॥
in Education
Page #653
--------------------------------------------------------------------------
________________
******
Jain Education Inter
******
क्रोधविपक्षः क्षमाधर्मः ।
अथ मार्दवम्-मृदुरस्तब्धस्तस्य भावः कर्म वा मार्दवं नीचैर्वृत्तिरनुत्सेकश्च तदुभयमपि मदनिग्रहाद् भवति । मदाच जातिमदादयः पूर्वमुक्ताः । ततश्च जातिकुलरूपबलला भबुद्धिवाल्लभ्यकश्रुतमदान्धाः क्कीचाः परत्र चेह च हितमप्यर्थं न पश्यन्तीत्यादिमद दोषपरिहारहेतुर्मानप्रतिपचो मार्दवम् ।
अथ ऋजुता-ऋजुरवक्रमनोवाक्काय कर्मा तस्य भावः कर्म वा ऋजुता मनोवाक्कायविक्रियाविरह इत्यर्थः, मायारहितत्वमिति यावत् । मायावी हि सर्वातिसन्धानपरतया सर्वाभिशङ्कनीयो भवति, यदाह
मायाशीलः पुरुषो यद्यपि न करोति कञ्चिदपराधम् । सर्प इवाविश्वास्यो भवति तथा ह्या ( प्या) त्मदोषहतः ॥ १॥ इति मायाप्रतिपक्षभूता ऋजुता ।
1
अथ मुक्तिः - सा च बाह्याभ्यन्तरवस्तुषु तृष्णाविच्छेदरूपा लोभाभाव इत्यर्थः । लोभाभिभूतो हि क्रोधमान - माया - हिंसा - नृत- स्तेया-ब्रह्म-परिग्रहदोषजालेनोपचीयते, यदाहसर्वविनाशाश्रयिणः सर्वव्यसनैकराजमार्गस्य । लोभस्य को मुखगतः क्षणमपि दुःखान्तरमुपेयात् ! ॥ १ ॥ इति लोभ परिहाररूपा निर्भयत्व - स्वपरहितात्मप्रवृत्तिमत्त्व - ममत्वाभाव - निस्सङ्गता - परद्रोहकत्वादिगुणयुक्ता रजोहरणादिकेष्वप्युपकरणेष्वनभिष्वङ्गस्वभावा मुक्तिः । इति दशविधो धर्म्मः । ननु संयम- सूनृत - शौच - ब्रह्माsकिञ्चनतानां महात्रतेषु, क्षमामार्दवार्जवमुक्तीनां संवरप्रकरणे, तपसश्च संवर - निर्जराहेतुत्वेनोक्तत्वाद् धर्मप्रतिपादनप्रकरणे पुनरुक्तत्वमेव । उच्यते-नात्र संयमादीनां पुनर्भणनं प्रकृतम्, किन्तु संयमादिदशविधधर्मप्रतिपादन
For Personal & Private Use Only
Page #654
--------------------------------------------------------------------------
________________
योग-
| चतुर्थः प्रकाशः।
शास्त्रम्
३१८
प्रकारेण भगवतामहतां स्वाख्यातधर्मत्वानुप्रेक्षणमेव, इति धर्माणांगुणभावेन तदाख्यातणां भगवतामनुप्रेक्षानिमित्तं स्तुतिरिति सर्व समञ्जसम् ।। १३ ॥ ___ अथास्य धर्मस्य माहात्म्यमाहधर्मप्रभावतः कल्पद्रुमाया ददतीप्सितम्। गोचरेऽपि न ते यत्स्युरधर्माधिष्ठितात्मनाम् ॥४॥
कल्पद्रुमः कल्पवृक्षः, आदिशब्दाञ्चिन्तामण्यादयः परिगृह्यन्ते, ते वनस्पतिरूपा उपलरूपाश्च धर्मवद्भयः सुषमादिकालभाविभ्योऽभीष्टफलदायिनो भवन्ति । ते एव धर्महीनानां दुःषमादिकालभाविनाम् , प्रास्तामभीष्टं न ददति, गोचरेऽपि न भवन्ति । अत्रार्थप्राप्तिः फलम् ।। ६४ ॥ तथाअपारे व्यसनाम्भोधौ पतन्तं पाति देहिनम् । सदा सविधवत्येकवन्धुर्धर्मोऽतिवत्सलः॥६५॥ ___ स्पष्टः । अत्रानर्थपरिहारः फलम् ॥ ६५ ॥ तथाश्राप्लावयति नाम्भोधिराश्वासयति चाम्बुदः। यन्महीं सप्रभावोऽयं ध्रुवं धर्मस्य केवलः॥६६॥
अत्रानर्थपरिहारोऽर्थप्राप्तिश्च फलम् ॥ ९६ ॥
इदानीं साधारणधर्मस्य साधारणं फलमाहनज्वलत्यनलस्तिर्यग् यदूर्ध्व वाति नानिलः। अचिन्त्यमहिमा तत्र धर्म एव निबन्धनम्॥१७॥
स्पष्टः । मिथ्यादृशोऽप्याहुः ;-अग्नेरूद्धज्वलनम् , वायोस्तिर्यक् पवनमदृष्टकारितम् इति ।। ६७ ॥ तथा-
३१८॥
Lain Education inte
For Personal & Private Use Only
STwirw jalnelibrary.org
Page #655
--------------------------------------------------------------------------
________________
निरालम्बा निराधारा विश्वाधारो वसुन्धरा । यच्चावतिष्ठते तत्र धर्मादन्यद् न कारणम् ॥९८॥
निरालम्बा पालम्बनस्य रज्ज्वादेरभावात , निराधारा आधारस्थ शेषकर्मवराहदिक्कुञ्जरादेः प्रमाणानुपपन्नत्वेनाभावात् , विश्वस्य चराचरभेदस्य जगत आधारः, वसुन्धरा पृथ्वी यदवतिष्ठते, नाधः पतति, तत्र धर्मादन्यद् न कारणम् , अन्वयव्यतिरेकाभ्यामन्यस्य कस्यचिदवस्थानहेतोरभावात् ॥ ८॥ तथासूर्याचन्द्रमसावेतौ विश्वोपकृतिहेतवे। उदयेते जगत्यस्मिन् नूनं धर्मस्थ शासनात् ॥१९॥
स्पष्टः ।। ६६ ॥ अबन्धुनामसौ बन्धुरसखीनामसौ सखा। अनाथानामसौ नाथो धर्मो विश्वैकवत्सलः ॥१०॥
अबन्धूना बन्धुरहितानामसौ धर्मो बन्धुः, बन्धुकार्यस्य विपदुत्तारणादेः करणात् ; असखीनां मित्ररहितानामसौ सखा, प्रीत्युत्पादकत्वात् । अनाथानामस्वामिकानामसौ नाथः, योगक्षेमकारित्वात् , यदाह-योगक्षेमकृद् नाथः इति । अत्र हेतुर्विश्वकवत्सलः-वत्सं लाति स्नेहेनादत्ते वत्सला गौस्तद्वत् सकलजगत्प्रीतिहेतुत्वाद् धर्मोऽपि वत्सलः॥१०॥
इदानीमनर्थनिवृत्तेः प्राकृतैरप्याकासयमाणत्वाद् धर्मफलमाहरचोयक्षोरगव्याघ्रव्यालानलगरादयः । नापकर्तुमलं तेषां यैर्धर्मः शरणं श्रितः ॥ १०१॥
स्पष्टः ॥१०१ ॥ इदानी प्रधानभूतामनर्थनिवृत्तिमर्थप्राप्तिं च धर्मस्य फलमाह
in Education et
For Personal & Private Use Only
Page #656
--------------------------------------------------------------------------
________________
योग
चतुर्थः
शास्त्रम्
प्रकाशः।
॥३१॥
धर्मो नरकपातालपातादवति देहिनः। धर्मो निरुपम यच्छत्यपि सर्वज्ञवैभवम् ॥ १०२ ॥ ____ नरकपातरक्षणलक्षणा अनर्थनिवृत्तिः सर्वज्ञवैभवप्राप्तिवार्थप्राप्तिप्रधानभूता धर्मस्य फलम् , शेषं त्वानुषङ्गिकमुक्तमिति । अत्रान्तरश्लोकाः
अयं दशविधो धर्मो मिथ्याग्भिने वीचितः । योऽपि कश्चित् कचित् प्रोक्षे सोऽपि वाङ्मात्रवर्णनम् ॥१॥ तत्त्वार्थो वाचि सर्वेषां केषाश्चन मनस्यपि । क्रिययापि नरीनतिं नित्यं जिनमतस्पृशाम् ।। २ ।। वेदशास्त्रपराधीनबुद्धयः सूत्रकण्ठकाः । न लेशमपि जानन्ति धर्मरत्नस्य तत्त्वतः ॥ ३॥ गोमेधनरमेधाश्वमेधाद्यध्वरकारिणाम् । यानिकानां कुतो धर्मः प्राणिघातविधायिनाम् ॥४॥ अश्रद्धेयमसद्भूतं परस्परविरोधि च । वस्तु प्रलपतां धर्मः कः पुराणविधायिनाम् ? ॥ ५॥ असद्भूतव्यवस्थाभिः पराद्रव्यं जिघृक्षताम् । मृत्पानीयादिभिः शौचं स्मार्तादीनां कुतो ननु ॥६॥ ऋतुकाले व्यतिक्रान्ते भ्रूणहत्याविधायिनाम् । ब्राह्मणानां कुतो ब्रह्म ब्रह्मचर्यापलापिनाम् ? ॥७॥ अदित्सतोऽपि सर्वस्वं यजमानाजिघृक्षताम् । अर्थार्थे त्यजतां प्राणान् काकिश्चन्यं द्विजन्मनाम् ! ॥८॥ दिवसे च रजन्यां च मुखमापृच्छय भक्षताम् । भक्ष्याभक्ष्याविवेकानां सौगतानां कुतस्तपः ॥६॥ मृद्वी शय्या प्रातः पेया मध्ये भक्तं सायं पानम् । द्राचाखण्डं रात्रेमध्ये शाक्योपज्ञः साधुर्धर्मः ॥ १०॥ स्वल्पेप्वप्यपराधेषु क्षणात शापं प्रयच्छताम् । लौकिकानामृषीणां न आमालेशोऽपि दृश्यते ॥ ११ ॥ जात्यादिमददुवृत्तपरिनर्तितचेतसाम् । क मार्दवं द्विजातीनां चतुराश्रमवर्तिनाम् ॥ १२ ॥ दम्भसंरम्भगर्भाणां बकवृत्तिजुषां पहिः । भवेदार्जवलेशोऽपि पाखण्डव्रतिनां कथम् १ ॥ १३ ॥ गृहिणीगृहपुत्रादिपरिग्रहवतां सदा । द्विजन्मनां कथं मुक्ति-
३१६ ।
Jain Education interna
For Personal & Private Use Only
Page #657
--------------------------------------------------------------------------
________________
Jain Education Interna
लोभैककुलवेश्मनाम् १ ॥ १४ ॥ रक्तद्विष्टमूढानां केवलज्ञानशालिनाम् । ततो भगवतामेषा धर्मस्वाख्यातताईताम् ॥ १५ ॥ रागाद् द्वेषात् तथा मोहाद् भवेद् वितथवादिता । तदभावे कथं नामाईतां वितथवादिता १ ॥ १६ ॥ ये तु रागादिर्भिदोषैः कलुषीकृतचेतसः । न तेषां सूनृता वाचः प्रसरन्ति कदाचन ॥ १७ ॥ तथाहि यागहोमादिकर्माणष्टानि कुर्वताम् । वापीकूपतडागादीन्यपि पूर्तान्यनेकशः ।। १८ ।। पशुपघाततः स्वर्गलोकसौख्यं विमार्गताम् । द्विजेभ्यो भोजनैर्दत्तैः पितृतृप्तिं चिकीर्षताम् ॥ १६ ॥ घृतयोन्यादिकरणैः प्रायश्चित्तविधायिनाम् । पञ्चस्वा पत्सु नारीणां पुनरुद्वाहकारिणाम् || २० || अपत्यासम्भवे स्त्रीषु चेत्रजापत्यवादिनाम् । सदोषाणामपि स्त्रीणां रजसा शुद्धिवादिनाम् ॥ २१ ॥ श्रेयोबुद्ध्याऽध्वरहतच्छागशिश्नोपजीविनाम् । सौत्रामण्यासप्ततन्तौ सीधुपानविधायिनाम् ॥ २२ ॥ गूथाशिनीनां च गवां स्पर्शतः पूतमानिनाम् । जलादिस्नानमात्रेण पापशुद्ध्यभिधायिनाम् ॥ २३ ॥ वटाश्वत्थामलक्यादिद्रुमपूजाविधायिनाम् । वह्नौ हुतेन इव्येन देवप्रीणनमानिनाम् ॥ २४ ॥ गोदोहकरणाद् रिष्टशान्तिकमानिनाम् । योषिद्विडम्बना प्रायव्रतधर्मोपदेशिनाम् ॥ २५ ॥ तथा — जटापटलभस्माङ्गरागकौपीनधारिणाम् । अधत्तूर मालूरैर्देवपूजाविधायिनाम् ॥ २६ ॥ कुर्वतां गीतनृत्यादि पुतौ वादयतां मुहुः । मुहुर्वदननादेनातोद्यनादविधायिनाम् ॥ २७ ॥ श्रसत्यभाषापूर्व्वं च मुनीन् देवान् जनान् प्रताम् । विधाय व्रतभङ्गं च दासीदासत्वमिच्छताम् ॥ २८ ॥ गृहतां मुञ्चतां भूयो भूयः पाशुपतं व्रतम् । भेषजादिप्रयोगेण यूकालिक्षं प्रणिनताम् || २९ ।। नरास्थिभूषणभृतां शूलखट्वाङ्गवाहिनाम् । कपालभाजनभुजां घण्टानूपूरधारिणाम् ॥ ३० ॥ मद्यमांसाङ्गनाभोगप्रसक्तानां निरन्तरम् । पुतानुबद्धघण्टानां गायतां नृत्यतां मुहुः ॥ ३१ ॥
For Personal & Private Use Only
+40+000000
Page #658
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
१॥३२०॥
तथा
चतुर्षः अनन्तकायकन्दादिफलमूलदलाशिनाम् । कलत्रपुत्रयुक्तानां वनवासजुषामपि ॥ ३२ ॥
प्रकाशः तथा
भक्ष्याभक्ष्ये पेयापेये गम्यागम्ये समात्मनाम् । योगिनाम्ना प्रसिद्धानां कौलाचार्यान्तवासिनाम् ।। ३३॥ अन्येषामपि जैनेन्द्रशासनास्पृष्टचेतसाम् । क धर्मः क्व फलं तस्य तस्य वाख्यातता कथम् ? ॥ ३४ ॥ जिनेन्द्रस्यापि धर्मस्य यदत्रामुत्र वा फलम् । आनुषङ्गिकमेवेदं मुख्यं मोक्षं प्रचक्षते ॥ ३५ ॥ सस्यहेतौ कृषौ यद्वत पलालाद्यानुपङ्गिकम् । अपवर्गफले धर्मे तद्वत् सांसारिकं फलम ॥ ३६ ॥ वाख्याततामिति जिनाधिपतिप्रणीतधर्माश्रितामसकृदेव विभावयन्तः । मुक्ता ममत्वविषवेगविकारदोषैः, साम्यं प्रकर्षपदवीं परमां नयन्ति ।। ३७ ॥
धर्मस्वाख्यातताभावना १० ॥ १०२॥ अथ लोकभावनामाहकटिस्थकरवैशाखस्थानकस्थनराकृतिम् । द्रव्यैः पूर्ण स्मरेल्लोकं स्थित्युत्पत्तिव्ययात्मकैः ॥१०३॥ ___ कटिः श्रोणिस्तत्र तिष्ठत इति कटिस्थौ करौ यस्यासौ कटिस्थकरः, वैशाखं प्रसारितपादं तच्च तत् स्थानकं । |च तत्र तिष्ठति तत्स्थः , स चासौ नरश्च, तद्वदाकृतिर्यस्य तं लोकमाकाशचेत्रं चतुर्दशरज्जुप्रमाणं स्मरेदनुप्रेक्षेत । । किंविशिष्टम् ? द्रव्यैर्धर्माधर्मकालजीवपुद्गलैः पूर्णम् , किंविशिष्टैर्द्रव्यैः ? स्थित्युत्पत्तिव्ययात्मकैः स्थितिध्रौव्यम् ,
उत्पत्तिरुत्पादः, व्ययो विनाशस्ते आत्मानः खरूपं येषां तानि तथा । सर्वमपि हि वस्तु स्थित्युत्पादव्ययात्मकम् , ॥३२॥
Jain Education in
For Personal & Private Use Only
Page #659
--------------------------------------------------------------------------
________________
Jain Education Inter
←******
6
यदाह; - " उत्पादव्ययधौव्ययुक्तं सत् " । आकाशादयोऽपि हि नित्यानित्यत्वेन प्रसिद्धाः प्रतिक्षणं तेन तेन पर्यायेणोत्पद्यन्ते विपद्यन्ते च । प्रदीपादयोऽप्युत्पादविनाशयोगिनोऽवतिष्ठन्ते, न पुनरैकान्तिकस्थितियोगि उत्पादविनाशयोगि वा किञ्चिदस्ति, यदवोचाम;
--
दीपाव्योम समस्वभावं स्याद्वादमुद्रानतिभेदि वस्तु | तन्नित्यमेवैकमनित्यमन्य-दिति त्वदाज्ञाद्विषतां प्रलापाः ॥ १ ॥ इति ॥ १०३ ॥
लोकस्वरूपमेवाह
लोको जगत्रयार्णो भुवः सप्तात्र वेष्टिताः । घनाम्भोधिमहावाततनुवातैर्महाबलैः ॥ १०४॥ लोक उक्तस्वरूपो जगतां लोकदेशानां त्रयेणाधस्तिर्यगूर्ध्वरूपेणाकीर्णो व्याप्तः वदन्ति हि 'अधोलोकः, तिर्यग्लोकः, ऊर्ध्वलोकः' इति । तत्र लोके सप्तसंख्या भुवः पृथिव्यो रत्नप्रभा - शर्कराप्रभा - वालुकाप्रभा - पङ्कप्रभा - धूमप्रभा - तमः प्रभा - महातमः प्रभा यथार्थाभिधानाः, अनादिकालप्रसिद्धाऽनन्वर्थसंज्ञाश्च तद्यथा - घर्मा, वंशा, शैला, अञ्जना, श्ररिष्टा, माघव्या, माघवी च । ततश्च प्रत्येकं रत्नप्रभाया अधोऽधः पृथुतराः । तासु त्रिंशत्, पञ्चविंशतिः, पञ्चदश, दश, त्रीण्येकं पञ्चोनं नरकावासशतसहस्रं, पञ्चैव नारकावासा यथाक्रमम् । ताथ वेष्टिताः परिवृता अधः पार्श्वतश्च । कैः ? घनो निविडो न तु द्रवो योऽसावम्भोधिः, महांश्चासौ वातश्च महावातो घनवातः, तनुश्वासौ वातश्च तनुवातः तैः । किं विशिष्टैः १ महाबलैः पृथ्वीधारणसमर्थैः ।
For Personal & Private Use Only
← - 18/-))
08-133*-+-*-*-30)
Page #660
--------------------------------------------------------------------------
________________
बोग
चतुर्थ । प्रकाशः।
॥३२॥
तत्र सर्वासां पृथिवीनामधो घनोदधयः मध्योत्सेधे विंशतियोजनसहस्राणि, महावाताः उत्सेधे घनोदधितोऽसंख्यानि योजनसहस्राणि, तनुवाताश्च महावातेभ्योऽसंख्यानि योजनसहस्राणि, ततोऽप्यसंख्येयानि योजनसहस्राण्याकाशम् । एतच्च मध्ये उत्सेधमानम् । ततः परं क्रमेण हीयमानं प्रान्ते वलयतुल्यमानमिति । घनोदधिवलयविष्कम्भमानं रत्नप्रभायाः षड्योजनानि, धनवातवलयविष्कम्भमानमर्धपश्चमयोजनानि, तनुवातवलयविष्कम्भमानं साध योजनम् । रत्नप्रभावलयमानादुपरि योजनविभागो घनोदधौ, घनवाते गव्यूतम् , तनुवाते च गव्यूतत्रिभागो वर्त्तते । एतच्छर्कराप्रभायां वलयमानम् । एवं शर्कराप्रभावलयमानादुपर्ययमेव प्रक्षेपः । एवं पूर्वपूर्ववलयमानादुपर्ययमेव प्रक्षेपः सप्तमपृथिवीं यावत् , यदाह
तिभागो गाउयं चेव तिभागो गाउयस्स य । आइधुवे पक्खेवो अहो अहो जाव सत्तमिश्रा ॥ १ ॥ प्रक्षेपे सति वलयविष्कम्भमानमाभ्यो गाथाभ्योऽवसेयम् , तद्यथाछस्सतिभाग पउणा य पंच वलयाण जोपणपरिमाणं । एगं बारसभागा सत्त कमा बीयपुढवीए ॥१॥ जोअणसत्ततिभागोण पंच एगं च वलयपरिमाणं । बारसभागा अट्ठ उ तइयाइ जहकमं नेयं ॥२॥
(१) त्रिभागो गव्यूतं चैव त्रिभागो गव्यूतस्य च । आध्रुिवे प्रक्षेपोऽधोऽधो यावत् सप्तमीम् ॥ १ ॥ (२) षट्रकत्रिभागः प्रनूनाश्च पञ्च वलयानां योजनपरिमाणम् । एकं द्वादशभागाः सप्त क्रमेण द्वितीयटथिव्याम् ॥ १ ॥ योजनसप्तत्रिभागोनं पञ्चैकं च वलयपरिमाणम् । द्वादशभागा अष्ट तु तृतीयायां यथाक्रमं ने(ज्ञे)यम् ॥ २ ॥
॥३२॥
Jain Education intenar
For Personal & Private Use Only
Page #661
--------------------------------------------------------------------------
________________
सत्त सवाया पंच उ पउणा दो जोअण्णा चउत्थीए । घणउअहिमाइयाणं वलयाणं माणमयं तु ॥३॥ सतिभागसत्त तह अद्धछह वलयाण माणमेयं तु । जोअणमेगं बारसभागा दस पंचमीए तहा ।। ४ ।। अटुं तिभागोणाई पउणाइ छच्च वलयमाणं तु । छट्ठीए जोअणं तहा बारसभागा य एक्कारा ॥ ५ ॥ अट्ठ य छच्चि य दु च्चिय घणोअहीमाइमाण माणं तु | सत्तममहीए नेयं जहासंखेण तिण्हं पि ॥६॥
एतानि च वलयानि पृथिव्याधारभूतघनोदध्यादिभ्यः पृथ्वीपर्यन्तपरिधिप्रान्तेषु वलयाकारतया एतावद्विकम्भाणि पृथिव्युत्सेधसमोत्सेधानि च ।। १०४ ॥
पुनर्लोकखरूपमाहवेत्रासनसमोऽधस्तान्मध्यतो झल्लरीनिभः। अग्रे मुरजसङ्काशो लोकः स्यादेवमाकृतिः॥१०५॥
अधस्तादधोभागे वेत्रासनमधस्ताद् विस्तीर्णमुपर्युपरिसङ्कोचवत् तत्समस्तदाकारः, मध्यतो मध्ये झल्लरी वाद्यविशेषस्तत्सदृशः, अग्रे मध्यलोकादुपरि मुरज ऊर्ध्वमधश्च संकुचितो मध्यभागे विस्तृतो वाद्यविशेषस्तत्सदृशः। • (१) सप्त सपादाः पञ्च तु प्रनूने द्वे योजने चतुर्थ्याम् । घनोदध्यादिकानां वलयानां मानमेतत्तु ।। ३ ॥
सत्रिभागसप्त तथा अर्धषष्ठं वलयानां मानमेतत्तु । योजनमेकं द्वादशभागा दश पञ्चम्यां तथा ॥ ४॥ अष्ट त्रिभागोनानि प्रनूनानि षट् च वलयमानं तु । षष्ठयां योजनं तथा द्वादशभागाश्चैकादश ॥ ५ ॥ अष्ट च षट् चैव द्वौ चैव घनोदध्यादिकानां मानं तु | सप्तममयां ने(ज्ञे)यं यथासंख्येन त्रयाणामपि ॥ ६ ॥
Education
For Personel Private Use Only
SIww.jainelibrary.org
Page #662
--------------------------------------------------------------------------
________________
चतुर्थः
योगशास्त्रम्
प्रकाशः।
4॥३२२॥
एवमधोमध्योर्वेषु आकारत्रययोगी लोकः, यदाहुः
तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकम् । स्थालमिव च तिर्यग्लोकमूर्ध्वमथ मन्त्रकसमुद्गम् ॥ १ ॥
इह चाधास्तिर्यगूर्वलोका रुचकापेक्षया । रुचकश्च मेरुमध्यगोस्तनाकारचतुराकाशप्रदेशप्रमाणोऽधः, तादृश एवोर्ध्वम् , एवमष्टप्रदेशः, यदाहुः
अट्ठपएसो रुअगो तिरियलोगस्स मज्झयारम्मि । एस पहवो दिसाणं एसेव भवे अणुदिसाणं ॥ १।।
तत्र रुचकादध उपरि च नव नव योजनशतानि तिर्यग्लोक इत्युत्सेधेऽष्टादशयोजनशतप्रमाणः, तिर्यग्लोकादधो नवयोजनशतोनसप्तरज्जुप्रमाणोऽधोलोकः । तत्र सप्त पृथिव्य उक्तरूपाः । तत्र रत्नप्रभायां पृथिव्यामशीतिसहस्राधिकयोजनलक्षवाहल्यायामुपर्यधश्च योजनसहस्रं मुक्त्वा मध्येऽष्टसप्ततिसहस्राधिके योजनलचे भवनपतीनां | भवनानि । ते चासुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदिकुमाराः । ते च चूडामणिफणिवज्रगरुडघटाश्ववर्धमानमकरसिंहहस्तिचिह्वाः । तत्र भवनपतयो दक्षिणोत्तरदिग्व्यवस्थिताः । तत्रासुरकुमाराणां द्वाविन्द्रौ चमरो बलिश्च । नागकुमाराणां धरणो भूतानन्दश्च । विद्युत्कुमाराणां हरिहरिसहश्च । सुपर्णकुमाराणां वेणुदेवो वेणुदालिश्च । अग्निकुमाराणामग्निशिखोऽग्निमाणवश्च । वातकुमाराणां वेलम्बः प्रभञ्जनश्च । स्तनितकुमाराणां सुघोषो महाघोषश्च । उदधिकुमाराणां जलकान्तो जलप्रभश्च । द्वीपकुमाराणां पूर्णो वशिष्ठश्च । दिक्कुमाराणाममितो मितवाहनश्च । अस्यामेव रत्नप्रभायामुपरितनयोजनसहस्रस्याध उपरि च योजनशतं मुक्वा मध्येऽष्टासु योजनशतेष्वष्ट
(१) अष्टप्रदेशो रुचकस्तिर्यग्लोकस्य मध्यकारे । एष प्रभवो दिशानामेष एव भवेदनुदिशानाम् ॥ १॥
॥३२२॥
Jain Education intries
For Personal & Private Use Only
Page #663
--------------------------------------------------------------------------
________________
नाश
विधानां पिशाचभूतयक्षराक्षसकिन्नर किम्पुरुषमहोरगगन्धर्वाणां कदम्बवृक्षसुलसवृक्षवटवृक्षखङ्गाशोकवृक्षचम्पकवृक्षनागवृक्षतुम्बरुवृक्षचिह्वानां तिर्यग्लोकवासिनां व्यन्तराणां नगराणि । तेष्वपि दक्षिणोत्तरदिग्व्यवस्थितेषु द्वौ द्वाविन्द्रौ । तत्र पिशाचानामिन्द्रो कालो महाकालश्च । भूतानां सुरूपः प्रतिरूपश्च । यक्षाणां पूर्णभद्रो माणिभद्रश्च । राक्षसानां भीमो महाभीमश्च । किन्नराणां किन्नरः किंपुरुषश्च । किंपुरुषाणां सत्पुरुषो महापुरुषश्च । महोरगाणामतिकायो महाकायश्च । गन्धर्वाणां गीतरतिर्गीतयशाश्च । - रत्नप्रभायामेव प्रथमस्य शतस्याध उपरि च दश दश योजनानि मुक्त्वा मध्येऽशीतौ योजनेषु अणपन्निपणपन्निप्रभृतयस्तथैव दक्षिणोत्तरव्यवस्थिता अष्टौ व्यन्तरनिकायाः, तथैव द्वौ द्वाविन्द्रौ ।
तथा रत्नप्रभायाः पृथिव्याः समतलादुपरि सप्तसु नवत्यधिकेषु योजनशतेषु ज्योतिषामधस्तलप्रदेशः, तदुपरि दशयोजनेषु सूर्यः, तदुपर्यशीतियोजनेषु चन्द्रः, तदुपरि विंशतियोजनेषु तारा ग्रहाश्च । एवमयं ज्योतिर्लोको दशोत्तरं योजनशतं बाहन्येन । एकादशभिर्योजनशतैरेकविंशत्युत्तरैर्जम्बूद्वीपकमेरुमस्पृशन् सर्वासु दिक्षु मण्डलिकया व्यवस्थितं ज्योतिश्चक्रं ध्रुववर्ज भ्राम्यति, लोकान्तं च एकादशभिर्योजनशतेरेकादशोत्तरैरस्पृशन् मण्डलिकया तिष्ठति, यदाह;
एक्कारसेकवीसा सयमेक्काराहिया य एक्कारा । मेरु अलोगा बाहं जोइसचकं चरइ ठाइ ॥१॥ अत्र सर्वोपरि किल स्वातिनक्षत्रम , सर्वेषामधो भरणिनक्षत्रम् , सर्वदक्षिणो मूलः, सर्वोत्तरश्चाभीचिः । तत्र (१) एकादशैकविंशतिः शतान्येकादशाधिकाश्चैकादश । मेरु-अलोकाम्या बहियोतिश्चक्रं चरति तिष्ठति ॥१॥
JainEducation inter
For Personal & Private Use Only
Page #664
--------------------------------------------------------------------------
________________
योगशास्त्रम्
चतुर्थः प्रकाशः।
॥३२३॥
जम्बूद्वीपे द्वौ चन्द्रौ द्वौ सूर्यो । लवणसमुद्रे चत्वारश्चन्द्राः सूर्याश्च । धातकीखण्डे द्वादश चन्द्राः सूर्याश्च । कालोदे द्विचत्वारिंशचन्द्रा सूर्याश्च । पुष्करवरार्धे द्वासप्ततिश्चन्द्राः सूर्याश्च । इत्येवं मनुष्यलोके द्वात्रिंशं चन्द्रशतं सूर्यशतं च भवति । अष्टाशीतिग्रहाः, अष्टाविंशतिर्नचत्राणि, षदषष्टिः सहस्राणि नव शताति पञ्चसप्तत्यधिकानि तारकाकोटिकोटीनामेकैकस्य चन्द्रमसः परिग्रहः । तत्र एकषष्टिभागीकृतस्य योजनस्य षट्पश्चाशद्भागा आयामविष्कम्भाभ्यां चन्द्रविमानं, अष्टचत्वारिंशत् ( भागाः) सूर्यविमान. ग्रहाणामधयोजन, नक्षत्राणां गव्यूतं, आयुषा सर्वोत्कृटायास्ताराया अर्धक्रोशः, सर्वजघन्यायाः पञ्च धनुःशतानि, बाहल्यं तु सर्वेषामायामार्थेन । एते च पञ्चचत्वारिंशवक्षयोजनप्रमिते मनुष्यक्षेत्रे भवन्ति । चन्द्रादिविमानवाहनानि च पुरतः सिंहाः, दक्षिणतो गजाः, अपरतो वृषभाः, उत्तरतोऽश्वाः । ते चाभियोगिका देवाश्चन्द्रसूर्ययोः षोडश सहस्राणि, ग्रहाणामष्टी, नक्षत्राणां चत्वारि, तारकाणां द्वे, खरसप्रवृत्तगतीनामपि चन्द्रादीनामाभियोग्यकर्मवशात्तत्रोपतिष्ठन्ति । मानुषोत्तरात् परतः पञ्चाशता योजनसहौः परस्परमन्तरिताः सूर्यान्तरिताश्चन्द्राः चन्द्रान्तरिताः सूर्याः मनुष्यक्षेत्रीयचन्द्रसूर्यप्रमाणादर्धप्रमाणा | यथोत्तरं क्षेत्रपरिधिवृध्ध्या संख्यया वर्धमानाः शुभलेश्या ग्रहनक्षत्रतारापरिवारा घण्टाकारा असंख्येया श्रा स्वयंभूरमणालक्षयोजनान्तरिताभिः पङ्क्तिभिस्तिष्ठन्ति । मध्यलोके तु जम्बूद्वीपलवणादयः शुभनामानो द्वीपसमुद्रा असख्याता द्विगुणद्विगुणविस्ताराः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः। अन्त्यः स्वयंभूरमणः समुद्रः॥
जम्बूद्वीपमध्ये मेरुः काञ्चनस्थालमिव वृत्तो योजनसहस्रमधो धरणितलमवगाढो, नवनवतियोजनसहस्रोच्छितो, दश योजनसहस्राणि सातिरेकनवत्यधिकानि कन्दे विस्तृतो, धरणितले दश योजनसहस्राणि विस्तृतः, उपरि
For Personal & Private Use Only
तः, उपरि
॥३२३॥
Jain Educationa l
Page #665
--------------------------------------------------------------------------
________________
योजनसहस्रं विस्तृतः, त्रिकाण्डः, त्रिलोकप्रविभक्तमंतिः, चतुर्विनैर्भद्रशालनन्दनसौमनसपाण्डकैः परिवृतः । तत्र शुद्धपृथिव्युपलवज्रशर्कराबहुलं योजनसहस्रमेकं प्रथमं काण्डं, द्वितीयं त्रिषष्टिर्योजनसहस्राणि रजतजातरूपाङ्कस्फटिकबहुलं, तृतीयं षट्त्रिंशद्योजनसहस्राणि जाम्बूनदबहुलं. वैडूर्यबहुलाऽस्य चूलिका चत्वारिंशद्योजनानि उच्छायेण, मुले द्वादश विष्कम्भेण, मध्येऽष्टौ, उपरि चत्वारीति । मेरोर्मूलभूमौ वलयाकृति भद्रशालवनं । भद्रशालवनात पश्चभ्यो योजनशतेभ्य ऊर्ध्व पञ्चयोजनशतविस्तारं मेखलायां वलयाकृति नन्दनवनं, ततः सार्धद्विषष्ठियोजनसहस्रेभ्य ऊर्ध्व द्वितीयमेखलायां पञ्चयोजनशतविस्तारं वलयाकृति सौमनसं वनं. ततोऽपि षटत्रिंशद्योजनसहस्रेभ्य ऊर्ध्वं तृतीयमेखलायां चतुर्नवत्यधिकचतुर्योजनशतविस्तारं वलयाकृति मेरोः शिरसि पाण्डकवनम् ॥
तत्र जम्बूद्वीपे सप्त वर्षाणि । तत्र दक्षिणतो भरतक्षेत्रं, तदुत्तरतो हैमवतं, ततोऽपि हरिवर्ष, ततोऽपि विदेहाः, ततोऽपि रम्यकक्षेत्रं, ततोऽपि हैरण्यवतं. ततोऽप्यैरावतमिति । क्षेत्रविभागकारिणस्तु हिमवन्महाहिमवभिषधनीलरुक्मिशिखरिणो वर्षधरपर्वताः, ते च यथाक्रमं हेमार्जुनतपन यवैडूर्यरजततपनीयमया मणि विचित्रपार्था मृलोपरि तुन्यविस्ताराः । तत्र पञ्चविंशतियोजनान्यवगाढो योजनशतोच्छायो हिमवान् , तद्विगुणो महाहिमवान्, तद्विगुणो निषधः, तत्समो नीलः, महाहिमवत्समो रुक्मी, हिमवत्समः शिखरी । तदुपरि पद्ममहापद्मतिगिच्छिकेशरिमहापुण्डरीकपुण्डरीका इदाः । योजनसहस्रायामस्तदर्धेविस्तीर्णः प्रथमः, तद्विगुणद्विगुणायामविस्तारौ परौ, उत्तरे पुण्डरीकादयो दक्षिणतुन्याः । सर्वेष्वपि च पद्मानि दशयोजनावगाहानि । तनिवासिन्यः क्रमेण श्रीहीधृतिकी-|
(१) अधोलोके १०० | तिर्यग्लोके १८००। ऊर्ध्वलोके ९८१००॥
in Education Inter
For Personal & Private Use Only
Page #666
--------------------------------------------------------------------------
________________
चतुर्थः प्रकाशा
योग- भर्तिबुद्धिलक्ष्म्यः पन्योपमस्थितयः सामानिकपारिषद्यात्मरक्षानीकपरिवृताः। शास्त्रम्
तत्र भरते गङ्गासिन्धु महानद्यौ, हैमवते रोहितांशारोहिते, हरिवर्षे हरिकान्ताहरिते, महाविदेहे शीताशीतोदे,
रम्यके नारीनरकान्ते, हैरण्यवते सुवर्णकूलारूप्यकुले, ऐरवते रकारक्तोदे । प्रथमाः पूर्वगाः, द्वितीयाः पश्चिमगाः । ॥३२४॥
तत्र चतुदर्शनदीमहस्रपरिवृते प्रत्येकं गङ्गासिन्धू । यथोत्तरं द्विगुणनदीपरिवृते द्वे द्वे नद्यौ शीताशीतोदाभ्यामर्वाक् ते तु प्रत्येक द्वात्रिंशत्सहस्राधिकपश्चलक्षनदीपरिवृते । उत्तरास्तु दक्षिणाभिस्तुल्याः।
तत्र भरतक्षेत्रं विष्कम्भतः पञ्चयोजनशतानि षड्विंशानि एकोनविंशतिभागीकृतस्य योजनस्य षड् भागाः, तद्विगुणविष्कम्भा यथोत्तरं वर्षधरवर्षा विदेहान्ताः । उत्तरा दक्षिणतुल्याः। | विदेहेषु निषधस्योत्तरतो मेरोदक्षिणतो विद्युत्प्रभसौमनसाभ्यां पश्चिमपूर्वाभ्यां निषधमेवान्तर्वर्तिभ्यां गजदन्ताकृतिभ्यां पर्वताभ्यामावृताः शीतोदानदीभिन्नदपञ्चकोभयपार्श्वव्यवस्थितैर्दशभिर्दशभिः काञ्चनपर्वतैर्विराजिताः शीतोदानदीपूर्वापरकूलस्थिताभ्यां योजनसहस्रोच्चाभ्यां तावदधोविस्तृताभ्यां तदोपरिविस्तृताभ्यां च विचित्रकूटचित्रकूटाभ्यां शोभिताश्च देवकुरवः विष्कम्भेणकादशयोजनसहस्राणि अष्टौ शतानि द्विचत्वारिंशदधिकानि । मेरोरुत्तरतो नीलाद्दचिणतो गन्धमादनमान्यवत्पर्वताभ्यां गजदन्ताकृतिभ्यां मेरुनीलान्तरस्थाभ्यामावृताः शीतानदी. विभिन्नहदपञ्चकोभयपार्थस्थितकाञ्चनपर्वतशतेन शीतानद्युभयकूलस्थाभ्यां काञ्चनाभ्यां यमकपर्वताभ्यां विचित्रकूटचित्रकूटमानाभ्यां च विराजिता उत्तराः कुरवः ।
देवकुरूत्तरकुरुभ्यः पूर्वतः पूर्वविदेहाः, पश्चिमतोऽपरविदेहाः। पूर्वविदेहेषु चक्रवर्तिविजेतव्या नदीपर्वतविभक्ताः
॥३२४॥
Lain Education inte
For Personal & Private Use Only
Page #667
--------------------------------------------------------------------------
________________
परस्परमगम्याः षोडश विजयाः, एवमपरविदेहेष्वपि ।
भरतक्षेत्रमध्ये च पूर्वापरायत उभयतः समुद्रमवगाढो दक्षिणोत्तरार्धविभागकारी तमिस्राखण्डप्रपातागुहाद्वयोपशोभितः षड् योजनानि सक्रोशानि धरणितलमवगाढः पञ्चाशद्योजनविस्तृतः पञ्चविंशतियोजनोच्छ्रितो वैताढ्यपर्वतः । अत्र च दक्षिणोत्तरपार्थास्यां भूमितो दशयोजनेभ्य ऊर्ध्व दशयोजनविस्तृते विद्याधरश्रेण्यौ । तत्र दक्षिणस्यां सजनपदानि पञ्चाशनगराणि, उत्तरस्यां तु षष्टिः । विद्याधरश्रेणिभ्यामूर्धमुभयतो दशयोजनान्ते व्यन्तरश्रेण्यौ, तयोर्व्यन्तरावासाः । व्यन्तरश्रेण्योरुपरि पञ्चसु योजनेषु नव कूटानि । वैताट्यवक्तव्यता ऐरावतक्षेत्रेऽपि समाना वक्तव्या ॥ ___जम्बूद्वीपस्य च प्राकारभूता वज्रमयी अष्टयोजनोच्छ्राया जगती, द्वादश योजनान्यस्या मृले विष्कम्भः, मध्येऽष्टौ योजनानि, उपरि चत्वारि योजनानि, तदुपरि द्विगव्यूत्युच्छ्रायो जालकटको विद्याधरक्रीडास्थानम् । तस्याप्युपरि पावरवेदिका देवभोगभूमिः । अस्याश्च जगत्याः पूर्वादिषु दिक्षु विजयवैजयन्तजयन्तापराजिताख्यानि चत्वारि द्वाराणि, हिमवन्महाहिमवतारन्तरे शब्दापाती नाम वृत्तवैताढ्यपर्वतः । रुक्मिशिखरिणोर्मध्ये विकटापाती । महाहिमवनिषधयोरन्तरे गन्धापाती । नीलरुक्मिणोरन्तरे माल्यवान् । सर्वेऽपि योजनसहस्रोच्छायाः पन्याकृतयः॥
तथा जम्बूद्वीपपरिक्षेपी तद्विगुणविस्तारो (मध्ये दशयोजनसहरी) योजनसहस्रावगाढो मात्रया पश्चनवति१ तिर्यग्ज़ुभकानां.
in Education Interna
For Personal & Private Use Only
Page #668
--------------------------------------------------------------------------
________________
योगशाखम्
प्रकाशः।
॥३२५॥
योजनसहस्राणि यावदुभयत उच्छ्यण ( सप्तशतयोजन ) प्रवर्धमानजलो मध्ये दशसहस्रविस्तारे षोडशयोजनसहस्रोच्छ्यशिखरः तदुपरिकालद्वयेऽपि गव्यूतद्वितयं यावत हासवृद्धिमान् लवणोदः समुद्रः । तत्र मध्ये चतुर्दिशं योजनलक्षप्रमाणोः प्राक्क्रमात् वडवामुखकेयरपूपकईश्वराख्याः सहस्र ( योजन) वज्रमयकुड्या दशयोजनसहस्राण्यधो मुखे च विस्तृताः कालमहाकालवेलम्बप्रभञ्जनसुरावासा वायुधृतत्रिभागजला महालिञ्जराकृतयः पातालकलशाः । क्षुल्लकाश्चान्ये साहस्राः अधो मुखे च शत्याः, दशयोजनकुड्याः, वायून्नामितमध्यमिश्रोपरिजलाः चतुरशीत्यीधकाष्टशतान्वितसप्तसहस्रसङ्ख्याः (७८८४) तथा द्विचत्वारिंशत्सहस्रसङ्ख्या (४२०००) नागकुमारा अन्तर्वेलाधारिणः, द्विसप्ततिसहस्राणि (७२०००) बाह्यवेलाधारिणः, षष्टिसहखाणि (६००००) शिखावेलाधारिणः । गोस्तूपोदकामासशसोदकसीमानो वेलाधारीन्द्रगिरयः कनकाङ्करजतस्फटिकमया गोस्तूपशिवकशङ्खमनःशिलावासाः द्विचत्वारिंशद्योजनसहस्रेषु दिश्याः एकविंशसप्तदशयोजनशतोच्चाः (१७२१), अधो द्वाविंशत्यधिकयोजनसहस्रविस्ताराः (१०२२), उपरि चतुर्विंशचतुःशतयोजनाः (४२४ ), तदुपरि प्रासादाः । कर्कोटककार्दमकैलासारुणप्रभा अणुवेलाधारीन्द्रगिरयः सर्वरत्नमयाः कर्कोटविद्युझिहकैलासारुणप्रभावासाः। तथा विदिक्षु द्वादशयोजनसहस्रेषु प्राच्यामिन्दुद्वीपौ तावद्विस्तारायामौ तावत्परेण सवित्रोः। तथा गौतमद्वीपः सुस्थितावासस्तावति । तथा अन्तर्बाह्यलावणिकचन्द्रसूर्याणां (द्वीपाः) सर्वेषु च प्रासादाः, लवणो लवणरसः ।। __ लवणोदधिपरिक्षेपी तद्विगुणो धातकीखण्डः । य एते मेरुवर्षधरवर्षादयो जम्बूद्वीपेभिहिता एते द्विगुणा
(१) उच्चत्वे विस्तारे च । (२) महागाकाराः । उच्चत्वे विस्तारे च सहस्रम् । (३) वेलंधरपर्वताः (४) जम्बूद्वीपजगत्याः।।
Jain Education Intel
For Personal & Private Use Only
4
Page #669
--------------------------------------------------------------------------
________________
धातकीखण्डे द्वाभ्यामिषुकारपर्वताभ्यां दक्षिणोत्तरायताभ्यां विभक्ताः, एभिरेव नामभिर्जम्बूद्वीपकसमसङ्ख्याः , पूर्वार्धे चापरार्धे च चक्रारसंस्थिता (जबूद्वीपसंबन्धि) निषधादिसमोच्छ्रायाः कालोदधिलवणजलस्पर्शिनो वर्षधराः सेवाकारपर्वताः, अरविवरसंस्थिताश्च वर्षा इति ।
धातकीखण्डपरिक्षेपी अष्टयोजनलक्षविष्कम्भः कालोदः समुद्रः॥
कालोदपरिक्षेपी तद्विगुणविस्तारः पुष्करवरद्वीपः, तदर्घ यावन्मानुषं क्षेत्रं । यश्च धातकीखण्डे मेर्वादीनां सेष्वाकारपर्वतानां सङख्याविषयनियमः स एव पुष्करार्धे वेदितव्यः, धातकीखण्डक्षेत्रादिविभागतो द्विगुण*त्रादिविभागश्च । धातकीखण्डपुष्करार्धयोश्च क्षुद्रमेरवश्चत्वारोऽपि महामेरोः पञ्चदशभिर्योजनसहस्रहीनोच्छ्रायाः (८५०००) षड्भिर्योजनशतैर्धरणितले हीनविष्कम्भाः , तेषां प्रथमं काण्डं महामेरुतुल्यं (१०००), द्वितीयं सप्तभिर्योजनसहस्रहीनं (५६०००), तृतीयमष्टाभिः (२८०००), भद्रशालनन्दनवने महामेरुवत् सार्धपश्चपञ्चाशयोजनसहस्रोपरि पञ्चयोजनशतविस्तृत सौमनसं, ततोऽष्टाविंशतियोजनसहस्रोपरि चतुर्णवत्यधिकचतुर्योजनशतविस्तृतं पाण्डकवनम् , उपरि चाधश्च विष्कम्भोऽवगाहश्च (१०००-१००००-१०००) तुल्यो महामेरुणा, चूलिका चेति ॥
तदेवं मानुषं क्षेत्रमर्धतृतीया द्वीपाः, समुद्रद्वयं, पञ्च मेरवः, पञ्चत्रिंशत्क्षेत्राणि, त्रिंशद्वर्षधरपर्वताः, पञ्च देवकुरवः, पञ्चोत्तराः कुरवः, शतं षष्टयधिकं विजयानामिति ।।
ततः परं मानुषोत्तरो नाम पर्वतो मानुषलोकपरिक्षेपी महानगरप्राकारवृत्तः पुष्करवरद्वीपार्धविनिविष्टः काञ्च
JanEducation
For Personal & Private Use Only
Page #670
--------------------------------------------------------------------------
________________
योगशास्त्रम्
चतुर्थः
प्रकाशः।
* नमयः सप्तदशयोजनशतान्येकविंशान्युच्छ्रितः चत्वारि योजनशतानि त्रिंशानि क्रोशं चाधो धरणितलमवगाढो,
योजनसहस्रं द्वाविंशमधस्ताद्विस्तृतः, सप्त योजनशनानि त्रयोविंशानि मध्ये, चत्वारि योजनशतानि चतुर्विशान्यु
परीति । न कदाचिदमात्परतो मनुष्या जायन्ते वा म्रियन्ते वा। येऽपि चारण विद्याधरर्द्धिप्राप्ता मनुष्यास्तमुलध्य ॥३२६ ॥
परतो गतास्तेऽपि तत्र न म्रियन्ते, अत एव मानुषोत्तर इत्युच्यते । न च तत्परतो बादराग्निमेघविद्युनदीकाल
परिवेषादयः । मानुषोत्तरादाक् पुनः पञ्चविंशति क्षेत्रेषु सान्तरद्वीपेषु जन्मतो मनुष्या भवन्ति, संहरणविद्यार्द्धII योगात्तु सर्वेष्वर्धतृतीयेषु द्वीपेषु समेवोदिशिखरेषु समुद्रद्वये चेति ॥
भारतका हैमवतका इत्येवमादयः क्षेत्रविभागेन. जम्बूद्वीपका लवणका इत्यादयो द्वीपसमुद्रविभागेन मनुष्या इति । ते च द्विविधा आर्या म्लेच्छाश्च । तत्रार्याः सार्धपञ्चविंशतिजनपदप्रभवाः । जनपदास्तु विशिष्टनगरोपलक्षिता इमे, तद्यथा--
रायगिह मगह १ चंपा अंगा२ तह तामलित्ति वंगा३ य । कंचणपुरं कलिंगा ४ वाणारसी चेव कासी ५अ॥१॥ साकेय कोसला ६ गयपुरं च कुरु ७ सोरिअं कुसट्टायमा कंपिल्लं पंचाला ह अहिछत्ता जंगला १० चेव ॥२॥ (१) जंघाचारणबिधाचारणाः ।। १ राजगृहं मगधाः १ चंपा अङ्गा २ स्तथा तामलिप्तिर्वङ्गाश्च ३ । काञ्चनपुरं कलिङ्गा ४ वाणारसी चेव काशी ५ च ॥१॥ साकेतं कोशला ६ गजपुरं च कुरवः ७ शौर्य कुशार्ताश्च ८ । काम्पील्यं पञ्चाला ६ अहिच्छत्रा जाङ्गलाश्चैव १० ॥२॥
For Personal Private Use Only
॥३२६ ॥
JanEducation intell
ww
Page #671
--------------------------------------------------------------------------
________________
चारवई असुरट्ठा ११ मिहिलविदेहा १२ अवच्छ कोसंबी। नंदिपुरं सडिल्ला १४ भदिलपुरमेव मलया १५ य ॥३॥ वइराड मच्छ १६ वरणा अच्छा १७ तह मत्तियावइ दसमा १८ । सुत्तीमई य चेदी १६ वीअभयं सिंधुसोवीरा २०॥४॥ महुरा य सूरसेणा २१ पावा मंगा २२ अ मास पुरिवट्टा २३। सावत्थी अकुणाला २४ कोडीवरिसंचलाढा २५ य ॥५॥ सेयविया वि य नयरी केअयअद्धं २६ च आरिअं भणिअं । जत्थोप्पत्ति जिणाणं चक्कीणं रामकण्हाणं ॥६॥
शकयवनादयस्तु म्लेच्छाः । तद्यथा(२) सगजवणसबरबब्बरकायसुझंडुडगोणपक्कणया । अरवागहूणरोमसपारसखसखासिया चेव ।।१॥ डुम्बिल अलउस बुक्कस भिबंध पुलिंद कुंच भमररुया । कापो चीण चंचु अमालव दविडा कुलत्था(क्खा)य ॥२॥
केकय किराय हयमुह खरमुहगयतुरगमेंढपमुहा य । हयकामा गयकामा अम्ले वि अणारिआ बहवे ॥३॥ (१) द्वारवती च सुराष्ट्रा ११ मिथिला विदेहाश्च १२ वत्साः कौशाम्बी १३ । नन्दीपुरं शांडिल्या १४ भद्दिलपुरमेव मलयाश्च १५||३|| विराटः मत्स्या १६ वरुणा अच्छाः १७ तथा मृत्तिकावती दशार्णाः १८ शुक्तिमती चचेदयः १९ वीतभयं सिन्धुसौवीराः २०॥४॥
मथुरा च च शूरसेनाः २१ पापा भङ्गाश्च २२ माषपुरी वर्ताः २३ । श्रावस्तिश्च कुणालाः २४ कोटिवर्ष चलाढाश्च २५ ॥५॥ श्वेतम्बिकाऽपि च नगरी कैकेयार्घ २६ चार्या भणिताः । यत्रोत्पत्तिर्जिनानां चक्रिणां रामकृष्णानाम् ॥ ६ ॥ (२) शकयवनशबरकायमुरुण्डोडगोणपक्वणकाः । आख्यानकहूणरोमशपारसखसकौशिकाश्चैव ॥ १॥ दुम्बलिश्च लकुशबुक्कपभिल्लान्ध्रपुलिन्द्रक्रौंचभ्रमररुचयः । कापोतचीनचंचुकमालबद्रविडकुलार्था ख्या)श्च ॥ २॥ कैकेयकिरातहयमुखखरमुखगजतुरगमिंढप्रमुखाश्च । हयकर्णा गजकर्णा अन्येऽप्यनार्या बहवः ॥ ३ ॥
Jain Education intermal
For Personal & Private Use Only
Page #672
--------------------------------------------------------------------------
________________
चतुर्थः । प्रकाश
योगशास्त्रम् ॥३२७॥
पावा य चंडकम्मा अपारिया निग्घिणा निरणुतावा । धम्मो त्ति अक्सराई सुविणे वि न नज्जए ताण ॥४॥
तथाऽन्तरद्वीपजा अपि म्लेच्छाः।अन्तरद्वीपाश्च षट्पञ्चाशत् । तद्यथा-हिमवतःप्राग्भागे पश्चाद्भागे च विदिक्षु पूर्वोत्तरादिकासु चतसृषु त्रीणि योजनशतानि लवण जलधिमवगाह्य पूर्वोत्तरस्यां दिशि योजनशतत्रयायामविष्कम्भः प्रथमोऽन्तरद्वीपः एकोरुकाभिधानः स्थितः, स चैकोरुकपुरुषाणामधिवासः, द्वीपनामतश्च पुरुषनामानि, पुरुषास्तु सर्वाङ्गोपाङ्गसुन्दरा नैकोरुका एव, एवं शेषा अपि । दक्षिणपूर्वस्यां त्रीणि योजनशतानि लवणजलधिमवगाह्य योजनत्रिशतायामविष्कम्भ आभाषिकपुरुषाधिवासः प्रथम आभाषिकोऽन्तरद्वीपः । तथा दक्षिणापरस्यां त्रीणि योजनशतानि लवणजलधिमवगाह्य योजनत्रिशतायामविष्कम्भो लाङ्गलिकमनुष्यावासो लागृलकाभिधानः प्रथमोऽन्तरद्वीपः । तथोत्तरापरस्यां त्रीणि योजनशतानि लवणजलधिमवगाह्य योजनत्रिशतायामविष्कम्भो वैषाणिकमनुष्यावासो वैशाणिकाभिधानः प्रथमोऽन्तरद्वीपः ।।
ततश्चत्वारि योजनशतान्यवगाह्य चतुर्योजनशतायामविष्कम्भा एवमेव हयकर्णानां गजकर्णानां गोकण शकुलिकर्णानां चत्वारोऽन्तरद्वीपाः ॥ ततः पञ्च योजनशतान्यवगाह्य पश्चयोजनशतायामविष्कम्भा आदर्शमुखानां मेषमुखानां हयमुखानां गजमुखानामन्तरद्वीपाः ॥ ततः षड् योजनशतान्यवगाह्य तावदायामविष्कम्भा अश्वमुखानां हस्तिमुखानां सिंहमुखानां व्याघ्रमुखाणामन्तरद्वीपाः ॥ ततः सप्त योजनशतान्यवगाह्य तावदायामविष्कम्भा अश्व
(१) पापाश्च चण्डकर्माणोऽनार्या निघृणा निरनुतापाः । धर्म इत्यक्षराणि स्वप्नेऽपि न ज्ञायन्ते तेषाम् ॥ ४ ॥
॥ ३२७॥
in Education inte
For Personal & Private Use Only
Page #673
--------------------------------------------------------------------------
________________
कर्णानां सिंहकर्णानां हस्तिकर्णानां कर्णप्रावरणानामन्तरद्वीपाः॥ ततोऽष्टौ योजनशतान्यवगाह्य तावदायामविष्कम्भा उन्कामुखानां विद्युजिह्वानां मेषमुखाणां विद्युद्दन्तानामन्तरद्वीपाः ॥ ततो नव योजनशतान्यवगाय तावदायामविष्कम्भा घनदन्तानां गूढदन्तानां श्रेष्ठदन्तानां शुद्धदन्तानामन्तरद्वीपाः । एतेषु च मनुष्या युग्मप्रसवाः पन्योपमासङ्ख्येयभागायुषोऽष्टधनुःशतोच्चा भवन्ति । तथैरावतक्षेत्रविभागकारिणः शिखरिणोऽपि पूर्वोत्तरादिविदिक्षु अमुनैव क्रमेण नामकलापेन चान्तरद्वीपकानामष्टाविंशतिर्भवति, मिलिताः षट्पञ्चाशदन्तरद्वीपका भवन्ति।।
मानुषोत्तरात्परतस्तु पुष्करवरद्वीपस्य द्वितीयमधं । पुष्करवरद्वीपात् परतस्तत्परिक्षेपी द्वीपद्विगुणविस्तारः पुष्करोदः समुद्रः । ततो वारुणिवरद्वीपसमुद्रौ, क्षीरवरद्वीपसमुद्रौ, घृतवरद्वीपसमुद्रौ, इक्षुवरद्वीपसमुद्रौ च भवतः । अष्टमो नन्दीश्वरद्वीपः, स च चतुरशीतिलक्षोपेतत्रिषष्टिकोट्यधिकयोजनकोटिशतप्रमाणवलयविष्कम्भो विविधविन्यासोद्यानवान् देवलोकप्रतिस्पर्धी जिनेन्द्रपूजाव्यापृतदेवसंपातातिरुचिरःस्वेच्छाविविधक्रियादेवसंभोगरम्यः । तत्र तस्य मध्यभागे चतुसृषु दिक्षु चत्वारोऽञ्जनगिरयोऽञ्जनवर्णा बाह्यमेरुसमुच्छाया (८४००० योजन ) दशयोजन
सहस्रातिरिक्तविस्तारा मूले, उपरि साहस्राः। ते च क्रमाद्देवरमणनित्योद्योतस्वयंप्रभरमणीयनामानः । तेषु जिनाal यतनानि योजनशतायामानि तदर्धविस्ताराणि द्विसप्ततियोजनोच्चानि । तत्र षोडशयोजनोच्चानि अष्टयोजनविस्ता
राणि अष्टयोजनप्रवेशानि देवासुरनागसुपर्णाख्यामरनिवासानि तन्नामानि च चत्वारि द्वाराणि, तन्मध्ये माणपीठिकाः षोडशयोजनायामविस्तारा अष्टयोजनोत्सेधाः तदुपरि देवच्छन्दकाः साधिकायामोच्चकाः, तेषु प्रत्येकमृ
(१) मूमौ दशयोजनसहस्रविस्ताराः इत्यपि ज्ञेयम्. (२) सहस्रयोजनविस्तारा इत्यर्थः ।
Jain Education inter
For Personal & Private Use Only
Page #674
--------------------------------------------------------------------------
________________
योग
चतर्षः प्रकाशः।
शास्त्रम्
॥ ३२८॥
षमावर्धमानावारिषेणाचन्द्राननाभिख्यानां शाश्वतजिनप्रतिमानां पर्यकनिषमानां स्वपरिवारवृतानामष्टोत्तरं शतं । प्रतिप्रतिमं च द्वे नागप्रतिमे यक्षप्रतिमे भूतप्रतिमे कुण्डधरप्रतिमे चामरधरप्रतिमे च भवतः, पृष्ठतछत्रधरप्रतिमैका । तानि च दामघण्टाधूपघटिकाऽष्टमङ्गलकतोरणध्वजपुष्पचङ्गेरिकापटलच्छवासनादिमन्ति तपनीयरुचिररजोवालुकाप्रस्तृतानि षोडशपूर्णकलशादिभूषितानि आयतनमानमुखमण्डपप्रेक्षामण्डपाक्षवाटकमाणिपीठिकास्तूपप्रतिमाचैत्यवृक्षेन्द्रध्वजपुष्करिणीक्रमरचनानि ।
अञ्जनगिरीणां चतुसृषु दिक्षु प्रत्येकं लक्षयोजनमानाः पुष्करिण्यः, तद्यथा-नन्दिषेणा, अमोघा, गोस्तुपा, सुदर्शना । नन्दोत्तरा, नन्दा, सुनन्दा, नन्दिवर्धना । भद्रा, विशाला, कुमुदा, पुण्डरीकिणी । विजया, वैजयन्ती, जयन्ती, अपराजिता । प्राक्क्रमाद्ण्याः । तासां च प्रत्येकं पञ्चयोजनशत्याः परतो लक्षयोजनायामानि पञ्चयोजनशतीपृथूनि अशोकसप्तच्छदचम्पकचूताभिधानान्युद्यानानि । वापीनां च मध्ये स्फाटिका दधिमुखा ललामवेदिकोद्यानादिलाञ्छनाश्चतुःपष्टियोजनसहस्रोचा योजनसहस्रमवगाढा दशयोजनसहस्राधोविस्तृताः तावदुपरि, पल्याकृतयः । केचित्तु पुष्करिणीनामन्तरे द्वौ द्वौ रतिकरपर्वतावाहुः। ते च द्वात्रिंशद्भवन्ति । दधिमुखेषु रतिकरेषु चाञ्जनवदायतनानि । द्वीपविदिक्षु रतिकराश्चत्वारो दशयोजनसहस्रायामविष्कम्भा योजनसहस्रोच्चाः सर्वरत्नमया झल्लयोंकृतयः। तत्र दक्षिणयोः शक्रस्य उत्तरयोरीशानस्य अष्टाष्टानां महादेवीनां योजनशतसहस्राबाधस्थाना दिक्षु जम्बूद्वीपसमाःप्रत्येकं जिनायतनभूषिता अष्टाष्ट राजधान्यः सुजाता सौमनसा अर्चिाली प्रभाकरा पद्मा शिवा शुचिरजना भूता भूतावतंसा गोस्तूपा सुदर्शना अमला अप्सरा रोहिणी नवमी चेति । तथा रत्ना रत्नोच्चया सर्वरत्ना
For Personal & Private Use Only
॥३२८॥
Education inte
Page #675
--------------------------------------------------------------------------
________________
PAHIनानि, रतिकरेषु द्वात्रिंशत् ।
यो गाथाः-
....
लिमिर सुरोहो ॥१॥
रत्नसंचया वसुः वसुमित्रा वसुभागा वसुंधरा नन्दोत्तरा नन्दा उत्तरकुरु देवकुरु कृष्णा कृष्णराजिः रामा रामरक्षिता चेति प्रागदक्षिणाक्रमात । तत्र देवाः सर्वसम्पद्वन्तः स (स्व) परिवारानुगताः पुण्यतिथिषु सुरासुरविद्याधरादिपूज्यानां जिनानामायतनेषु प्रमुदितमनसोऽष्टाहिकीपूजाः कुर्वन्ति । इह चाञ्जनेषु (४) दधिमुखेषु (१६) च विंशतिर्जिनायतनानि, रतिकरेषु द्वात्रिंशत् । एवं गिरिशिखरेषु द्विपश्चाशत् राजधानी" (च) द्वात्रिंशज्जिनायतनानि, केचित्तु षोडश मन्यन्ते । एतदर्थसंवादिन्यो गाथा:
जोयण कोडि सय तिसट्ट चउरासीलक्खवलयविक्खंभो। अट्ठमदीवो नंदीसरोत्थि सइ विलासर सुरोहो ॥१॥ तत्थ मज्झे चउरो दिसासु अंजनगिरी गवलवन्ना। जोयणसहस्स चुलसीइ मृसिया सहसमवगाढा ॥ २॥ भूमितले दससहसा (१००००) चउनउइ सया (६४००) य सहसमुवरितले (१०००)। पिहला अडवीसंसत्तिगं
(३८) दसंसो य खयवुड्डी ॥३॥ पुम्वदिसि देवरमणो निच्चुजोओ अदाहिणदिसाए । अवरदिसाए सयंपभ रमणिजो उत्तरे पासे ॥४॥ (१) योजनकोटिशतत्रिषष्टिचतुरशीतिलक्षवलयविष्कम्भः । अष्टमद्वीपो नन्दीश्वरोऽस्ति सदा विलसितसुरौघः ॥ १॥
तत्र मध्ये चत्वारो दिक्षु अञ्जनगिरयो गवल(महिषशृङ्ग)वर्णाः । योजनसहस्रचतुरशीतिमुच्छिताः सहस्रमवगाढाः।। २ ।। भूमितले दशसहस्राः चतुर्नवतिशतानि च (भूमौ) सहस्रमुपरितले । एथुला अष्टाविंशांशत्रिकं दशांशश्च क्षयवृद्धी ॥३॥ पूर्वदिशि देवरमणो नित्योद्योतश्च दक्षिणदिशि । अपरदिशि स्वयंप्रभो रमणीय उत्तरे पार्थे ॥ ४ ॥
in Education Inter
For Personal & Private Use Only
Page #676
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
॥३२६ ॥
Jain Education Int
(7-1) + (0. +
--*********
"अंजणयाण चउदिसिं जोयण लक्खम्मि लक्खविक्खंभा । पुक्खरिणीउ सहस्सोवेहा निम्मच्छसच्छजला ||५|| नंदिसेणा १ अमोहाय २ गोत्थुभा य ३ सुदंसणा ४ | नंदुत्तरा १ य नंदा २ सुनंदा ३ नंदिवर्द्धणा ४ ॥६॥ भद्दा १ बिसाला २ कुमुया ३ बारसी पुंडरीगिणी ४ । विजया १ वैजयंती २य जयंती ३ अपराजित्रा ४ ॥७॥ पुव्वाइकमा नामा पुक्खरिणीणं तत्र अ पंचसए । गंतूरा लक्खदीहा वणसंडा पंचसयपिहुला ॥ ८ ॥ पुवेण सागवणं दक्खिणओ वा सत्तवन्नवणं । चंपकवणमवरेणुत्तरेण सव्वाण चूअवणं ॥ ६ ॥ पल्लसमा जो अणदससहस्सपिडुला सहस्समोगाढा । चउसट्टिसहस्सुच्चा फलिहमया पुक्खरिणिमज्झे ॥ १० ॥ सोलस दहिमुहगिरिणो अंजणद हिमुहन गोवरितलेसु । जोयण सयदीह तयद्धवित्थडा दुगसयरिमुच्चा ॥ ११ ॥
(१) अञ्जनकानां चतुर्दिक्षु योजनलक्षे लक्षविष्कम्भाः । पुष्करिण्यः सहस्रोद्वेधा निर्मत्स्यस्वच्छ जलाः ॥ ५ ॥ नन्दिषेणा १ अमोघा २ च गोस्तूपा ३ च सुदर्शना ४ । नन्दोत्तरा १ च नन्दा २ सुनन्दा ३ नन्दिवर्धना ४ ॥ ६ ॥ भद्रा १ विशाला २ कुमुदा ३ द्वादशी पुण्डरीकिणी ४ । विजया १ वैजयन्ती च २ जयन्ती ३ अपराजिता ४ || ७॥ पूर्वादिक्रमात् नामानि पुष्करिणीनां ततश्च पञ्चशतम् । गत्वा लक्षदीर्घा वनखण्डाः पञ्चशतष्टथुलाः ॥ ८ ॥ पूर्वेण अशोकवनं दक्षिणतो वा सप्तपर्णवनम् । चम्पकवनमपरेणोत्तरेण सर्वेषां चूतवनम् ॥ ६ ॥ पल्यसमा योजन दशसहस्त्रष्टथुलाः सहस्रमवगाढाः । चतुःषष्टिसहत्रोच्चाः स्फटिकमयाः पुष्करिणीमध्ये ॥ षोडश दधिमुखगिरयः अञ्जनदधिमुखनगोपरितलेषु | योजनशतदीर्घतदर्धविस्तृतानि द्वासप्ततिमुच्चानि ॥
For Personal & Private Use Only
१० ॥
११ ॥
***+त्र
**Q*••****-•
चतुर्थः
प्रकाश:
।। ३२६ ॥
Page #677
--------------------------------------------------------------------------
________________
बहुविविहरूवरूवगविचित्तविच्छित्तिभत्तिसयकलिया। पत्तेयं जिणभवणा तोरणज्झयमंगलाइजुभा ॥१२॥ देवासुरनागसुवमनामगा नामसमसुरारक्खा । दारा सोलट्ठद्दुच्चपिहुपवेसा य चउरेसु ॥ १३ ॥ पइदारं कलसाईमुहमंडवपेच्छमंडवक्खाडा । मणिपीढयभपडिमाचिइतरुज्झयपुक्खरणिो अ॥ १४ ॥ अट्ठच्चसोलसाययपिहुला मणिपीढिया जिणहरंतो । तदुवरि देवच्छंदा रयणमया साहियपमाणा ॥ १५ ।। तत्थुसभवद्धमाणयचंदाणणवारिसेणनामाणं । सासयजिणपडिमाणं पलिअंकनिसम्ममट्ठसयं ॥ १६ ॥ पइपडिम पुरो दो दो नागपडिमजक्खभूयकुंडधरा । दुहरो दो चमरधरा पिढे छत्तधरपडिमेगा ।। १७ ॥
तह घंटाचंदणघडभिंगारायरिसयाइसुपइट्ठा । पुप्फाइणेगचंगेरिपडलछत्तासणाइ इह ॥ १८ ॥ (१) बहुविविधरूपरूपकविचित्रविच्छित्तिभक्तिशतकलितानि । प्रत्येकं जिनभवनानि तोरणध्वजमङ्गलादियुतानि ॥ १२ ॥
देवासुरनागसुपर्णनामकानि नामसमसुरारक्ष्याणि । द्वाराणि षोडशाष्टाष्टोच्चष्टथुप्रवेशानि च चतुर्पु ( भवनेषु ) ॥ १३ ॥ प्रतिहारं कलशादिमुखमण्डपप्रेक्षामण्डपाक्षाटकाः । मणिपीठस्तूपप्रतिमाचैत्यतरुध्वजपुष्करिण्यश्च ॥ १४ ॥ अष्टोच्चा षोडशायतप्टथुला मणिपीठिका जिनगृहान्तः । तदुपरि देवच्छन्दा रत्नमयाः साधिकप्रमाणाः ॥ १५॥ तत्र ऋषभवर्धमानकचन्द्राननवारिषेणनाम्नाम् । शाश्वतजिनप्रतिमानां पल्यङ्कनिषण्णमष्टशतम् (१०८)॥ १६ ॥ प्रतिप्रतिमं पुरो द्वे द्वे नागप्रतिमायक्षभूतकुण्डधराः । उभयतो द्वे चामरधरे पृष्ठे छत्रधरप्रतिमैका ॥ १७ ॥ तथा घण्टाचन्दनघटभृङ्गारादर्शकादिसुप्रतिष्ठाः । पुष्पाद्यनेकचङ्गेरीपटलच्छवासनादि इह ॥ १८ ॥
in Education
For Personal
Private Use Only
Page #678
--------------------------------------------------------------------------
________________
चतुर्थः
योगशास्त्रम् ॥ ३३०॥
प्रकाशः।
इह सुत्तवुत्तमाएसउ दुपुक्खरिणिअंतरे दो दो । रइकरगनगा बत्तीसमेसु पुव्वंव जिणभवणा ॥ १६ ॥ वंदंतनमसंतअभित्थुणंतपूयंतइंतजंतेहिं । खयरसुरेहि अरहिआ पुन्नतिहिं महामहकरेहिं ॥ २० ॥ तह जोयणसहसुच्चा विक्खंभायामसमदससहस्सा । झल्लरिनिभा रइकरा रयणमया विदिसि दीवंतो ॥ २१ ॥ तेसु चउण्ह दिसासु जोयणलक्खम्मि जंबुदीवसमा । अट्ठ रायहाणी सकेसाणग्गमहिसीणं ॥ २२ ॥ विमलमणिसालवलयाण ताण मज्झे पुढो जिणाययणा । जिणपडिमा पुवमिवेह अणुवमपरमरमणिज्जा ।।२३।। इय वीसं बावन्नं च जिणहरे गिरिसिरेसु संथुणिमो । इंदाणिरायहाणिसु बत्तीसं सोलस च वंदे ॥ २४ ॥
नन्दीश्वरद्वीपपरिक्षेपी नन्दीश्वरः समुद्रः । ततः परमरुणो द्वीपः, अरुणोदः समुद्रः। ततोऽरुणवरो द्वीपः, अरुणवरः समुद्रः। ततोऽरुणाभासो द्वीपः, अरुणाभासः समुद्रः। ततः कुण्डलो द्वीपः, कुण्डलोदः समुद्रः । ततो
(१) इह सूत्रोक्तादेशात् द्विपुष्करिण्यन्तरे द्वौ द्वौ । रतिकरकनगौ द्वात्रिंशत् एषु पूर्ववत् जिनभवनानि ॥ १६ ॥
वन्दमाननमस्यदभिस्तुवत्पूजयद्गच्छदागच्छद्भिः । खचरसुरैः अरहिताः पुण्यतिथौ महामहकरैः ॥ २०॥ तथा योजनसहस्रोच्चा विष्कम्भायामसमदशसहस्राः । झल्लरीनिभा रतिकरा रत्नमया विदिक्षु द्वीपस्य(दीप्यमानाः) ॥२१॥ तेषां चतुर्णा दिक्षु योजनलक्षे जम्बूद्वीपसमाः । अष्टाष्ट राजधान्यः शक्रेशानाग्रमहिषीणाम् ॥ २२ ॥ विमलमणिशालवलयानां तासां मध्ये पृथक् जिनायतनानि । जिनप्रतिमाः पूर्ववदिह अनुपमपरमरमणीयाः ॥ २३ ॥ इति विंशतिं द्विपञ्चाशतं च जिनगृहाणि गिरिशिखरेषु संस्तुवीमः । इन्द्राणीराजधानीषु द्वात्रिंशतं षोडश वा वन्दे ॥२४॥
॥३३०॥
Jain Education in
For Personal & Private Use Only
Page #679
--------------------------------------------------------------------------
________________
रुचका द्वापः, रुचकः समुद्रः । एवं प्रशस्तनामानो द्विगुणमाना द्वीपसमुद्राः । अन्त्यः स्वयम्भूरमणः समुद्रः॥
एषां च मध्येऽर्धतृतीयद्वीपेषु भरतैरवतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः। कालोदपुष्करस्वयंभूरमणा उदकरसाः । लवणोदो लवणरसः । वारुणोदश्चित्रपानवान् । क्षीरोदः खण्डादिमिश्रघृतचतुर्भागगोक्षीररसवान् । घृतोदः सुक्यथितसद्योविस्यन्दितगोघृतरसः । शेषाश्चतुर्जातकयुक्तत्रिभागच्छिन्नेक्षुरसवजलाः। लवणकालोदखयंभूरमणा बहुमत्स्यकच्छपाः, नेतरे ॥
तथा जम्बूद्वीपे जघन्येन चत्वारस्तीर्थकतः चक्रवर्तिनो बलदेवा वासुदेवाश्च सदा भवन्ति । उत्कर्षेण चतुस्विशजिनाः त्रिंशच क्षितीशाः ( चक्रिणः ) । धातकीखण्डे पुष्करार्धे च द्विगुणाः ॥
तिर्यग्लोकाचं नवयोजनशतोनसप्तरज्जुप्रमाण ऊर्ध्वलोकः । तत्र सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहस्रारानतप्राणतारणाच्युता द्वादश कल्पाः । तदुपरि नव ग्रैवेयकाः । तदुपरि विजयवैजयन्तजयन्तापराजितानि विमानानि प्राक्क्रमात , मध्ये सर्वार्थसिडम् । तदुपरि द्वादशसु योजनेषु पञ्चचत्वारिंशद्योजनलक्षायामविष्कम्भा ईषत्प्राग्भारा नाम पृथ्वी, सा सिद्धिशिला । ततोऽप्युपरि गव्यूतत्रयादूर्ध्व चतुर्थगव्यूतषष्ठभागे
आ लोकान्तात् सिद्धाः॥ ___ तत्र धरणितलात् समभागात् सौधर्मेशानौ यावत्सार्धरज्जुः। सनत्कुमारमाहेन्द्रौ यावत् साधु, रज्जुद्वयं । सहस्रारं यावत् पञ्च रजवः । अच्युतं यावत् षट् रजवः । लोकान्तं यावत्सप्त रजवः॥
सौधर्मेशानौ वृत्तौ चन्द्रमण्डलाकारौ । तत्र दक्षिणार्धे शक्र इन्द्रः, उत्तरार्धे ईशानः सनत्कुमारमाहेन्द्रावप्येवं,
in Education intern et
For Personal & Private Use Only
Page #680
--------------------------------------------------------------------------
________________
योगशास्रम् ॥ ३३१ ॥
Jain Education Intere
तत्र दक्षिणार्धे सनत्कुमार उत्तरार्धे माहेन्द्रः । तत ऊर्ध्वलोकमध्यभागे लोकपुरुषकूर्परसमप्रदेशे ब्रह्मलोकः, तन्नामेन्द्रः, तदेकदेशवासिनः सारस्वतादित्यवहून्यरुण गर्द तोय तुपिताव्याबाधमरुतारिष्टाख्या लोकान्तिका देवाः । ततोऽप्युपरि लान्तकः, तन्नामेन्द्रः । ततोऽप्युपरि महाशुक्रः, तन्नामेन्द्रः । ततोऽप्युपरि सहस्रारः तन्नामेन्द्रः । ततोsप्युपरि सौधर्मेशानवच्चन्द्राकारावानतप्राणतौ कल्पो, तत्र प्राणतवासी तन्नामा तयोरेक इन्द्रः । ततोऽप्युपरि प्राग्वचन्द्राकारावरणाच्युतौ, तत्राच्युतनिवासी तन्नामा तयोरेक इन्द्रः । ततः परमहमिन्द्रा देवाः ॥
तत्र प्रथम कल्प घनोदधिप्रतिष्ठानौ । तदुपरि त्रयो वायुप्रतिष्ठानाः । ततः परं त्रयो घनोदधिघनवातप्रतिष्ठानाः । तदुपर्याकाशप्रतिष्ठानाः । तेष्विन्द्रसामानि कत्रायस्त्रिंशत् पारिषद्यात्मरक्ष लोकपालानीकप्रकीर्णका भियोग्य किल्बिपिका देवाः । तत्रेन्द्राः सामानिकादिभेदानां नवानामधिपतयः । इंद्रसमानाः सामानिका अमात्यपितृगुरूपाध्यायमहत्तरवत्केवल मिन्द्रत्वहीनाः १ । त्रायस्त्रिंशा मन्त्रिपुरोहितस्थानीयाः २ । पारिषद्या वयस्यस्थानीयाः ३ । आत्मरक्षा अङ्गरक्षस्थानीयाः ४ | लोकपाला आरक्षकार्थचरस्थानीयाः ५ | अनीकान्यनीकस्थानीयानि, तदधिपतयो दण्डनायक स्थानीया अप्यनीकानि ६ । प्रकीर्णकाः पौरजनपदस्थानीयाः ७ | अभियोग्या दासस्थानीयाः ८ । विषिकान्तस्य (अन्त्यज ) स्थानीयाः । त्रास्त्रिशल्लोकपालवर्जा व्यन्तरा ज्योतिष्काः ||
सौधर्मे विमानानां द्वात्रिंशल्लक्षाः । ऐशानेऽष्टाविंशतिः । सनत्कुमारे द्वादश । माहेन्द्रेऽष्टौ । ब्रह्मलोके चत्वारः । लान्तके पञ्चाशत्सहस्राणि । शुक्रे चत्वारिंशत्सहस्राणि । सहस्रारे षट् सहस्राणि । श्रनतप्राण तयोश्चत्वारि शतानि | आरणाच्युतयोस्त्रीणि । प्रथमे ग्रैवेयकत्रिके एकादशोत्तरं शतं । मध्यमे त्रिके सप्तोत्तरं । उपरि त्रिके एकमेव शतं ।
For Personal & Private Use Only
******
चतुर्थः
प्रकाशः ।
।। ३३१ ॥
Page #681
--------------------------------------------------------------------------
________________
अनुत्तरविमानानि पञ्चैव इति । एवं विमानानां चतुरशीतिर्लक्षाः सप्तनवतिश्च सहस्राणि त्रयोविंशानीति । विजयादिपु चतुर्खनुत्तरविमानेषु द्विचरमा देवाः । सर्वार्थसिद्धे त्वेकचरमाः।।
एतेषु च सौधर्मादारभ्य सर्वार्थसिद्धं यावद्देवाः स्थित्या प्रभावेण सुखेन दीप्या लेश्यया विशुध्ध्या इन्द्रियवि. | पयेण अवधिज्ञानविषयेण च पूर्वपूर्वेभ्य उत्तरोत्तरेऽधिकाः, गत्या शरीरेण परिग्रहेणाभिमानेन च हीनहीनतराः। उच्छासः सर्वजघन्यस्थितीनां भवनपत्यादीनां देवानां सप्तस्तोकान्ते, आहारश्चतुर्थान्ते । पल्योपमस्थितीनामन्तर्दिवसस्योच्छ्वासः, दिवसपृथक्त्वतश्चाहारः । यस्य यावन्ति सागरोपमाणि (आयुषः) तस्य तावत्स्वर्धमासेपृच्छ्वासः, तावत्स्वेव वर्षसहस्रेष्वाहासः । देवाश्च सद्वेदनाः प्रायेण भवन्ति, यदि चासद्वेदना भवन्ति ततोऽन्तर्मुहुर्तमेव, न परतः॥
उत्पत्तिर्देवीनामा ईशानात , गमनं च आ अच्युतात् । तापसानामा ज्योतिष्कादुत्पत्तिः । अा ब्रह्मलोकाचरकपरिव्राजकानां । पञ्चेन्द्रियतिरश्चामा सहस्रारात् । मनुष्यश्रावकाणामा अच्युतात् । मिथ्यादृष्टीनां प्रतिपन्नजिनलिङ्गानां यथोक्तसामाचारीपरिपालकानामा नवमग्रैवेयकात् । चतुर्दशपूर्वधराणां ब्रह्मलोकादूर्ध्वमा सर्वार्थसिद्धात् । अविराधितव्रतानां साधूनां श्रावकाणां च जघन्येन सौधर्मे ॥
भवनवास्यादयो देवा आ ईशानात् कायप्रवीचाराः। ते हि संक्लिष्टकर्माणो मनुष्यवन्मैथुनसुखमनुप्रलीयमानास्तीत्रानुशयाः कायसंक्लेशजं सर्वाङ्गीणं स्पर्शसुखमवाप्य प्रीतिमुपलभन्ते इति । शेषाः स्पर्शरूपशब्दप्रवीचारा
(१) चरमभविनः ॥
Jain Education intermel
For Personal & Private Use Only
Page #682
--------------------------------------------------------------------------
________________
चतुर्वः
प्रकाशः।
योग- द्वयोर्द्वयोः, चतुर्यु मनःप्रवीचाराः, परेष्वप्रवीचाराः प्रवीचारवट्यो देवेभ्योऽनन्तगुणसुखा इति । अयमधस्तिर्यशास्त्रम्
गूर्व भेदो लोकः । अस्य च मध्ये रज्जुप्रमाणायामविष्कम्भा ऊर्ध्वाधश्चतुर्दशरज्ज्वात्मिका त्रसनाडी त्रसाः स्थाव
राश्च जीवा अत्र भवन्तीति कृत्वा । त्रसनाड्या बहिः स्थावरा एव जीषा भवन्तीति ।। १०५ ॥ ॥३३२॥
लोकस्यैव विशेषस्वरूपमाहनिष्पादितो न केनापिन धृतः केनचिच्चसः। स्वयंसिद्धो निराधारोगगने किंत्ववस्थितः॥१०६॥
निष्पादितः कृतो न केनापि प्रकृतीश्वरविष्णुब्रह्मपुरुषप्रभृतीनामन्यतमेन । प्रकृतेरचेतनत्वात् कर्तृत्वानुपपत्तेः। ईश्वरादीनां च न कर्तृत्वं प्रयोजनाभावात् । क्रीडा प्रयोजनमिति चेत् , न, क्रीडायाः कुमारकाणामिव रागिणामेव
संभवात् , क्रीडासाध्यायाश्च प्रीतेस्तेषां शाश्वतिकत्वात् , क्रीडानिमित्तायां तु प्रीतौ तेषां पूर्वमतृप्तत्वप्रसङ्गः । कृपया * प्रवृत्तिरिति चेत् तर्हि सुख्येव सर्गः स्यात् न दुःखी। कर्मापेक्षः सुखदुःखमयः सर्ग इति चेत् तर्हि कर्मैव कारण
मस्तु । कर्मापेक्षत्वे चैषां स्वातन्त्र्यविधातः । कर्मजन्ये च भावानां वैचित्र्ये किमीश्वरादिभिः प्रयोजनम् ? । अथ प्रयोजनमन्तरेणैव तेषां सर्गक्रमः, तदयुक्तं, न प्रयोजनमन्तरेण बालोऽपि किश्चित्करोति, तस्मान्न केनचिदयं लोको निष्पादित इति । न च केनचिदयं धियते, शेषकर्मवराहादयस्तस्य धारका इति चेत् तेषामपि किं धारकमिति वाच्यं,
आकाशमिति चेत् तस्यापि कि धारकं ! स्वप्रतिष्ठमवेदमिति चेत , लोकोऽपि तथाऽस्तु । एवं च सति केनचिदनुत्पादितत्वात्स्वयंसिद्धः, केनचिदधृतत्वानिराधारः । ननु निराधारस्यापि तस्य कुत्रावस्थानम् ? इत्याह-गगने किं त्ववस्थितः आकाशरूप एवायमाकाश च प्रतिष्ठितः इत्यर्थः । अत्रान्तरश्लोकाः--
||३३२॥
in Education International
For Personal & Private Use Only
Di
Page #683
--------------------------------------------------------------------------
________________
ननु लोकभावनाया भावनात्वं कथं भवेत ? । उच्यते निर्ममत्वं स्यादितोऽपि हि निशम्यताम् ॥१॥ * सुखहेतौ क्वचिद्भावे मनो रज्यन्मुहर्महः । लोकभावनयाऽत्यर्थ विप्रकीर्ण विधीयते ॥ २॥ भूद्वीपसागरादीनि
धर्मध्यानस्य गोचरः । इत्युक्तं ध्यानशतके नर्ते तल्लोकभावनाम् ॥३।। जिनोक्ते लोकरूपे च संवादिनि विनिश्चिते । अतीन्द्रिये मोक्षमार्गेऽथाधत्ते प्रत्ययं जनः ॥ ४॥
इति लोकभावना ॥ ११ ॥ १०६॥ अथ बोधिदुर्लभत्वभावनां श्लोकत्रयेणाहअकामनिर्जरारूपात् पुण्याजन्तोः प्रजायते।स्थावरत्वात्रसत्वं वा तिर्यक्त्वंवा कथञ्चन॥१०७॥ __ अकामनिर्जरा यथाप्रवृत्तिकरणेन गिरिसरिदुपलघोलनाकल्पेनाकामस्य निरभिलाषस्य या निर्जरा कर्मप्रदेशविचटनरूपा सैव रूपं यस्य तस्मात, पुण्यादिति पुण्यं न पुण्यपकृतिरूपं, किन्तु कर्मलाघवरूपं तस्मात् , जन्तोः शरीरिणः प्रजायते भवति । किं तदित्याह-स्थावरत्वादेकेन्द्रियजातिसहचारिस्थावरनामकर्मोदयकृतात् पर्यायविशेषात् , त्रसत्वं वा त्रसनामकर्मोदय द्वीन्द्रियत्वादिसहचारि, तिर्यक्त्वं वा पश्चेन्द्रियतिर्यग्रूपता, कथश्चन विशिष्टात्कर्मलाघवात् ।। १०७ ॥ तथामानुष्यमार्यदेशश्च जातिः सर्वाक्षपाटवम्। आयुश्च प्राप्यते तत्र कथञ्चित्कर्मलाघवात् ॥१०८॥
मानुषस्य भावो मानुष्यं, कुतोऽपि कर्मलाघवात् युगच्छिद्रे शमिलाप्रवेशन्यायेन । ततोऽपि शकयवनाद्यनार्य
Jain Education internel
For Personal & Private Use Only
T
Page #684
--------------------------------------------------------------------------
________________
योगशास्त्रम् ।। ३३३ ।।
Jain Education Inter
*UK+-*--
देश परिहारेणार्यदेशो मगधादिः । ततोऽप्यार्यदेशप्राप्तावपि जातिः अन्त्यजादिपरिहारेणोत्तमजातिः, जात्या कुलमुपलक्ष्यते । जातिकुलप्राप्तावपि सर्वाक्षपाटवमहीनपञ्चेन्द्रियता । तत्र सर्वाक्षपाटवेऽपि दीर्घमायुः कथञ्चित्कर्मलाघवात् शुभस्य कर्मणो लाघवात् अपचयात्, उपलक्षणात् पुण्यस्योपचयाच्च प्राप्यते, न ह्यल्पायुः किञ्चनैहिकामुष्मिकं वा कार्यं कर्तुं शक्तः, भगवन्तोऽपि वीतरागा " हे आयुष्मन् ! गौतम ! " इत्यादि वदन्तो दीर्घायुष्कं ( ) सर्वगुणेभ्योऽधिकमाचचक्षिरे || १०८ ॥ तथा —
प्राप्तेषु पुण्यतः श्रद्धाकथकश्रवणेष्वपि । तत्त्वनिश्चयरूपं तदोधिरत्नं सुदुर्लभम् ॥ १०६ ॥
K
For Personal & Private Use Only
चतुर्थः
प्रकाशः ।
पुण्यतः कर्मलाघवलक्षणात् शुभकर्मोदयलक्षणाच्च प्राप्तेष्वासादितेषु । केषु १ इत्याह श्रद्धा धर्माभिलाषः, थको धर्मोपदेष्टा गुरुः, श्रवणं तद्वचनाकर्णनं, एतेषु सत्स्वपि । तदिति प्रसिद्धं, बोधिरत्नं सुदुर्लभं, बोधिस्तु तत्त्वनिश्चयः तत्त्वस्य देवगुरुधर्मरूपस्य निश्चयो दृढोऽभिनिवेशः, तदेव रूपं यस्य तत् तत्त्वनिश्चयरूपं । स्थावरत्वात्रसत्वादीन्यपि दुर्लभानि, तेभ्योऽपि वोधिरत्नं दुर्लभमिति सुशब्देनाह । यतो मिथ्यादृशोऽपि सत्वादीनि श्रवणान्तान्यनन्तशः प्राप्नुवन्ति, बोधिरत्नं तु न लभन्ते, तच्चाविघ्नं मोक्षतरुबीजमिति । अत्रान्तरश्लोकाः
राज्यं वा चक्रभृत्त्वं वा शक्रत्वं वा न दुर्लभम् । यथा जिनप्रवचने बोधिरत्यन्तदुर्लभा ॥ १ ॥ सर्वे भावाः सर्वजीवैः प्राप्तपूर्वा अनन्तशः । बोधिर्न जातुचित्प्राप्ता भव भ्रमणदर्शनात् || २ || पुद्गलानां परावर्तेष्वनन्तेषु गतेष्विह । उपार्धपुद्गलावर्ते शेषे सर्वशरीरिणाम् || ३ ॥ सर्वेषां कर्मणां शेषे कोटिकोटयन्तरस्थितौ । ग्रन्थिभेदात् कश्चिदेव लभते बोधिमुत्तमाम् ||४|| यथाप्रवृत्तिकरणादन्ये तु ग्रन्थिसीमनि । प्राप्ता अप्यवसीदन्ति भ्रमन्ति च पुनर्भवम् ॥ ५ ॥ | ।। ३३३ ।।
Page #685
--------------------------------------------------------------------------
________________
कुशास्त्रश्रवणं सङ्गो मिथ्याग्भिः कुवासना । प्रमादशीलता चेति स्युर्योधेः परिपन्थिनः ।। ६ ।। चारित्रस्यापि संप्राप्तिर्दुर्लभा यद्यपीरिता । तथापि बोधिप्राप्तौ सा सफला निःफलाऽन्यथा ।। ७ ।। अभव्या अपि चारित्रं प्राप्य ग्रैवेयकादिषु । उत्पद्यन्ते विना बोधि त्वाप्नुवन्ति न निर्वृतिम् ॥ ८ ॥ असंप्राप्ते बोधिरत्ने चक्रवर्त्यपि रङ्कवत् । संप्राप्तबोधिरत्नस्तु रङ्कोऽपि स्यात्ततोऽधिकः ।।६ ॥ संप्राप्तबोधयो जीवा न रज्यन्ते भवे क्वचित् । निर्ममत्वाद्भजन्त्येकं मुक्तिमार्गमनर्गलाः ।।१०।। ये प्राप्ताः परमं पदं तदपरे प्राप्स्यन्ति ये केऽपि वा, ये वा केचिदवाप्नुवन्ति विकसत्पुण्यर्द्धयः संप्रति । सर्वेऽप्यप्रतिमप्रभावविभवां बोधि समासाद्य ते, तस्माद्बोधिरुपास्यतां किमपरं संस्तूयतां श्रूयताम् ॥ ११ ॥
इति बोधिभावना १२ ॥ १० ॥
भावना निर्ममत्वहेतुकामुपसंहरन् प्रकृते समत्वे योजयतिभावनाभिरविश्रांतमिति भावितमानसः । निर्ममः सर्वभावेषु समत्वमवलम्बते ॥ ११० ॥ । ____ स्पष्टः ।। ११० ॥ साम्यस्यैव फलमाहविषयेभ्यो विरक्तानां साम्यवासितचेतसाम्। उपशाम्येत् कषायाग्निर्बोधिदीपः समुन्मिषेत् १११
साम्यवासितचेतसां योगिनामत एव विषयेभ्यो विरक्तानामुपशाम्येत् कषायाग्निरित्यनर्थनिषेधः, बोधिदीपः । समुन्मिषेदित्यर्थप्राप्तिः ॥ १११ ॥
in Education International
For Personal & Private Use Only
Page #686
--------------------------------------------------------------------------
________________
योग- तदेवं कषायजयमिन्द्रियजयेन, इन्द्रियजयं मनःशुद्ध्या, मनःशुद्धिं रागद्वेषजयेन, रागद्वेषजयं समत्वेन, समत्वं चतुः शास्त्रम् च भावनाहेतुकनिर्ममत्वेन प्रतिपाद्योत्तरं प्रकरणं प्रक्रमते
प्रकाशः। ।। ३३४ ३१ समत्वमवलम्ब्याथ ध्यानं योगी समाश्रयेत् । विना समत्वमारब्धे ध्याने स्वात्मा विडम्ब्यते ।१११ ।।
अथानन्तरं योगी मुनिः समत्वमवलम्ब्य दृढं चेतसि व्यवस्थाप्य ध्यानं वक्ष्यमाणलक्षणं समाश्रयेत् । यद्यपि ध्यानमपि समत्वमेव, तथापि विशिष्टतरं साम्यं ध्यानमुच्यते, ध्यानरूपतायोग्यं त्वाभ्यासिकं साम्यमिति न पौनरुक्त्यम् । व्यतिरेकमाह-अनुप्रेक्षादिवललब्धं समत्वं विनाऽऽरब्धे ध्याने स्वकीय एवात्मा विडम्ब्यते । तथाहि-इन्द्रियाणि न गुप्तानि मनःशुद्धिर्न वा कृता । रागद्वेषौ जितौ नैव निर्ममत्वं न निर्मितम् ।। १॥ नाम्यस्ता समता किन्तु गतानुगतिकत्वतः । मढरारभ्यते ध्यानं लोकद्वयपथच्युतैः ॥ २॥
यथाविधि ध्यानं तु विधीयमानं न विडम्बना, प्रत्युतात्महिताय ॥ ११२ ।। एतदेवाहमोक्षः कर्मक्षयादेवस चात्मज्ञानतो भवेत्। ध्यानसाध्यं मतं तच्च तद्धयानं हितमात्मनः॥११३॥
मोक्षः स्वरूपलाभलक्षणः कर्मणां स्वरूपावरणीयानां क्षयादव, नान्यथा इत्येतदविवादसिद्धं । स च कर्मक्षय आत्मज्ञानादेव भवतीत्यत्राप्यविवादः। तच्चात्मज्ञानं ध्यानसाध्यं ध्यानेनैव साध्यते, ध्यानस्य साध्यमेवेत्यन्ययोगव्यवच्छेदस्वयोगव्यवस्थाभ्यां ध्यानसाध्यता। तत्तस्माद्धेतोानमात्मनो हितमिति प्रकृतम् ॥ ११३ ॥
ननु पूर्वमर्थप्राप्तयेऽनर्थपरिहाराय च साम्यमुक्तं, इदानीं तु ध्यानस्यात्माहतत्वमुच्यते, तत्कस्य प्राधान्यं ? ॥ ३३४ ॥
in Education inter
11
For Personal & Private Use Only
.
Page #687
--------------------------------------------------------------------------
________________
उच्यते-द्वयोरपि प्राधान्यं नान्तरीयकत्वात् । एतदेवाहन साम्येन विना ध्यानं नध्यानेन विना चतत्। निष्कम्पं जायते तस्माद्वयमन्योऽन्यकारणम् ११४
साम्यं विना न ध्यानं भवति, न च ध्यानं विना साम्यं भवति । एवं तहस्तरेतराश्रयं ? नैवं, साम्यमन्तरेण ध्यान न भवत्येव, ध्यानं तु विना साम्यं भवदपि निष्कम्पं न भवतीति इतरेतराश्रयदोषाभावः । एवं च सति द्वयमन्योऽन्यस्य हेतुत्वेनावतिष्ठते ॥ ११४ ॥
साम्यं पूर्वमेव व्याख्यातम् , इदानीं ध्यानस्य स्वरूपं व्याख्यायतेमुहूर्तान्तर्मनःस्थैर्य ध्यानं छद्मस्थयोगिनाम् । धयं शुक्लं च तद्वेधा योगरोधस्त्वयोगिनाम् ११५/
इह द्वये ध्यातारः-सयोगा अयोगिनश्च । सयोगा अपि द्विविधाः-छद्मस्थाः केवलिनश्च । तत्र छद्मस्थयोगिनां ध्यानस्य लक्षणमेतत् , यदुतान्तर्मुहर्त कालमेकसिनालम्बने चेतसः स्थितिः, यदाह-उत्तमसंहननस्यैकाग्रचित्तनिरोधो ध्यानमान्तर्मुहूर्तात् । तच्च छद्मस्थयोगिनां द्वेधा-धर्म्य शुक्लं च । तत्र धर्माद्दशविधादनपेतं धर्मेण | प्राप्यं वा धर्म्यम् । शुक्लं शुचि निर्मलं सकलकर्ममलक्षयहेतुत्वात् । यद्वा शुग् दुःखं तत्कारणं वाऽष्टविधं कर्म,
शुचं क्लमयतीति शुक्लं । अयोगिनां तु अयोगिकेवलिनां ध्यान योगनिरोधः योगानां मनोवाकायानां निरोधो निग्रहः । सयोगिकेवलिनां तु योगनिरोधकाल एव ध्यानसंभव इति पृथग नोक्तं, ते हि देशोनपूर्वकोटिं यावन्मनोवाकायव्यापारयुक्ता एव विहरन्ति । अपवर्गकाले तु योगनिरोधं कुर्वन्तीति ॥ ११५॥
in Education
For Personal & Private Use Only
ग
ww.jainelibrary.org
Page #688
--------------------------------------------------------------------------
________________
योगशास्त्रम्
चतुर्थः प्रकाशः।
॥ ३३५ ॥
ननु छद्मस्थयोगिनां यदि मुहूर्त्तकालं ध्यानं तर्हि ततः परं किं स्यादित्याह। मुहूर्तात्परतश्चिन्ता यद्वाध्यानान्तरं भवेत्। वह्वर्थसंक्रमे तु स्यादीर्घाऽपि ध्यानसंततिः॥११६॥ |
- मुहूर्तात्परतो मुहूर्तोत्तरकालं चिन्ता भवेत् यद्वा ध्यानान्तरं पालम्बनभेदेन भिन्नं भवेत् , न पुनरेकमेव ध्यानं मुहर्तात परतो भवति तत्स्वाभाव्यादिति । एवं चैकस्मादर्थाद्वितीयमर्थमालम्बमानस्य पुनस्तृतीयं चतुर्थ च दीर्घाऽपि दीर्घकालापि ध्यानसंततिर्भवेत् , मुहूर्तान्तरं च प्रथमे ध्याने समाप्तप्राये आलम्बनान्तरे तद्विवृद्ध्यर्थ ध्याने भावनां कुर्वीत् ॥ ११६ ।। । तदेवाह| मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि नियोजयेत्। धर्म्यध्यानमुपस्कर्तुं तद्धि तस्य रसायनम् ॥११७॥ ___'जिमिदाच्' स्नेहने, मे(मि)द्यति स्निह्यतीति मित्रं, तस्य भावः समस्तसत्त्वविषयः स्नेहपरिणामो मैत्री। प्रमोदनं प्रमोदो वदनप्रसादादिभिर्गुणाधिकेष्वभिव्यज्यमानान्तर्भक्तिरनुरागः । करुणैव कारुण्यं दीनादिष्वनुक
म्पा । रागद्वेषयोरन्तरालं मध्यं, तत्र स्थितो मध्यस्थः अरागद्वेषवृत्तिः, तद्भावो माध्यस्थ्यमुपेक्षा । तानि आत्म*नि नियोजयेत् । किमर्थ ? धर्म्यध्यानमुपस्कर्तुं त्रुट्यतो ध्यानस्य पुनानान्तरेण सन्धानं कर्तुं । कुत इत्याह
तद्धि तस्य रसायनं तत् मैत्र्यादियोजनं हिर्यस्मात्तस्य ध्यानस्य जराजर्जरस्येव शरीरस्य त्रुट्यतो रसायनमिव रसायनम् ।। ११७ ॥
॥३३५॥
Lain Education inte
For Personal & Private Use Only
Page #689
--------------------------------------------------------------------------
________________
___ तत्र मैत्रीस्वरूपमाहमा कार्षीत् कोऽपि पापानि मा च भूत् कोऽपि दुःखितः।मुच्यतां जगदप्येषा मतिमंत्री निगद्यते ___ कोऽपि जन्तुरुपकार्यनुपकारी वा पापानि दुःखनिबन्धनानि मा कार्षीत् , पापकरणनिषेधात् मा च भूत् कोऽपि दुःखितः। जगदिति तांस्तान देवमानुपतिर्यगनारकपर्यायानत्यर्थ गच्छतीति जगत् प्राणिजातं । अपिशद्वान्नकः कश्चित् , किं तु सकलं जगत् मुच्यतां मोक्षमाप्नुयादित्यर्थः । एषा उक्तस्वरूपा मतिमैत्रीशद्रेनोच्यते । न हि कस्यचिदेकस्य मित्रं मित्रं भवति, व्याघ्रादेरपि स्वापत्यादौ मैत्रीदर्शनात, तस्मादशेषसत्त्व विषया मैत्री । एवं कृतापकारणामपि सर्वसत्त्वानां मित्रतां व्यवस्थाप्य क्षमेऽहं सम्यग्मनोवाक्कायर्येषां च मयाऽपकारः कृतस्तानपि सर्वान् क्षमयेऽहमिति मैत्रीभावना ॥ ११८ ।।
अथ प्रमोदस्वरूपमाहअपास्ताशेषदोषाणां, वस्तुतत्त्वावलोकिनाम्। गुणेषु पक्षपातो यः स प्रमोदः प्रकीर्तितः॥११६॥
अपास्ता अशेषा दोषाः प्राणिवधादयो यस्तेषां । तथा वस्तुतत्त्वमवलोकन्त इत्येवंशीलास्तेषां । अनेन ज्ञानप्रक्रियाद्वयं मोक्षहेतुमाह, यदाह भाष्यकार:-" नाणकिरियाहि मोक्खो" इति (ज्ञानक्रियाभ्यां मोक्षः) एवं
विधानां मुनीनां गुणेषु क्षायोपशमिकादिभावावर्जितेषु शमदमौचित्यगाम्भीर्यधैर्यादिषु यः पक्षपातो विनयप्रयोगवन्दनस्तुतिवर्णवादवैयावृत्त्यकरणादिभिः परात्मोभयकृतपूजाजनितश्च सर्वेन्द्रियाभिव्यक्तो मनःप्रहर्षः स प्रमोद:
Jain Education inten
For Personal & Private Use Only
salwww.pinelibrary.org
Page #690
--------------------------------------------------------------------------
________________
योगशास्त्रम्
H प्रकीर्तितः ॥ ११ ॥
चतुर्थः ___अथ कारुण्यस्वरूपमाह
प्रकाश:1 दीनेष्वार्तेषु भीतेषु याचमानेषु जीवितम्। प्रतीकारपरा बुद्धिः कारुण्यमभिधीयते ॥१२०॥ _दीनेषु मतिश्रुताज्ञानविभङ्गबलेन प्रवर्तितकुशास्त्रेषु स्वयं नष्टेषु परानपि नाशयत्सु अत एव दयास्पदत्वा. द्दीनेषु । तथाऽऽत्तेषु नवनवविषयाजनपूर्वार्जितपरिभोगजनिततृष्णाग्निना दंदह्यमानेषु, हिताहितप्राप्तिपरिहारविपरीत. वृत्तिषु अर्थार्जनरक्षणव्ययनाशपीडावत्सु च । तथा भीतेषु विविधदुःखपीडिततया अनाथकृपणवालवृद्धप्रेष्यादिषु सर्वतो विभ्यत्सु । तथा वैरिभिराक्रान्तेषु रोगपीडितेषु मृत्युमुखमधिशयितेष्विव याचमानेषु प्रार्थयमानेषु जीवितं प्राणत्राणं । एतेषु दीनादिषु " अहो कुशास्त्रप्रणेतारः तपस्विनो यदि कुमार्गप्रणयनान्मोच्येरन् . भगवानपि हि
भुवनगुरुः स ( उन्मार्गदेशनात्सागरोपमकोटिकोटिं यावद्भवे भ्रान्तः तत्काऽन्येषां स्वपापप्रतीकारं कर्तुमशक्नु 25 वतां गतिः ?, तथा धिगमी विषयार्जनभोगतरलहृदया अनन्तभवानुभूतेष्वपि विषयेष्वसंतृप्तमनसः कथं नाम
प्रशमामृततृप्ततया वीतरागदशां नेतुं शक्या ? इति, तथा बालवृद्धादयोऽपि विविधभयहेतुभ्यो भीतमनसः कथं नामैकान्तिकात्यन्तिकभयवियोगभाजनीकरिष्यन्ते ? इति. तथा मृत्युमुखमधिशयिताः स्वधनदारपुत्रादिवियोगमुत्प्रेक्षमाणा मारणान्तिकी पीडामनुभवन्तः सकलभयरहितेन पारमेश्वरवचनामृतेन सिक्ताः कथमजरामरीक- रिष्यन्ते ?" इत्येवं प्रतीकारपरा या बुद्धिः, न तु साक्षात्प्रतीकार एव, तस्य सर्वेष्वशक्यक्रियत्वात् , सा कारुण्यमभिधीयते । या तु अशक्यप्रतीकारेषु सर्वान् जन्तून् मोचयित्वा मोक्षं यास्यामीति सौगतानां करुणा, न सा ॥ ३३
It
Jain Education inted
For Personal & Private Use Only
Page #691
--------------------------------------------------------------------------
________________
करुणा, वाङ्मात्रत्वात् , न ह्येवं शक्यं भवितुं संसारिषु मुक्तेषु मया मोक्तव्यामिति, संसारोच्छेदप्रसङ्गेन सर्वसंसारिणां मुक्त्यभावात , तस्माद्वामात्रमेतत मुग्धजनप्रतारकं सौगतानां कारुण्यं । एतच्च कुर्वन् हितोपदेशदेशकालापेक्षानपानाश्रयवस्त्र (पात्र ) भेषजैरपि ताननुगृहातीति ॥ १२० ॥
अथ माध्यस्थ्यस्वरूपमाहक्रूरकर्मसु निःशकं देवतागुरुनिन्दिषु । श्रात्मशंसिषु योपेक्षा तन्माध्यस्थ्यमुदीरितम् ॥१२॥ ____ क्रूराणि अभक्ष्यभक्षणापेयपानागम्यगमनऋषिबालस्त्रीभ्रूणघातादीनि कर्माणि येषां तेषु, तेऽपि कदाचिदवाप्तसंवेगा नोपेक्षणीयाः स्युरत आह-देवतागुरुनिन्दिषु देवताश्चतुस्त्रिंशदतिशयादियुक्ता वीतरागाः, गुरवः तदुक्तानुष्ठानस्य पालका उपदेष्टारश्च तान् रक्तद्विष्टमूढपूर्वव्युद्ग्राहिततया निन्दन्तीत्येवं शीलाः तेषु, तथाविधा अपि कथंचन वैराग्यदशापना आत्मदोषदर्शिनो नोपेक्षणीयाः स्युरित्याह-आत्मशंसिषु आत्मानं सदोषमपि शंसन्ति प्रशंसन्तीत्येवंशीला आत्मबहमानिन इत्यर्थः तेषु मुद्गशैलेष्विव पुष्करावर्त्तवारिभिर्मेद्कर्तुमशक्येषु देशनाभिः, योपेक्षा तन्माध्यस्थ्यमुदीरितम् ॥ १२१॥ ___ अथ यदुक्तं धर्मध्यानमुपस्कर्तुमिति तद्विवेचयतिश्रात्मानं भावयन्नाभिर्भावनाभिर्महामतिः। त्रुटितामपि संधत्ते विशुद्धध्यानसंततिम् ॥१२२॥
१ कारुण्यम् ।
in Education Intern
For Personal & Private Use Only
न
Page #692
--------------------------------------------------------------------------
________________
योग
शाखम
॥३३७ ॥
****←→*®*****
Jain Education Inter
स्पष्टः ।। १२२ ।। ध्यानसाधनाय स्थानं निदर्शयति
तीर्थं वा स्वस्थता हेतु यत्तद्वा ध्यानसिद्धये । कृतासनजयो योगी विविक्तं स्थानमाश्रयेत् ॥ १२३ ॥ तीर्थं तीर्थकृतां जन्मदीक्षाज्ञाननिर्वाणभूमिं तदभावे स्वास्थ्य हेतु यत्तद्वा गिरिगुहादि विविक्तं स्त्रीपशुपण्डकादिरहितं स्थानमाश्रयेत् । यदाह
"निच्चं चित्र जुवइपसून पुंसगकुसीलवज्जि जइयो । ठाणं विप्रणं भणिअं विसेस झाणकालम्मि || १ || थिरकयजोगाणं पुण मुणीणं झाणे सुनिश्चलमणाणं । गामम्मि जणाइले सुन्नेऽरसे व न विसेसो ॥ २ ॥ तो जत्थ समाहाणं होइ मणोवयण कायजोगाणं । भूभोवरोहरहिओ सो देसो झाग (य) माणस्स || ३ || स्थानग्रहणेन कालोऽप्युपलक्ष्यते । यदाह
कालो वसोच्चि जहिं जोगसमाहाणमुत्तमं लहइ । न उ दिवसनिसावेलाए नियमणं झाइयो भणिअं ॥ १ ॥ ध्यानसिद्धये योगी स्थानमाश्रयेदिति संबन्धः । किंविशिष्टः ? कृतासनजयः कृत आसनानां कायसन्निवेशविशेषाणां वच्यमाणस्वरूपाणां जयोऽभ्यासो येन स तथा ।। १२३ ।।
(१) नित्यं चैव युवतिपशुनपुंसककुशीलवर्जितं यतेः । स्थानं विजनं भणितं विशेषतो ध्यानकाले ॥ १ ॥ स्थिरकृतयोगानां पुनर्मुनीनां ध्याने सुनिश्चलमनसाम् । ग्रामे जनाकीर्णे शून्येऽरण्ये वा न विशेषः ॥ २ ॥ ततो यत्र समाधानं भवति मनोवचन काययोगानाम् । भूतोपरोधरहितः स देशो ध्यायतः ॥
३ ॥
(२) कालोऽपि स चैव यत्र योगसमाघानमुत्तमं लभते । न तु दिवसनिशावेलायां नियमनं ध्यानिनो भणितम् ॥ १ ॥
For Personal & Private Use Only
+(•%•T••*•*• •}•K•••*•→→
+++++*-- 4:30
चतुर्थः ।
प्रकाशः ।
॥ ३३७ ॥
www.jainvelibrary.org
Page #693
--------------------------------------------------------------------------
________________
___ अथासनान्येवाहपर्यवीरवज्राब्जभद्रदण्डासनानि च । उत्कटिका गोदोहिका कायोत्सर्गस्तथासनम् ॥१२४॥
पर्यकादिषु प्रत्येकमासनशब्दः संबध्यते ॥ १२४ ॥
क्रमेणासनानि व्याचष्टेस्याजङ्घयोरधोभागे पादोपरि कृते सति । पर्यको नाभिगोत्तानदक्षिणोत्तरपाणिकः ॥१२५॥
जङ्घयोरधोभागे पादोपरि कृते सति पाणिद्वयं नाभ्यासन्नमुत्तानं दक्षिणोत्तरं यत्र दक्षिणोत्तरोपरिवर्ती यत्र तत्तथा एतत्पर्यको नाम शाश्वतप्रतिमानां श्रीमहावीरस्य च निर्वाणकाले आसनं यथा पर्यतः पादोपरि भवति तथाऽयमपीति पर्यङ्क: " जानुप्रसारितबाहोः शयनं पर्यङ्क" इति पातञ्जलाः ॥ १२५ ॥ ___ अथ वीरासनम्वामोऽह्रिर्दक्षिणोरूवं वामोरूपरि दक्षिणः। क्रियते यत्र तद्वीरोचितं वीरासनं स्मृतम् ॥१२६॥
वामोऽहिर्वामपादो दक्षिणोरूर्व वामस्य चोरोरुपरि दक्षिणोंऽहिर्यत्र क्रियते तद्वीराणां तीर्थकरप्रभृतीनामुचितं, न कातराणां, वीरासनं स्मृतं । अग्रहस्तन्यासः पर्यवत् , इदं पद्मासनमित्येके, एकस्यैव पादस्य ऊरावारोपणेऽधपद्मासनम् ।। १२६ ॥
अथ वज्रासनम्पृष्ठे वज्राकृतीभूते दोभ्यां वीरासने सति। गृह्णीयात् पादयोर्यत्राङ्गुष्ठौ वज्रासनं तु तत्॥१२७॥
In Education
For Personel Private Use Only
Page #694
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
॥ ३३८ ॥
Jain Education Inter
*1)
उक्तस्वरूपे वीरासने सति पृष्ठे वज्राकाराभ्यां दोर्भ्यां पादयोर्यत्राङ्गुष्ठौ गृहणीयात् तद्वज्रासनं । इदं वेतालासनमित्यन्ये ॥ १२७ ॥ मतान्तरेण वीरासनमाह - सिंहासनाधिरूढस्यासनापनयने सति । तथैवावस्थितिर्या तामन्ये वीरासनं विदुः ॥ १२८ ॥ सिंहासनमधिरूढस्य भूमिन्यस्तपादस्य सिंहासनापनयने सति तथैवावस्थानं वीरासनम् । अन्ये इति सैद्धान्तिकाः कायक्लेशतपःप्रकरणे व्याख्यातवन्तः । पातञ्जलास्त्वाहुः – ऊर्ध्वस्थितस्यैकतरः पादो भून्यस्त एकचाकुश्चितजानुरूर्ध्वमित्येतद्वीरासनमिति । १२८ ॥ अथ पद्मासनम् -
जङ्घाया मध्यभागे तु संश्लेषो यत्र जङ्घया । पद्मासनमिति प्रोक्तं तदासनविचचणैः ॥ १२९ ॥ जङ्घाया वामाया दक्षिणाया वा द्वितीयया जङ्घया मध्यभागे संश्लेषो यत्र तत् पद्मासनम् ।। १२६ ।।
अथ भद्रासनम् —
संपुटीकृत्य मुष्का तलपादौ तथोपरि । पाणिकच्छपिकां कुर्याद्यत्र भद्रासनं तु तत् ॥ १३०॥ स्पष्टम् । यत्पातञ्जला:– पादतले वृषणसमीपे संपुटीकृत्य तस्योपरि पाणिकच्छपिकां कुर्यात्, एतद्भद्राअथ दण्डासनम् —
सनम् ॥ १३० ॥
श्लिष्टाङ्गुली श्लिष्टगुल्फौ भूश्लिष्टोरू प्रसारयेत्। यत्रोपविश्य पादौ तद्दण्डासनमुदीरितम् ॥ १३१ ॥ स्पष्टम् । यत्पातञ्जलाः—उपविश्य श्लिष्टाङ्गुलीको लिष्टगुल्फौ भूमिश्लिष्टजङ्घौ च पादौ प्रसार्य दण्डासन
For Personal & Private Use Only
-- 1.0--10.kk-X... -
चतुर्थः
प्रकाशः ।
॥ ३३८ ॥
Page #695
--------------------------------------------------------------------------
________________
मभ्यस्येत् ॥ १३१ ॥ अथोत्कटिकासनगोदोहिकासनेपुतपाणिसमायोगे प्राहुरुत्कटिकासनम्। पाणिभ्यां तुभुवस्त्यागे तत्स्यागोदोहिकासनम् १३२॥ ___ पुतयोः पाणिभ्यां भूमिलग्नाभ्यां योगे उत्कटिकासनं प्राहुः, यत्र भगवतः श्रीवीरस्य केवलज्ञानमुत्पन्नम् ।
यदाह
जंभिअवहि उजुवालिअतीरे विसाहसियदसमिपहरतिगे । छटेणोकुडुअहिअस्स केवलं आसि सालतले ॥१॥
तदेवोत्कटिकासनं गोदोहिकासनं गोदोहकसमाकारत्वात् पाणिभ्यां भुवस्त्यागे सति । इदं च प्रतिमाकल्पिकादीनां विधेयतयोपदिष्टम् ।। १३२॥ अथ कायोत्सर्ग:
प्रलम्बितभुजद्वन्द्वमूर्ध्वस्थस्यासितस्य वा। स्थानं कायानपेक्षं यत्कायोत्सर्गः स कीर्तितः॥१३३॥ al प्रलम्बितं अजयोईन्द्रं यत्र तत्तथा कायानपेशं स्थानं स कायोत्सर्गों नामासनमर्श्वस्थस्यासितस्य वा ऊर्ध्व
स्थितानां कायोत्सर्गो जिनकल्पिकादीनां छद्मस्थतीर्थकराणां च भवति, ते हि ऊर्ध्वर्जव एवासते, स्थविरकल्पिकानां तु ऊर्ध्वस्थितानामासितानां वा, उपलक्षणात् शयितानां वा यथाशक्ति भवति कायोत्सर्ग इति स्थानध्यानमौनक्रियाव्यतिरेकेण क्रियान्तरसंबन्धिनः कायस्योत्सर्गस्त्याग इत्यर्थः । इदं चासनानां दिक्प्रदर्शनमात्रमुक्तमासनान्तराणामुपलक्षणार्थ, तथाहि-आम्रकुब्जासनम् अाम्राकारतयाऽवस्थितिः, यथा भगवान महावीर एकरा(१) जम्भिकाहहिः ऋजुवालिकातीरे वैशाखसितदशमीप्रहरत्रिके । षष्ठेनोत्कटिकास्थितस्य केवलमासीत् सालतले ॥१॥
Jain Education Inters
For Personal & Private Use Only
Page #696
--------------------------------------------------------------------------
________________
प्रकाशः।
योग
त्रिकी प्रतिमां श्रितः संगमकसुराधमेन विहितां विंशतिमुपसर्गाणामाधिसेहे । तथा एकपार्श्वशायित्वम तच्चोर्ध्वमुखशास्त्रम् न
* स्याधोमुखस्य तिर्यङ्मुखस्य वा भवति । तथा दण्डायतशायित्वम् ऋजूकृतशरीरस्य प्रसारितजोरुद्वयस्य चलन
रहितस्य तद्भवति। तथा लगडशायित्वं मूने: पायोश्च भूमिस्पर्शे शरीरेण भूमेरस्पर्श तद्भवति। तथा समसंस्थानं ॥३३ ॥
यत पायेनपादाभ्यां दूयोराकुश्चितयोरन्योऽन्यपीडनं। तथा दुर्योधासनं यद्भूमिप्रतिष्ठितशिरस उत्पादमवस्थानं कपालीकरणमिति च प्रसिद्धं, तस्मिन्नेव यदा जो पद्मासनीकृते भवतस्तदा दण्डपद्मासनं । तथा स्वस्तिकासनं यत्र सव्यमाकुञ्चितं चरणं दक्षिणजचोर्वन्तरे निक्षिपेत् दक्षिणं चाकुञ्चितं वामजचोर्वन्तरे इति । तथा सोपाश्रयं योगपट्टकयोगाद्यद्भवति। तथा क्रौञ्चनिषदनहंसनिषद नगरुडनिषदनादीन्यासनानि क्रौञ्चादीनां निषामानां संस्थानदर्शनात् प्रत्येतव्यानि । तदेवं न व्यवतिष्टते आसनविधिः ।। १३३ ।।
ततःजायते येन येनेह विहितेन स्थिरं मनः । तत्तदेव विधातव्यमासनं ध्यानसाधनम् ॥१३४॥
मेदखिनामितरेषां च बलवतामपरेषां च येन येनासनेन कृतन सात्म्यविशेषात स्थिरं मनो जायते तत्तदेवासनं ध्यानसाधनत्वेन विधेयं । यदाह
सव्वासु वट्टमाणा मुणो जं देसकालचिट्ठासु । वरकेवलाइलाभं पत्ता बहुसो समिपावा ॥१॥ (१) सर्वासु वर्तमाना मुनयो यदू देशकालचेष्टासु । वरकेबलादिलाभ प्राप्ता बहुशः शमितपापाः ॥ १॥
*||३३६ ।
JainEducation in
For Personal & Private Use Only
.
Page #697
--------------------------------------------------------------------------
________________
Jain Education Interna
→K++*Q*••*
**+aal
'तो देसकालचेट्ठानियमो ज्झाणस्स नत्थि समयम्मि । जोगाय समाहाणं जह होइ तहा पयइअव्वं ॥२॥ न चैवमासनाभिधानमनर्थकं प्रतिमाकन्पिकान् प्रत्यासननियमस्याभिधानात् द्वादशसु भिक्षुप्रतिमासु अष्टम्यां प्रतिमायामासननियमो यथा
उत्तणगपासली नेसजीवावि ठाणठाइत्ता । सह उस्सग्गे घोरे दिव्वाई तत्थ अविकंपो ॥ १ ॥ नवम्यां यथाfere for या गामाइप्राण नवरं तु । उक्कडलगडसाई दंडाययउच्च ठात्ता ॥ २ ॥
दशम्यां यथा
विएव नवरं ठाणं तु तस्स होइ गोदोही । वीरासणमहवा वी ठाइज वि अंबखुजो उ || ३ || १३४ ॥ इदानीमासनानां यथा ध्यानसाधनत्वं भवति तथा श्लोकद्वयेनाहसुखासनसमासीनः सुश्लिष्टाधरपल्लवः । नासाग्रन्यस्तदृग्द्वन्द्वो दन्तैर्दन्तान संस्पृशन् ॥१३५॥ प्रसन्नवदनः पूर्वाभिमुखो वाप्युदङ्मुखः । श्रप्रमत्तः सुसंस्थानो ध्याता ध्यानोद्यतो भवेत् ॥ १३६ ॥
( १ ) ततो देशकालचेष्टानियमो ध्यानस्य नास्ति समये । योगानां समाधानं यथा भवति तथा प्रयतितव्यम् ॥ २ ॥ ( २ ) उत्तानकः पार्श्वशायी नैषधिको वापि स्थानं स्थित्वा । सहेतोपसर्गान् घोरान् दिव्यादीन् तत्राविकम्पः ॥ १ ॥ ( ३ ) द्वितीयाऽपीदृशी चैव बहिर्ग्रामादिभ्यो नवरं तु । उत्कटिकलगडशायी दण्डायतिक इव (को वा) स्थित्वा ॥२॥ ( ४ ) तृतीयाऽप्येवं नवरं स्थानं तु तस्य भवति गोदोही । वीरासनमथवाऽपि तिष्ठेदप्याम्रकुब्जः तु (वा) ॥३॥
For Personal & Private Use Only
****++****900*
Page #698
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
॥ ३४० ॥
*********-**
Jain Education Infern
सुखं सुखावहं आस्यतेऽनेन श्रास्ते वाऽनेन तदासनं, सुखं च तदासनं च तेनासीनः श्रनेनासनजयमाह । सुश्लिष्टौ मिलितावघरपल्लवौ यस्य स तथा अनेन प्राणप्रसरनिषेधमाह । नासाग्रे न्यस्तं हरद्वन्द्वं येन स तथा अन प्राणजस्य हेतुमाह । दन्तैरुपरितनैरधस्तनैश्च दन्तानुपरितनानवस्तनांश्चासंस्पृशन्, तत्संस्पर्शे हि ध्यान - निश्चलता न स्यात् । तथा प्रसन्नं रजस्तमोरहितत्वेन प्रसादवत् भ्रूविक्षेपादिरहितं वदनं यस्य सः । तथा पूर्वाभिमुखो वा उदङ्मुखो वा, अनेनानयोर्दिशोः पूज्यत्वमाह । जिनजिनप्रतिमाभिमुखो वा । श्रप्रमत्तः प्रमादरहितः, मुख्यमधिकारिणमाह । यदाह – धर्म्यमप्रमत्तसंयतस्य शोभनमृज्वायतमूर्त्तिकं संस्थानं शरीरसन्निवेशो यस्य स तथा । एवंविधः सन् ध्याता ध्यानोद्यतो भवेत् ध्याने उद्यच्छेत् ।
इति निगदितमेतत्साधनं ध्यानसिद्धे- येतिगृहिगतभेदाद्भिन्नरत्नत्रयं च ।
सकलमपि यदन्यध्ध्यानभेदादि सम्यक् प्रकटितमुपरिष्टादष्टभिस्तत्प्रकाशैः ॥ १ ॥। १३५ ।। १३६ ।। इति परमार्हतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्री हेमचन्द्रविरचिते अध्यात्मोपनिषन्नानि संजातपट्टबन्धे श्रीयोगशास्त्रे खोपज्ञं चतुर्थप्रकाशविवरणम् ॥
0000000000
इति योगशास्त्रे प्रथमो विभागः
0000000000000000
For Personal & Private Use Only
0.04 ************
चतुर्थः प्रकाशः ।
॥ ३४० ॥
Page #699
--------------------------------------------------------------------------
________________
आचार्य श्री हेमचंद्रविरचितम् । ॥ योगशास्त्रम् ॥
(स्वोपज्ञविवरणसहितम् ) (द्वितीयो विभागः)
॥पञ्चमःप्रकाशः॥ ॐ नमः सर्वज्ञाय परमात्मने श्रीजिनेन्द्राय ॥ अत्रान्तरे परैः प्राणायाम उपदिष्टो " यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि योगस्यति" वचनात् । न च प्राणायामो मुक्तिसाधने ध्याने उपयोगी, असौमनस्यकारित्वात् । यदाहु:
ऊसासं न निरंभइ आभिग्गहिरो वि किमुत्र चिट्ठाए ? । सज्ज मरणं निरोहे सुहुमोसासं तु जयणाए ॥१
तथापि कायारोग्यकालज्ञानादौ स उपयोगीत्यस्माभिरपीहोपदर्थतेप्राणायामस्ततः कैश्चिदाश्रितो ध्यानसिद्धये। शक्यो नेतरथा कर्तुं मनःपवननिर्जयः ॥१॥ | (१) उच्छ्वासं न निरुणद्वि आभिग्रहिकोऽपि किमुत चेष्टावान् ? । सद्यो मरणं निरोधे (ततः)सूक्ष्मोच्छासं तु यतनया (ग्राह्यः) ॥१॥
Jain Education in
d ia
For Personal & Private Use Only
Page #700
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
॥ ३४१॥
प्राणस्य मुखनासान्तरसंचारिणो वायोः आ समन्तात् यमनं गतिविच्छेदः प्राणायामः । ततः आसनजया
पश्चमः दनन्तरं कैश्चित पातञ्जलिप्रभृतिभिः आश्रितोऽङ्गीकृतः ध्यानसिद्धये ध्यानसिद्ध्यर्थ। तदाश्रयणे कारणमाह- प्रकाशः : इतरथा मनसः पवनस्य च जयः कर्तुं न शक्यः ॥१॥
ननु प्राणायामात् पवनविजयो भवतु, मनोविजयस्तु कथं ? इत्याहमनो यत्र मरुत्तत्र मरुद्यत्र मनस्ततः। अतस्तुल्यक्रियावेतौ संवीतौ क्षीरनीरवत् ॥ २॥
मनश्चेतो यत्र देशे तत्र मरुत् , यत्र मरुत् ततो मनः, तत इति आद्यादित्वेन सप्तम्यन्तात्तसुः । अत एतौ मनःपवनौ तुल्यक्रियौ तुल्ये क्रिये गमनस्थानलक्षणे ययोस्तौ तथा । संवीतौ क्षीरनीरवत् यथा क्षीरनीरे मिलिते । समरसतया वर्तेते तथा मनःपवनावपि ॥२॥
तुल्यक्रियत्वमेव भावयतिएकस्य नाशेऽन्यस्य स्यान्नाशो वृत्तौ च वर्तनम् । ध्वस्तयोरिन्द्रियमतिध्वंसान्मोक्षश्च जायते ॥३॥ ___ एकस्य मनःपवनयोरन्यतरस्य नाशेऽन्यस्य तदेकतरस्य नाशः स्यात् , वृत्तौ प्रवृत्तौ वर्तनं प्रवृत्तिः स्यात् ।। | मनःपवनयोर्ध्वस्तयोः सतोरिन्द्रियमतिध्वंसो भवति, इन्द्रियमतिध्वंसाच मोक्षो भवति ॥ ३ ॥
प्राणायामस्य लक्षणं तद्भेदांश्चाहप्राणायामो गतिच्छेदः श्वासप्रश्वासयोर्मतः । रेचकः पूरकश्चैव कुम्भकश्चेति स त्रिधा ॥४॥॥३४१ ॥
Jain Education intetaal
For Personal & Private Use Only
Ik
www.janelibrary.org
Page #701
--------------------------------------------------------------------------
________________
13
बाह्यस्य वायोराचमनं श्वासः, कोष्ठस्य वायोर्निश्वसनं प्रश्वासः, तयोर्गतिच्छेदः प्राणायामः । स त्रिधा-रेचकः पूरकः कुम्भकश्चेति ॥४॥
प्राचार्यान्तरमतेन भेदान्तराण्याहप्रत्याहारस्तथा शान्त उत्तरश्चाधरस्तथा । एभिर्भेदैश्चतुर्भिस्तु सप्तधा कीर्त्यते परैः ॥ ५॥
प्रत्याहारशान्तोत्तराधरलक्षणैश्चतुर्भिर्भेदैः पूर्वभेदसहितैः प्राणायामः सप्तधा ॥ ५ ॥
क्रमेणैषां लक्षणमाहयत्कोष्ठादतियत्नेन नासाब्रह्मपुराननैः । वहिः प्रक्षेपणं वायोः स रेचक इति स्मृतः ॥ ६॥
कोष्ठादुदरात अतियत्नेन नासया ब्रह्मरन्ध्रणाननेन च यद् बहिः प्रक्षेपणं वायोः स रेचकः प्राणायामः॥६॥
तथासमाकृष्य यदापानात् पूरणं स तु पूरकः। नाभिपद्मे स्थिरीकृत्य रोधनं स तु कुम्भकः॥७॥
बाह्येन वायुना आकृष्टेन आ अपानं (नात्) यत् कोष्ठस्य पूरणं स पूरकः । यत् पुनर्नाभिपझे कुम्भ इव वायोः स्थिरीकरणं स कुम्भकः ॥ ७॥ तथास्थानात्स्थानान्तरोत्कर्षः प्रत्याहारः प्रकीर्तितः। तालुनासाननद्वारैनिरोधः शान्त उच्यते ॥८॥
स्थानात् नाभ्यादेः स्थानान्तरे हृदयादौ वायोरुत्कर्षणं स प्रत्याहारः । तालु च नासा चाननं च तालुनासा
Lain Education in
For Personal & Private Use Only
Page #702
--------------------------------------------------------------------------
________________
योग
ननं तत्र द्वाराणि तैर्यो वायोनिरोधः स शान्तः॥८॥ तथा
पश्चमः शास्त्रम् | पापीयोर्ध्वं यदुत्कृष्य हृदयादिषु धारणम् । उत्तरः स समाख्यातो विपरीतस्ततोऽधरः॥९॥ प्रकाशः।
___ आपीय पीत्वा बाह्यवायुमूर्ध्वमुत्कृष्योन्नीय हृदयादिषु यद्वायोर्धारणं स उत्तरः, ततो विपरीतोऽधरः ऊर्ध्व ॥३४२॥
देशादधोनयनरूपः । ननु रेचकादिषु कथं प्राणायामो गतिविच्छेदरूपो हि स उच्यते ? उच्यते-यत्र रेचके * कोष्ठ्यो वायुर्विरेच्य बहिर्धायते तत्रास्ति श्वासप्रश्वासयोर्गतिच्छेदः, यत्रापि पूरके बाह्यो वायुराचम्यान्तर्धार्यते तत्राप्यस्ति श्वासप्रश्वासयोगेतिच्छेदः, एवं कुम्भकादिष्वपि ॥६॥
रेचकादीनां फलमाहरेचनादुदरव्याधेः कफस्य च परिक्षयः। पुष्टिः पूरकयोगेन व्याधिघातश्च जायते ॥ १० ॥ | विकसत्याशु हृत्पद्मं ग्रन्थिरन्तर्विभिद्यते । बलस्थैर्यविवृद्धिश्च कुम्भकाद्भवति स्फुटम् ॥११॥ प्रत्याहाराबलं कान्तिदोषशान्तिश्च शान्ततः। उत्तराधरसेवातः स्थिरता कुम्भकस्य तु ॥१२॥
श्लोकत्रयं स्पष्टम् ॥ १० ॥ ११ ॥ १२॥
न केवलं प्राणायामः प्राणस्यैव जयहेतुः, किन्तु पञ्चानामपि वायूनां जयहेतुरित्याहप्राणमपानसमानावुदानं व्यानमेव च । प्राणायामैर्जयेत् स्थानवर्णक्रियार्थबीजवित् ॥ १३॥ ॥३४२ ॥
Jain Education inte
For Personal & Private Use Only
Page #703
--------------------------------------------------------------------------
________________
प्रकर्षण नयतीति प्राणः, मूत्रपुरीषगर्भादीनपनयतीत्यपानः, अशितपीताहारपरिणतिभेदं रसं तत्र तत्र स्थाने सममनुरूपं नयतीति समानः, रसादीनूर्व नयतीत्युदानः, व्यानयति व्यामोतीति व्यानः, डप्रत्ययान्ता एते । अथवा प्रसरणेनापसरणेन समन्तात्प्रसरणार्ध्व व्याप्त्या च अनिति अनेनेति घजन्ताः प्राणमपानं समानमुदानं व्यानं च वायु प्राणायामै रेचकादिभिर्जयेद्योगी। किंविशिष्टः ? स्थानवर्णक्रियार्थवीजवित प्राणादीनां स्थानं वर्ण क्रियामर्थ बीजं च वेत्ति यः स तथा ॥ १३॥
तत्र प्राणस्य स्थानादीन्याहप्राणो नासाग्रहृन्नाभिपादाङ्गुष्टान्तगो हरित् । गमागमप्रयोगेण तजयो धारणेन वा ॥१४॥
प्राणो नाम वायुनीसाग्रे हृदि नाभौ पादाङ्गष्ठान्ते च गच्छत्तीति स तथा इति स्थानं । हरिदिति वर्णः । गमागमप्रयोगेण धारणेन च (वा) तज्जयः इति क्रिया । अर्थो बीजं च वक्ष्यते ॥ १४ ॥
अथ गमागमप्रयोगं धारणं च व्याचष्टेनासादिस्थानयोगेन पूरणाद्वेचनान्मुहः। गमागमप्रयोगः स्याद्धारणं कुम्भनात् पुनः॥१५॥ ___ स्पष्टः ।। १५ ।। अथापानस्यअपानः कृष्णरुग्मन्यापृष्ठपृष्ठान्तपाणिगः। जेयः स्वस्थानयोगेन रेचनात् पूरणान्मुहुः॥१६॥
कृष्णरुक् कृष्णवर्णः, मन्ये ग्रीवापश्चान्नाड्यौ, पृष्ठं तदधोभागः, पृष्ठान्तो गुदः, पाणी पादपश्चाद्भागौ, तेषु
in Education intem
For Personal & Private Use Only
ww.jainelibrary.org
Page #704
--------------------------------------------------------------------------
________________
योगशास्त्रम्
पश्चमः प्रकाशः।
॥३४३॥
गच्छति यः स तथा, स्वस्थानं मन्यादि तद्गतरेचनपूरणाभ्यां जेयः ॥ १६ ॥ ____ अथ समानस्यशुक्लः समानो हृन्नाभिसर्वसन्धिष्ववस्थितः। जेयः स्वस्थानयोगेनासकृद्रेचनपूरणात् ॥१७॥
शुक्लो वर्णेन । हृदये नाभौ सर्वसन्धिषु च स्थानमस्य स स्वस्थानेऽसकृद्रेचनात् पूरणाच्च जेयः॥ १७ ॥
अथोदानस्यरक्तो हृत्कण्ठतालुभ्रूमध्यमूर्धनि संस्थितः। उदानो वश्यतां नेयो गत्यागतिनियोगतः॥१८॥
रक्तो वर्णेन । हृदयं कण्ठः तालु भ्रूमध्यं मूर्धा च स्थानमस्य । स उदानो गत्यागतिप्रयोगेण वशमायत्ततां नेयः॥१८॥ ___ गत्यागतिप्रयोगमेवाह-- नासाकर्षणयोगेन स्थापयेत्तं हृदादिषु। बलादुत्कृष्यमाणं च रुध्ध्वा रुध्ध्वा वशं नयेत्॥१९॥
तमुदानं हृदयादिषु स्थापयेत् । केन ? नासाकर्षणयोगेन नासयाऽऽकर्षणभधस्तान्नयनं स एव योगस्तेन, तथाऽप्यजीयमानं बलादाकृष्यमाणं ऊर्ध्व नीयमानं रुध्ध्वा रुध्ध्वा विधार्य विधार्य वशं नयेत् ॥ १६॥
अथ व्यानस्यसर्वत्वग्वृत्तिको व्यानःशककार्मुकसन्निभः। जेतव्यः कुम्भकाभ्यासात्सङ्कोचप्रमृतिकमात्॥२०॥
सर्वस्यां त्वचि वर्तमानः इति स्थाननिर्देशः । शक्रकार्मुकसनिभ इति वर्णनिर्देशः । कुम्भकाभ्यासाजेतव्यः ।
। ३४३।
Lain Education Interna
For Personal & Private Use Only
Pa
Page #705
--------------------------------------------------------------------------
________________
अभ्यासक्रममेवाह-सङ्कोचप्रमृतिक्रमात् सङ्कोचेन प्रसरणेन चेत्यर्थः ॥ २० ॥ __अथैषां ध्यातव्यबीजान्याहप्राणापानसमानोदानव्यानेष्वेषु वायुषु। ये पैवैरौ लौ बीजानि ध्यातव्यानि यथाक्रमम् ।।२१।।
प्राणस्य य इति बीजं, अपानस्य पैं, समानस्य वै, उदानस्य रौं, व्यानस्य लौ ॥ २१ ॥
इदानीं श्लोकत्रयेण प्राणादिजयस्यार्थमाहप्राबल्यं जाठरस्याग्नेर्दीर्घश्वासमरुज्जयौ । लाघवं च शरीरस्य प्राणस्य विजये भवेत् ॥२२॥
दीर्घोऽव्युच्छिन्नःश्वासः प्राणधारणप्रत्ययार्थ, प्राणप्रतिबद्धाः सर्वे मरुतः, तज्जये सर्वमरुञ्जयो भवतीति॥२२॥तथारोहणं क्षतभङ्गादेरुदराग्नेः प्रदीपनम् । वर्णोऽल्पत्वं व्याधिघातः समानापानयोर्जये ॥२३॥
रोहणं रोपणं, कस्य ? क्षतभङ्गादेः क्षतस्य-व्रणस्य, भङ्गस्य-अस्थ्यादिसंबन्धिनः, आदिशद्वादन्यस्य तत्प्रकारस्य । शेषं स्पष्टम् ॥ २३॥ तथाA उत्क्रान्तिर्वारिपङ्कायैश्चाबाधोदाननिर्जये।जये व्यानस्य शीतोष्णासङ्गः कान्तिररोगिता॥२४॥
. उत्क्रान्तिरुत्क्रमणं प्रयाणकालेऽर्चिरादिमार्गेण स्ववशित्वेनोत्क्रान्ति करोतीत्यर्थः। जलपङ्कादिभिश्चाबाधा, तैर्न प्रतिहन्यत इत्यर्थः । आदिशद्वात् कण्टकादिपरिग्रहः उदाननिर्जये सति । व्यानस्य जये शीतोष्णाभ्यामसङ्गः अबाधा, कान्तिीप्तिः, अरोगिताऽऽरोग्यम् ॥ २४॥
Jain Education intem
For Personal & Private Use Only
Page #706
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥ ३४४ ॥
70-11-0
Jain Education Interna
प्राणादीनां जये प्रत्येकं फलमुक्त्वा सामस्त्येन फलमाह -
यत्र यत्र भवेत् स्थाने जन्तो रोगः प्रपीडकः । तच्छान्त्ये धारयेत्तत्र प्राणादिमरुतः सदा ॥२५॥
*++4.03***+000-*---13
पश्चमः प्रकाशः ।
स्पष्टः ।। २५ ।। पूर्वोक्तमुपसंहरन्नुत्तरं संबध्नाति —
एवं प्राणादिविजये कृताभ्यासः प्रतिक्षणम् । धारणादिकमभ्यस्येन्मनः स्थैर्यकृते सदा ॥२६॥ धारणादिकमभ्यस्येत्, आदिशद्वात् ध्यानसमाधी, किमर्थं ? मनः स्थैर्यार्थम् || २६ || अथ धारणादिविधिं श्लोकपञ्चकेनाह
उक्तासनसमासीनो रेचयित्वाऽनिलं शनैः । श्रपादाङ्गुष्ठपर्यन्तं वाममार्गेण पूरयेत् ॥ २७ ॥ पादाङ्गुष्ठे मनः पूर्वं रुध्वा पादतले ततः। पाष्ण गुल्फे च जङ्घायां जानुन्यूरौ गुदे ततः ॥२८॥ लिङ्गे नाभौ च तुन्दे च हृत्कण्ठरसनेऽपि च । तालुनासामनेत्रे च भ्रुवोर्भाले शिरस्यथ ॥२९॥ एवं रश्मिक्रमेणैव धारयन्मरुता सह । स्थानात्स्थानान्तरं नीत्वा यावदब्रह्मपुरं नयेत् ॥३०॥ ततः क्रमेण तेनैव पादाङ्गुष्ठान्तमानयेत् । नाभिपद्मान्तरं नीत्वा ततो वायुं विरेचयेत् ॥३१॥ उक्तानि यानि पर्यङ्कादीन्यासनानि तेषु समासीनः पवनं रेचयित्वा शनैरिति मन्दं मन्दं पादाङ्गुष्ठप्रान्तं यावत् पूरयेत् वाममार्गेण वामनाड्या ॥ २७ ॥ पादाङ्गुष्ठे मनः प्रथमं रुध्ध्वा धारयित्वा ततः पादतले, ततोऽपि पायौ ॥ ३४४ ॥
For Personal & Private Use Only
Page #707
--------------------------------------------------------------------------
________________
Jain Education Inter
K+9184
6-2016
ततो गुल्फे, ततो जङ्घायां ततो जानुनि, ततोऽप्यूरौ, ततो गुदे ॥ २८ ॥ ततो लिने, ततो नाभौ, ततस्तुन्दे, ततो हृदि, ततः कण्ठे, ततो रसनायां ततस्तालुनि, ततो नासाग्रे, ततो नेत्रयोः, ततो भ्रुवो:, ततो ललाटे, ततः शिरसि ।। २६ ।। एवं रश्मिक्रमेण मनो मरुता सह धारयन् स्थानात् स्थानान्तरं नीत्वा ब्रह्मपुरं नयेत् ॥ ३० ॥ ततस्तेनैवारोहक्रमेण पादाङ्गुष्ठान्तं मनो मरुता सहानयेत् ततो नाभिपद्ममध्यं नीत्वा वायुं विरेचयेत् ॥ ३१ ॥ अथ धारणायाः फलं श्लोकचतुष्टयेनाह
,
पादाङ्गुष्ठा जङ्घायां जानूरुगुदमेदने । धारितः क्रमशो वायुः शीघ्रगत्यै वलाय च ॥३२॥ ज्वरादिघाताय जठरे कायशुद्धये । ज्ञानाय हृदये कूर्मनाड्यां रोगजराच्छिदे ॥३३॥ कंण्ठे क्षुत्तनाशाय जिह्वाग्रे रससंविदे । गन्धज्ञानाय नासाग्रे रूपज्ञानाय चक्षुषोः ॥३४॥ भाले तद्रोगनाशाय क्रोधस्योपशमाय च । ब्रह्मरन्ध्रे च सिद्धानां साक्षाद्दर्शनहेतवे ॥३५॥ पादाङ्गुष्ठे, आदिशद्वात् पाष्णौ गुल्फे च, जङ्घायां, जानुनि, ऊरौ, गुदे, मेहने, क्रमेण धारितो वायुः शीघ्र- . गत्यै बलाय च भवति ॥ ३२ ॥ शेषं सुगमम् ॥ ३३ ॥ ३४ ॥ ३५ ॥
अथ धारणामुपसंहृत्य पवनचेष्टितमाह
अभ्यस्य धारणामेवं सिद्धीनां कारणं परम् । चेष्टितं पवमानस्य जानीयाद्वतसंशयः ॥३६॥
स्पष्टः ॥ ३६ ॥ तद्यथा
For Personal & Private Use Only
*<>slole --->
Page #708
--------------------------------------------------------------------------
________________
योगशास्त्रम्
प्रकाशः।
॥३४५.
। नाभेर्निष्कामतश्चारं हृन्मध्ये नयतोगतिम्। तिष्ठतोद्वादशान्ते तु विन्यात्स्थानं नभस्वतः॥३७॥
स्पष्टः । नवरं गतिं नयत इति गच्छतः । द्वादशान्तं तु ब्रह्मरन्ध्रम् ।। ३७ ॥
अथ चारादीनां ज्ञानस्य फलमाहतच्चारगमनस्थानज्ञानादभ्यासयोगतः । जानीयात् कालमायुश्च शुभाशुभफलोदयम् ॥३८॥ कालं मृत्यु, आयुर्जीवितं, शुभाशुभफलस्य चोदयं जानीयात् , एतच्च यथास्थानं वक्ष्यते ॥ ३८ ॥
उत्तरकरणीयमाहततः शनै: समाकृष्य पवनेन समं मनः। योगी हृदयपद्मान्तर्विनिवेश्य नियन्त्रयेत् ॥३९॥
ततोऽनन्तरं शनैर्मन्दं मन्दं ब्रह्मरन्ध्रात् पवनेन सह मनः समाकृष्य हृदयपद्मस्यान्तर्मध्ये विनिवेश्य नियन्त्रयेत् धारयेत् ।। ३६ ॥
हृदयस्थे पवने मनसि च यत्फलं तदाहततोऽविद्या विलीयन्ते विषयेच्छा विनश्यति । विकल्पा विनिवर्तन्ते ज्ञानमन्तर्विजृम्भते॥४०॥
अविद्याः कुवासना विलीयन्ते । शेषं स्पष्टम् ।। ४० ॥
हृदये स्थिरीकृते मनसि वायोः स्वरूपज्ञानार्थ प्रक्रमतेक मण्डले गतिर्वायो: संक्रमः कक्क विश्रमः । का च नाडीति जानीयात्तत्र चित्ते स्थिरीकृते॥४१॥ ३४५ ।।
Lain Education inter
For Personal & Private Use Only
www.janelibrary.org
Page #709
--------------------------------------------------------------------------
________________
कुत्र मण्डले वायोर्गतिः क्व संक्रमणं ? क्व वा विश्रामः १ का च नाडी वामादिरूपा? इति जानीयात तत्र हृदये स्थिरीकृते मनसि ॥४१॥
तत्र मण्डलान्याहुःमण्डलानि च चत्वारि नासिकाविवरे विदुः। भौमवारुणवायव्याग्नेयाख्यानि यथोत्तरम् ॥४॥ ___ यथोत्तरमिति प्रथमं भोमं पार्थिवं मण्डलं, ततो वारुणमाप्यं, ततो वायव्यं, ततोऽप्याग्नेयम् ।। ४२ ॥
भौम मण्डलं व्याचष्टे| पृथिवीबीजसंपूर्ण वज्रलाञ्छनसंयुतम् । चतुरस्रं द्रुतस्वर्णप्रभं स्याद्भौममण्डलम् ॥ ४३ ॥ पृथिवीबीजं क्षितिलक्षणं तेन मध्ये संपूर्ण, चतुरस्र, कोणेषु वज्रलाञ्छनं, तप्तस्वर्णवर्ण, भौममण्डलं स्यात् ॥४३॥
अथ वारुणम्स्यादर्धचन्द्रसंस्थानं वारुणाक्षरलाञ्छितम्। चन्द्राभममृतस्यन्दसान्द्रं वारुणमण्डलम् ॥४४॥
अष्टमीचन्द्रसंस्थानं, वारुणाक्षरो वकारस्तेन लाग्छितं, चन्द्राभं श्वेतवर्ण, अमृतस्य पीयूषस्य स्पन्दः क्षरणं तेन सान्द्रं बहलं वारुणमण्डलम् ॥ ४४ ॥
अथ वायव्यम्स्निग्धाञ्जनघनच्छायं सुवृत्तं बिन्दुसंकुलम्। दुर्लक्ष्यं पवनाक्रान्तं चञ्चलं वायुमण्डलम् ॥४५॥
Jain Education.in
For Personal & Private Use Only
Page #710
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥ ३४६ ॥
Jain Education Int
स्निग्धयोरञ्जनघनयोरिव च्छाया यस्य तत्तथा, सुष्ठु वृत्तं वर्तुलं, मध्ये बिन्दुसंकुलं, दुर्लक्ष्यं दुरखगमं, परितः पवनवेष्टितं, चञ्चलं वायव्यमण्डलम् ।। ४५ ।। अथाग्नेयम् - ऊर्ध्वज्वालाञ्चितं भीमं त्रिकोणं स्वस्तिकान्वितम्। स्फुलिङ्गपिंगं तद्वीजं ज्ञेयमाग्नेयमण्डलम् ॥४६ ऊर्ध्वगामिनीभिलाभिचितं भीमं भयानकं, त्रिकोणं, कोणेषु स्वस्तिकाश्चितं स्फुलिङ्गवत् पिङ्गं, तदित्यनाग्नेः परामर्षः, बीजं च रेफः, एतदाग्नेयमण्डलम् ॥ ४६ ॥
अश्रद्दधानबोधार्थमाह
+10+-*---
अभ्यासेन स्वसंवेद्यं स्यान्मण्डलचतुष्टयम् । क्रमेण संचरन्नल वायुर्ज्ञेयश्चतुर्विधः ॥ ४७ ॥ अभ्यासेन स्वसंवेद्यमेतत् मण्डलचतुष्टयं स्यात्, नापातमात्रेण, अत्र मण्डलचतुष्टये संचरन् वायुर्मण्डलभेदेन चतुर्विधो भवतीति क्रमेणाह ॥ २७ ॥ नासिकारन्ध्रमापूर्य पीतवर्णः शनैर्वहन् । कोष्णोऽष्टाङ्गुलः स्वच्छो भवेद्वायुः पुरन्दरः ॥४८॥ नासाविवरमापूर्य पीतवर्णः शनैर्मन्दं मन्दं वहन् किञ्चिदुष्णः अष्टाङ्गुलप्रमाणः स्वच्छः पार्थिवः पुरन्दरनामा वायुः ॥ ४८ ॥ तथा
धवलः शीतलोऽधस्तात्त्वरितत्वरितं वहन् । द्वादशांगुलमानश्च वायुर्वरुण उच्यते ॥ ४९ ॥ वर्णेन धवलः, स्पर्शेन शीतः, अधस्तादधः त्वरितत्वरितं वहन् द्वादशाङ्गुलप्रमाणो वायुर्वरुणनामा ॥४६॥ तथा
For Personal & Private Use Only:
< ***+4084+01++..K+-0.06
पश्चमः
प्रकाशः ।
॥ ३४६ ॥
Page #711
--------------------------------------------------------------------------
________________
उष्णः शीतश्च कृष्णश्च वहन् तिर्यगनारतम् । षडङ्गुलप्रमाणश्च वायुः पवनसंज्ञितः ॥५०॥ __ स्पर्शेन क्वचिदुष्णः क्वचिच्छीतः, कृष्णो वर्णेन, तिर्यक संततं वहन् षडङ्गुलप्रमाणो वायुः पवननामा ।।५०॥तथाबालादित्यसमज्योतिरत्युष्णश्चतुरंगुलः । आवर्तवान् वहन्नू पवनो दहनः स्मृतः ॥५१॥ ___ वालार्कारुणो वर्णेन, अतिशयोष्णः स्पर्शन, चतुरङ्गुलप्रमाणः, आवर्तवान् , ऊर्ध्व वहन् दहननामा पवनः॥५१॥
यस्मिन् वायौ यत्कार्य कुर्यात्तदाहइन्द्रं स्तम्भादिकार्येषु वरुणं शस्तकर्मसु । वायु मलिनलोलेषु वश्यादौ वह्निमादिशेत्॥५२॥ ___ स्तम्भस्तोभादिषु पुरन्दरं, प्रशस्तेषु कर्मसु वरुणं, मलिनेषु चलेषु च कर्मसु वायु, वशीकरणादौ वह्निपवन| मादिशेत् ॥ ५२ ॥ ___ इदानीमारब्धे कार्ये कार्यप्रश्ने च यो यदा वायुर्वहति तस्य फलं श्लोकचतुष्टयेनाहछत्रचामरहस्त्यश्वरामाराज्यादिसंपदम् । मनीषितं फलं वायु: समाचष्टे पुरन्दरः ॥ ५३॥ रामाराज्यादिसंपूर्णे: पुत्रखजनबन्धुभिः। सारेण वस्तुना चापि योजयेद्वरुणः क्षणात् ॥५४॥ कृषिसेवादिकं सर्वमपि सिद्धं विनश्यति । मृत्युभी: कलहो वैरं त्रासश्च पवनं भवेत्॥५५॥ भयं शोकं रुजं दुःखं विघ्नव्यूहपरंपराम् । संसूचयद्विनाशं च दहनो दहनात्मकः ॥ ५६ ॥
Jain Education intered
For Personal & Private Use Only
P
l
Page #712
--------------------------------------------------------------------------
________________
पश्चमः
योगशास्त्रम्
॥३४७॥
स्पष्टाः ॥ ५३ ॥ ५४ ॥ ५५ ॥ ५६ ।। एतेषामेव सूक्ष्मतरं फलमाहशशाङ्करविमार्गेण वायवो मण्डलेष्वमी। विशन्तःशुभदा:सर्वे निष्कामन्तोऽन्यथा स्मृताः।५७ । प्रकाशः। ___ सर्वेऽपि वायवः पुरन्दरादयः शशाङ्कमार्गेण वामेन रविमार्गेण दक्षिणेन प्रविशन्तः शुभावहाः, निःसरन्तस्तु अशुभावहाः ।। ५७ ॥
प्रवेशनिर्गमयोः शुभाशुभत्वे कारणमाहप्रवेशसमये वायुर्जीवो मृत्युस्तु निर्गमे । उच्यते ज्ञानिभिस्तादृक्फलमप्यनयोस्ततः ॥५८॥ ___ स्पष्टः ॥ ५८ ।। इदानी बायोः शुभत्वमशुभत्वं मध्यमत्वं (च) नाडीभेदात् श्लोकद्वयेनाहपथेन्दोरिन्द्रवरुणौ विशन्तो सर्वसिद्धिदौ। रविमार्गेण निर्यान्तौ प्रविशन्तो च मध्यमौ ॥५९॥ || दक्षिणेन विनिर्यान्तौ विनाशायानिलानलौ । नि:सरन्तो विशन्तौ च मध्यमावितरेण तु॥६॥
स्पष्टौ ॥ ५६ ॥ ६० ॥ अथ नाडीरेवाह| इडा च पिङ्गला चैव सुषुम्णा चेति नाडिकाः। शशिसूर्यशिवस्थानं वामदक्षिणमध्यगा:॥१॥
वामगा इडा नाडी शशिनः स्थानं, दक्षिणगा पिङ्गला नाम रवेः स्थान, मध्यमगा सुषुम्णा नाम शिवस्थानम्॥६१॥! एतासु वायुसंचारे फलं श्लोकद्वयेनाह
॥३४७॥
JinEducation in
For Personal & Private Use Only
worm.jainelibrary.org
Page #713
--------------------------------------------------------------------------
________________
पीयूषमिव वर्षन्ती सर्वगात्रेषु सर्वदा । वामाऽमृतमयी नाडी सम्मताऽभीष्टसूचिका ॥६॥ | वहन्त्यनिष्टशंसित्री संही दक्षिणा पुनः। सुषुम्णा तु भवेत् सिद्धिनिर्वाणफलकारणम् ॥१३॥ _ स्पष्टौ । नवरं सिद्धयोऽणिमाद्याः, निर्वाणं मुक्तिः ।। ६२ ।। ६३ ॥ वामदक्षिणयोः कार्य प्रति विशेषमाहवामैवाभ्युदयादीष्टशस्तकार्येषु सम्मता । दक्षिणा तु रताहारयुद्धादी दीप्तकर्मणि ॥ ६४ ॥
अभ्युदयादीनीष्टानि शस्तानि च यानि कार्याणि तेषु वामैव नाडी सम्मता, दक्षिणा तु रतारम्भे, भोजनकाले, युद्धे, आदिशब्दादन्यत्रापि दीप्ते कर्मणि सम्मता ॥ ६४ ॥
पुनर्वामदक्षिणयोर्विषयविभागमाहवामा शस्तोदये पक्षे सिते कृष्णे तु दक्षिणा। त्रीणि त्रीणि दिनानीन्दुसूर्ययोरुदयः शुभः॥६५॥ . सिते पक्षे आदित्योदयकाले वहन्ती वामा शस्ता भवति, कृष्णपक्षे तु दक्षिणा शस्ता । किं सकलेऽपि पक्षे ? नेत्याह-इन्दुसूर्ययोर्वामदक्षिणयोर्नाड्योस्त्रीणि त्रीणि दिनानि उदयः शुभः ॥६५॥
उदयनियममुक्त्वाऽस्तनियममाह| शशाङ्केनोदये वायोः सूर्येणास्तं शुभावहम्।उदये रविणा त्वस्य शशिनास्तं शिवं मतम् ॥६६॥
यत्र दिने शशाङ्केन वायोरुदयस्तत्रास्तं सूर्येण शुभावह, यत्र च सूर्येणोदयस्तत्रास्तं शशाङ्केन शुभावहम् ॥६६॥ पूर्वोक्तमेवार्थ त्रिभिः श्लोकैर्विस्तरेणाह
Jan Education.in
For Personal Private Use Only
Page #714
--------------------------------------------------------------------------
________________
योग-
शास्त्रम्
। ३४८मा
सितपक्षे दिनारम्भे यत्नेन प्रतिपदिने । वायोर्वीक्षेत संचारं प्रशस्तमितरं तथा ॥ ६७ ॥ पञ्चमः
उदेति पवनः पूर्वं शशिन्येष व्यहं ततः । संक्रामति व्यहं सूर्ये शशिन्येव पुनथ्यहम्॥६८॥ प्रकाशः। | वहेद्यावद् बृहत्पर्व क्रमेणानेन मारुतः । कृष्णपक्षे पुनः सूर्योदयपूर्वमयं क्रमः ॥ ६ ॥ ___ स्पष्टाः ।। ६७ ॥ ६८ ॥ ६६ ॥ अस्य क्रमस्य व्यतिक्रमे फलं श्लोकद्वयेनाहत्रीन् पक्षानन्यथात्वेऽस्य मासषट्वेन पञ्चता । पक्षद्वयं विपर्यासेऽभीष्टबन्धुविपद्भवेत् ॥७॥ भवेत्तु दारुणो व्याधिरेकं पक्षं विपर्यये । द्विव्यायहविपर्यासे कलहादिकमुद्दिशेत् ॥ ७१ ॥
पूर्वोक्तस्य चन्द्रसूर्यचारस्य त्रीन् प्रक्षान् यावद् व्यतिक्रमे षडभिर्मासैर्मरणं, द्वौ पक्षौ यावद्व्यतिक्रमेऽभीष्टबन्धुविपद्भवेत, पक्षमेकं यावद्व्यतिक्रमे दारुणो व्याधिर्भवेत् ॥ ७॥ ७१ ॥ तथाएकं द्वे त्रीण्यहोरात्राण्यर्क एव मरुद्वहन । वर्षेत्रिभिाभ्यामेकेनान्तायेन्दौ रुजे पुनः॥७२॥ __एकमहोरात्रम् अर्क एव पवनो बहन् वर्षत्रयेण मरणाय, द्वे अहोरात्रे वहन् वर्षद्वयेन, त्रीणि त्वहोरात्राणि वहन् वर्षेणैकेन । इन्दौ तु तथा वहन् पवनो रोगाय ।। ७२ ॥ तथामासमेकं रवावेव वहन् वायुर्विनिर्दिशेत् । अहोरात्रावधि मृत्युं शशाड़े तु धनक्षयम् ॥७३॥ स्पष्टः ॥७३ ॥ तथा
15॥३४८॥
Latin Education inte
For Personal & Private Use Only
Page #715
--------------------------------------------------------------------------
________________
Jain Education Inte
---
****-++*-*-*
不.
वायुस्त्रमार्गगः शंसेन्मध्याह्नात् परतो मृतिम् । दशाहं तु द्विमार्गस्थ: संक्रान्तौ मरणं दिशेत् ॥ ७४ ॥ त्रिषु मार्गेषु इडापिङ्गलासुषुम्णालक्षणेषु गच्छतीति त्रिमार्गगो वायुः मध्याह्नात् परतो मरणं शंसेत् । दश दिनानि यावदसंक्रान्त एव द्विमार्गगो वायुः ततः परं संक्रामन् मरणं सूचयति ॥ ७४ ॥ तथादशाहं तु वहन्नन्दगरुजे महत् । इतश्चेतश्च यामार्धं वहन् लाभार्चनादिकृत् ॥ ७५ ॥ चन्द्र एव दशाहामि वहन् मरुत् उद्वेगाय रुजे च स्यात् । यामार्धं यावदितश्चेतश्च वामाया दक्षिणायां, दक्षिणायाः (च) वामायां वायुर्वहन् लाभपूजादिकारी भवति ।। ७५ ।। तथाविषुवत्समयप्राप्तौ स्पन्देते यस्य चक्षुषी । अहोरात्रेण जानीयात्तस्य नाशमसंशयम् ॥७६॥ समरात्रिन्दिवः कालो विवान् स चासौ समयश्च तस्य प्राप्तौ सङ्गमे यस्य चक्षुषी स्पन्देते, स्पन्दनं वायोविकार इति नाधिकारभ्रंशः । शेषं स्पष्टम् ॥ ७६ ॥ तथापञ्चातिक्रम्य संक्रान्तीर्मुखे वायुर्वहन् दिशेत् । मित्रार्थहानी निस्तेजोऽनर्थान् सर्वान्मृतिं विना ॥
नाड्या नाड्यन्तरे वायोः संक्रमकालः सक्रान्तिः, तत्सक्रान्तिपञ्चकमतिक्रम्य षष्ठ्यां संक्रान्तौ यदा मुखेन वायुर्वहति तदा मित्रहानिमर्थहानिं, निस्तेजः, सर्वाननर्थानिति उद्वेग रोगदेशान्तरगमनादीनादिशेत्, मरणं विना, मृतिस्तु न स्यात् ॥ ७७ ॥ तथा
५९
For Personal & Private Use Only
--***+-*-*11K++ 0.
Page #716
--------------------------------------------------------------------------
________________
योगशास्त्रम्
पञ्चमः प्रकाश।
॥३४६॥
* संक्रान्ती: समतिक्रम्य त्रयोदश समीरणः। प्रवहन् वामनासायां रोगोद्वेगादि सूचयेत्॥७॥ ____ वामनासायां त्रयोदश संक्रान्तीय॑तिक्रम्य चतुर्दश्यां संक्रान्तौ वहन् वायू रोगोद्वेगादि सूचयति ॥७॥तथामार्गशीर्षस्य संक्रान्तिकालादारभ्य मारुतः। वहन् पञ्चाहमाचष्टे वत्सरेऽष्टादशे मृतिम् ॥७९॥ ___ मार्गशीर्षस्य प्रथमदिवसादारभ्य यदा पञ्चरात्रमेकनाड्यां वहेत् वायुः तदाऽष्टादशे वर्षे मरणम् ॥७॥ तथाशरत्संक्रान्तिकालाच्च पञ्चाहं मारुतो वहन् । ततः पञ्चदशाब्दानामन्ते मरणमादिशेत्॥८॥ ___ अश्वयुक्प्रथमदिवसादारभ्य पञ्च दिनान्येकनाड्यां यदि वायुर्वरेत् तदा पञ्चदशवर्षान्ते मरणम् ॥८०॥ तथा| श्रावणादेः समारभ्य पञ्चाहमनिलो वहन् । अन्ते द्वादशवर्षाणां मरणं परिसूचयेत् ॥८१॥ वहन् ज्येष्ठादिदिवसादशाहानि समीरणः । दिशेन्नवमवर्षस्य पर्यन्ते मरणं ध्रुवम् ॥८२॥
श्रारभ्य चैत्राद्यदिनात् पञ्चाहं पवनो वहन् । पर्यन्ते वर्षषकस्य मृत्युं नियतमादिशेत् ॥८३॥ * श्रारभ्य माघमासादेः पञ्चाहानि मरुद्वहन् । संवत्सरत्रयस्यान्ते संसूचयति पञ्चताम् ॥८४॥ ___ अमी चत्वारः श्लोकाः पूर्ववद्व्याख्येयाः ॥ ८१ ॥ ८२ ॥ ८३ ॥ ८४ ॥ तथासर्वत्र द्वित्रिचतुरो वायुश्चेदिवसान् वहेत् । अब्दभागैस्तु ते शोध्या यथावदनुपूर्वशः ॥८५॥
॥३४६।।
in Education
For Personal & Private Use Only
Page #717
--------------------------------------------------------------------------
________________
Jain Education Inters
←+x-(---> Hole <--)
येषु पञ्चाहगमनं वायोर्निर्दिष्टं तेषु द्वित्रिचतुर्दिवसवाहिनि मारुते पञ्चाहफलानुसारेण मरणवर्षमूह्यं । श्रब्दभागैस्तु ते शोध्या इति पञ्चाहवाहिनि वायौ किलाष्टादशाब्दानि ततो दिनचतुष्टय वाहिनि एकदिवस भागे वर्ष - त्रयं मासाः सप्त दिनानि षट् अस्मिन् शोधिते लब्धं चतुर्दश वर्षाणि चत्वारो मासाः चतुर्विंशतिर्दिनानि । एवं द्व्यहत्र्यहवाहिन्यपि वाच्यं । शरदादिष्वप्येवमेव भागशुद्धिः कार्या ॥ ८५ ॥
अथ प्रकारान्तरेण वायुनिमित्तं कालज्ञानोपदेशं प्रतिजानीते
अथेदानीं प्रवक्ष्यामि कञ्चित् कालस्य निर्णयम् । सूर्यमार्गं समाश्रित्य स च पौष्णेऽवगम्यते ॥ ८६ ॥
स्यष्टः || ८६ | पौष्ण इत्युक्तं तस्य स्वरूपमाह –
जन्मऋक्षगते चन्द्रे समसप्तगते रवौ । पौष्णनामा भवेत्कालो मृत्युनिर्णयकारणम् ॥८७॥ यदा जन्मनक्षत्रे चन्द्रः समसप्तगतश्च सूर्यो भवति तदा पौष्णः कालः ॥ ८७ ॥
तस्मिन् सूर्यनाडीप्रवाहेण कालज्ञानमाह
दिनार्थं दिनमेकं च यदा सूर्ये मरुद्वहन् । चतुर्दशे द्वादशेऽब्दे मृत्युवे भवति क्रमात् ॥ ८८॥ दिनार्थं सूर्यनाड्यां वहन् वायुश्चतुर्दशे वर्षे दिनं तु वहन् द्वादशेऽब्दे मृत्यवे स्यात् ॥ ८८ ॥ तथातथैव च वहन् वायुरहोरात्रं द्वयहं त्र्यहम् । दशमाष्टमषष्ठाब्देष्वन्ताय भवति क्रमात् ॥ ८९ ॥
For Personal & Private Use Only
130-7.03++**-+
www.jainvelibrary.org
Page #718
--------------------------------------------------------------------------
________________
योग
पश्चमः प्रकाशन
शास्त्रम्
१॥३५०॥
तथैव सूर्यनाड्यामहोरात्रं वहन वायुर्दशमे वर्षे, व्यहं वहनष्टमे वर्षे, व्यहं वहन् षष्ठे वर्षे मृत्यवे भवति ॥८६॥
तथावहन् दिनानि चत्वारि तुर्येऽब्दे मृत्यवे मरुत् । साशीत्यहःसहस्रं तु पञ्चाहानि वहन् पुनः॥१०॥ ___तथैव सूर्यनाड्यां चत्वारि दिनानि वहन् वायुश्चतुर्थे वर्षे मृत्यवे । पञ्च दिनानि तथा वहन् वायुरशीत्यधिके दिनसहस्रे वर्षत्रये इत्यर्थः ॥ १०॥
तथाएकद्वित्रिचतुःपञ्चचतुर्विशत्यहःक्षयात् । षडादीन् दिवसान् पञ्च शोधयेदिह तद्यथा ॥९१॥
साशीत्यहःसहस्रमध्यादेकस्या द्वयोस्तिमृणां चतसृणां पश्चानां चतुर्विंशतीनां यथाक्रमं पातनेन षद् सप्ताष्टौ दश च दिनानि शोधयेत् , तद्गतं च कालं जानीयात् । तद्यथेति विवरणोपन्यासश्चतुर्भिः श्लोकैः ॥ ११ ॥ षटुं दिनानामध्यर्क वहमाने समीरणे । जीवत्यहां सहस्रं षट्पञ्चाशदिवसाधिकम् ॥ ९२ ॥ __षद् दिनान्यर्कनाड्यां वहमाने वायौ षट्पञ्चाशदधिकं दिनसहस्रं जीवति अशीत्यधिकसहस्रादेकचतुर्विशत्यपनयने एतदेव भवति ॥ ९२ ।।
तथा| सहस्रं साष्टकं जीवेद्वायौ सप्ताहवाहिनि । सषट्त्रिंशन्नवशती जीवेदष्टाहवाहिनि ॥ ९३ ॥
सप्ताहवाहिनि वायावष्टोत्तरं दिनसहस्रं जीवेत् , पद्पश्चाशदधिकसहस्रात् द्वयोश्चतुर्विशत्योरपनयने एतदेव
॥३५०।।
in Education
For Personal & Private Use Only
Page #719
--------------------------------------------------------------------------
________________
भवति । अष्टाहवाहिनि तु वायौ षट्त्रिंशदधिको दिननवशती जीवेत् , अष्टोत्तरसहस्रात्तिमृणां चतुर्विशतीनामपनयने एतदेव भवति ॥ ३ ॥
तथा-- एकत्रैव नवाहानि तथा वहति मारुते । प्रहामष्टशतीं जीवेच्चत्वारिंशदिनाधिकाम् ॥ ९४॥ ____नव दिनानि वहति वायौ चत्वारिंशदधिको दिनानामष्टशती जीवेत् पत्रिंशदधिकनवशतीमध्याच्चतसृणां
चतुर्विशतीनामपनयने एतदेव भवति ॥ १४॥ तथाहैं तथैव वायौ प्रवहत्येकत्र दश वासरान् । विंशत्यभ्यधिकामह्नां जीवेत्सप्तशतीं ध्रुवम् ॥ ९५॥
___ दश वासरान् वायौ वहति विंशत्यधिको दिनसप्तशतीं जीवेत् । चत्वारिंशदधिकाष्टशतीमध्यात् पञ्चानां चतुर्वि| शतीनामपनयने एतदेव स्यात् ॥६५॥ तथा
एकद्वित्रिचतुःपञ्चचतुर्विशत्यहाक्षयात् । एकादशादिपञ्चाहान्यत्र शोध्यानि तद्यथा ॥ ९६ ॥ ___स्पष्टः ॥ ६६ ।। तद्यथेति एनमेव श्लोकं विवृणोति| एकादश दिनान्यर्कनाड्यां वहति मारुते । षणवत्यधिकान्यह्नां षट् शतान्येव जीवति॥९७॥
एकादश दिनानि वहति वायौ परमवत्यधिकानि दिनानां पद शतानि जीवति, विंशत्यधिकसप्तशतीमध्यादेकस्याश्चतुर्विशतरपनयने एतदेव भवति ।। १७॥ तथा
Jan Education EST
For Personel Private Use Only
Page #720
--------------------------------------------------------------------------
________________
योग
शास्रम्
॥३५१॥
Jain Education In
8--1.
-- 11-01
तथा
तथैव द्वादशाहानि वायौ वहति जीवति । दिनानां षट्शतीमष्टचत्वारिंशत्समन्विताम् ॥ ९८॥ द्वादशाहानि हति वा अष्टचत्वारिंशदधिकां दिनषदशतीं जीवति, षष्मवत्यधिकषट्शतीमध्यात् द्वयोश्च - तुर्विंशत्योरपनयने एतदेव भवति ॥ ६८ ॥ त्रयोदश दिनान्यर्क नाडीचारिणि मारुते । जीवेत्पञ्चशतीमह्नां षट्सप्ततिदिनाधिकाम् ॥९९॥ योदश दिनानि वहति वायौ षट्सप्तत्यधिकां दिनपश्ञ्चशतीं जीवेत्, अष्टचत्वारिंशदधिकषट्शतीमध्यात्तिसृणां चतुर्विंशतीनामपनयने भवत्येतदेव ॥ ६६ ॥
तथा
चतुर्दश दिनान्येवं प्रवाहिणि समीरणे । श्रशीत्यभ्यधिकं जीवेदह्नां शतचतुष्टयम् ॥ १०० ॥ चतुर्दश दिनानि वहति वाय अशीत्यधिकां दिनचतुःशतीं जीवेत्, षट्सप्तत्यधिकपञ्चशतीमध्याच्चतसृणां चतुर्विंशतीनामपनयने एतदेव स्यात् ॥ १०० ॥ तथा
तथा पञ्चदशाहानि यावद्वहति मारुते । जीवेत् षष्टिदिनोपेतं दिवसानां शतत्रयम् ॥ १०१ ॥ पञ्चदश दिनानि वहति वायौ षष्ट्यधिकं दिनशतत्रयं जीवेत्, अशीत्यधिकचतुःशतीमध्यात् पञ्चानां चतुर्विंशतीनामपनयने एतदेव भवति ॥ १०१ ॥ एकद्वित्रिचतुःपञ्चद्वादशाह क्रमचयात् । षोडशाद्यानि पञ्चाहान्यत्र शोध्यानि तद्यथा ॥ १०२॥
तथा—
For Personal & Private Use Only
*03+-*+++++-+--XIYXX
पश्चमः ।
प्रकाशः ।
॥३५१॥
Page #721
--------------------------------------------------------------------------
________________
एकद्वित्रिचतुःपञ्चसङ्ख्याता ये द्वादशाहास्तेषां क्रमेण चयस्ततः षोडशादीनि विंशत्यन्तानि पञ्च दिनानि शोध्यानि ॥ १०२॥
तद्यथेति विवृणोतिप्रवहत्येकनासायां षोडशाहानि मारुते । जीवेत्सहाष्टचत्वारिंशतं दिनशतत्रयीम् ॥ १०३ ॥ __षोडश दिनानि पिङ्गलायां वहति वायावष्टचत्वारिंशदधिकां दिनशतत्रयीं जीवेत् , षष्ट्यधिकशतत्रयीमध्यादेकस्य द्वादशाहस्यापनयने एतदेव भवति ॥१०३॥ तथावहमाने तथा सप्तदशाहानि समीरणे । अह्नां शतत्रये मृत्युश्चतुर्विंशतिसंयुते ॥ १०४ ॥ ___ सप्तदश दिनानि वहति वायौ चतुर्विशत्यधिकं दिनशतत्रयं जीवति, अष्टचत्वारिंशदधिकशतत्रयाद् द्वयोर्दादशाहयोरपनयने एतदेव भवति ॥ १०४ ॥ तथापवने विचरत्यष्टादशाहानि तथैव च । नाशोऽष्टाशीतिसंयुक्त गते दिनशतद्रये ॥१०५॥
अष्टादश दिनानि वहति चायौ अष्टाशीत्यधिके दिनशतद्वये मृत्युः, चतुर्विंशत्यधिकशतत्रयात्रयाणां द्वादशाहानामपनयने एतदेव भवति ॥ १०५ ॥ तथाविचरत्यनिले तद्वदिनान्येकोनविंशतिम् । चत्वारिंशद्युते याते मृत्युदिनशतद्रये ॥१०६॥
Jain Education inte
For Personal & Private Use Only
|
Page #722
--------------------------------------------------------------------------
________________
पञ्चमः प्रकाशः
योगशास्त्रम् ॥३५२॥
तथा
१९५१ ममाता
एकोनविंशतिदिनवाहिनि वायौ चत्वारिंशदधिकदिनशतद्वये मृत्युः, अष्टाशीत्यधिकशतद्वयाचतुर्णा द्वादशाहानामपनयने एतदेव भवति ॥ १०६ ॥ तथाविंशतिदिवसानेकनासाचारिणि मारुते । साशीतौ वासरशते गते मृत्युन संशयः ॥१०७॥
विंशतिं दिनानि वहति वायौ अशीत्यधिके दिनशते मृत्युः, चत्वारिंशदधिकशतद्वयात् पञ्चानां द्वादशाहानामपनयने एतदेव भवति ॥ १०७॥ एकद्वित्रिचतुःपञ्चदिनषट्कक्रमक्षयात् । एकविंशादिपञ्चाहान्यत्र शोध्यानि तद्यथा ॥१०॥ ___ एकद्वित्रिचतुःपञ्चानां दिनषद्कानां क्रमेण क्षयात् एकविंशत्यादि पञ्चविंशतिपर्यन्तानि पञ्च दिनानि शोधयेत् ।। १०८॥ ___ तद्यथेति पूर्ववत्एकविंशत्यहं वर्कनाडीवाहिनि मारुते । चतुःसप्ततिसंयुक्ते मृत्युदिनशते भवेत् ॥ १०९॥ ___एकविंशतिं दिनानि वहति वायौ चतुःसप्तत्यधिके दिनशते मृत्युः, अशीत्यधिकशतादेकस्य षट्कस्यापनयने [3] एतदेव भवति ॥ १० ॥ द्वाविंशतिं दिनान्येवं सद्विषष्टावहःशते । षड्दिनोनैः पञ्चमासैस्त्रयोविंशत्यहानुगे ॥ ११० ॥
तथा
॥३५२॥
Jan Education inte
For Personal & Private Use Only
I
Page #723
--------------------------------------------------------------------------
________________
द्वाविंशतिं दिनानि वहति वायौ द्विषष्टयधिके दिनशते मृत्युः, चतुःसप्तत्यधिकशताद् द्वयोः षट्कयोरपनयने एतदेव भवति । तथा त्रयोविंशति दिनानि वहति वायो चतुश्चत्वारिंशदधिके दिनशते मृत्युः, द्विषष्टयधिकशतात्रयाणां षट्कानामपनयने एतदेव भवति ॥ ११०॥ तथातथैव वायौ वहति चतुर्विंशतिवासरीम् । विंशत्यभ्यधिक मृत्युभवेदिनशते गते ॥ १११ ॥
चतुर्विशतिं दिनानि वहति वायौ विंशत्यधिके दिनशते मृत्युः, चतुश्चत्वारिंशदधिकदिनशताच्चतुर्णा षट्कानामपनयने एतदेव भवति ।। १११ ॥ पञ्चविंशत्यहं चैवं वायौ मासत्रये मृतिः । मासद्वये पुनर्मृत्युः षड्विंशतिदिनानुगे ॥ ११२ ॥
पञ्चविंशतिं दिनानि वहति वायौ मासत्रये मृत्युः, विंशत्यधिकशतात् पञ्चानां षट्कानामपनयने एतदेव भवति । षड्विंशतिं दिनानि वहति वायौ मासद्वये मृत्युः ॥ ११२ ॥ तथासप्तविंशत्यहवहे नाशो मासेन जायते । मासार्धेन पुनर्मृत्युरष्टाविंशत्यहानुगे ॥ ११३ ॥ ___ सप्तविंशतिं दिनानि वहति वायौ मासेन मृत्युः । अष्टाविंशतिं दिनानि वहति वायो मासार्धेन मृत्युः ॥ ॥ ११३ ॥
तथाएकोनत्रिंशदहगे मृतिः स्याद्दशमेऽहनि । त्रिंशदिनीचरे तु स्यात्पञ्चत्वं पञ्चमे दिने ॥११४॥
sain Education interna
For Personal & Private Use Only
Page #724
--------------------------------------------------------------------------
________________
योगशास्त्रम्
तथा
पञ्चम: प्रकाशः।
॥३५३॥
एकोनविंशतं दिनानि वहति वायौ दशमे दिने मृत्युः । त्रिंशतं दिनानि वहति वायौ पञ्चमे दिने मृत्युः ।। ११४ ॥ एकत्रिंशदहचरे वायौ मृत्युदिनत्रये । द्वितीयदिवसे नाशो द्वात्रिंशदहवाहिनि ॥ ११५ ॥ एकत्रिंशतं दिनानि वहति वायौ दिनत्रये मृत्युः । द्वात्रिंशतं दिनानि वहति वायौ दिनद्वये मृत्युः ॥ ११५॥
इदानीं सूर्यनाडीचारमुपसंहरंश्चन्द्रनाडीचारमाचष्टे। त्रयस्त्रिंशदहचरे त्वेकाहेनापि पञ्चता । एवं यदीन्दुनाड्यां स्यात्तदा व्याध्यादिकं दिशेत्॥११६॥ ___ त्रयस्त्रिंशतं दिनानि वहति वायावेकेन दिनेन मृत्युः। इन्दुनाड्यां यद्येवं वायुचारो भवति तदान मृत्युभवति, किन्तु पूर्वोक्तविधिना व्याध्यादिकं स्यात्, आदिशब्दात्सुहन्नाशमहाभयस्वदेशविरहधनपुत्रादिनाशराजविनाशदर्भिक्षादयः संगृह्यन्ते ॥ ११६ ॥
उपसंहरतिअध्यात्म वायुमाश्रित्य प्रत्येकं सूर्यसोमयोः । एवमभ्यासयोगेन जानीयात्कालनिर्णयम्।११७।।
आत्मशब्देन शरीरमुच्यते, आत्मन्यधि अध्यात्म शरीरान्तर्गतं वायुमाश्रित्य सोमसूर्ययोरभ्यासयोगेन कालनिर्णयं कालावधारणं जानीयात् ॥ ११७ ॥
बाह्यं काललक्षणं जिज्ञापयिषुः प्रस्तौति
॥३५३
in Education
a l and
For Personal & Private Use Only
Page #725
--------------------------------------------------------------------------
________________
| अध्यात्मिकविपर्यासः संभवेद्वयाधितोऽपि हि। तन्निश्चयाय बध्नामि बाह्यं कालस्य लक्षणम्११८
अध्यात्मिकस्य शरीरान्तर्गतस्य वायोाधिनाऽपि विपर्ययः संभवति, न ततः कालज्ञानं स्फुटं भवति, ततस्तनिश्चयाय कालनिश्चयाय बाह्यं कालस्य लक्षणं बध्नामि ।। ११८ ॥ | नेत्रश्रोत्रशिरोभेदात् स च त्रिविधलक्षणः। निरीक्ष्यः सूर्यमाश्रित्य यथेष्टमपरः पुनः॥ ११९ ॥ ___स च कालो नेत्रश्रोत्रशिरोभेदात् , त्रिविधं लक्षणं ज्ञापकं यस्य स तथा, सूर्यमाश्रित्यालम्म्य निरीक्षणीयः । अपरस्त्रिविधादन्यो यथेष्टं खेच्छया निरीक्षणीयः ॥ ११६ ॥
तत्र नेत्रलक्षणमाहवामे तत्रेक्षणे पद्मं षोडशच्छदमैन्दवम् । जानीयाद्भानवीयं तु दक्षिणे द्वादशच्छदम् ॥ १२० ॥ ___ वामे लोचने ऐन्दवं पोडशदलं पद्मं चिन्तयेत् । दक्षिणे तु नेत्रे भानवीयं द्वादशदलं पद्मं चिन्तयेत् ॥१२०॥ || खद्योतद्युतिवर्णानि चत्वारि च्छदनानि तु। प्रत्येकं तत्र दृश्यानि स्वाङ्गुलीविनिपीडनात् ॥१२॥ __तत्र पोडशदले पद्मे चत्वारि दलानि खद्योतयुतिवर्णानि गुरूपदेशेनाङ्गुलीनिपीडनात् दृश्यानि प्रत्येकमपि | द्वयोरपि पद्मयोः ॥ १२१ ।। तत्रसोमाधो भ्रूलतापाङ्गघाणान्तिकदलेषु तु। दले नष्टे क्रमान्मृत्युः षट्त्रियुग्मैकमासतः ॥१२२॥
JainEducation inte
For Personal & Private Use Only
.
Page #726
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥३५४
___ तत्र सोमस्याधो देशेऽदृश्यमाने दले षड्भिर्मासैर्मृत्युः । सोमस्यैवोपरिदेशे धूलतासमीपवर्तिनि दलेऽदृश्यमाने
पञ्चमः त्रिभिर्मासैमत्युः । अपाङ्गदेशवर्तिनि दलेऽदृश्यमाने मासद्वयन मृत्युः । घ्राणान्तिकवर्तिनि दलेऽदृश्यमाने मासेन प्रकाश मृत्युः ॥ १२२ ॥
तथा| अयमेव क्रमः पने भानवीये यदा भवेत्।दशपञ्चत्रिद्विदिनैः क्रमान्मृत्युस्तदा भवेत् ॥ १२३ ॥
अयमेवाङ्गुलीनिपीडनादिलक्षणः क्रमो भानवीयेऽपि पद्मेऽदृश्यमाने तत्तद्दले यथासव्यं दशभिः पञ्चभिः त्रिभिः द्वाभ्यां च दिनाभ्यां मृत्युभवेत् ॥ १२३ ॥ तथाएतान्यपीड्यमानानि द्वयोरपि हि पद्मयोः। दलानि यदि वीक्षेत मृत्युदिनशतात्तदा ॥ १२४ ॥ एतान्येव दलानि सोमसूर्यसंवन्धीनि अङ्गुलीभिरपीड्यमानान्येव यदि पश्येत्तदा दिनशतान्मृत्युः ॥ १२४ ॥ *
अथ श्रोत्रलक्षणं श्लोकद्वयेनाहध्यात्वा हृद्यष्टपत्राजं श्रोत्रे हस्ताग्रपीडिते।नश्रूयेताग्निनिर्घोषो यदि स्वः पञ्च वासरान् ।१२५ । दश वा पञ्चदश वा विंशति पञ्चविंशतिम् । तदा पञ्चचतुस्त्रिद्वयेकवर्षेमरणं क्रमात् ।१२६।।
हृदयेऽष्टपत्रं कमलं ध्यात्वा हस्ताग्रपीडिते श्रोत्रे यदि स्वकीयोऽग्निनिर्घोषः पञ्च वासरान् यावन्न श्रूयते तदा पञ्चभिवः, यदि दश वासरान श्रूयेत तदा चतुर्मिवर्षेः, यदि पञ्चदश वासरान श्रूयेत तदा त्रिभिवः, यदि
||३५४॥
JanEducation intetal
For Personal & Private Use Only
Page #727
--------------------------------------------------------------------------
________________
34*4*8403-1
विंशतिं वासरान्न श्रूयेत तदा द्वाभ्यां वर्षाभ्यां यदि पञ्चविंशतिं वासरान श्रूयेत तदा वर्षेण मृत्युर्भवेत् ॥१२५॥
तथा
।। १२६ ॥
एकद्वित्रिचतुःपञ्चचतुर्विंशत्य हः क्षयात् । षडादिषोडशदिनान्यान्तराण्यपि शोधयेत् ॥ १२७॥ एकस्या द्वयोस्तिसृणां चतसृणां पञ्चानां च दिनचतुर्विंशतीनां क्षयात् षडादीनि षोडशदिनान्यान्तराणि शोधयेत् । तथाहि–पञ्च दिनानि श्रूयमाणे श्रोत्रनिर्घोषे पञ्चभिर्वर्षैर्मृर्युर्भवतीत्युक्तम् । ततश्च षष्ठेऽपि दिने म निर्घोषे पञ्चभ्यो वर्षेभ्य एकस्या दिनचतुर्विंशतेरपनयने षट्सप्तत्यधिकैः सप्तदशभिर्दिनशतैर्मृत्युर्भवेत् । सप्तमदिनेstrश्रूयमाणे श्रोत्रनिर्घोषे प्राग्दिनेभ्यो द्वयोश्चतुर्विंशत्योरपनयनेऽष्टाविंशत्यधिकैः सप्तदशभिदिनशतैर्मृत्युर्भवेत् । अष्टमेऽपि दिनेऽश्रूयमाणे श्रोत्रनिर्घोषे प्राग्दिनेभ्यस्तिसृणां चतुर्विंशतीनामपनयने षट्पञ्चाशदधिकैः षोडशभिर्दिनशतैर्मृत्युः नवमेऽपि दिनेऽश्रूयमाणे निर्घोषे प्राग्दिनेभ्यश्चतसृणां चतुर्विंशतीनामपनयने षष्ट्यधिकैः पञ्चदशभिर्दिनशतैर्मृत्युः दशमेऽपि दिनेऽश्रूयमाणे निर्घोषे प्राग्दिनेभ्यः पञ्चानां चतुर्विंशितीनामपनयने चतुर्भिर्वर्षैर्मृत्युरित्युक्तमेव । एवमेकादशादिषु षोडशादिष्वेकविंशत्यादिष्वप्यूह्यम् ॥ १२७ ॥
अथ शिरोलचणमाह
ब्रह्मद्वारे प्रसर्पन्तीं पञ्चाहं धूममालिकाम् । न चेत् पश्येत्तदा ज्ञेयो मृत्युः :
संवत्सरैस्त्रिभिः॥१२८॥
ब्रह्मरन्ध्रे प्रसर्पन्तीं धूमरेखां गुरूपदेशदृश्यां यदि पञ्च दिनानि यावन्न पश्यति तदा त्रिभिर्वर्षैर्मृत्युः ॥१२८॥
For Personal & Private Use Only
→***O**-**@***@***@****
0.K++1.0.7
Page #728
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
॥ ३५५॥
Jain Education In
70+108-116400-2
प्रकारान्तरेण कालज्ञानं षड्भिः श्लोकैराहप्रतिपद्दिवसे कालचक्रज्ञानाय शौचवान् । श्रात्मनो दक्षिणं पाणि शुक्लपक्षं प्रकल्पयेत् ॥१२६ ॥ प्रतिपद्दिवसे प्रथमतिथौ शुचिः कालचक्रं ज्ञातुमात्मनो दक्षिणं पाणि शुक्लपक्षं प्रकल्पयेत् ॥ १२६ ॥ तथा मध्योर्ध्वपर्वाणि कनिष्ठाङ्गुलीगानि तु । क्रमेण प्रतिपत्षष्ट्येकादशीः कल्पयेत्तिथीः॥१३०॥ श्रवशेषाङ्गुलीपर्वाण्यवशेष तिथीस्तथा । पञ्चमीदशमीराकाः पर्वाण्यङ्गुष्ठगानि तु ॥ १३१ ॥ कनिष्ठाङ्गुलेरधस्तनपर्व प्रतिपदं, मध्यपर्व षष्ठीं ऊर्ध्वपर्व एकादशीं कल्पयेत् । अङ्गुष्टवर्ज शेषाङ्गुलीपर्वाणि शेषास्तिथीः कल्पयेत् । तथाहि - अनामिकापर्वसु द्वितीयातृतीया चतुर्थी, मध्यमापर्वसु सप्तम्यष्टमी नवमीः, तर्जन्यां द्वादशीत्रयोदशीचतुर्दशीः कल्पयेत् । अङ्गुष्ठपर्वाणि पञ्चमीदशमी पञ्चदशीः कल्पयेत् ॥ १३० ॥ १३१ ॥ तथावामपाणि कृष्णपक्षं तिथीस्तद्वच्च कल्पयेत् । ततश्च निर्जने देशे बद्धपद्मासनः सुधीः ॥ १३२ ॥ प्रसन्नः सितसंव्यानः कोशीकृत्य करद्वयम् । ततस्तदन्तः शून्यं तु कृष्णं वर्णं विचिन्तयेत् । १३३ । स्पष्टौ ॥ १३२ ॥ १३३ ॥ तथा
उद्घाटितकराम्भोजस्ततो यत्राङ्गुलीतिथौ । वीच्याते कालविन्दुः स काल इत्यत्र कीर्त्यते ।
* " वीक्षते कालबिन्दुं स " इति पाठः स्यात् ॥
For Personal & Private Use Only
Kok
8308-+10+
पश्चमः
प्रकाशः
॥ ३५५॥
Page #729
--------------------------------------------------------------------------
________________
:~~~3/0-3/0148
Jain Education Intern
स्पष्टः । नवरमत्रेति कालज्ञानप्रस्तावे || १३४ ॥
कालज्ञाने उपायान्तराण्याह
क्षुतविण्मेदमूत्राणि भवन्ति युगपद्यदि । मासे तत्र तिथौ तत्र वर्षान्ते मरणं तदा ॥१३५॥ तं क्षवः, विड् विष्टा, मेदो रेतः, मूत्रं प्रस्रावः, एतानि यदि युगपद्भवेयुस्तदा वर्षान्ते तत्रैव मासे तत्रैव दिने मृत्युः स्यात् ॥ १३५ ॥ तथा-
रोहिणीं शशभृलदन महापथमरुन्धतीम् । ध्रुवं च न यदा पश्येद्वर्षेण स्यात्तदा मृतिः ॥ १३६ ॥
रोहिणीं नक्षत्रविशेषं, शशभृतो लक्ष्म लाञ्छनं, महापथं छायापथं, अरुन्धतीं वशिष्ठभार्या, ध्रुवमौत्तानपार्दि, यदैकैकं युगपद्वापदुदृष्टिर्न पश्येत्तदा वर्षेण मृत्युः । लौकिका श्रप्याहु:
अरुन्धतीं ध्रुवं चैव विष्णोस्त्रीणि पदानि च । चीणायुषो न पश्यन्ति चतुर्थ मातृमण्डलम् ॥ १ ॥
अरुन्धती भवेजिह्वा ध्रुवो नासाग्रमुच्यते । तारा विष्णुपदं प्रोक्तं भ्रुवौ स्यान्मातृमण्डलम् ।। २ ।। १३६ ।। स्वप्ने स्वं भक्ष्यमाणं श्वगृध्रकाकनिशाचरैः । उह्यमानं खरोष्ट्राद्यैर्यदा पश्येत्तदा मृतिः ॥१३७॥ स्वमात्मानं श्वगृध्रकाकनिशाचरैर्भक्ष्यमाणं, उपलक्षणात् कृष्यमाणमपि, खरोष्ट्राद्यैः आदिशब्दात् श्ववराहादिभिश्चोह्यमानं, उपलक्षणात् कृष्यमाणं, यदा स्वने पश्येत्तदा वर्षान्ते मृत्युः । वर्षेणेत्यनुवर्तते ॥१३७॥ तथा— * भ्रूमध्ये विष्णुपदं ज्ञेयं तारिका मातृमण्डलम् ।। " इति प्रत्यन्तरम् ॥
"6
For Personal & Private Use Only
KKKK*-*-*-***-08-0
Page #730
--------------------------------------------------------------------------
________________
प्रकाशः
योग- रश्मिनिर्मुक्तमादित्यं रश्मियुक्तं हविर्भुजम् । यदा पश्येद्विपद्यत तदैकादशमासतः ॥१३८॥ शास्त्रम् रश्मयः किरणाः तद्वन्तमादित्यम् अन्येषु पश्यत्स्वपि यदा रश्मिहीनं पश्यति वहिं च रश्मियुक्तं पश्यति | ॥३५६॥ तदैकादशे मासे मृत्युः॥ १३८ ।। तथा
वृक्षाग्रे कुत्रचित् पश्येद्गन्धर्वनगरं यदि। पश्येत् प्रेतान् पिशाचान्वादशमे मासि तन्मृतिः॥१३९। ___ गन्धर्वनगरं सत्यनगरप्रतिबिम्बकं, तद्यदि वृक्षाने पश्येत्, प्रेतान् पिशाचान् वा यदि साक्षात् पश्येत् तदा दशमे मासे मृत्युः ॥ १३६ ॥ तथाछर्दि मूत्रं पुरीषं वा सुवर्णरजतानि वा। स्वप्ने पश्येद्यदि तदा मासान्नवैव जीवति ॥१४॥
स्पष्टः ।। १४० ॥ तथाहै। स्थूलोऽकस्मात् कृशोऽकस्मादकस्मादतिकोपनः। अकस्मादतिभीरुर्वा सासानष्दैव जीवति १४१ ____ अकस्मात् कारणाभावेन । शेषं स्पष्टम् ॥ १४१ ॥ तथासमग्रमपि विन्यस्तं पांशी वा कर्दमेऽपि वा।स्याच्चेखण्डं पदं सप्तमास्यन्ते म्रियते तदा ॥१४॥ ___ स्पष्टः । नवरं सप्तमास्या अन्ते ॥ १४२ ॥ तथातारां श्यामां यदा पश्येच्छुष्येदधरतालु च । न स्वाङ्गुलित्रयं मायाद्राजदन्तव्यान्तरे ॥१४३॥ ॥३५६॥
Lain Education inte
For Personal & Private Use Only
Page #731
--------------------------------------------------------------------------
________________
गृध्रः काकः कपोतो वा क्रव्यादोऽन्योऽपि वा खगः ।
निलीयेत यदा मूर्ध्नि षण्मास्यन्ते मृतिस्तदा ॥ १४४ ॥ तारा कनीनिका, श्यामा अञ्जनवर्णा । शुष्येतामकस्मादधरौ दन्तच्छदौ तालु च काकुदं । राजदन्तावध उपरि च द्वौ द्वौ दन्तौ । शेषं स्पष्टम् ॥ १४३ ॥ १४४ ॥ प्रत्यहं पश्यतानभ्रेऽहन्यापूर्य जलैर्मुखम् । विहिते पूत्कृते शक्रधन्वा तु तत्र दृश्यते ॥१४॥ यदा न दृश्यते तत्तु मासैः षड्भिर्मृतिस्तदा । परनेत्रे खदेहं चेन्न पश्येन्मरणं तदा ॥१४६॥ ___अनभ्रेऽहनि मुखमापूर्य जलैः पूत्कृतेन ऊर्ध्व क्षिपन् शक्रधनुः पश्यतीति स्थितमेतत् । यदा तदिन्द्रधनुर्न पश्यति । तदा षड्भिर्मासैर्मृतिः । परकनीनिकायां स्वदेहो दृश्यते, यदा तं न पश्येत्तदा षड्भिर्मासैर्मरणम् ॥१४५॥१४६॥ तथाकूर्परौ न्यस्य जान्वोधन्येकीकृत्य करौ सदा। रम्भाकोशनिभा छायां लक्षयेदन्तरोद्भवाम् १४७ विकासि च दलं तत्र यदेकं परिलक्ष्यते। तस्यामेव तिथो मृत्युः षण्मास्यन्ते भवेत्तदा ॥१४८॥
अनभ्रेऽहनीति वर्तते । शेषं स्पष्टम् ॥ १४७ ॥ १४८ ॥ तथाइन्द्रनीलसमच्छाया वक्रीभूता: सहस्रशः। मुक्ताफलालङ्करणा: पन्नगाः सूक्ष्ममूर्तयः ॥१४९॥ दिवासंमुखमायान्तो दृश्यन्ते व्योम्नि सन्निधौ। न दृश्यन्ते यदा ते तुषण्मास्यन्ते मृतिस्तदा १५०
in Education Interi
For Personal & Private Use Only
T
w
ww.jainelibrary.org
Page #732
--------------------------------------------------------------------------
________________
योगशास्त्रम्
पश्चमः प्रकाश
॥३५७,
आतपस्थितेन सर्वजनेनात्माभिमुखमायान्तः सूक्ष्ममूर्तयः सर्पा दृश्यन्ते इति स्थितमेतत् , ते पन्नगा यदा न दृश्यन्ते तदा षण्मास्या अन्ते मृत्युः ।। १४६ ॥ १५० ॥ तथास्वप्ने मुण्डितमभ्यक्तं रक्तगन्धस्रगम्बरम्। पश्येद् याम्यां खरे यान्तं स्वं योऽब्दासजीवति १५१
स्पष्टः ॥ १५ ॥ तथाघण्टानादो रतान्ते चेदकस्मादनुभूयते। पञ्चता पञ्चमास्यन्ते तदा भवति निश्चितम् ॥१५२॥
स्पष्टः । १५२ ॥ तथाशिरो वेगात्समारुह्य कृकलासो व्रजन् यदि। दध्याद्वर्णत्रयं पञ्चमास्यन्ते मरणं तदा ॥१५३॥
स्पष्टः ॥ १५३ ॥ तथा| वक्रीभवति नासा चेद्वर्तुलीभवतो दृशौ । स्वस्थानाद्भश्यतः कर्णो चतुर्मास्यां तदा मृतिः॥१५४॥
स्पष्टः ॥ १५४ ॥ तथाकृष्णं कृष्णपरीवारं लोहदण्डधरं नरम्। यदा स्वप्ने निरीक्षेत मृत्युर्मासैस्त्रिभिस्तदा ॥१५५॥ ___ स्पष्टः ॥१५५॥ तथाइन्दुमुष्णं रविं शीतं छिद्रं भूमौ रवावपि । जिह्वां श्यामां मुखं कोकनदाभं च यदेक्षते॥१५६॥ तालुकम्पो मन:शोको वर्णोऽङ्गे नेकधा यदा। नाभेश्चाकस्मिकी हिक्का मृत्युर्मासद्वयात्तदा १५७ ॥३७॥
For Personal & Private Use Only
Jan Education
El
Page #733
--------------------------------------------------------------------------
________________
स्पष्टौ । नवरं मनःशोको हृदयमतिशयेन रोदितीत्यर्थः ॥ १५६ ॥ १५७ ॥ तथाजिह्वा नास्वादमादत्ते मुहुः स्खलति भाषणे । श्रोत्रे न शृणुतः शब्दं गन्धं वेत्तिन नासिका।१५० स्पन्देते नयने नित्यं दृष्टवस्तुन्यपि भ्रमः । नक्तमिन्द्रधनुः पश्येत् तथोल्कापतनं दिवा ॥१५९॥ न च्छायामात्मनः पश्येदर्पणे सलिलेऽपि वा।अनब्दां विद्युतं पश्येच्छिरोऽकस्मादपिज्वलेत् १६० हंसकाकमयूराणां पश्येच्च क्वापि संहतिम्। शीतोष्णखरमृद्वादेरपि स्पर्श न वेत्ति च ॥१६१॥ अमीषां लक्ष्मणां मध्याद्यदैकमपि दृश्यते । जन्तोर्भवति मासेन तदा मृत्युन संशयः॥१६२॥ ___ पश्चापि स्पष्टाः ॥ १५८-१६२ ॥ तथाशीते हकारे फुत्कारे चोष्णे स्मृतिगतिक्षये । अङ्गपञ्चकत्ये च स्यादशाहेन पञ्चता ॥१६३॥ ___ व्यात्तमुखस्य वायुना सह हकारस्य निर्गच्छतो यदा शैत्यं भवति, किञ्चिद्विवृतोष्ठद्वयस्य वायुना कृतः फुत्कारो यद्यष्णो भवति, स्मृतिगत्योश्च भ्रंशो भवति, अङ्गपञ्चकशैत्यं च भवति, तदा दशाहेन मृत्युः ॥१६३॥ तथाअर्थोष्णमर्धशीतं च शरीरं जायते यदा। ज्वालाकस्माज्ज्वलेद्वाङ्गे सप्ताहेन तदा मृतिः॥१६॥
स्पष्टः ।। १६४ ॥ तथा
Jain Education.in
For Personal & Private Use Only
Page #734
--------------------------------------------------------------------------
________________
योगशास्त्रम्
पश्चमः। प्रकाशः।
॥३५८॥
स्नातमात्रस्य हृत्पादं तत्क्षणायदि शुष्यति । दिवसे जायते षष्ठे तदा मृत्युरसंशयम् ॥१६५।। ___ हृदयं च पादौ च हृत्पादम् । शेषं स्पष्टम् ॥ १६५ ॥ तथाजायते दन्तघर्षश्चेच्छवगन्धश्च दुःसहः । विकृता भवति च्छाया व्यहेण म्रियते तदा ॥१६६॥ ___स्पष्टः ॥ १६६ ॥ तथान स्वनासां स्वजिह्वां न न ग्रहान्नामला दिशः। नापि सप्तऋषीन् यहि पश्यति म्रियते तदा ॥९६७॥
स्पष्टः ॥ १६७ ॥ तथाप्रभाते यदि वा सायं ज्योत्स्नावत्यामथो निशि।प्रवितत्य निजी वाहू निजच्छायां विलोक्य च १६० शनैरुत्क्षिप्य नेत्रे स्वच्छायां पश्येत्ततोऽम्बरे। न शिरो दृश्यते तस्यां यदा स्यान्मरणं तदा ॥१६॥ नेक्ष्यते वामबाहुश्चेत् पुत्रदारक्षयस्तदा । यदि दक्षिणबाहुर्नेक्ष्यते भ्रातृक्षयस्तदा ॥ १७०॥ अदृष्टे हृदये मृत्युरुदरे च धनक्षयः । गुह्ये पितृविनाशस्तु व्याधिरूरुयुगे भवेत् ॥ १७१ ॥ अदर्शने पादयोश्च विदेशगमनं भवेत् । अदृश्यमाने सर्वाङ्गे सद्यो मरणमादिशेत् ॥ १७२॥
स्पष्टाः ॥ १६८-१७२ ॥ प्रकारान्तरणे कालज्ञानमाह
॥३५॥
Jin Education in
For Personal & Private Use Only
Page #735
--------------------------------------------------------------------------
________________
विद्यया दर्पणाङ्गुष्ठकुडयासिष्ववतारिता। विधिना देवता पृष्टा ब्रूते कालस्य निर्णयम्॥१७३॥ सूर्येन्दुग्रहणे विद्यों नरवीरठवेत्यसौ । साध्या दशसहस्याष्टोत्तरया जपकर्मतः ॥ १७४॥ अष्टोत्तरसहस्रस्य जापात् कार्यक्षणे पुनः। देवता लीयतेऽस्यादौ ततः कन्याऽऽह निर्णयम् ।१७५ सत्साधकगुणाकृष्टा स्वयमेवाथ देवता । त्रिकालविषयं ब्रूते निर्णयं गतसंशयम् ॥ १७६ ॥
स्पष्टाः ॥ १७३-१७६ ।। अथ शकुनद्वारेण पञ्चभिः श्लोकैः कालज्ञानमाहअथवा शकुनाद्विन्द्यात्सज्जो वा यदिवाऽऽतुरः। स्वतो वा परतो वाऽपि गृहे वा यदिवा बहिः।१७७॥ अहिवृश्चिककृम्याखुगृहगोधापिपीलिकाः । यूकामत्कुणलूताश्च वल्मीकोऽथोपदेहिकाः ॥१७॥ कीटिका घृतवर्णाश्च भ्रमर्यश्च यदाऽधिकाः । उद्वेगकलहव्याधिमरणानि तदा दिशेत् ॥१७॥ उपानद्वाहनच्छत्रशस्त्रच्छायाङ्गकुन्तलान् । चञ्च्चा चुम्बेद्यदा काकस्तदाऽऽसन्नैव पञ्चता ॥१०॥ अश्रुपूर्णदृशो गावो गाढं पादैर्वसुन्धराम् । खनन्ति चेत्तदानीं स्याद्रोगो मृत्युश्च तत्प्रभोः ॥१८॥
स्पष्टाः ॥ १७७-१८१ ॥ प्रकारान्तरेण स्तौतिअनातुरकृते ह्येतच्छकुनं परिकीर्तितम् । अधुनाऽऽतुरमुद्दिश्य शकुनं परिकीर्त्यते ॥ १८२ ॥
in Education Inter
For Personal & Private Use Only
LI www.janelibrary.org
Page #736
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
॥३५६ ।।
Jain Education Inter
卡
*
स्पष्टः ॥ १८२ ॥ आतुरशकुनेषु श्वगतशकुनानि त्रिभिः श्लोकैराह—
दक्षिणस्यां वलित्वा चेत् श्वा गुदं लेढयुरोऽथवा । लाङ्गलं वा तदा मृत्युरेकद्वित्रिदिनैः क्रमात् १८३ शेते निमित्तकाले चेत् श्वा संकोच्याखिलं वपुः । धूत्वा कर्णौ वलित्वाङ्गं धूनोत्यथ ततो मृतिः ॥ १८४॥ यदि व्यात्तमुखोलालां मुञ्चन् संकोचितेक्षणः । श्रङ्गं संकोच्य शेते श्वा तदा मृत्युर्न संशयः ॥१८५॥ स्पष्टाः ।। १८३-१८५ || काकशकुनानि श्लोकद्वयेनाह—
तुरहस्योर्ध्वं काकपचिगणो मिलन् । त्रिसन्ध्यं दृश्यते नूनं तदा मृत्युरुपस्थितः ॥ १८६॥ महानसे तथा शय्यागारे का काः क्षिपन्ति चेत् । चर्मास्थि रज्जुं केशान् वा तदासन्नैव पञ्चता ॥ १८७॥ स्पष्टौ ।। १८६-१८७ ।। अथ नवभिः श्लोकैरुपश्रुत्या कालज्ञानमाहश्रथवोपश्रुतेर्विन्द्याद्विद्वान् कालस्य निर्णयम् । प्रशस्ते दिवसे स्वप्नकाले शस्तां दिशं श्रितः । १८८ पूत्वा पञ्चनमस्कृत्याचार्य मन्त्रेण वा श्रुती । गेहाच्छन्नश्रुतिर्गच्छे च्छिल्पिचत्वरभूमिषु ॥ १८९ ॥ चन्दनेनार्चयित्वा दमां क्षिप्त्वा गन्धाक्षतादि च । सावधानस्ततस्तत्रोपश्रुतेः शृणुयाध्ध्वनिम् १९० श्रर्थान्तरापदेश्यश्च सरूपश्चेति स द्विधा । विमर्शगम्यस्तत्राद्यः स्फुटोक्तार्थोऽपरः पुनः ॥१९१॥
For Personal & Private Use Only
41********
----00
पश्चमः प्रकाशः ।
॥ ३५६ ॥
Page #737
--------------------------------------------------------------------------
________________
Jain Education Inter
यथैष भवनस्तम्भः पञ्चषड्तिरयं दिनैः । पक्षैर्मासैरथो वर्षेर्भक्ष्यते यदि वा न वा ॥१९२॥ मनोहरतरश्चासीत् किन्त्वर्यं लघु भक्ष्यते । अर्थान्तरापदेश्या स्यादेवमादिरुपश्रुतिः ॥ १९३॥ एषा स्त्री पुरुषो वाऽसौ स्थानादस्मान्न यास्यति । दास्यामो न वयं गन्तुं गन्तुकामो न चाप्ययम् विद्यते गन्तुकामोऽयमहं च प्रेषणोत्सुकः । तेन यास्यत्यसौ शीघ्रं स्यात्सरूपेत्युपश्रुतिः ॥ १९५॥ कर्णोद्घाटन संजातोपश्रुत्यन्तरमात्मनः । कुशलाः कालमासन्नमनासन्नं च जानते ॥ १९६ ॥ स्पष्टाः ॥ १८८ - १६६ ॥
शनैश्वरपुरुषेण कालज्ञानं श्लोकचतुष्टयेनाह -
शनिः स्याद्यत्र नक्षत्रे तद्दातव्यं मुखे ततः । चत्वारि दक्षिणे पाणौ त्रीणि त्रीणि च पादयोः १६७ चत्वारि वामहस्ते तु क्रमशः पञ्च वचसि । त्रीणि शीर्षे दृशोर्द्वे द्वे गुह्य एकं शनौ नरे ॥ १९८ ॥ निमित्तसमये तत्र पतितं स्थापनाक्रमात् । जन्मक्षं नामऋक्षं वा गुह्यदेशे भवेद्यदि ॥ १९९ ॥ दृष्टं श्लिष्टं ग्रहैर्दुष्टैः सौम्यैरप्रेचितायुतम् । सज्जस्यापि तदा मृत्युः का कथा रोगिणः पुनः ॥ २००॥
* " तथेयद्भिरयं दिनैः " इति प्रत्यन्तरम् ॥
For Personal & Private Use Only
1.XTOK 1,084)
R-70-1
|
Page #738
--------------------------------------------------------------------------
________________
योगशास्त्रम्
प्रकाशः।
॥३६०॥
स्पष्टाः। नवरं दृष्टमितिदशमतृतीये नवपञ्चमे चतुर्थाष्टमे कलत्रे च । पश्यन्ति पादवृध्ध्या फलं तथैव प्रयच्छन्ति ॥१॥
इत्यनेन क्रमेण ग्रहदर्शनं वाच्यम् । श्लिष्टं यदि तत्रैव क्रूरग्रहो भवेत् तद्विपर्ययेण सौम्यग्रहैरदृष्टास्पृष्टम् ॥ १९७-२००॥
अथ पृच्छालग्नानुसारेण कालज्ञानमाहपृच्छायामथ लग्नास्तचतुर्थदशमस्थिताः। ग्रहाःक्रूराः शशी षष्ठाष्टमश्चेत्स्यात्तदा मृतिः ॥२०१॥ ___ पृच्छायां प्रश्ने सति लग्ने तत्काललग्ने, अस्ते लग्नात्सप्तमे, चतुर्थे दशमे वा स्थाने स्थिताः क्रूरग्रहाश्चेत् , चन्द्रस्तु षष्ठोऽष्टमो वा यदि स्यात्तदा मृत्युः ॥ २०१॥ तथापृच्छायाः समये लग्नाधिपतिर्भवति ग्रहः। यदिवाऽस्तमितो मृत्युः सज्जस्यापि तदा भवेत्॥२०॥
लग्नाधिपतयो मेषादिषु राशिषुकुजशुक्रज्ञेन्द्रज्ञशुक्रकुजजीवसौरिशनिगुरवः । भेशा नवांशकानामजमकरतुलाकुलीराद्याः॥१॥
इतिशास्वादवगन्तव्याः ॥ २०२॥ तथालग्नस्थश्वेच्छशी सौरिदशो नवमः कुजः । अष्टमोऽस्तदा मृत्युः स्यान्चेन्न बलवान् गुरुः ॥२०॥
स्पष्टः ।। २०३॥ तथा
॥३६॥
JanEducation intent
For Personal & Private Use Only
Page #739
--------------------------------------------------------------------------
________________
***O**--**O****
Jain Education Internat
रविः षष्ठः तृतीयो वा शशी च दशमस्थितः । यदा भवति मुत्युः स्यात्तृतीये दिवसे तदा ॥ २०४ ॥ पापग्रहाश्चेदुदयात्तुर्ये वा द्वादशेऽथवा । दिशन्ति तद्विदो मृत्युं तृतीये दिवसे तदा ॥२०५॥
स्पष्टौ ॥ २०४ - २०५ ॥ तथा
उदये पञ्चमे वाऽपि यदिपापग्रहो भवेत् । अष्टभिर्दशभिर्वा स्याद्दिवसैः पञ्चता तदा ॥२०६॥
स्पष्टः ॥ २०६ ॥ तथा-
धनुर्मिथुनयोः सप्तमयोर्यद्यशुभा ग्रहाः । तदा व्याधिर्मृतिर्वा स्याज्ज्योतिषामिति निर्णयः ॥२०७॥ | स्पष्टः || २०७ ॥ यन्त्रद्वारेण कालज्ञानमष्टभिः श्लोकैराह-अन्तस्थाधिकृतप्राणिनामप्रणवगर्भितम् । कोणस्थरेफमाग्नेयपुरं ज्वालाशताकुलम् ॥ २०८ ॥ सानुस्वारैरकाराद्यैः पट्स्वरैः पार्श्वतो वृतम् । स्वस्तिकाङ्कबहि: कोणं स्वाक्षरान्तः प्रतिष्ठितम् ॥ २०९ चतुः पार्श्वस्थगुरुयं यन्त्रं वायुपुरावृतम् । कल्पयित्वा परिन्यस्येत् पादहृच्छीर्षसन्धिषु ॥ २९०॥ सूर्योदय क्षणे सूर्य पृष्ठे कृत्वा ततः सुधीः । स्वपरायुर्विनिश्चेतुं निजच्छायां विलोकयेत् ॥२११॥ पूर्ण छायां यदीक्षेत तदा वर्ष न पञ्चता । कर्णाभावे तु पञ्चत्वं वर्षेर्द्वादशभिर्भवेत् ॥ २१२ ॥ हस्तालिनुस्कन्धकेशपार्श्वनासाक्षये क्रमात् । दशाष्टसतपञ्चच्येकवर्षैर्मरणं दिशेत् ॥ २१३ ॥
६१
k-...-()()+91-73
For Personal & Private Use Only
Page #740
--------------------------------------------------------------------------
________________
योग- शास्त्रम्
पञ्चमः प्रकाशः।
॥३६१॥
आं
ख
पण्मास्या म्रियते नाशे शिरसश्चिबुकस्य वा। ग्रीवानाशे तु मासेनेकादशाहेन दृक्क्षये ॥२१॥ सच्छिद्रे हृदये मृत्युदिवसे: सप्तभिर्भवेत् । यदि च्छायाद्वयं पश्येद्यमपार्थं तदा बजेत्॥२१५॥
____ अन्तस्थं मध्यगतमधिकृतप्राणिनाम यस्य, स चासौ प्रणवश्च | तेन गर्मितं, आग्नेयपुरं, कोणस्थरेफं, ज्वालाशतैराकुलं, अनुखारसहितैः षद्भिः स्वरैः अकाराद्यैः पार्श्वतो वृतं, बहिःकोणेषु । खस्तिकावं, खा इत्यक्षरस्य मध्यस्थितं आग्नेयपुरमेव, तथा चतु:पार्श्वस्थो गुरुर्विसगान्तो यकारो यस्य तत्तथा, एवंभूतं यन्त्रं वायुपुरेणावृतं कल्पयित्वा पादयोहदि शीर्षे सन्धिषु च न्यसेत् । यन्त्रं च स्थापनानुसारेण द्रष्टव्यं । शेषाः श्लोकाः स्पष्टाः ॥२०८-२१॥
यन्त्रप्रयोगमुपसंहरन् विद्यया कालज्ञानमाहइति यन्त्रप्रयोगेण जानीयात्कालनिर्णयम् । यदि वा विद्यया विन्द्याद्वक्ष्यमाणप्रकारया ॥२१६॥ || . स्पष्टः ॥ २१६ ॥ विद्यामेव सप्तभिः श्लोकैराह
य
ई
यः
॥३६॥
in Education inter
For Personal & Private Use Only
Page #741
--------------------------------------------------------------------------
________________
प्रथमं न्यस्य चूडायां स्वाशब्दमोंच मस्तके।क्षि नेत्रे हृदये पञ्च नाभ्यव्जे हाक्षरं ततः॥२१७॥ ____ओं जुसः ओं मृत्युंजयाय ओं वज्रपाणिने शूलपाणिने हर हर दह दह स्वरूपं दशर्य दर्शय हुं फट् फट् ॥ अनया विद्ययाऽष्टाग्रशतवारं विलोचने । स्वच्छायां चाभिमन्त्र्याकं पृष्ठे कृत्वाऽरुणोदये ॥२१८॥ परच्छायां परकृते स्वच्छायां स्वकृते पुनः। सम्यक्तत्कृतपूजःसन्नुपयुक्तो विलोकयेत्॥२१९॥ संपूर्णी यदि पश्येत्तामावर्षं न मृतिस्तदा। कमजवाजान्वभावे त्रिद्वथेकाद्वैर्मृतिः पुनः ॥२२०॥ ऊरोरभावे दशभिर्मासैनश्येत्कटेः पुनः । अष्टाभिर्नवभिर्वापि तुन्दाभावे तु पञ्चषैः ॥ २२१॥ ग्रीवाऽभावे चतुस्त्रिद्वयकमासैम्रियते पुनः । कक्षाभावे तु पक्षण दशाहेन भुजक्षये ॥२२२॥ दिनैः स्कन्धक्षयेऽष्टाभिश्चतुर्याम्या तुहृत्तये। शीर्षाभावे तु यामाभ्यां सर्वाभावे तु तत्क्षणात् ॥
स्पष्टाः ॥ २१७-२२३ ॥ कालज्ञानोपायानुपसंहरति। एवमाध्यात्मिकं कालं विनिश्चेतुंप्रसङ्गतः। बाह्यस्यापि हि कालस्य निर्णयःपरिभाषितः॥२२४॥ ___ स्पष्टः ॥ २२४ ॥ अथ जयपराजयपरिज्ञानोपायमाहको जेष्यति द्वयोर्युद्धे इति पृच्छत्यवस्थितः।जयः पूर्वस्य पूर्णे स्याद्रिक्ते स्यादितरस्य तु॥२२५॥
Jan Educationind
For Personal & Private Use Only
Page #742
--------------------------------------------------------------------------
________________
योगशास्त्रम्
पश्वमः प्रकाशः
॥३६२॥
स्पष्टः ॥ २२५ ॥ रिक्तपूर्णयोर्लक्षणमाह- यत्त्यजेत्संचरन् वायुस्तद्रिस्तमभिधीयते । संक्रमेद्यत्र तु स्थाने तत्पूर्ण कथितं बुधैः ॥२२६॥ ____ स्पष्टः ॥ २२६ ॥ प्रकारान्तरेण कालज्ञानमाहप्रष्टाऽऽदौ नाम चेज्ज्ञातुर्गृह्णात्यन्वातुरस्य तु।स्यादिष्टस्य तदा सिद्धिविपर्यासे विपर्ययः॥२२७॥
स्पष्टः ॥ २२७ ॥ तथावामबाहस्थिते दूते समनामाक्षरो जयेत् । दक्षिणावाहगे वाजी विषमाक्षरनामकः ॥२२८॥
स्पष्टः ॥ २२ ॥ तथाभूतादिभिहीतानां दष्टानां वा भुजङ्गमैः। विधिः पूर्वोक्त एवासौ विज्ञेयः खलु मान्त्रिकैः ॥२२९॥
पूर्वोक्तो वामहस्ते पृच्छके समाक्षरो जीवेत् , दक्षिणास्थे विषमाक्षरः ॥ २२६ ॥ तथापूर्णा संजायते वामा विशता वरुणेन चेत् । कार्याण्यारभ्यमाणानि तदा सिध्यन्त्यसंशयम्।।२३०॥
स्पष्टः ।। २३० ॥ तथाजयजीवितलाभादिकापाणि निखिलान्यपि।निष्फलान्येव जायन्ते पवने दचिणास्थिते॥२३१॥
स्पष्टः ।। २३१ ॥ ततः
॥३६॥
Jain Education intem
For Personal & Private Use Only
*
ww.jainelibrary.org,
Page #743
--------------------------------------------------------------------------
________________
__स्पष्टः ॥ २३२ ॥ निश्चयमेवाह
.
स्पष्टः ।। २३३ ॥ तथा
। ज्ञानी बुध्ध्वाऽनिलं सम्यक् पुष्पं हस्तात्प्रपातयेत्। मृतजीवितविज्ञाने ततः कुर्वीत निश्चयम् ।२३२॥ त्वरितो वरुणे लाभश्चिरेण तु पुरन्दरे । जायते पवने स्वल्पसिद्धोऽप्यग्नौ विनश्यति॥२३३॥ श्रायाति वरुणे यातः तत्रैवास्ते सुखं क्षितौ । प्रयाति पवनेऽन्यत्र मृत इत्यनले वदेत् ॥२३४॥
स्पष्टः ॥ २३४ ॥ तथा* दहने युद्धपच्छायां युद्धभङ्गश्च दारुणः । मृत्युः सैन्यविनाशो वा पवने जायते पुनः ॥२३५॥ महेन्द्र विजयो युद्धे वरुणे वाञ्छिताधिकः। रिपुभङ्गेन सन्धिर्वा स्वसिद्धिपरिसूचकः॥२३६॥ || ___ स्पष्टः ॥ २३६ ॥ तथाभौमे वर्षति पर्जन्यो वरुणे तु मनोमतम्। पवने दुर्दिनाम्भोदा वह्नौ वृष्टिः कियत्यपि॥२३७॥
स्पष्टः ॥ २३७ ॥ तथावरुणे सस्यनिष्पत्तिरतिश्लाघ्या पुरन्दरे । मध्यस्था पवने च स्यान्न स्वल्पाऽपि हुताशने ॥२३८॥
स्पष्टः ॥ २३५ ॥ तथा
lain Education Intel
For Personal & Private Use Only
www.jalnelibrary.org
Page #744
--------------------------------------------------------------------------
________________
योग
पश्चमः
प्रकाशः।
शास्त्रम्
"
॥३६३॥
___ स्पष्टः ॥ २३८ ॥ तथामहेन्द्रवरुणौ शस्तौ गर्भप्रश्ने सुतप्रदौ । समीरदहनौ स्त्रीदौ शून्यं गर्भस्य नाशकम् ॥२३९॥ . स्पष्टः ॥ २३९ ॥ तथाहे राजकुलादौ च प्रवेशे निर्गमेऽथवा । पूर्णाङ्गपादं पुरतः कुर्वतः स्यादभीप्सितम् ॥२४॥
पूर्ण यदङ्ग वाम दक्षिणं वा तत्पादं पुरतः प्रथमं कुर्वतः, शेषं स्पष्टम् ॥ २४० ॥ तथा| गुरुबन्धुनृपामात्या अन्येऽपीप्सितदायिनः। पूर्णाङ्गे खलु कर्तव्या: कार्यसिद्धिमभीप्सता॥२४॥
स्पष्टः ॥ २४१ ॥ तथाआसने शयने वाऽपि पूर्णाङ्गे विनिवेशिताः। वशीभवन्ति कामिन्यो न कार्मणमतः परम् ॥२४॥
स्पष्टः ॥ २४२॥ तथा| अरिचौराधमांद्या अन्येऽप्युत्पातविग्रहाः। कर्तव्याः खलु रिक्ताङ्गे जयलाभसुखार्थिभिः।२४३
__स्पष्टः ॥ २४३ ॥ तथाप्रतिपक्षप्रहारेभ्यः पूर्णाङ्गे योऽभिरक्षति । न तस्य रिपुभिः शक्तिर्बलिष्ठेरपि हन्यते ॥२४ems
स्पष्टः ॥ २४४ ॥ तथा
||३६३॥
Jain Education inteण
For Personal & Private Use Only
Page #745
--------------------------------------------------------------------------
________________
| वहन्तींनासिकांवामां दक्षिणां वाऽभिसंस्थितः । पृच्छेद्यदि तदा पुत्रो रिक्तायां तुसुता भवेत् ॥ सुषुम्णावाहभागे द्वौ शिशू रिक्ते नपुंसकम्। सक्रान्तौ गर्भहानिः स्यात् समे क्षेममसंशयम् २४६
स्पष्टौ ॥ २४५-२४६ ॥ मतान्तरमाहचन्द्रे स्त्री पुरुषः सूर्ये मध्यभागे नपुंसकम्। प्रश्नकाले तु विज्ञेयमिति कैश्चिन्निगद्यते ॥२४७॥ ___ स्पष्टः ।। २४७ ॥ पवननिश्चयोपायमाहयदा न ज्ञायते सम्यक् पवनः संचरन्नपि। पीतश्वेतारुणश्यामैनिश्चेतव्यः स बिन्दुभिः॥४८॥ ___ स्पष्टः ॥ २४८ ॥ बिन्दुनिरीक्षणोपायं श्लोकद्वयेनाहअङ्गुष्ठाभ्यां श्रुती मध्याङ्गुलीभ्यां नासिकापुटे। अन्त्योपान्त्याङ्गुलीभिश्च पिधाय वदनाम्बुजम्॥ कोणावक्ष्णोनिपीड्याद्याङ्गलीभ्यां श्वासरोधतः। यथावर्णं निरीक्षेत बिन्दुमव्यग्रमानसः।२५०।
स्पष्टौ ॥ २४६-२५० ॥ बिन्दुज्ञानात् पवननिश्चयमाहपीतेन बिन्दुना भौमं सितेन वरुणं पुनः । कृष्णेन पवनं विन्द्यादरुणेन हुताशनम् ॥२५१॥ __ स्पष्टः ॥ २५१ ॥ अनभिमतां नाडी निषेधुमुपायमाहनिरुरुत्सेद्वहन्तीं यां वामां वा दक्षिणामथातदङ्गं पीडयेत्सद्यो यथा नाडीतरा वहेत्॥२५२॥
JanEducation
For Personal & Private Use Only
Page #746
--------------------------------------------------------------------------
________________
पञ्चमः प्रकाशः।
योग- * अग्रे वामविभागे हि शशिक्षेत्रं प्रचक्षते । पृष्टौ दक्षिणभागे तु रविक्षेत्रं मनीषिणः ॥२५३॥ शास्त्रम् लाभालाभौ सुखं दुःखं जीवितं मरणं तथा। विदन्ति विरलाः सम्यग्वायुसंचारवेदिनः॥२५४॥ REATE निरुरुत्सेत् निरोऽधुमिच्छेत् , तदङ्गं निषेधनाड्यङ्गं पीडयेत् शयनादिना । शेषं स्पष्टम् ।। २५२-२५४ ॥
नाडिशुद्धिश्च पवनसंचारेण ज्ञायते इति तामेव स्तौतिअखिलं वायुजन्मेदंसामर्थ्य तस्य जायते।कर्तुंनाडीविशुद्धिं यः सम्यग् जानात्यमूढधी ॥२५५॥ ___ स्पष्टः ।। २५५ ॥ इदानीं नाडीशुद्धिं श्लोकचतुष्टयेनाहनाभ्यन्जकर्णिकारूढं कलाबिन्दुपवित्रितम्।रेफाक्रान्त स्फुरद्भासं हकारं परिचिन्तयेत् ।२५६। तं ततश्च तडिद्वेगं स्फुलिङ्गार्चिशताञ्चितम् । रेचयेत्सूर्यमार्गेण प्रापयेच्च नभस्तलम् ॥२५७॥ अमृतैः प्लावयन्तं तमवतार्य शनैस्ततः। चन्द्राभं चन्द्रमार्गेण नाभिपने निवेशयेत् ॥२५८॥ निष्क्रमं च प्रवेशं च यथामार्गमनारतम् । कुर्वन्नेवं महाभ्यासो नाडीशुद्धिमवाप्नुयात् ।२५९।
स्पष्टाः ॥ २५६-२५६ ॥ नाडीसंचारज्ञाने फलमाहनाडीशुद्धाविति प्राज्ञ: संपन्नाभ्यासकौशलः । स्वेच्छया घटयेद्वायु पुटयोस्तत्क्षणादपि ॥२६॥
स्पष्टः ॥ २६० ॥ वामदक्षिणनाड्योरधिवसतः पवनस्य कालमानमाह
| ॥३६४॥
in Education
For Personel Private Use Only
Page #747
--------------------------------------------------------------------------
________________
Jain Education In
1)*) +-04-10.
द्वे एव घटि सार्धे एकस्यामवतिष्ठते । तामुत्सृज्यापरां नाडीमधितिष्ठति मारुतः ॥ २६१॥ स्पष्टः || २६१ ॥ तथा
पट्शताभ्यधिकान्याहुः सहस्राण्येकविंशतिम् । श्रहोरात्रे नरि स्वस्थे प्राणवायोर्गमागमम् ॥ २६२॥ स्पष्टः || २६२ || वायुसंक्रमावेदिनस्तच्चनिर्णयेऽनधिकारमाह
मुग्धधीर्यः समीरस्य संक्रान्तिमपि वेत्ति न । तत्त्वनिर्णयवार्ता स कथं कर्तुं प्रवर्तते ॥ २६३ ॥ स्पष्टः ।। २६३ ॥ इदानीं वेधविधिं श्लोकाष्टकेनाह
पूरितं पूरकेणाधोमुखं हृत्पद्ममुन्मिषेत् । ऊर्ध्व श्रोतो भवेत्तच कुम्भकेन प्रबोधितम् ॥ २६४॥ श्रक्षिप्य रेचकेनाथ कर्षेद्वायुं हृदम्बुजात् । ऊर्ध्वश्रोत ःपथग्रन्थि भित्त्वा ब्रह्मपुरं नयेत् ॥२६५॥ ब्रह्मरन्धान्निष्क्रमय्य योगी कृतकुतूहल: । समाधितोऽर्कतूलेषु वेधं कुर्याच्छनैः शनैः ॥ २६६॥ मुहुस्तत्र कृताभ्यासो मालतीमुकुलादिषु । स्थिरलक्ष (दय) तया वेधं सदा कुर्यादतन्द्रितः ॥ २६७॥ दृढाभ्यासस्ततः कुर्याद्वेथं वरुणवायुना । कर्पूरागृरुकुष्ठादिगन्धद्रव्येषु सर्वतः ॥ २६८ ॥ एतेषु लब्धलक्षो (यो) Sथ वायुसंयोजने पटुः । पक्षिकायेषु सूक्ष्मेषु विदध्याद्वेधमुद्यतः ॥२६६॥ पतङ्गभृङ्गकायेषु जाताभ्यासो मृगेष्वपि । अनन्यमानसो धीरः संचरेद्विजितेन्द्रियः ॥२७०॥
For Personal & Private Use Only
-*****...+10 +1.0.K+4
Page #748
--------------------------------------------------------------------------
________________
योगशास्त्रम्
पञ्चमः | प्रकाशः।
॥३६॥
नराश्वकरिकायेषु प्रविशन्निःसरन्निति । कुर्वीत संक्रमं पुस्तोपलरूपेष्वपि क्रमात् ॥ २७१ ॥
स्पष्टाः ॥ २६४-२७१ ॥ उक्तमुपसंहरन् वाच्यशेषमाहएवं परासुदेहेषु प्रविशेद्वामनासया । जीवदेहप्रवेशस्तु नोच्यते पापशङ्कया ॥ २७२ ॥
पापशङ्कयेति जीवदेहप्रवेशे हि परस्य प्राणप्रहाणं स्यात् , तच्च पापं शस्त्रघातादिवन्नोपदेष्टव्यं । न च परोपघातमन्तरेण जीवत्परपुरप्रवेशः संभवति । तथाहि
ब्रह्मरन्ध्रेण निर्गत्य प्रविश्यापानवमना । श्रित्वा नाभ्यम्बुजं यायात् हदम्भोज सुषुम्णया ॥१॥ तत्र तत्प्राणसंचारं निरुन्ध्यानिजवायुना । यावद्देहात्ततो देही गतचेष्टो विनिष्पतेत ॥२॥ तेन देहे विनिर्मुक्ते प्रादुर्भूतेन्द्रियक्रियः । वर्तेत सर्वकार्येषु स्वदेह इव योगवित् ॥ ३॥ दिनार्धं वा दिनं चेति क्रीडेत् परपुरे सुधीः । अनेन विधिना भूयः प्रविशेदात्मनः पुरम् ॥ ४ ॥ २७२ ॥
परपुरप्रवेशफलमाहक्रमेणैवं परपुरप्रवेशाभ्यासशक्तितः । विमुक्त इव निर्लेपः स्वेच्छया संचरेत् सुधीः ॥ २७३॥ स्पष्टः ।। २७३॥ इति परमाईतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिपन्नाम्नि
संजातपट्टबन्धे श्री योगशास्त्रे स्वोपज्ञं पञ्चमप्रकाशविवरणम् ॥ ५॥
३६शा
in Education in
For Personal & Private Use Only
Page #749
--------------------------------------------------------------------------
________________
अथ षष्ठः प्रकाशः
ओं अहं ॥ परपुरप्रवेशस्यापारमार्थिक्यमाहइह चायं परपुरप्रवेशश्चित्रमात्रकृत् । सिध्येन्न वा प्रयासेन कालेन महताऽपि हि ॥ १॥ ___ स्पष्टः ॥ १॥ कुतः ?| जित्वाऽपि पवनं नानाकरणैः क्लेशकारणैः । नाडीप्रचारमायत्तं विधायापि वपुर्गतम्॥२॥
अश्रद्धेयं परपुरे साधयित्वाऽपि संक्रमम् । विज्ञानैकप्रसक्तस्य मोक्षमार्गो न सिध्यति ॥३॥ ___स्पष्टौ ।। २-३॥
" प्राणायामस्ततः कैश्चिदाश्रितो ध्यानसिद्धये " इति यदुक्तं तत् श्लोकद्वयेन प्रतिक्षिपतितन्नाप्नोतिमनःस्वास्थ्यं प्राणायामैः कदर्थितम् । प्राणस्यायमने पीडा तस्यां स्याञ्चित्तविप्लवः४ पूरणे कुम्भने चैव रेचने च परिश्रमः । चित्तसंक्लेशकरणान्मुक्तेः प्रत्यूहकारणम् ॥ ५ ॥
स्पष्टौ ॥४-५॥ प्राणायामानन्तरं प्रत्याहारः कैञ्चिदुक्तः स च न दुष्ट इति तमाह
For Personal & Private Use Only
Page #750
--------------------------------------------------------------------------
________________
योगशास्त्रम्
प्रकाश
॥३६६॥
इन्द्रियैः सममाकृष्य विषयेभ्यः प्रशान्तधीः।धर्मध्यानकृते तस्मान्मन: कुर्वीत निश्चलम् ॥६॥
इन्द्रियैः सह मनो वाह्यविषयेभ्य आकृष्येत्यनेन प्रत्याहारकथनम् । यदुक्तमस्माभिरभिधानचिन्तामणौ"प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः" । मनः कुर्वीत निश्चलमिति प्रत्याहारानन्तरोपदिष्टाया धारणाया उपक्रमः॥६॥
धारणास्थानान्येवम्नाभीहृदयनासाग्रभालभ्रूतालुदृष्टयः। मुखं करें शिरश्चेति ध्यानस्थानान्यकीर्तयन् ॥ ७॥
ध्यानस्थानानीति ध्याननिमित्तस्य धारणायाः स्थानानि ॥७॥
धारणायाः फलमाहएषामेकत्र कुत्रापि स्थाने स्थापयतो मनः । उत्पद्यन्ते स्वसंवित्तेर्बहवः प्रत्ययाः किल ॥ ८ ॥ प्रत्यया वक्ष्यमाणाः। शेष स्पष्टम् ॥८॥ इति परमाईतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषन्नाम्नि
संजातपट्टबन्धे श्रीयोगशास्त्रे स्वोपज्ञं षष्ठप्रकाशविवरणम् ॥६॥
-
IKEK
॥३६६॥
lain Education
For Personal & Private Use Only
Page #751
--------------------------------------------------------------------------
________________
*-*••*@****@*****← •*•**•
अथ सप्तमः प्रकाशः ।
श्रई ॥ अथ ध्यानविधित्सोः क्रममाह -
ध्यानं विधित्सता ज्ञेयं ध्याता ध्येयं तथा फलम् । सिध्यन्ति न हि सामग्री विना कार्याणि कर्हिचित् ॥ १ ॥ स्पष्टः ॥ १ ॥ अथ ध्यातारं पतिः श्लोकैराह -
श्रमुञ्चन् प्राणनाशेऽपि संयमैकधूरीणताम् । परमप्यात्मवत् पश्यन् स्वस्वरूपापरिच्युतः ॥ २ ॥ उपतापमसंप्राप्तः शीतवातातपादिभिः । पिपासुरमरीकारि योगामृतरसायनम् रागादिभिरनाक्रान्तं क्रोधादिभिरदूषितम् । श्रात्मारामं मनः कुर्वन्निर्लेपः सर्वकर्मसु विरतः कामभोगेभ्यः स्वशरीरेऽपि निःस्पृहः । संवेगह्रदनिर्मग्नः सर्वत्र समतां श्रयन् नरेन्द्रे वा दरिद्रे वा तुल्य कल्याणकामनः । श्रमात्र करुणापात्रं भवसौख्यपराङ्मुखः सुमेरुरिव निष्कम्पः शशीवानन्ददायकः । समीर इव निःसङ्गः सुधीर्ध्याता प्रशस्यते ॥ ७ ॥ स्पष्टाः ॥ २७ ॥ अथ भेदप्रतिपादनद्वारेण ध्येयस्य स्वरूपमाह -
॥ ६॥
६२
For Personal & Private Use Only
॥ ३॥
॥ ४ ॥
॥ ५ ॥
*******+++***++++++
Page #752
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
॥ ३६७ ॥
--
***********20--02
पिण्डस्थं च पदस्थं च रूपस्थं रूपवर्जितम् । चतुर्धा ध्येयमाम्नातं ध्यानस्यालम्बनं बुधैः ॥ ८ ॥ पिण्डं शरीरं तत्र तिष्ठतीति पिण्डस्थं ध्येयम् ॥ ८ ॥
तद्धारणाभेदेनाह—
पार्थिवी स्यादथाग्नेयी मारुती वारुणी तथा । तत्रभूः पञ्चमी चेति पिण्डस्थे पञ्च धारणाः ॥ ९ ॥ स्पष्टः ॥ 8 ॥ तत्र पार्थिवीं धारणां श्लोकत्रयेणाह -
तिर्यग्लो कसमं ध्यायेत् क्षीराब्धि तत्र चाम्बुजम् । सहस्रपत्रं स्वर्णाभं जम्बूद्वीपसमं स्मरेत् ॥ १०॥ तत्केसरततेरन्तः स्फुरत्पिङ्गप्रभाञ्चिताम् । स्वर्णाचलप्रमाणां च कणिकां परिचिन्तयेत् ॥ ११ ॥ श्वेतसिंहासनासीनं कर्मनिर्मूलनोद्यतम् । श्रात्मानं चिन्तयेत्तत्र पार्थिवी धारणेत्यसौ ॥ १२ ॥ तिर्यग्लोकसमं तिर्यग्लोकप्रमाणं यावान् तिर्यग्लोकस्तावन्मात्रं रज्जुप्रमाणमिति यावत् । शेषं स्पष्टम् ॥१०-१२॥ अथाग्नेयीं धारणां षड्भिः श्लोकैराह—
विचिन्तयेत्तथा नाभौ कमलं षोडशच्छदम् । कणिकायां महामन्त्रं प्रतिपत्रं स्वरावलिम् ॥१३॥ रेफ बिन्दुकलाक्रान्तं महामन्त्रे यदक्षरम् । तस्य रेफाद्विनिर्यान्तीं शनैर्धूमशिखां स्मरेत् ॥ १४॥
For Personal & Private Use Only
***O***@************--
सप्तमः प्रकाशः ।
॥ ३६७ ॥
Page #753
--------------------------------------------------------------------------
________________
स्फुलिंगसंततिं ध्यायेज्ज्वालामालामनन्तरम्। ततो ज्वालाकलापेन दहेत् पद्मं हृदि स्थितम् ॥१५॥ तदष्टकर्मनिर्माणमष्टपत्रमधोमुखम् । दहत्येव महामन्त्रध्यानोत्थः प्रबलानलः ॥ १६ ॥ ततो देहाइहिायेच्या वह्निपुरं ज्वलत्। लाञ्छितं स्वस्तिकेनान्ते वह्निबीजसमन्वितम्॥१७॥ | देहं पद्मं च मन्त्रार्चिरन्तर्वह्निपुरं वहिः। कृत्वाऽऽशु भस्मसाच्छाम्येत्स्यादाग्नेयीति धारणा ॥१८॥
स्पष्टाः । नवरं महामन्त्रं सिद्धचक्रवर्तिबीजं अहं इति ॥ १३-१८ ॥
अथ वायवीं धारणां श्लोकद्वयेनाहततस्त्रिभुवनाभोगं पूरयन्तं समीरणम्।चालयन्तं गिरीनब्धीन् क्षोभयन्तं विचिन्तयेत्॥१९॥ तच्च भस्मरजस्तेन शीघ्रमुध्धूय वायुना । दृढाभ्यासः प्रशान्ति तमानयेदिति मारुती॥२०॥
स्पष्टौ ॥ १९-२० ॥ अथ वारुणी धारणां श्लोकद्वयेनाहस्मरेद्वर्षत्सुधासारैर्घनमालाकुलं नभः । ततोऽर्धेन्दुसमाक्रान्तं मण्डलं वारुणाङ्कितम् ॥२१॥ नभस्तलं सुधाम्भोभिः प्लावयेत्तत्पुरं ततः। तद्रजः कायसंभूतं क्षालयेदिति वारुणी॥२२॥
स्पष्टौ ॥ २१-२२ ॥ अथ तत्रभूधारणां सोपसंहारां त्रिभिः श्लोकैराह
in Education International
For Personal & Private Use Only
Page #754
--------------------------------------------------------------------------
________________
योग
शास्रम्
॥ ३६८ ॥
•*••*-*-*O*••*6
Jain Education Internation
सप्तधातुविनाभूतं पूर्णेन्दु विशदद्युतिम् । सर्वज्ञकल्पमात्मानं शुद्धबुद्धिः स्मरेत्ततः ॥ २३ ॥ ततः सिंहासनारूढं सर्वातिशयभासुरम् । विध्वस्ताशेषकर्माणं कल्याणमहिमान्वितम् ॥२४॥ स्वाङ्गगर्भे निराकारं संस्मरेदिति तत्रभूः । साभ्यास इति पिण्डस्थे योगी शिवसुखं भजेत् ॥२५॥
स्पष्टाः ।। २३-२५ ॥ पिण्डस्थध्येयस्य माहात्म्यं त्रिभिः श्लोकैराह—
श्रश्रान्तमिति पिण्डस्थे कृताभ्यासस्य योगिनः । प्रभवन्ति न दुर्विद्या मन्त्रमण्डलशक्तयः ॥ २६ ॥ शाकिन्यः क्षुद्रयोगिन्यः पिशाचाः पिशिताशनाः । त्रस्यन्ति तत्क्षणादेव तस्य तेजोऽसहिष्णवः २७ दुष्टा: करटिनः सिंहाः शरभाः पन्नगा श्रपि । जिघांसवोऽपि तिष्ठन्ति स्तम्भिता इव दूरतः ॥ २८ ॥ इति परमार्हतश्रीकुमारपालशुश्रूषिते आचार्य श्री हेमचन्द्रविरचिते अध्यात्मोपनिषन्नाम्नि संजातपट्टबन्धे श्रीयोगशास्त्रे स्वोपज्ञं सप्तमप्रकाशविवरणम् ॥ ७ ॥
* 'नराकारं ' इति प्रत्यन्तरम् ॥
For Personal & Private Use Only:
**
सप्तमः प्रकाशः ।
| ॥ ३६८ ॥
Page #755
--------------------------------------------------------------------------
________________
। अथाष्टमः प्रकाशः।८
ओं अहं ॥ अथ पदस्थस्य ध्येयस्य लक्षणमाहयत्पदानि पवित्राणि समालम्व्य विधीयते । तत्पदस्थं समाख्यातं ध्यानं सिद्धान्तपारगैः ॥१॥
स्पष्टः॥१॥ विशेष त्रिभिः श्लोकैराहतत्र षोडशपत्राढथे नाभिकन्दगतेऽम्बुजे । स्वरमालां यथापत्रं भ्रमन्तीं परिचिन्तयेत् ॥२॥ चतुर्विंशतिपत्रं च हृदि पद्मं सकर्णिकम् । वर्णान् यथाक्रमं तत्र चिन्तयेत् पञ्चविंशतिम् ॥३॥ वक्त्राब्जेऽष्टदले वर्णाष्टकमन्यत्ततः स्मरेत् । संस्मरन्मातृकामेवं स्याच्छुतज्ञानपारगः ॥४॥ ___स्पष्टाः ॥२-४॥ अस्य फलमाहध्यायतोऽनादिसंसिद्धान् वर्णानेतान् यथाविधि। नष्टादिविषये ज्ञानं ध्यातुरुत्पद्यते क्षणात्॥५॥
स्पष्टः । उक्तं च-" जापाजयेत्क्षयमरोचकमग्निमान्यं, कुष्ठोदरास्मकसनश्वसनादिरोगान् । प्रामोति चाप्रतिमवाग्महतीं महद्भ्यः , पूजां परत्र च गतिं पुरुषोत्तमाप्ताम् ॥ १॥" इति ॥ ५॥
प्रकारान्तरेण पदमयीं देवतां ध्येयतया द्वादशभिः श्लोकैः निर्दिशति
in Education International
For Personal & Private Use Only
Page #756
--------------------------------------------------------------------------
________________
योग
शास्त्रम् ।। ३
अष्टमः प्रकाशः।
| अथवा नाभिकन्दाधः पद्ममष्टदलं स्मरेत् । स्वरालीकेसरं रम्यं वर्गाष्टकयुतैर्दलेः ॥ ६ ॥ दलसन्धिषु सर्वेषु सिद्धस्तुतिविराजितम् । दलापु समग्रेषु मायाप्रणवपावितम् ॥ ७॥ तस्यान्तरन्तिमं वर्णमाद्यवर्णपुरस्कृतम् । रेफाकान्तं कलाबिन्दरम्यं प्रालेयनिर्मलम ॥ अर्हमित्यक्षरं प्राणप्रान्तसंस्पर्शि पावनम् । ह्रस्वं दीर्घ प्लुतं सूक्ष्ममतिसूक्ष्म ततः परम् ॥९॥ ग्रन्थीन् विदारयन्नाभिकन्दहृघण्टिकादिकान्। सुसूक्ष्मध्वनिना मध्गमार्गयायि स्मरेत्ततः १०. अथ तस्यान्तरात्मानं प्लाव्यमानं विचिन्तयेत्। बिन्दुतप्तकलानिर्यक्षीरगौरामतोर्मिभिः ॥११॥ तत: सुधासर:सूतषोडशाब्जदलोदरे । प्रात्मानं न्यस्य पत्रेषु विद्यादेवीश्च षोडश ॥ १२ ॥ स्फुटस्फटिकभृङ्गारक्षरत्क्षीरसितामृतैः। श्राभिराप्लाव्यमानं स्वं चिरं चित्ते विचिन्तयेत्॥१३॥ अथास्य मन्त्रराजस्याभिधेयं परमेष्टिनम् । अर्हन्तं मूर्धनि ध्यायेत् शुद्धस्फटिकनिर्मलम्॥१४॥ तध्यानावेशतः सोऽहं सोऽहमित्यालपन्मुहुः। निःशङ्कमेकतां विद्यादात्मनः परमात्मना ॥१५॥ ततो नीरागमद्वेषममोहं सर्वदर्शिनम् । सुराय॑ समवस्मृतौ कुर्वाणं धर्मदेशनाम् ॥ १६॥ ध्यायन्नात्मानमेवेत्थमभिन्नं परमात्मना । लभते परमात्मत्वं ध्यानी निर्धतकल्मषः॥१७॥
3881
Jain Education international
For Personal & Private Use Only
Page #757
--------------------------------------------------------------------------
________________
स्पष्टाः ॥६-१७ ॥ पुनरपि प्रकारान्तरेण पदमयी देवतां पञ्चभिः श्लोकैराहयद्वा मन्त्राधिपं धीमानूर्वाधोरेफसंयुतम् । कलाबिन्दुसमाकान्तमनाहतयुतं तथा ॥ १८ ॥ कनकाम्भोजगर्भस्थं सान्द्रचन्द्रांशुनिर्मलम्। गगने संचरन्तंचव्याप्नुवन्तं दिशः स्मरेत् ॥१९॥ ततो विशन्तं वक्त्राब्जे भ्रमन्तं भूलतान्तरे। स्फुरन्तं नेत्रपत्रेषु तिष्ठन्तं भालमण्डले ॥२०॥ निर्यान्तं तालुरन्ध्रेण स्रवन्तं च सुधारसम् । स्पर्धमानं शशाङ्केन स्फुरन्तं ज्योतिरन्तरे ॥२१॥
संचरन्तं नभोभागे योजयन्तं शिवश्रिया । सर्वावयवसंपूर्ण कुम्भकेन विचिन्तयेत् ॥ २२ ॥ ____ अहं । स्पष्टाः । यदाहुः-" अकारादि हकारान्तं रेफमध्यं सबिन्दुकम् । तदेव परमं तत्त्वं यो जानाति स | तत्त्ववित् ॥ १॥" इति ॥ १८-२२॥ __ मन्त्रराजस्य ध्याने फलमाहमहातत्त्वमिदं योगी यदैव ध्यायति स्थिरः। तदैवानन्दसंपद्भर्मुक्तिश्रीरुपतिष्ठते ॥ २३ ॥ ___ स्पष्टः ॥ २३ ॥ अनन्तरविधिमाह| रेफबिन्दुकलाहीनं शुभ्रं ध्यायेत्ततोऽक्षरम् । ततोऽनक्षरतां प्राप्तमनुच्चार्य विचिन्तयेत् ॥२४॥
स्पष्टः ॥ २४ ॥ ततः
in Education Internal
For Personal & Private Use Only
Page #758
--------------------------------------------------------------------------
________________
योगशास्त्रम्
अष्टमः प्रकाशः।
॥३७०॥
निशाकरकलाकारं सूक्ष्म भास्करभास्वरम्। अनाहताभिधं देवं विस्फुरन्तं विचिन्तयेत्॥२५॥ ___ स्पष्टः ॥ २५॥ ततः
तदेव चक्रमात्सूक्ष्मं ध्यायेद्वालाग्रसन्निभम्। क्षणमव्यक्तमीक्षेत जगज्ज्योतिर्मयं ततः॥२६॥ ___तदेव अनाहतमेव सूक्ष्मं ध्यायेत् , ततस्तदेवाव्यक्तं निराकारं जगज्ज्योतियायेत् ॥ २६ ॥ एवं चप्रच्याव्यमानसंलक्ष्यादलक्ष्ये दधतः स्थिरम्।ज्योतिरक्षयमत्यक्षमन्तरुन्मीलति कमात्॥२७॥
स्पष्टः ॥ २७ ॥ प्रकृतमुपसंहरतिइति लक्ष्यं समालम्ब्य लक्ष्यभावः प्रकाशितः। निषालमनसस्तत्र सिध्यत्यभिमतं मुनेः ॥२८॥
स्पष्टः ॥ २८ ॥ इति मन्त्रराजोनाहतमव्यक्तं चोक्तं । प्रकारान्तरेण परमेष्ठिवाचकां पदमयी देवतां श्लोकद्वयेन निर्दिशतितथा हृत्पद्ममध्यस्थं शब्दब्रह्मेककारणम् । स्वरव्यञ्जनसंवीतं वाचकं परमेष्ठिनः ॥ २९ ॥ मूर्धसंस्थितशीतांशुकलामृतरसप्लुतम् । कुम्भकेन महामन्त्रं प्रणवं परिचिन्तयेत् ॥ ३०॥
स्पष्टौ ॥ २६-३० ॥ तस्य ध्येयत्वे प्रकारान्तराण्याहपीतं स्तम्भेऽरुणं वश्ये क्षोभणे विद्रुमप्रभम्।कृष्णं विद्वेषणे ध्यायेत् कर्मघाते शशिप्रभम्॥३१॥
॥३७०॥
in Education
For Personal & Private Use Only
tema
Page #759
--------------------------------------------------------------------------
________________
यद्यपि कर्मघातार्थिनां शशिप्रभस्यैव प्रणवस्य ध्यानमुचितं, तथापि तत्तद्रव्यक्षेत्रकालभावसामग्रीवशेन पीतादिध्यानान्यपि कदाचिदुपकारीणीत्येतदुपदिष्टम् । ओं ॥३१॥
प्रकारान्तरेण पदमयी देवतां प्रस्तौतितथा पुण्यतमं मन्त्रं जगत्रितयपावनम् । योगी पञ्चपरमेष्ठिनमस्कारं विचिन्तयेत् ॥ ३२ ॥ ___स्पष्टः॥ ३२ ॥ ततश्चअष्टपत्रे सिताम्भोजे कर्णिकायां कृतस्थितिम्। श्राद्यं सप्ताक्षरं मन्त्रं पवित्रं चिन्तयेत्ततः॥३३॥ ____ नमो *अरिहंताणं ' इति आद्यः सप्ताक्षरो मन्त्रः ॥ ३३ ॥ ततश्चसिद्धादिकचतुष्कं च दिपत्रेषु यथाक्रमम् ।चूलापादचतुष्कं च विदिपत्रेषु चिन्तयेत् ॥३४॥ __दिपत्रेषु पूर्वादिदिग्व्यवस्थितेषु पत्रेषु सिद्धादिचतुष्टयं-नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो लोए सव्वसाहूणं । विदिकपत्रेषु आग्नेय्यादिविदिग्व्यवस्थितेषु दलेषु चूलापादचतुष्क-एसो पंच नमुक्कारो, सन्वपावप्पणासणो, मंगलाणं च सव्वेसिं, पढमं हवइ मंगलं । इति ध्यायेत् ॥ ३४ ॥
अस्य व्युष्टिमाहत्रिशुध्ध्या चिन्तयंस्तस्य शतमष्टोत्तरं मुनिः। भुञ्जानोऽपि लभेतैव चतुर्थतपसः फलम् ॥३५॥
* 'अरहंताणं' इत्यपि प्रत्यन्तरे दृश्यते, एवमग्रेऽपि सर्वत्र दृश्यम् ॥
For Personal & Private Use Only
Main Education Intemail
Page #760
--------------------------------------------------------------------------
________________
योगशास्त्रम्
अष्टमः प्रकाश
॥३७१॥
त्रिशुध्ध्या मनोवाकायशुध्ध्या चतुर्थ तप उपवासः ॥ ३५ ॥ तथाएवमेव महामन्त्रं समाराध्येह योगिनः। त्रिलोक्याऽपिमहीयन्तेऽधिगताः परमां श्रियम् ॥३६॥ कृत्वा पापसहस्राणि हत्वा जन्तुशतानि च। अमुं मन्त्रं समाराध्य तिर्यश्चोऽपि दिवं गताः॥३७॥ तिर्यश्चः कम्बलशम्बलादयः। शेष स्पष्टम् ॥ ३६-३७॥
प्रकारान्तरेणैनां विद्यामाह| गुरुपञ्चकनामोत्था विद्या स्यात् षोडशाक्षरा। जपन् शतद्वयं तस्याश्चतुर्थस्याप्नुयात्फलम्॥३८॥
गुरुपञ्चक परमेष्ठिपञ्चकं तन्नामानि विभक्त्या नमःपदेन च रहितानि “अरिहंतसिद्धआयरियउवज्झायसाहु" इत्येवंलक्षणानि । शेष स्पष्टम् ।। ३८ ॥ तथाशतानि त्रीणि षड्वर्णं चत्वारि चतुरक्षरम् । पञ्चावर्ण जयन् योगी चतुर्थफलमश्नुते ॥३९॥
पड्वर्ण 'अरिहंतसिद्ध ' इति, चतुरक्षरं 'अरिहंत' इति, अवर्ण अकारमेव मन्त्र जपन् चतुर्थफलं लभते, चतुर्थादिफलप्रतिपादनं तु मुग्धजनप्रतिपादनार्थ स्वल्पमेवोक्तं, मुख्यं तु स्वर्गापवर्गों ॥ ३९ ॥
एतदेवाहप्रवृत्तिहेतुरेवैतदमीषां कथितं फलम् । फलं स्वर्गापवर्गों तु वदन्ति परमार्थतः ॥ ४० ॥
॥३७१॥
in Education intemat
For Personal & Private Use Only
Page #761
--------------------------------------------------------------------------
________________
___ स्पष्टः ॥ ४० ॥ प्रकारान्तरेण पदमयी देवतामाह| पञ्चवर्णमयी पञ्चतत्त्वा विद्योध्धृता श्रुतात् । अभ्यस्यमाना सततं भवक्लेशं निरस्यति ॥४१॥ ___श्रुतात् विद्याप्रवादाभिधानात् पूर्वात् उध्धृता, सा च " हा ही हू ह्रौ हः असिआउसा नमः" इत्येवंलक्षणा। | शेषं स्पष्टम् ॥ ४१ ॥ तथा| मङ्गलोत्तमशरणपदान्यव्यग्रमानसः । चतुःसमाश्रयाण्येव स्मरन् मोक्षं प्रपद्यते ॥४२॥
तद्यथा-चत्तारि मङ्गलं अरिहंता मंगलं, सिडा मंगलं, साह मंगलं, केवलिपन्नत्तो धम्मो मंगलं । चत्तारि | लोगुत्तमा अरिहंता लोगुत्तमा, सिद्धा लोगुत्तमा, साहू लोगुत्तमा, केवलिपन्नत्तो धम्मो लोगुत्तमो । चत्तारि
सरणं पवजामि अरिहंते सरणं पवजामि, सिद्धे सरणं पवजामि, साहू सरणं पवजामि, केवलिपन्नत्तं धम्म सरणं पवजामि । चतुःसमाश्रयाणीति अर्हत्सिद्धसाधुधर्मसमाश्रयाणि ॥ ४२ ॥ ___ अथ पूर्वार्धेन विद्यामपरार्धेन च मन्त्रमेकेनैव श्लोकेनाहमुक्तिसौख्यप्रदां ध्यायेद्विद्यां पञ्चदशाक्षराम् । सर्वज्ञाभं स्मरेन्मन्त्रं सर्वज्ञानप्रकाशकम् ॥४३॥
विद्यां पञ्चदशाक्षरामिति “ओं अरिहंतसिद्धसयोगिकेवली स्वाहा" इत्येवंलक्षणां । सर्वज्ञाभं स्मरेन्मन्त्रमिति "ओं श्री हाँ अहं नमः" इत्येवंलक्षणम् ॥ ४३ ॥
in Education Internation
For Personal & Private Use Only
Page #762
--------------------------------------------------------------------------
________________
योगशास्त्रम्
११३७२॥
सर्वज्ञाभमित्येतदेव भावयति
अष्टम: वस्तुं न कश्चिदप्यस्य प्रभावं सर्वतः क्षमः । सनं भगवता लाम्य सशिन विभर्ति नः ॥४॥ प्रकाशः ।
स्पष्टः ॥२४॥ यदीच्छेद्भवदावाग्नेः समुच्छेदं क्षणादपि । स्मरेत्तदादिमन्त्रस्य नसतकमादिन ॥४॥
नमो अरिहंताणं इति ॥ ४५ ॥ इदानीमेकेन श्लोकेन मन्त्रद्वयमाह पञ्चवर्ण स्मरेन्मन्त्रं कर्मनिर्यातक तथा । वर्णमालाश्चितं मन्त्रं ध्यायेत्सर्गभयप्रदम् ॥४६॥
पञ्चवर्ण पञ्चाक्षरं " नमो सिद्धाणं " इतिलक्षणं इत्येको मन्त्रः। वर्णमालानितमिनि द्वितीयः, स नायं-- "ओं नमो अहेते केवलिने परमयोगिने विस्फुरदुरुशुक्लध्यानाग्निनिर्दग्धकर्मवीजाय प्राप्तानन्तचतुष्टयाय सौम्याय
____ मन्त्रान्तरं व्युटिष्टादशदोपरहिताय स्वाहालध्यानाग्निनिर्दग्धकर्मवालातमिनि द्वितीयः, सेना
___ मन्त्रान्तरं व्युष्टिसहितं दशभिः श्लोकैराहध्यायेत्सिताजं बनान्तरष्टवर्गी दलाष्टके।ओं नमो अरिहंताणमिति वर्णानपि क्रमात्॥४७॥ केसरालीं स्वरमयीं सुधाविन्दुविभूषिताम्। कर्णिकां कर्णिकायां च चन्द्रविभ्वात्समापतत्॥४८॥ संचरमाणं वक्त्रेण प्रभामण्डलमध्यगम् । सुधादीधितिसंकाशं मायावीजं विचिन्तयेत्॥४६॥॥ ३७२ ।।
in Education International
For Personal & Private Use Only
Page #763
--------------------------------------------------------------------------
________________
ततो भ्रमन्तं पत्रेषु संचरन्तं नभस्तले । ध्वंसयन्तं मनोध्वान्तं स्रवन्तं च सुधारसम् ॥५०॥ || तालुरन्ध्रण गच्छन्तं लसन्तं भूलतान्तरे। त्रैलोक्याचिन्त्यमाहात्म्यं ज्योतिर्मयमिवाद्भुतम्॥५१॥ इत्यमुं ध्यायतो मन्त्रं पुण्यमेकाग्रचेतसः । वाग्मनोमलमुक्तस्य श्रुतज्ञानं प्रकाशते ॥५२॥ मासैः षभिः कृताभ्यास: स्थिरीभूतमनास्ततः। निःसरन्तीं मुखाम्भोजाच्छिखां धूमस्य पश्यति॥ संवत्सरं कृताभ्यासस्ततो ज्वालां विलोकते । ततः संजातसंवेगः सर्वज्ञमुखपङ्कजम् ॥५४॥ स्फुरत्कल्याणमाहात्म्यं संपन्नातिशयं ततः। भामण्डलगतं साक्षादिव सर्वज्ञमीक्षते ॥५५॥ ततः स्थिरीकृतस्वान्तस्तत्र संजातनिश्चयः। मुक्त्वा संसारकान्तारमध्यास्ते सिद्धिमन्दिरं ॥५६॥ ___ मायाबीजं ही इति । शेषं स्पष्टम् ।। ४७-५६ ॥ तथाशशिबिम्बादिवोद्धृतां स्रवन्तीममृतं सदा। विद्यां वी इति भालस्थां ध्यायेत्कल्याणकारणम्॥
स्पष्टः ॥ ५७ ॥ तथाक्षीराम्भोधेविनिर्यान्तीं प्लावयन्ती सुधाम्बुभि:।भाले शशिकलां ध्यायेत् सिद्धिसोपानपद्धतिम्॥
स्पष्टः ॥५८ ॥ अस्या ध्याने फलमाह
in Ede
For Personel Private Use Only
liww.jainelibrary.org
Page #764
--------------------------------------------------------------------------
________________
अष्टमः
प्रकाशः
योग- अस्याः स्मरणमात्रेण त्रुट्यद्भवनिबन्धनः । प्रयाति परमानन्दकारणं पदमव्ययम् ॥ ५९॥ शास्त्रम् ___स्पष्टः ॥ ५६ ।। तथा॥३७३॥
नासाग्रे प्रणवः शून्यमनाहतमिति त्रयम्। ध्यायन् गुणाष्टकं लब्ध्वा ज्ञानमाप्नोति निर्मलम् ॥६॥
ओं हं*। अष्टौ गुणा अणिमादयः ॥ ६०॥ एतदेव विशिनष्टिशङ्खकुन्दशशाङ्काभांस्त्रीनमून् ध्यायतः सदा।समग्रविषयज्ञानप्रागल्भ्यं जायते नृणाम् ॥६॥
स्पष्टः॥ ६१ ।। तथाद्विपार्श्वप्रणवद्वन्द्वं प्रान्तयोर्मायया वृतम्। सोऽहं मध्ये विमूर्धानं अम्लीकारं विचिन्तयेत् ॥६॥
ही ओं ओं सः अम्ली हं ओं ओं हो ॥ ६२ ॥ तथाME कामधेनुमिवाचिन्त्यफलसंपादनक्षमाम् । अनवद्यां जपेद्विद्यां गणभृद्वदनोद्गताम् ॥ ६३ ॥
विद्या च ओं जोग्गे मग्गे तच्चे भूए भविस्से अंते पक्खे जिणपाधै स्वाहा ॥ ६३ ॥ तथाषट्रोणेऽप्रतिचक्रे फडिति प्रत्येकमक्षरम्। सव्ये न्यसेद्विचक्राय स्वाहा बाह्येऽपसव्यतः ॥६॥ | भूतान्तं बिन्दुसंयुक्तं तन्मध्ये न्यस्य चिन्तयेत् । नमो जिणाणमित्याद्यैरोंपूर्वेष्टयेबहिः ॥६५॥
* " ओं हइ" इति प्रत्यन्तरम् ॥
|॥३७३॥
in Education
For Personal & Private Use Only
Page #765
--------------------------------------------------------------------------
________________
*******0KOKHOK080*
Jain Education Inter
नमो जिणा, ओं नमो अहिजिणाणं, ओं नमो परमोहिजिणाणं, ओं नमो सन्चोसहिजिणाणं, नमो अनन्तोहिजिणाणं, ओं नमो कुट्टबुद्धीणं, ओं नमो बीयबुद्धीणं, ओं नमो पदानुसारीणं, ओं नमो संभिनसोणं, ओं नमो उज्जुमदीणं, ओं नमो विउलमदीयं, ओं नमो दसपुव्वीणं, ओं नमो चउदसपुव्वीणं, नमो महानिमित्त कुसलाणं, ओं नमो विउव्वणइड्डिपत्ताणं, ओं नमो विजाहराणं, ओं नमो चारणाएं, ओं नमो पष्ठसमणाणं, ओं नमो आागासगामी, ओं ज्सौं ज्सौं श्री ही धृति कीर्तिबुद्धिलक्ष्मी स्वाहा, इतिपदैर्वलयं पूरयेत् । पञ्चनमस्कारेण पञ्चाङ्गुलीन्यस्तेन सकलीक्रियते, तद्यथा - ओं नमो अरिहंताणं ह्रीं स्वाहा श्रङ्गुष्ठे । नमो सिद्धाणं ह्रीं स्वाहा तर्जन्याम् । श्र नमो आयरियाणं हूँ स्वाहा मध्यमायां । ओं नमो उवज्झायाणं हूँ स्वाहा अनामिकायां । ओं नमो लोए सव्वसाहूणं ह्रौं स्वाहा कनिष्ठायां । एवं वारत्रयमङ्गुलीषु विन्यस्य मस्तकस्योपरि पूर्वदक्षिणापरोत्तरेषु भागेषु विन्यस्य जपं कुर्यात् ।। ६४-६५ ॥ तथा
श्रष्टपत्रेऽम्बुजे ध्यायेदात्मानं दीप्रतेजसम् । प्रणवाद्यस्य मन्त्रस्य वर्णान् पत्रेषु च क्रमात् ॥ ६६ ॥ पूर्वाशाभिमुखः पूर्वमधिकृत्यादिमण्डलम् । एकादशशतान्यष्टाक्षरं मन्त्रं जपेत्ततः ॥ ६७॥ पूर्वाशानुक्रमादेवमुद्दिश्यान्यदलान्यपि । श्रष्टरात्रं जपेद्योगी सर्वप्रत्यूहशान्तये ॥ ६८ ॥ अष्टरात्रे व्यतिक्रान्ते कमलस्यास्य वर्तिनः । निरूपयति पत्रेषु वर्णानेताननुक्रमम् ॥६६॥
For Personal & Private Use Only
- *************0--003
Page #766
--------------------------------------------------------------------------
________________
योगशास्त्रम्
अष्टमः प्रकाशः।
३७४॥
भीषणा; सिंहमातङ्गरक्षः प्रभृतयःक्षणात्। शाम्यन्ति व्यन्तराश्चान्ये ध्यानप्रत्यूहहेतवः ॥७०॥ मन्त्रः प्रणवपूर्वोऽयं फलमैहिकमिच्छुभिः । ध्येयः प्रणवहीनस्तु निर्वाणपदकाक्षिभिः॥७॥
प्रणवाद्यो मन्त्रः ओं नमो अरिहंताणं । शेषं स्पष्टम् ॥ ६६-७१॥
अथ श्लोकेनैकेन मन्त्रं विद्यां चाहचिन्तयेदन्यमप्येनं मन्त्रं कर्मोघशान्तये। स्मरेत्सत्त्वोपकाराय विद्यां तां पापभक्षिणीम् ॥७२॥
अन्यमपीति श्रीमदृषभादिवर्धमानान्तेभ्यो नम इत्येवंरूपं । पापभक्षिणीमिति ओं अर्हन्मुखकमलवासिनि पापात्मक्षयंकरि श्रुतज्ञानज्वालासहस्रज्वलिते सरस्वति मत्पापं हन हन दह दह क्षाँ क्षी तूं क्षौ क्षः क्षीरवरधवले अमृतसंभवे वं वं हूं हूं स्वाहा इत्येवंलक्षणम् ।। ७२ ॥ अस्या व्युष्टिःप्रसीदति मनः सद्यः पापकालुप्यमुज्झति । प्रभावातिशयादस्या ज्ञानदीपः प्रकाशते॥७३॥
स्पष्टः ॥७३॥ तथाज्ञानवद्धिः समाम्नातं वज्रस्वाम्यादिभिः स्फुटम्। विद्यावादात्समुध्धृत्य बीजभूतं शिवश्रियः॥ जन्मदावहुताशस्य प्रशान्तिनववारिदम्। गुरूपदेशाद्विज्ञाय सिद्धचक्रं विचिन्तयेत् ॥७५॥
स्पष्टौ ॥ ७४-७५ ॥ तथा
BS३७४॥
Lain Education inter
For Personal & Private Use Only
ww.jainelibrary.org
Page #767
--------------------------------------------------------------------------
________________
नाभिपद्मे स्थितं ध्यायेदकारं विश्वतोमुखम् । सिवर्ण मस्तकाम्भोजे श्राकारं वदनाम्बुजे ॥७॥ उकारं हृदयाम्भोजे साकारं कण्ठपङ्कजे।सर्वकल्याणकारीणि बीजान्यन्यान्यपि स्मरेत्॥७॥
असिआउसा | बीजान्यन्यान्यपि नमः सर्वसिद्धेभ्यः इति ॥ ७६-७७ ॥ उपसंहरति| श्रुतसिन्धुसमुद्भतमन्यदप्यक्षर पदम् । अशेष ध्यायमानं स्यान्निर्वाणपदसिद्धये ॥ ७८ ॥ स्पष्टः ॥ ७८॥
उक्तं चवीतरागो भवेद्योगी यत्किञ्चिदपि चिन्तयेत्। तदेव ध्यानमाम्नातमतोऽन्ये ग्रन्थविस्तराः॥७९॥ एवं च मन्त्रविद्यानां वर्णेषु च पदेषु च । विश्लेषः क्रमशः कुर्याल्लक्ष्मीभावोपपत्तये ॥८॥ ___ स्पष्टौ ।। ७९-८० ॥
आशिषमाहइति गणधरधुर्याविष्कृतादुध्धृतानि, प्रवचनजलराशेस्तत्त्वरत्नान्यमूनि। हृदयमुकुरमध्ये धीमतामुल्लसन्तु, प्रचितभवशतोत्थक्लेशनि शहेतोः ॥ ८१॥ इति परमाहतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषनाम्नि
संजातपट्टबन्धे श्रीयोगशास्त्रे स्वोपज्ञमष्टमप्रकाशविवरणम् ॥८॥
x “ लक्षा (क्ष्य)" इति प्रत्यन्तरम् ।।
For Personal & Private Use Only
Page #768
--------------------------------------------------------------------------
________________
योगशास्त्रम्
॥अथ नवमः प्रकाशः ॥६
नवमः प्रकाश:
॥३७॥
ओं अहं । अथ रूपस्थं ध्येयं सप्तभिः श्लोकैराहमोक्षश्रीसम्मुखीनस्य विश्वस्ताखिलकर्मणः। चतुर्मुखस्य निःशेषभुवनाभयदायिनः॥१॥ इन्दुमण्डलसंकाशच्छत्रत्रितयशालिनः । लसद्भामण्डलाभोगविडम्बितविवस्वतः ॥२॥ दिव्यदुन्दुभिनिर्घोषगीतसाम्राज्यसंपदः । रणद्विरेफझङ्कारमुखराशोकशोभिनः ॥३॥ सिंहासननिषमस्य वीज्यमानस्य चामरैः । सुरासुरशिरोरत्नदीप्रपादनखद्युतेः ॥४॥ दिव्यपुष्पोत्कराकीर्णासङ्कीर्णपरिषद्भुवः । उत्कन्धरैर्मृगकुलैः पीयमानकलध्वनेः ॥ ५॥ शान्तवैरेभसिंहादिसमुपासितसन्निधेः । प्रभोः समवसरणस्थितस्य परमेष्ठिनः ॥६॥ सर्वातिशययुक्तस्य केवलज्ञानभास्वतः । अर्हतो रूपमालम्ब्य ध्यानं रूपस्थमुच्यते॥७॥
स्पष्टाः ॥ १-७॥ प्रकारान्तरेण रूपस्यं ध्येयं त्रिभिः श्लोकैराहरागद्वेषमहामोहविकारैरकलङ्कितम् । शान्तं कान्तं मनोहारि सर्वलक्षणलक्षितम् ॥८॥
in Education in
For Personal & Private Use Only
Page #769
--------------------------------------------------------------------------
________________
Jain Education Intern
← 7.0K++
03-08-0
तीर्थिकैरपरिज्ञातयोगमुद्रामनोरमम् । श्रक्ष्णोरमन्दमानन्दनिः स्यन्दं दददद्भुतम् ॥ ९ ॥ जिनेन्द्रप्रतिमारूपमपि निर्मलमानसः । निर्निमेषदृशा ध्यायन् रूपस्थध्यानवान् भवेत् ॥१०॥
स्पष्टाः ॥ ८-१० ॥ ततश्च
योगी चाभ्यासयोगेन तन्मयत्वमुपागतः । सर्वज्ञीभूतमात्मानमवलोकयति स्फुटम् ॥ ११ ॥ सर्वज्ञो भगवान् योऽयमहमेवास्मि स ध्रुवम् । एवं तन्मयतां यातः सर्ववेदीति मन्यते ॥ १२ ॥ स्पष्टौ ।। ११-१२ ।। कथमित्याह-
वीतरागो विमुच्येत वीतरागं विचिन्तयन्। रागिणं तु समालम्ब्य रागी स्यात्क्षोभणादिकृत् ॥ १३ ॥ स्पष्टः ।। १३ ।। उक्तं च
येन येन हि भावेन युज्यते यन्त्रवाहकः । तेन तन्मयतां याति विश्वरूपो मणिर्यथा ॥ १४ ॥ स्पष्टः ॥ १४ ॥ एवं सध्ध्यानमुक्त्वाऽसध्ध्यानं निराकुर्वन्नाह -
नासध्यानानि सेव्यानि कौतुकेनापि किन्त्विह । स्वनाशायैव जायन्ते सेव्यमानानि तानि यत् ॥१५॥
स्पष्टः ।। १५ ।। कुतः ? -
For Personal & Private Use Only
*-*@*•-•**********@*********@
Page #770
--------------------------------------------------------------------------
________________
योगशास्त्रम्
दशम: प्रकाशः।
॥३७६॥
सिध्यन्ति सिद्धयः सर्वाः स्वयं मोक्षावलम्बिनाम्। संदिग्धा सिद्धिरन्येषां स्वार्थभ्रंशस्तु निश्चित स्पष्टः ॥ १६ ॥ इति परमाईतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषन्नाम्नि संजातपट्टवन्धे श्रीयोगशास्त्रे स्वोपज्ञं नवमप्रकाशविवरणम् ॥४॥
- KKK। अथ दशमः प्रकाशः । १०
ओं अहं । अथ रूपातीतं ध्येयमाहअमूर्तस्य चिदानन्दरूपस्य परमात्मनः । निरञ्जनस्य सिद्धस्य ध्यानं स्याद्रूपवर्जितम् ॥१॥
स्पष्टः॥१॥ एवं चइत्यजस्र स्मरन् योगी तत्स्वरूपावलम्बनः। तन्मयत्वमवाप्नोति ग्राह्यग्राहकवर्जितम् ॥२॥
स्पष्टः ॥२॥ अनन्यशरणीभूय स तस्मिन् लीयते तथा। ध्यातृध्यानोभयाभावे ध्येयेनैक्यं यथा व्रजेत्॥३॥
॥३७६॥
in Education inte
For Personal & Private Use Only
www.jalnelibrary.org
Page #771
--------------------------------------------------------------------------
________________
स्पष्टः ॥ ३ ॥ तात्पर्यमाहसोऽयं समरसीभावस्तदेकीकरणं मतम् । आत्मा यदपृथक्त्वेन लीयते परमात्मनि ॥ ४ ॥
स्पष्टः ॥ ४ ॥ ऐदम्पर्यमुपदिशतिअसक्ष्यं लक्ष्यसंबन्धात् स्थूलात्सूक्ष्म विचिन्तयेत्।सालम्बाञ्च निरालम्बंतत्त्ववित्तत्त्वमंजसा। ___ स्पष्टः ॥ ५॥ पिण्डस्थादिरूपं चतुर्विधं ध्येयमुपसंहरतिएवं चतुर्विधध्यानामृतमग्नं मुनेर्मनः । साक्षात्कृतजगत्तत्त्वं विधत्ते शुद्धिमात्मनः ॥६॥ ____ स्पष्टः ॥ ६॥ पिण्डस्थादिक्रमेण चतुर्विधं ध्येयमभिधाय प्रकारान्तरेण तस्य चातुर्विध्यमाह| आज्ञापायविपाकानां संस्थानस्य च चिन्तनात्। इत्थं वा ध्येयभेदेन धन्यं ध्यानं चतुर्विधम् ॥७॥
ध्येयभेदाचातुर्विध्यं ध्यानस्य ॥ ७ ॥ श्रथाज्ञाध्यानमाहअाज्ञां यत्र पुरस्कृत्य सर्वज्ञानामवाधिताम् । तत्त्वतश्चिन्तयेदस्तिदाज्ञाध्यानमुच्यते ॥८॥
आज्ञाऽऽप्सरचनं प्रवचनमिति यावत् । अबाधितां प्रमाणान्तरैः परस्परविरोधेन च तत्वत इति परमार्थवृत्या, अर्थान् पदार्थान् जीवादीन चिन्तयेत् ॥ ॥ प्राज्ञाया अबाधितत्वं भावयति
Jain Education inter
For Personal & Private Use Only
Page #772
--------------------------------------------------------------------------
________________
योग
शास्त्रम्
॥३७७॥
Jain Education Intern
--****-20k
-18-13+
सर्वज्ञवचनं सूक्ष्मं हन्यते यन्न हेतुभिः । तदाज्ञारूपमादेयं न मृषाभाषिणो जिनाः ॥ ९ ॥ स्पष्टः । अत्रान्तरश्लोकाः
श्राज्ञा स्यादाप्तवचनं सा द्विधैव व्यवस्थिता | आगमः प्रथमा तावद्धेतुवादोऽपरा पुनः ॥ १ ॥ शब्दादेव पदार्थानां प्रतिपत्तिकृदागमः । प्रमाणान्तरसंवादाद्धेतुवादो निगद्यते ॥ २ ॥ द्वयोरप्यनयोस्तुल्यं प्रामाण्यमविगानतः । अदुष्टकारणारब्धं प्रमाणमिति लचणात् || ३ || दोषा रागद्वेषमोहाः संभवन्ति न तेऽर्हति । अदुष्टहेतुसंभूतं तत्प्रमाणं वचोऽर्हताम् ॥ ४ ॥ नयप्रमाणसंसिद्धं पूर्वापर्याविरोधि च । श्रप्रतिक्षेप्यमरैर्बलिष्ठैरपि शासनैः || ५ || अङ्गोपाङ्गप्रकीर्णादिबहुभेदापगाम्बुधिम् । अनेकातिशयप्राज्यसाम्राज्यश्रीविभूषितम् || ६ || दुर्लभं दूरभव्यानां भव्यानां सुलभं भृशम् । गणिपिटकतयोच्चैर्नित्यं स्तुत्यं नरामरैः ॥ ७ ॥ एवमाज्ञां समालम्ब्य स्थाद्वादन्याययोगतः । द्रव्यपर्यायरूपेण नित्यानित्येषु वस्तुषु ||८|| स्वरूपपररूपाभ्यां सदसद्रूपशालिषु । यः स्थिरः प्रत्ययो ध्यानं तदाज्ञाविचयाह्वयम् ॥ ६ ॥ ९ ॥
थापायविचयमाह -
रागद्वेष कषायाद्यैर्जायमानान् विचिन्तयेत् । यत्रापायांस्तदपायविचयध्यानमिष्यते ॥१०॥ रागद्वेषजनितानामपायानां विचयो विचिन्तनं यत्र तदपायविचयम् ॥ १० ॥ तस्य फलमाह - ऐहिकामुष्मिक पाय परिहारपरायणः । ततः प्रतिनिवर्तेत समन्तात् पापकर्मणः ॥ ११ ॥
For Personal & Private Use Only
本
---*--..
दशमः प्रकाशः ।
॥ ३७७ ॥ ॥
Page #773
--------------------------------------------------------------------------
________________
स्पष्टः । अत्रान्तरश्लोकाः
अस्पृष्टजिनमार्गाणामविज्ञातपरात्मनाम् । अपरामृष्टयतीनामपायाः स्युः सहस्रशः॥ १ ॥ मायामोहान्धतमसविवशीकृतचेतसा । कि किनाकारि कलुषं कस्कोऽपायोऽप्यवापि न ॥२॥ यद्यदुःखं नारकेषु तिर्यक्षु मनुजेषु च । मया प्रापि प्रमादोऽयं ममैव हि विचेतसः ॥३॥ प्राप्यापि परमां बोधि मनोवाकायकर्मजैः । दुश्चेष्टितैर्मयैवायं शिरसि ज्वालितोऽनलः॥४॥ खाधीने मुक्तिमार्गेऽपि कुमार्गपरिमार्गणैः । अहो आत्मंस्त्वयैवैष स्वात्माऽपायेषु पातितः ॥५॥ यथा प्राप्तेऽपि सौराज्ये भिक्षां भ्राम्यति बालिशः । प्रात्मायत्ते तथा मोक्षे भवाय भ्रान्तवानसि ॥ ६ ॥ इत्यात्मनः परेषां च ध्यात्वाऽपायपरंपराम् । अपायविचयं ध्यानमधिकुर्वीत योगवित् ॥७॥११॥
अथ विपाकविचयमाहप्रतिक्षणसमुद्भूतो यत्र कर्मफलोदयः । चिन्त्यते चित्ररूपः स विपाकविचयो मतः ॥१२॥ ___स्पष्टः ॥ १२ ॥ एतदेव भावयतिया संपदाऽर्हतो या च विपदा नारकात्मनः। एकातपत्रता तत्र पुण्यापुण्यस्य कर्मणः॥१३॥
श्रा अर्हतः आ नारकात्मन इति चाभिव्याप्तौ पञ्चमी शेषं स्पष्टम् । अत्रान्तरश्लोकाः
विपाकः फलमाम्नातः कर्मणां स शुभाशुभः । द्रव्यक्षेत्रादिसामग्र्या चित्ररूपोऽनुभूयते ॥१॥ शुभस्तत्राङ्गनामाल्यखाद्यादिद्रव्यभोगतः। अशुभस्त्वहिशस्त्राग्निविषादिभ्योऽनुभूयते ॥२॥ क्षेत्रे सौधविमानोपवनादौ वसना
Jain Education inteman
For Personal & Private Use Only
www.ninelibrary.org
Page #774
--------------------------------------------------------------------------
________________
योगशास्त्रम्
दशमः प्रकाश:।
॥३७॥
च्छुभः । स्मशानजाङ्गलारण्यप्रभृतावशुभः पुनः ॥ ३ ॥ काले त्वशीतलानुष्णे वसन्तादौ रतेः शुभः । उष्णे शीते | ग्रीष्मे हेमन्तादौ भ्रमणतोऽशुभः ॥ ४ ॥ मनःप्रसादसन्तोषादिभावेषु शुभो भवेत् । क्रोधाहङ्काररौद्रत्वादिभावेप्वशुभः पुनः॥५॥ सुदेवत्वभोगभूमिमनुष्यादिभवे शुभः। कुमर्त्यतिर्यङ्नरकादिभवेष्वशुभः पुनः ॥६॥ अपिचउदयक्षयक्षयोपशमोपशमाः कर्मणां भवन्त्यत्र । द्रव्यं क्षेत्रं कालं भावं च भवं च संप्राप्य ॥७॥ इति द्रव्यादिसामग्रीयोगात्कर्माणि देहिनाम् । स्खं स्वं फलं प्रयच्छन्ति तानि त्वष्टैव तद्यथा ॥८॥ जन्तोः सर्वत्ररूपस्य ज्ञानमात्रियते सदा । येन चक्षुःपटेनेव ज्ञानावरणकर्म तत् ।। ६॥ मतिश्रुतावधिमनःपर्यायाः केवलं तथा । बदाब्रियन्ते ज्ञानानीत्येतज्ज्ञानावृतेः फलम् ॥ १०॥ पञ्चनिद्रा दर्शनानां चतुष्कखावृतिश्च या । दर्शनावरणीयस्य विपाकः कर्मणः स तु ॥ ११ ॥ यथा दिदृक्षुः स्वाम्यत्र प्रतीहारनिरोधतः। न पश्यति स्वमप्येवं दर्शनावरणोदयात् ॥ १२॥ मधुलिप्तासिधारामास्वादाभं वेद्यकर्म यत् । सुखदुःखानुभवनस्वभावं परिकीर्तितम् ॥ १३ ॥
सुरापाणसमं प्राज्ञा मोहनीयं प्रचक्षते । यदनेन विमूढात्मा कृत्याकृत्येषु मुह्यति ॥ १४॥ तत्रापि दृष्टिमोहाख्यं त मिथ्यादृष्टिविपाककृत् । चारित्रमोहनीयं तु विरतेः प्रतिषेधनम् ॥ १५॥ नृतिर्यङ्नारकामर्त्यभेदादायुश्चतुर्विधम् ।
स्वस्वजन्मनि जन्तूनां धारकं गुप्तिसन्निभम् ॥ १६॥ गतिजात्यादिवैचित्र्यकारि चित्रकरोपमम् । नामकर्मविपाको. ऽस्य शरीरेषु शरीरिणाम् ।। १७ ॥ उच्चैनींचैर्भवेद्गोत्रं कर्मोचैर्नीचगोत्रकृत् । क्षीरभाण्डसुराभाण्डभेदकारि कुलालवत् ॥ १८॥ दानादिलब्धयो येन न फलन्ति विबाधिताः। तदन्तरायं कर्म स्याद्भाण्डागारिकसन्निभम् ॥ १६ ॥ इति मूलप्रकृतीनां विपाकास्तान विचिन्वतः। विपाकविचयं नाम धर्मध्यानं प्रवर्तते ॥ २०॥ १३ ॥
॥३७८॥
in Education inte
For Personal & Private Use Only
Page #775
--------------------------------------------------------------------------
________________
अथ संस्थानविचयमाहअनाद्यन्तस्य लोकस्य स्थित्युत्पत्तिव्ययात्मनः।प्राकृतिं चिन्तयेद्यत्र संस्थानविचय:सतु॥१४॥
लोकशन्देन लोकस्तद्गतानि च पित्यादीनि द्रव्याणि परिगृह्यन्ते । शेषं स्पष्टम् ॥ १४ ॥
लोकभ्यानस्य फलमाहनानाद्रव्यगतानन्तपर्यायपरिवर्तनात् । सदा सक्तं मनो नैव रागाद्याकुलतां व्रजेत् ॥ १५ ॥
स्पष्टः । अत्रान्तरश्लोकाः
संस्थानविचयो लोकभावनायां प्रपश्चितः। तन्नेह वर्ण्यते भूयः पुनरुक्तत्वभीरुभिः ॥१॥ अथ लोकभावनायाः संस्थानविचयस्य च । को नाम भेदो येनोभौ विमित्रौ परिकीर्तितौ ॥२॥ उक्तमेतद्यथा चिन्तामात्रकं लोकभावना । स्थिरा तु लोकादिमतिः संस्थानध्यानमुच्यते ॥३॥१५॥
धर्मध्यानस्यैव स्वरूपविशेषमाहधर्मध्याने भवेद्भावः क्षायोपशमिकादिकः। लेश्या:क्रमविशुद्धाः स्युः पीतपद्मसिताः पुनः॥१६॥
क्षायोपशमिकादिक इत्यादिग्रहणादौपशमिकस्य चायिकस्य च ग्रहणम्, न त्वौदयिकस्य । यदाहधर्म्यमप्रमत्तसंयतस्य उपशान्तक्षीणकषाययोश्च । धर्मध्याने च क्रमेण विशुद्धास्तिस्रो लेश्या भवन्ति, तद्यथापीतलेश्या, ततो विशुद्धा पबलेश्या, ततोऽपि विशुद्धतरा शुक्ललेश्यति ॥ १६ ॥
Jain Education inten
For Personal & Private Use Only
Jaww.jainelibrary.org
Page #776
--------------------------------------------------------------------------
________________
योगशास्त्रम्
| प्रकाशः।
॥३७६॥
चतुर्विधस्य धर्मध्यानस्य फलमाहअस्मिन्नितान्तवैराग्यव्यतिषङ्गतरङ्गिते । जायते देहिनां सौख्यं स्वसंवेद्यमतीन्द्रियम् ॥१७॥
स्पष्टः । उक्तं च
अलौन्यमारोग्यमनिष्ठुरत्वं, गन्धः शुभो मूत्रपुरीषमन्पम् । कान्तिः प्रसादः स्वरसौम्यता च, योगप्रवृत्तेः प्रथमं हि चिह्नम् ॥ १॥ १७॥
प्रामुष्मिकं फलं श्लोकचतुष्टयेनाहत्यक्तसङ्गास्तनुं त्यक्त्वा धर्मध्यानेन योगिनः। प्रैवेयकादिस्वर्गेषु भवन्ति त्रिदशोत्तमाः॥१८॥ महामहिमसौभाग्यं शरच्चन्द्रनिभप्रभम् । प्राप्नुवन्ति वपुस्तत्र स्रग्भूषाम्बरभूषितम् ॥१९॥ विशिष्टवीर्यबोधाढ्यं कामार्तिज्वरवर्जितम् । निरन्तरायं सेवन्ते सुखं चानुपमं चिरम् ॥२०॥ इच्छासंपन्नसर्वार्थमनोहारि सुखामृतम् । निर्विघ्नमुपभुञ्जाना गतं जन्म न जानते ॥ २१ ॥ दिव्यभोगावसाने च च्युत्वा त्रिदिवतस्ततः । उत्तमेन शरीरेणावतरन्ति महीतले ॥२२॥ || दिव्यवंशे समुत्पन्ना नित्योत्सवमनोरमान् । भुञ्जते विविधान् भोगानखण्डितमनोरथाः॥२३॥ ॥ ३७६ ॥
in Education
For Personel Private Use Only
Page #777
--------------------------------------------------------------------------
________________
8-08-08-*-*-*+++++
Jain Education Interr
ततो विवेकमाश्रित्य विरज्याशेषभोगतः । ध्यानेन ध्वंस्तकर्माणः प्रयान्ति पदमव्ययम् ॥२४॥
स्पष्टाः ॥ १८-२४ ॥
इति परमार्हतश्रीकुमारपाल भूपालशुश्रूषिते आचार्यश्रीहेम चन्द्रविरचितेऽध्यात्मोपनिषन्नान संजातपट्टबन्धे श्रीयोगशास्त्रे स्वोपज्ञं दशमप्रकाशविवरणम् ॥ १० ॥
अथैकादशः प्रकाशः ॥ ११ ॥
अर्ह ॥ धर्मध्यानमुपसंहरन् शुक्लध्यानं प्रस्तौति — स्वर्गापवर्गहेतुर्धर्मध्यानमिति कीर्तितं तावत् । श्रपवर्गेकनिदानं शुक्लमतः कीर्त्यते ध्यानम् ॥१॥ धर्मध्यानस्यापवर्गहेतुत्वं पारम्पर्येण, अपवर्गस्यैकमसाधारणं निदानं कारणं शुक्लध्यानम्, इदं चोत्तरशुक्लध्यानद्वयापेक्षया द्रष्टव्यम् । श्राद्ययोस्तु शुक्लध्यानभेदयोरनुत्तरविमानगमननिबन्धनताऽप्यस्ति । यदाह— 'होंति सुहासवसंवरविणिजरामरसुहाई विउलाई । झाणवरस्स फलाई सुहाणुबन्धीणि धम्मस्स ॥ १ ॥ (१) भवन्ति शुभाश्रवसंवरविनिर्जरामरसुखानि विपुलानि । ध्यानवरस्य फलानि शुभानुबन्धीनि धर्म्यस्य ॥ १ ॥
For Personal & Private Use Only
.., (.)
Page #778
--------------------------------------------------------------------------
________________
योग
एकादशः प्रकाशः।
शास्त्रम्
।।३८०॥
तेयविसेसेण सुहासवादोणुत्तरामरसुहं च । दोण्हं सुकाण फलं परिनिव्वाणं परिल्लाणं ॥ २॥१॥
शुक्लध्यानस्याधिकारिणं निरूपयतिइदमादिमसंहनना एवालं पूर्ववेदिनः कर्तुम्। स्थिरतां न याति चित्तं कथमपि यत्स्वल्पसत्त्वानाम्।
आदिमं वज्रर्षभनाराचसंहननं येषां ते तथा। सकलश्रुतात् पूर्व प्रणयनात् पूर्वाणि तानि विदन्तीत्येवंशीलाः | पूर्ववेदिनः पूर्वधराः । इदं च प्रायिक, माषतुषमरुदेव्यादीनामपूर्वधराणामपि शुक्लध्यानसंभवात् । आदिमसंहनना इत्यस्य स्थिरतामित्यादिना हेतुरुक्तः॥२॥ इदमेव भावयति
धत्ते न खलु स्वास्थ्यं व्याकुलितं तनुमतां मनोविषयैः ।
शुक्लध्याने तस्मान्नास्त्यधिकारोऽल्पसाराणाम् ॥३॥ स्पष्टम् । यदाहछिन्ने भिन्ने हते दग्धे देहे स्वमपि दरगम् । प्रपश्यन् वर्षवातादिदुःखैरपि न कम्पते ॥१॥ न पश्यति तदा किश्चिन्न शृणोति न जिघ्रति । स्पष्टं किश्चिन्न जानाति लेप्यनिर्वृत्तमूर्तिवत् ॥२॥ इति ॥३॥
ननु यद्यादिमसंहननानां शुक्लध्यानेऽधिकारस्तहीदानी सेवार्तसंहननानां पुरुषाणां शुक्लध्यानोपदेशे कोऽवसरः ? इत्याह
तेजोविशेषेण सुखास्वादतोऽनुत्तरामरसुखं च । द्वयोः शुक्लयोः फलं परिनिर्वाण परयोः ॥ २ ॥
||३८०॥
Jain Education Intel
For Personal & Private Use Only
Page #779
--------------------------------------------------------------------------
________________
010 (1)+++++******+++
Jain Education Intern
नवच्छित्त्याम्नायः समागतोऽस्येति कीर्त्यतेऽस्माभिः ।
दुष्कर मप्याधुनिकैः शुक्लध्यानं यथाशास्त्रम् ॥ ४ ॥ यद्यप्यैयुगीनानां न शुक्लध्यानेऽधिकारस्तथापि संप्रदायाविच्छेदार्थं तदुपदेश इत्यर्थः ॥ ४ ॥ शुक्लध्यानस्य भेदानाह -
ज्ञेयं नानात्वश्रुतविचारमै क्यश्रुताविचारं च । सूक्ष्मक्रियमुत्सन्नक्रियमिति भेदैश्चतुर्धा तत् ॥ ५॥ नानात्वं पृथक्त्वं श्रुतं वित्तर्कः विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः इति पृथक्त्ववितर्क सविचारं प्रथमम् । ऐक्यमपृथक्त्वं एकत्ववितर्कमविचारं च द्वितीयम् । सूक्ष्मक्रियमप्रतिपातीति तृतीयम् । उत्सन्नक्रियमनिवर्तीति चतुर्थम् । एवं चतुर्विधं शुक्लध्यानम् ॥ ५ ॥ अथाद्यभेदं व्याचष्टेएकत्र पर्ययाणां विविधन यानुसरणं श्रुताद्रव्ये । श्रर्थव्य अनयोगान्तरेषु संक्रमणयुक्त माद्यं तत् ॥ एकस्मिन् परमाण्वाद द्रव्ये पर्यायाणामुत्पादस्थितिभङ्गमूर्त्तत्वामूर्त्तत्वादीनां विविधनयैर्द्रव्यार्थिक पर्यायार्थिकादिभिर्यदनुसरणमनुचिन्तनं, श्रुतात् पूर्वविदां पूर्वगतश्रुतानुसारेण, इतरेषां त्वन्यथा, तदाद्यं शुक् संबन्धः । कथंभूतं ? अर्थव्यञ्जनयोगान्तरेषु संक्रमणयुक्तं, अर्थो द्रव्यं तस्माद्व्यञ्जने शब्दे शब्दाच्चार्थे संक्रमणं, योगायोगान्तरसंक्रमणं तु मनोयोगात् काययोगे वा वाग्योगे वा संक्रान्तिः एवं काययोगान्मनोयोगे वाग्योगे वा, वायोगान्मनोयोगे काययोगे वा संक्रमणं, तेन युक्तं । यदाहु:
1
For Personal & Private Use Only
BOK++******++++
Page #780
--------------------------------------------------------------------------
________________
योगशास्त्रम्
एकादशः प्रकाश।
॥३८१॥
उप्पायठिईभंगाइपजवाणं जमेगदव्वम्मि । नाणानयानुसरणं पुव्वगयसुयाणुसारेण ॥१॥ सवियारमत्थवंजणजोगंतरओ तयं पढमसुक्कं । होइ पुहुत्तवियकं सवियारमरागभावस्स ॥ २॥
ननु अर्थव्यञ्जनयोगान्तरेषु संक्रमणात् कथं मनःस्थैर्य ? तदभावाच्च कथं ध्यानत्वं? उच्यते-एकद्रव्यविषयत्वे | मनःस्थैर्यसंभवाध्यानत्वमविरुद्धम् ॥ ६॥
द्वितीयं भेदं व्याचष्टेएवं श्रुतानुसारादेकत्ववितर्कमेकपर्याये । अर्थव्यञ्जनयोगान्तरेष्वसंक्रमणमन्यत्तु ॥ ७॥
एवं श्रुतानुसारादिति पूर्वविदा पूर्वगतश्रुतानुसारादितरेषामन्यथापि एकपर्यायविषयमेकत्ववितर्क नाम द्वितीयं शुक्लध्यानं, तच्चाथेव्यञ्जनयोगेष्वसंक्रमणरूपं । यदाहु:
जं पुण सुणिप्पयंपं निवायसरणप्पईवमिव चित्तं । उप्पायठिईभंगाइयाण एगम्मि पजाये ॥१॥ अवियारमत्थवंजणजोगंतरओ तयं बीयसुकं । पुव्वगयसुयालंबणमेगत्तवियकमवियारं ॥२॥७॥ (१) उत्पादस्थितिभङ्गादिपर्यवानां यदेकद्रव्ये । नानानयानुसरणं पूर्वगतश्श्रुतानुसारेण ॥१॥
सविचारमर्थव्यञ्जनयोगान्तरतः तत् प्रथमशुक्लम् । भवति पृथक्त्ववितर्क सविचारमरागभावस्य ॥ २ ॥ (२) यत्पुनः सुनिष्पकम्पो निवातशरणप्रदीप इव चित्तम् । उत्पादस्थितिभङ्गादिकानाकस्मिन् पर्याये ॥१॥
अविचारमर्थव्यञ्जनयोगान्तरतः तक द्वितीयशुक्लम् । पूर्वगतश्रुतालम्बनमेकत्ववितर्कमविचारम् ॥ २॥
॥३८१॥
Jain Education inlenath
For Personal & Private Use Only
Page #781
--------------------------------------------------------------------------
________________
तृतीयभेदं व्याचष्टे
निर्वाणगमनसमये केवलिनो दरनिरुद्धयोगस्य ।
सूक्ष्मक्रियाप्रतिपाति तृतीयं कीर्तितं शुक्लम् ॥८॥ निर्वाणगमनसमये मोक्षगमनप्रत्यासन्नसमये केवलिनः सर्वज्ञस्य मनोयोगवाग्योगद्वये निरुद्धे सति बादरे च काययोगे निरुद्धे सूक्ष्मा उच्छासनिश्वासादिका कायक्रिया यत्र तत्तथा । अप्रतिपाति अनिवर्ति । दरशन्दः प्राकृतवत् संस्कृतेऽपि दृश्यते, यथा-" दरदलितहरिद्राग्रन्थिगौरं शरीरम्" (इत्यादी)॥८॥
चतुर्थ भेदं व्याचष्टेकेवलिनः शैलेशीगतस्य शैलवदकम्पनीयस्य । उत्सन्नक्रियमप्रतिपाति तुरीयं परमशुक्लम् ॥ ___ स्पष्टः ।। ६ ॥ चतुर्षपि योगसङ्ख्यां निरूपयतिएकत्रियोगभाजामाद्यस्यादपरमेकयोगानाम्।तनुयोगिनां तृतीयं निर्योगाणां चतुर्थं तु॥१०॥ ___ पाद्यं पृथक्त्ववितर्क सविचारं मनःप्रभृत्येकयोगभाजां योगत्रयभाजां वा, तच्च भङ्गिकश्रुतपाठकानां भवति। अपरमेकत्ववितर्कमविचारं मनःप्रभृत्यन्यतरैकयोगानां, योगान्तरे संक्रमाभावात् । तृतीयं सूक्ष्मक्रियमनिवर्ति तत तनुयोगे काययोगे सूक्ष्मे, न तु योगान्तरे । चतुर्थ व्युत्सन्नक्रियमप्रतिपाति निर्योगाणामयोगिकेवलिनां शैलेशीगतानां भवति । योगस्तु कायवाग्मनोभेदात्रिविधः। तत्रौदारिकवैक्रियाहारकतैजसकार्मणशरीरवतो जीवस्य
in Education inte
For Personel Private Use Only
Page #782
--------------------------------------------------------------------------
________________
योगशास्त्रम्
एकादशः प्रकाशः।
॥३८२॥
वीर्यपरिणतिविशेषः काययोगः। औदारिकवक्रियाहारकशरीरव्यापाराहृतवागद्रव्यसमूहसाचिव्याजीवव्यापारो वाग्योगः । औदारिकवैक्रियाहारकशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्याजविव्यापारो मनोयोगः॥१०॥ ननु शुक्लध्यानोपरितनभेदद्वये मनो नास्त्येव, अमनस्कत्वात्केवलिनः, ध्यानं च मन:स्थैर्य, तदेतत्कथं ? इत्याह
छद्मस्थितस्य यद्वन्मनः स्थिरं ध्यानमुच्यते तज्झैः ।।
निश्चलमङ्गं तद्वत्केवलिनां कीर्तितं ध्यानम् ॥ ११ ॥ यथा छद्मस्थस्य मनः स्थिरं सत् ध्यानं भण्यते, तथा केवलिनोऽपि सुनिश्चलः कायो योगत्वाव्याभिचाराद्ध्यानशन्दाभिधेयो भवति ॥ ११ ॥ ____ननु चतुर्थे शुक्लध्याने काययोगस्य निरुद्धत्वात् असावपि न भवति, तथापि भावेऽतिप्रसङ्गः, तत्र कथं ध्यानशब्दवाच्यता ? इत्याह
पूर्वाभ्यासाजीवोपयोगतः कर्मजरणहेतोर्वा ।
शब्दार्थबहुत्वाद्वा जिनवचनाद्वाऽप्ययोगिनो ध्यानम् ॥ १२ ॥ यथा कुलालचक्रं भ्रमणनिमित्तदण्डादेरभावेऽपि पूर्वाभ्यासाद्धमति, तथा मनःप्रभतिसर्वयोगोपरमेऽप्ययोगिनो ध्यानं भवति । तथा यद्यपि द्रव्यतो योगा न सन्ति, तथापि जीवोपयोगरूपभावमनःसद्भावादयोगिनो भ्यानम् । यद्वा ध्यानकार्यस्य कर्मनिर्जरणस्य हेतोः हेतुत्वात् ध्यान, यथा पुत्रकार्यकरणादपुत्रोऽपि पुत्र उच्यते ।
॥३८२॥
Jain Educationin
For Personal & Private Use Only
Page #783
--------------------------------------------------------------------------
________________
भवति ह्यस्य भवोपग्राहिकर्मनिर्जरा । अथवा शब्दार्थबहुत्वाध्यानं, यथा हरिशब्दस्यार्कमर्कटादयो बहवोऽर्थाः, एवं ध्यानशब्दस्यापि, तथाहि-ध्य चिन्तायां, ध्य काययोगनिरोधे, ध्यें अयोगित्वेऽपि । वदन्ति हि
निपाताश्चोपसर्गाश्च धातवश्चेति ते त्रयः । अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् ॥ १॥ इति । जिनागमाद्वाऽयोगिनोऽपि ध्यानं । यदाह
आगमश्चोपपत्तिश्च संपूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ॥१॥ इति ॥ १२ ॥ उक्तमपि शुक्लध्यानचतुष्टयं प्रपञ्चयतिआयेश्रुतावलम्बनपूर्वे पूर्वश्रुतार्थसंबन्धात्। पूर्वधराणां छद्मस्थयोगिनां प्रायशो ध्याने ॥१३॥ ___ प्रायश इत्यपूर्वधराणामपि माषतुषमरुदेव्यादीनां शुक्लध्यानसद्भावादित्युक्तप्रायम् ॥ १३॥ तथा| सकलालम्बनविरहप्रथिते द्वे त्वन्तिमे समुद्दिष्टे । निर्मलकेवलदृष्टिज्ञानानां क्षीणदोषाणाम् ॥१४॥ ___ स्पष्टः ॥ १४ ॥
तथातत्र श्रुताद्गहीत्वेकमर्थमर्थाद्वजेच्छब्दम्। शब्दात् पुनरप्यर्थं योगायोगान्तरं च सुधीः॥१५॥ संक्रामत्यविलम्बितमर्थप्रभृतिषु यथा किल ध्यानी।व्यावर्तते स्वयमसौ पुनरपि तेन प्रकारेण ।१६।।
Lain Education inter
For Personal & Private Use Only
Page #784
--------------------------------------------------------------------------
________________
योग
शास्रम्
॥ ३८३ ॥
Jain Education
| इति नानात्वे निशिताभ्यासः संजायते यदा योगी । श्राविर्भूतात्मगुणस्तदेकताया भवेद्योग्यः ॥ १७ ॥ उत्पादस्थितिभङ्गादिपर्ययाणां यदेकयोगः सन् । ध्यायति पर्ययमेकं तत्स्यादेकत्वमविचारम् |१८|| त्रिजगद्विषयं ध्यानादणुसंस्थं धारयेत् क्रमेण मनः । विषमिव सर्वांगगतं मन्त्रबलान्मान्त्रिको दंशे ॥ १९ ॥ अपसारितेन्धनभरः शेषः स्तोकेन्धनोऽनलो ज्वलितः । तस्मादपनीतो वा निर्वाति यथा मनस्तद्वत् ॥ २० ॥ द्वितीयध्यानस्य फलमाह -
ज्वलति ततश्च ध्यानज्वलने भृशमुज्ज्वले यतीन्द्रस्य । निखिलानि विलीयन्ते क्षणमात्राद् घातिकर्माणि ॥ २१ ॥ घातिकर्माण्याह
स्पष्टः ॥ २१ ॥
'ज्ञानावरणीयं दृष्ट्यावरणीयं च मोहनीयं च । विलयं प्रयान्ति सहसा सहान्तरायेण कर्माणि ॥ २२॥
स्पष्टः ।। २२ ।।
घातिकर्मक्षये फलमाह
स्पष्टाः ।। १५-२० ॥
For Personal & Private Use Only
एकादशः
प्रकाशः ।
| ॥ ३८३ ॥
Page #785
--------------------------------------------------------------------------
________________
संप्राप्य केवलज्ञानदर्शने दुर्लभे ततोयोगी। जानाति पश्यति तथा लोकालोकं यथावस्थम् ॥२३॥ ___ ध्यानान्तरे वर्तमान इति शेषः । शेषं स्पष्टम् ॥ २३ ॥
अथोत्पन्नकेवलज्ञानस्य तीर्थकृतोऽतिशयान् चतुर्विंशत्याऽाभिराहदेवस्तदा सभगवान् सर्वज्ञः सर्वदर्श्वनन्तगुणः। विहरत्यवनीवलयं सुरासुरनरोरगैःप्रणतः॥२४॥
वाग्ज्योत्स्नयाऽखिलान्यपि विबोधयति भव्यजन्तुकुमुदानि ।
उन्मूलयति क्षणतो मिथ्यात्वं द्रव्यभावगतम् ॥ २५ ॥ तन्नामग्रहमात्रादनादिसंसारसंभवं दुःखम् । भव्यात्मनामशेष परिक्षयं याति सहसैव ॥२६॥
अपि कोटीशतसङ्ख्याः समुपासितुमागताः सुरनराया। क्षेत्रे योजनमात्रे मान्ति तदाऽस्य प्रभावेण ॥ २७ ॥ त्रिदिवौकसो मनुष्यास्तिर्यश्चोऽन्येऽप्यमुष्य बुध्यन्ते । निजनिजभाषानुगतं वचनं धर्मावबोधकरम् ॥ २८ ॥
en Education internations
For Personel Private Use Only
Page #786
--------------------------------------------------------------------------
________________ योग एकादशः प्रकाशः। शास्त्रम् आयोजनशतमुग्रा रोगा: शाम्यन्ति तत्प्रभावेण / उदयिनि शीतमरीचाविव तापरुजः क्षिते: परितः // 26 // 13-4 // मारीतिदुर्भिक्षातिवृष्ट्यनावृष्टिडमरवैराणि।नभवन्त्यस्मिन् विहरति सहस्ररश्मौ तमांसीव 30 मार्तण्डमण्डलश्रीविडम्बि भामण्डलं विभोः परितः। आविर्भवत्यनुवपुः प्रकाशयत्सर्वतोऽपि दिशः // 31 // संचारयन्ति विकचान्यनुपादन्यासमाशु कमलानि / भगवति विहरति तस्मिन् कल्याणीभक्तयो देवाः // 32 // अनुकूलो वाति मरुत् प्रदक्षिणं यान्त्यमुष्य शकुनाश्च / तरवोऽपि नमन्ति भवन्त्यधोमुखा; कण्टकाश्च तदा // 33 // श्रारक्तपल्लवोऽशोकपादपः स्मेरकुसुमगन्धाढ्यः। प्रकृतस्तुतिरिव मधुकरविरुतैर्विलसत्युपरि तस्य। षडपि समकालमृतवो भगवन्तं तं तदोपतिष्ठन्ते। स्मरसाहाय्यककरणे प्रायश्चित्तं ग्रहीतुमिव 35 M] अस्य पुरस्तान्निनदन् विजृम्भते दुन्दुभिर्नभसि तारम्। कुर्वाणो निर्वाणप्रयाणकल्याणमिव सद्यः // 384 // For Personal & Private Use Only
Page #787
--------------------------------------------------------------------------
________________ पञ्चापि चेन्द्रियार्थाः क्षणान्मनोज्ञीभवन्ति तदुपान्ते।को वा न गुणोत्कर्ष सविधे महतामवाप्नोति अस्य नखा रोमाणि च वर्धिष्णून्यपि न हि प्रवर्धन्ते। भवशतसंचितकर्मच्छेदं दृष्ट्व भीतानि३८ शमयन्ति तदभ्यर्णे रजांसि गन्धजलवृष्टिभिर्देवाः।। उन्निद्रकुसुमवृष्टिभिरशेषत: सुरभयन्ति भुवम् // 39 // छत्रत्रयी पवित्रा विभोरुपरि भक्तितस्त्रिदशराजैः। गङ्गाश्रोतस्त्रितयीव धार्यते मण्डलीकृत्य॥४०॥ अयमेक एव नः प्रभुरित्याख्यातुं बिडौजसोन्नमितः / अङ्गुलिदण्ड इवोच्चैश्चकास्ति रत्नध्वजस्तस्य // 41 // अस्य शरदिन्दुदीधितिचारूणि चचामराणि धूयन्ते / वदनारविन्दसंपातिराजहंसभ्रमं दधति४२ प्राकारास्त्रय उच्चैविभान्ति समवसरणस्थितस्यास्य / ___ कृतविग्रहाणि सम्यक्चारित्रज्ञानदर्शनानीव // 43 // चतुराशावर्तिजनान् युगपदिवानुग्रहीतुकामस्य / चत्वारि भवन्ति मुखान्यङ्गानि च धर्ममुपदिशतः in Education I I For Personal & Private Use Only T
Page #788
--------------------------------------------------------------------------
________________ एकादशः प्रकाशः। योग अभिवन्द्यमानपादः सुरासुरनरोरगैस्तदा भगवान् / शास्त्रम् सिंहासनमधितिष्ठति भाखानिव पूर्वगिरिशृङ्गम् // 45 // // 38 // * तेजःपुञ्जप्रसरप्रकाशिताशेषदिक्कमस्य तदा। त्रैलोक्यचक्रवर्तित्वचिह्नमग्रे भवति चक्रम्॥४६॥ भुवनपतिविमानपतिज्योतिःपतिवानमन्तराः सविधे।। तिष्ठन्ति समवसरणे जघन्यत: कोटिपरिमाणाः // 47 // स्पष्टाः // 24-47 // तीर्थकरकेवलिनोऽतिशयस्वरूपमुक्तम् , इतरकेवलिनः स्वरूपमाह तीर्थकरनामसंज्ञं न यस्य कर्मास्ति सोऽपि योगबलात् / उत्पन्नकेवलः सन् सत्यायुषि बोधयत्युर्वीम् // 48 // स्पष्टः // 48 // उत्तरकरणीयमाहसंपन्नकेवलज्ञानदर्शनोऽन्तर्मुहर्त्तशेषायुः। अर्हति योगी ध्यानं तृतीयमपि कर्तुमचिरेण // 49 // अन्तर्मुहूर्त मुहूर्तस्य मध्ये / शेषमायुर्यस्य स तथा। शेषं स्पष्टम् // 46 // तत्किमविशेषेण सर्वोऽपि योगी तृतीयं ध्यानमारभते उतास्ति कश्चिद्विशेषः ? इत्याह // 38 // Jain Education inte For Personal & Private Use Only
Page #789
--------------------------------------------------------------------------
________________ श्रायु:कर्मसकाशादधिकानि स्युर्यदाऽन्यकर्माणि। तत्साम्याय तदोपक्रमेत योगी समुद्घातम्॥ ___ यावत्यायुःकर्मणः स्थितिः शेषा तावत्येव वेदनीयस्य कर्मणो यदि स्यात्तदा तृतीयं ध्यानमारभते / अथायुःस्थितेः सकाशाद्राधीयसी स्थितिवेदनीयस्य भवति तदा स्थितिघातरसघाताद्यर्थ समुद्घातं प्रयत्नविशेष करोति / यदाह यस्य पुनः केवलिनः कर्म भवत्यायुषोऽतिरिक्ततरम् / स समुद्घातं भगवानथ गच्छति तत्समीकर्तुम् // 1 // इति / समुद्घात इति सम्यगपुनर्भावेन उत प्राबल्येन हननं घातः शरीराबहिर्जीवप्रदेशानां निःसारणम् // 50 // तस्य विधिमाहदण्डकपाटे मन्थानकं च समयत्रयेण निर्माय / तुर्ये समये लोकं निःशेषं पूरयद्योगी // 51 // __इह प्रथमसमय एव स्वदेहतुन्यविष्कम्भमूर्ध्वमधश्चायतं लोकान्तगामिनं जीवप्रदेशसंघातं दण्डाकारं केवली करोति / द्वितीयसमये च तमेव दण्डं पूर्वापरदिग्द्वयप्रसारणात् पार्श्वतो लोकान्तगामि कपाटमिव कपाटं करोति / तृतीयसमये तु तदेव कपाटं दक्षिणोत्तरदिग्द्वयप्रसारणान्मन्थानमिव मन्थानं करोति लोकान्तप्रापिणमेव / एवं च लोकस्य प्रायो बहु पूरितं भवति / चतुर्थसमये तु मन्थान्तराण्यपूरितानि अनुश्रेणिगमनात् सह लोकनिष्कुटैः परयति / ततश्च सकलो लोको जीवप्रदेशैः पूरितो भवति / लोकपूरणश्रवणाच परेषामात्मविभुत्ववादःसमुद्भुतः। तथा चार्थवाद:-" विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतःपात्" इत्यादि // 51 // अथ पञ्चमादिसमयेषु कर्तव्यमाह Jain Education interLI For Personal & Private Use Only
Page #790
--------------------------------------------------------------------------
________________ योगशास्त्रम् एकादश प्रकाशः। // 386 // समयैस्ततश्चतुर्भिनिवर्तिते लोकपूरणादस्मात् / विहितायु:समकर्मा ध्यानी प्रतिलोममार्गेण 52 ततः पञ्चमसमये पूर्वक्रमात् प्रतिलोमं मन्थान्तराणि जीवप्रदेशरूपाणि सकर्मकाणि संकोचयति / षष्ठे समये मन्थानमुपसंहरति, घनतरसंकोचात् / सप्तमे समये कपाटमुपसंहरति, दण्डात्मनि संकोचात् / अष्टमे समये दण्डमुपसंहृत्य शरीरस्थ एव भवति / समुद्घातकाले च मनोवाग्योगयोरव्यापार एव, प्रयोजनाभावात् / काययोगस्यैव केवलस्य व्यापारः / तत्रापि प्रथमाष्टमसमययोरौदारिककायप्राधान्यादौदारिककाययोग एव / द्वितीयषष्ठसप्तमेषु समयेषु पुनरौदारिकाद्वहिर्गमनात् कार्मणवीर्यपरिस्पन्दादौदारिककार्मणमिश्रः / तृतीयचतुर्थपञ्चमेषु औदारिकाद्वहिर्बहुतरप्रदेशव्यापारादसहायकार्मणयोग एव / यदाह औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः / मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु // 1 // कार्मणशरीरयोगी चतुर्थके पश्चमे तृतीये च / समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् // 2 // परित्यक्तसमुद्घातश्च कारणवशाधोगत्रयमपि व्यापारयति, यथा-अनुत्तरसुरः पृष्टो मनोयोग सत्यं वाऽसत्यामृष वा प्रयुते / एवमामन्त्रणादौ वाग्योगमपि, नेतरौ द्वौ भेदौ / द्वयोरपि काययोगमप्यौदारिकं फलकप्रत्यपणादाविति / ततोऽन्तर्मुहूर्त्तमात्रेण कालेन योगनिरोधमारभते / इह त्रिविधोऽपि योगो द्विविधः-सूक्ष्मो बादरश्च / तत्र केवलोत्पत्तेरुत्तरकालो जघन्येनान्तर्मुहूर्त्तम् , उत्कर्षेण च देशोना पूर्वकोटिः, तां विहृत्यान्तर्मुहूर्तावशेषायुष्का सयोगिकेवली प्रथमं बादरकाययोगेन बादरौ वाङ्मनसयोगौ निरुणद्धि / ततः सूक्ष्मकाययोगेन बादरकाययोगं // 386 // Lain Education inter For Personal & Private Use Only
Page #791
--------------------------------------------------------------------------
________________ निरुणद्धि / सति तस्मिन् सूक्ष्मयोगस्य रोध्धुमशक्यत्वात् / न हि धावन् वेपथु वारयति / ततश्च सर्वबादरयोगनिरोधानन्तरं सूक्ष्मेण काययागेन सूक्ष्मौ वाङ्मनसयोगौ निरुणद्धि / ततः सूक्ष्मक्रियमनिवर्ति शुक्लध्यानं ध्यायन् खात्मनैव सूक्ष्मकाययोगं निरुणद्धि // 52 // एतदेवार्यात्रयेणाह श्रीमानचिन्त्यवीर्यः शरीरयोगेऽथ बादरे स्थित्वा। अचिरादेव हि निरुणद्धि बादरौ वाङ्मनसयोगौ // 53 // 'सूक्ष्मेण काययोगेन काययोगं स बादरं रुन्ध्यात् / तस्मिन्ननिरुद्धे सति शक्यो रोऽधुं न सूक्ष्मतनुयोगः // 54 // वचनमनोयोगयुगं सूक्ष्म निरुणद्धि सूक्ष्मात्तनुयोगात् / / विदधाति ततो ध्यानं सूक्ष्मक्रियमसूक्ष्मतनुयोगम् // 55 // स्पष्टाः // 53-55 // तदनन्तरं समुत्सन्नक्रियमाविर्भवेदयोगस्य / अस्यान्ते क्षीयन्ते त्वघातिकर्माणि चत्वारि // स्पष्टः // 56 // ततश्च in Education For Personal Private Use Only al
Page #792
--------------------------------------------------------------------------
________________ योग एकादशः प्रकाशः। शास्रम् // 387 // लघुवर्णपञ्चकोद्विरणतुल्यकालामवाप्य शैलेशीम् / क्षपयति युगपत् परितो वेद्यायुर्नामगोत्राणि // 57 // लघुवर्णपञ्चकं अइउल्लक्षणं तस्योगिरणमुच्चारणं तेन तुन्यः कालो यस्याः। शैलेशो मेरुस्तस्येयं शैलेशी तद्वत् स्थिरावस्थेत्यर्थः, तामवाप्य / युगपदेककालं परितः सामस्त्येन क्षपयति वेदनीयायुर्नामगोत्रलक्षणानि कर्माणि // 57 // ततश्च औदारिकतैजसकार्मणानि संसारमूलकरणानि / हित्वेह ऋजुश्रेण्या समयेनैकेन याति लोकान्तम् // 58 // __औदारिकतैजसकार्मणलक्षणानि शरीराणि संसारमूलभूतानि करणानि साधकतमानि, इह देहत्यागभूमौ हित्वा एकया ऋज्व्या श्रेण्या विग्रहरहितया प्रदेशान्तराण्यस्पृशन्नेकेन समयेन समयान्तरमस्पृशन् लोकान्तं सिद्धिक्षेत्रं याति साकारोपयोगोपयुक्त इति शेषः। यदाह-" इह बोदिं चइत्ताणं तत्थ गंतूण सिज्झइ" इति // 58 // ननूपरि गच्छन् लोकान्तादुपर्यपि किं न गच्छति ? देहत्यागभूमेरधस्तिर्यग्वा किं न गच्छति ? इत्थाह१ इह शरीरं त्यक्त्वा तत्र गत्वा सिध्यति // // 387 // Main Education For Personal & Private Use Only
Page #793
--------------------------------------------------------------------------
________________ नोर्ध्वमुपग्रहविरहादधोऽपि वा नैव गौरवाभावात् / योगप्रयोगविगमात् न तिर्यगपि तस्य गतिरस्ति // 59 // उपग्रहो गत्युपष्टम्भकारी धर्मास्तिकायलक्षणो मत्स्यानामिव जलं, लोकान्तात् परतस्तस्याभावानोवं याति / गौरवमधोगमनहेतुस्तस्याभावानाधो याति / योगः काययोगादिः प्रयोगः परप्रेरणं तयोगिमादभावान तिर्यग् यातीति // 56 // इह च कर्ममुक्तस्योर्ध्वदेशनियमेन गतिर्नोपपद्यत इतिवादिनं प्रत्याह लाघवयोगाध्धूमवदलाबुफलवच्च सङ्गविरहेण / बन्धनविरहादेरण्डवच्च सिद्धस्य गतिरूद्धम् // 60 // ___ लाघवं गौरवप्रतिपक्षभूतः परिणामस्तद्योगात् धूमस्यैव सिद्धस्योर्ध्व गतिर्भवति / तथा सङ्गविरहेण तथाविधपरिणामत्वादष्टमृत्तिकालेपविलिप्तजलाधोनिमग्नक्रमापनीतमृत्तिकालेपजलतलमर्यादोर्ध्वगामितथाविधालाबुफलस्येव सिद्धस्योर्ध्व गतिः, तथा बन्धनस्य कर्मलक्षणस्य विरहादभावात्तथाविधपरिणतेः कोशबन्धनविमुक्तैरण्डफलवत सिद्धस्योर्ध्व गतिः॥ 60 // ततश्च JainEducation inted For Personal & Private Use Only
Page #794
--------------------------------------------------------------------------
________________ योगशास्त्रम् एकादशः प्रकाश // 38 // सादिकमनन्तमनुपममव्याबाधं स्वभावजं सौख्यम् / प्राप्तः सकेवलज्ञानदर्शनो मोदते मुक्तः // 61 // सहादिना वर्तत इति सादिकं, संसारे कदाचिदप्यभावात् / नास्यान्तोऽस्तीत्यनन्तं, क्षयाभावात् / सादेः कथमनन्तत्वमिति चेत् घटादिप्रधंसे तथा दर्शनात् , घटादिप्रध्वंसो हि सादिः, मुद्रादिव्यापारजन्यत्वात् , अनन्तश्च, क्षयाभावात् , तत्क्षये हि घटस्य पुनरुन्मजनप्रसङ्गः / अनुपममुपमानस्य कस्यचिदभावात् सांसारिकसुखानां सर्वजीववर्तिनामतीतानामनागतानां वर्तमानानांच सिद्धसुखापेक्षयाऽनन्तभागत्वात् / नास्य व्याबाधाऽस्तीत्यव्याबाधं, शरीरमनसोराबाधाहेत्वोरभावात् / स्वभावजं स्वभावादात्मस्वरूपमात्राजायते, न पुनः कुतश्चित्कारणान्तरात् , एवंविधं सुखं प्राप्तः, केवलज्ञानदर्शनाभ्यां युक्तो मुक्तः सन् मोदते परमानन्दवान् भवति / अनेन सुखादिगुणविकलो ज्ञानदर्शनरहितश्च मुक्त इति मतमपास्तं, यदाहुबैशेषिका:-“बुध्ध्यादीनां नवानामात्मविशेषगुणानामत्यन्तोच्छेदो मोक्ष" इति, ये वा प्रदीपनिर्वाणकल्पमभावैकरूपं मोक्षमाहुस्तेऽपि निरस्ताः, बुध्ध्यादि गुणोच्छेदरूपस्यात्मोच्छेदरूपस्य वा मोक्षस्यास्पृहणीयत्वात् , को हि सचेतनः स्वगुणोच्छेदमात्मोच्छेदं चार्थ* येत् ? तस्मादनन्तज्ञानदर्शनसुखवीर्यमयस्वरूपो मोक्षः सर्वप्रमाणसिद्धो युक्तः // 61 // इति परमाईतश्रीकुमारपालभूपालशुश्रुपिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषन्नाम्नि संजातपट्टबन्धे * श्रीयोगशास्त्रे स्वोपझं एकादशप्रकाशविवरणम् // 11 // // 3 // in Education Inter For Personal & Private Use Only Sel
Page #795
--------------------------------------------------------------------------
________________ ॥अथ हादश: प्रकाशः // ॐ अहं // शास्त्रारम्भे यदुक्तं " स्वसंवेदनतश्चापि " इति तत्प्रपञ्चयितुं प्रस्तावनामाह श्रुतसिन्धोर्गुरुमुखतो यदधिगतं तदिह दर्शितं सम्यक् / अनुभवसिद्धमिदानी प्रकाश्यते तत्त्वमिदममलम् // 1 // ___ अत्र पूर्वार्धेन वृत्तकीर्तनं उत्तरार्धेन तु वर्तिष्यमाणतत्त्वप्रकाशनम् // 1 // अथोत्तमपदवीमारोढुं चित्तस्य चातुर्विध्यमाह इह विक्षिप्तं यातायातं श्लिष्टं तथा सुलीनं च / चेतश्चतुःप्रकारं तज्ज्ञचमत्कारकारि भवेत् // 2 // इह योगाभ्यासप्रक्रमे चत्वारि चित्तानि भवन्ति, तद्यथा-विक्षिप्त, यातायात, श्लिष्ट, सुलीनं चेति // 2 // क्रमेण व्याचष्टे विक्षिप्त चलमिष्टं यातायातं च किमपि सानन्दम् / प्रथमाभ्यासे द्वयमपि विकल्पविषय ग्रहं तत्स्यात् // 3 // in Educationem For Personal & Private Use Only Clwwjainelibrary.org
Page #796
--------------------------------------------------------------------------
________________ योगशास्त्रम् द्वादशः प्रकाशः // 386 // विचितं चलमितस्ततो भ्राम्यदिति यावत् / यातं च बहिः आयातं चान्तरिति यातायातं, तत् किमपि सान स्वात्मन्यभिनिवेशात् / तच्च चेतोद्वयमपि विचितं यातायातं च प्रथमाभ्यासवर्तिनां भवति / विकल्पेन च Ho बाद्यार्थग्रह उभयस्मिन् // 3 // तथाश्लिष्टं स्थिरसानन्दं सुलीनमतिनिश्चलं परानन्दम् / __ तन्मात्रकविषयग्रहमुभयमपि बुधैस्तदाम्नातम् // 4 // स्थिरत्वात् सानन्दं स्थिरसानन्दं श्लिष्टमुच्यत इति / निश्चलं परमानन्दयुक्तं च सुलीनं / एतच्च द्वयमपि तन्मात्रकमेव चित्तमात्रकमेव विषयं गृहाति, न तु बाह्यम् // 4 // ततश्च एवं क्रमशोऽभ्यासावेशाध्यानं भजेन्निरालम्बम् / समरसभावं यातः परमानन्दं ततोऽनुभवेत् // 5 // क्रमशोऽभ्यासावेशादिति विक्षिप्ताच्चेतसः स्वाभाविकाद्यातायातं चित्तमभ्यस्येत् , ततोऽपि विश्लिष्टं, ततोऽपि च मुलीनं, एवं पुन:पुनरभ्यासाभिरालम्बं ध्यानं भवेत् / ततः समरसभावप्राप्तेः परमानन्दमनुभवति // 5 // समरसभावप्राप्तिर्यथा भवति तथाऽऽह // 386 Lain Education inter For Personal & Private Use Only
Page #797
--------------------------------------------------------------------------
________________ बाह्यात्मानमपास्य प्रसत्तिभाजान्तरात्मना योगी। सततं परमात्मानं विचिन्तयेत्तन्मयत्वाय // 6 // स्पष्टा // 6 // बहिराद्यात्मनां स्वरूपमार्याद्वयेनाह श्रात्मधिया समुपातः कायादिः कीर्त्यतेऽत्र बहिरात्मा। कायादेः समधिष्ठायको भवत्यन्तरात्मा तु // 7 // चिद्रूपानन्दमयो निःशेषोपाधिवर्जितः शुद्धः। प्रत्यक्षोऽनन्तगुणः परमात्मा कीर्तितस्तज्ज्ञैः॥॥ स्पष्टे // 7-8 // बहिरात्मान्तरात्मनोहेंदज्ञाने यद्भवति तदाहपृथगात्मानं कायात्पृथक् च विद्यात्सदात्मनः कायम्। उभयोर्भेदज्ञातात्मनिश्चये न स्खलेद्योगी। स्पष्टा // 6 // तथाहि अन्तःपिहितज्योतिः संतुष्यत्यात्मनोऽन्यतो मूढः / तुष्यत्यात्मन्येव हि बहिनिवृत्तभ्रमो ज्ञानी // 10 // स्पष्टा // 10 // तदेवाह Jain Education intem For Personal & Private Use Only V ww.jainelibrary.org
Page #798
--------------------------------------------------------------------------
________________ द्वादशः प्रकाश योग- T पुंसामयत्नलभ्यं ज्ञानवतामव्ययं पदं नूनम् / यद्यात्मन्यात्मज्ञानमात्रमेते समीहन्ते // 11 // शास्त्रम् अव्ययं पदं परमात्मरूपता / शेष स्पष्टम् // 11 // एतदेव स्पष्टयति॥३६॥ श्रयते सुवर्णभावं सिद्धरसस्पर्शतो यथा लोहम् / श्रात्मध्यानादात्मा परमात्मत्वं तथाऽऽप्नोति // 12 // स्पष्टा // 12 // एतच्च सुज्ञानमवेत्याह जन्मान्तरसंस्कारात्स्वयमेव किल प्रकाशते तत्त्वम् / सुप्तोत्थितस्य पूर्वप्रत्ययवन्निरुपदेशमपि // 13 // यैन जन्मान्तरे आत्मज्ञानमभ्यस्तं तस्य सुप्तप्रबुद्धस्य पूर्वार्थप्रत्यय इवात्मज्ञानं भवति // 13 // इतरस्य तु अथवा गुरुप्रसादादिहैव तत्त्वं समुन्मिपति नूनम् / गुरुचरणोपास्तिकृतः प्रशमजुषः शुद्धचित्तस्य // 14 // इहवे इहजन्मन्येव जन्मान्तरसंस्कारं विनापीत्यर्थः॥ 14 // उभयत्रापि गुरुमुखप्रेक्षित्वमनिवार्यमेवेत्याहतत्र प्रथमेतत्त्वज्ञाने संवादको गुरुर्भवति। दर्शयिता त्वपरस्मिन् गुरुमेव सदा भजेत्तस्मात् // 15 // 9 // Jain Education in For Personal & Private Use Only
Page #799
--------------------------------------------------------------------------
________________ प्रथमे जन्मान्तराभ्यस्ते तत्त्वज्ञाने / अपरस्मिन् गुरूपदर्शिते तत्त्वज्ञाने // 15 // गुरुमेव स्तौतियद्वत्सहस्रकिरणः प्रकाशको निचिततिमिरमग्नस्य / यद्गुरुरत्र भवेदज्ञानध्वान्तपतितस्य // 16 // निचिततिमिरमग्नस्य अर्थस्थेति शेषः / अज्ञानध्वान्तपतितस्य तत्त्वस्येति शेषः // 16 // ततश्चप्राणायामप्रभृतिक्लेशपरित्यागतस्ततो योगी। उपदेशं प्राप्य गुरोरात्माभ्यासे रतिं कुर्यात्॥१७॥ स्पष्टा // 17 // ततश्चवचनमनःकायानां क्षोमं यत्नेन वर्जयेच्छान्तः। रसभाण्डमिवात्मानं सुनिश्चलं धारयेन्नित्यम् 18 स्पष्टा // 18 // M] औदासीन्यपरायणवृत्तिः किञ्चिदपि चिन्तयेन्नैव। यत्संकल्पाकुलितं चित्तंनासादयेत् स्थैर्यम्॥१९॥ स्पष्टा // 16 // व्यतिरेकमाहयावत्प्रयत्नलेशो यावत्सङ्कल्पकल्पना काऽपि। तावन्न लयस्यापिप्राप्तिस्तत्त्वस्य का नु कथा॥२०॥ स्पष्टा // 20 // औदासीन्यस्य फलमाह यदिदं तदिति न वक्तुं साक्षाद्गुरुणाऽपि हंत शक्येत / औदासीन्यपरस्य प्रकाशते तत्स्वयं तत्त्वम् // 21 // in Education international For Personal & Private Use Only
Page #800
--------------------------------------------------------------------------
________________ द्वादशः योगशास्त्रम् प्रकाशः। H361 // स्पष्टा // 21 // यथोदासीनस्य परे तत्वे लयो यथा चोन्मनीभावो भवति तथा कलापकेनाह-- एकान्तेऽतिपवित्रे रम्ये देशे सदा सुखासीनः / श्रा चरणाग्रशिखाग्राच्छिथिलीभूताखिलावयवः // 22 // रूपं कान्तं पश्यन्नपि शृण्वन्नपि गिरं कलमनोज्ञाम् / जिघन्नपि च सुगन्धीन्यपि भुञ्जानो रसान् स्वादून् // 23 // भावान् स्पृशन्नपि मृदूनवारयन्नपि च चेतसो वृत्तिम् / परिकलितौदासीन्यः प्रणष्टविषयभ्रमो नित्यम् // 24 // बहिरन्तश्च समन्ताच्चिन्ताचेष्टापरिच्युतो योगी / तन्मयभावं प्राप्तः कलयति भृशमुन्मनीभावम् // 25 // कलापकं स्पष्टम् // 22-25 // अथ कथमिन्द्रियप्रसरो न प्रतिषिध्यते ? इत्याह गृह्णन्ति ग्राह्याणि स्वानि स्वानीन्द्रियाणि नो रुन्ध्यात् / न खलु प्रवर्तयेद्वा प्रकाशते तत्त्वमचिरेण // 26 // H // 361 // Lain Education inter 24 For Personal & Private Use Only
Page #801
--------------------------------------------------------------------------
________________ स्पष्टः // उक्तं चास्माभिर्वीतरागस्तोत्रे-- संयतानि न चाक्षाणि नैवोच्छृङ्खलितानि च / इति सम्यक् प्रतिपदा त्वयेन्द्रियजयः कृतः // 1 // 26 // मनोजयमप्यकृच्छ्रप्राप्यमार्याद्वयेनाह--. चेतोऽपि यत्र यत्र प्रवर्तते नो ततस्ततो वार्यम् / अधिकीभवति हि वारितमवारितं शान्तिमुपयाति // 27 // मत्तो हस्ती यत्नान्निवार्यमाणोऽधिकीभवति यद्वत् / अनिवारितस्तु कामान् लब्ध्वा शाम्यति मनस्तद्वत् // 28 // स्पष्टे // 27-28 // यथा मनः स्थिरं भवति तथाऽऽद्वियेनाह यहि यथा यत्र यतः स्थिरीभवति योगिनश्चलं चेतः / तर्हि तथा तत्र ततः कथञ्चिदपि चालयेन्नैव // 26 // अनया युक्त्याऽभ्यासं विदधानस्यातिलोलमपि चेतः / अगुल्यग्रस्थापितदण्ड इव स्थैर्यमाश्रयति // 30 // स्पष्ट // 26-30 // इन्द्रियजयविधिमार्याद्वयेनाह-- in Education Interna For Personal & Private Use Only क ww.jainelibrary.org
Page #802
--------------------------------------------------------------------------
________________ योग शास्त्रम् // 362 // निःसृत्यादौ दृष्टिः संलीना यत्र कुत्रचित्स्थाने। तत्रासाद्य स्थैर्य शनैः शनैर्विलयमाप्नोति // 31 // द्वादशः सर्वत्रापि प्रस्मृता प्रत्यग्भूताशनैःशनैर्दृष्टिः। परतत्त्वामलमुकुरेनिरीक्षते ह्यात्मनाऽऽत्मानम् // 32 // प्रकाशः। स्पष्टे // 31-32 // मनोविजये विधिमार्यात्रयेणाह-- औदासीन्यनिमग्नः प्रयत्नपरिवर्जितः सततमात्मा / भावितपरमानन्दः क्वचिदपि न मनो नियोजयति // 33 // करणानि नाधितिष्ठत्युपेक्षितं चित्तमात्मना जातु / ग्राह्ये ततो निजनिजे करणान्यपि न प्रवर्तन्ते // 34 // नात्मा प्रेरयति मनो न मनः प्रेरयति यहि करणानि / उभयभ्रष्टं तर्हि स्वयमेव विनाशमाप्नोति // 35 // स्पष्टाः // 33-35 // मनोविजयस्य फलमाह नष्टे मनसि समन्तात्सकले विलयं च सर्वतो याते / निष्कलमुदेति तत्त्वं निर्वातस्थायिदीप इव // 36 // // 362 // in Education international For Personal & Private Use Only
Page #803
--------------------------------------------------------------------------
________________ नष्टे भस्मच्छन्नाग्निवत्समन्ततस्तिरोहिते मनसि / तथा सह कलाभिश्चिन्तास्मृत्यादिरूपाभिर्वर्तते यत्तत्सकलं तस्मिन् जलप्रवाहप्लावितवहिवद्विलयं क्षयमुपगते सति तत्त्वमात्मज्ञानरूपं निष्कलं कर्म कलाविनिर्मुक्तमुदेति // 36 // तत्त्वज्ञानस्य प्रत्ययमाह अङ्गमृदुत्वनिदानं स्वेदनमर्दनविवर्जनेनापि / स्निग्धीकरणमतैलं प्रकाशमानं हि तत्त्वमिदम् // 37 // स्पष्टा // 37 / / प्रत्ययान्तरमाह-- अमनस्कतया संजायमानया नाशिते मनःशल्ये / शिथिलीभवति शरीरं छत्रमिव स्तब्धतां त्यक्त्वा // 38 // स्पष्टा / / 38 / / व्यतिरेकमाह शल्यीभूतस्यान्त:करणस्य क्लेशदायिनः सततम् / अमनस्कतां विनाऽन्यदिशल्यकरणौषधं नास्ति // 39 // स्पष्टा // 39 // अमनस्कत्वस्य फलमाहकदलीवच्चाविद्यालोलेन्द्रियपत्रला मनःकन्दा। अमनस्कफले दृष्टे नश्यति सर्वप्रकारेण // 40 // in Education Inter ! For Personal & Private Use Only .
Page #804
--------------------------------------------------------------------------
________________ योगस्पष्टा // 40 // मनोजयेऽमनस्कतां परमं कारणमाह द्वादशः शास्त्रम् || अतिचञ्चलमतिसूक्ष्मं दुर्लक्ष्यं वेगवत्तया चेतः। अश्रान्तमप्रमादादमनस्कशलाकया भिन्द्यात् 41 प्रकाशः। // 363 // अमनस्कमेव शलाका प्रहरणविशेषः / शेषं स्पष्टम् // 41 // पुनरमनस्कोदये योगिनः फलमाह विश्लिष्टमिव प्लुष्टमिवोड्डीनमिव प्रलीनमिव कायम् / अमनस्कोदयसमये योगी जानात्यसत्कल्पम् // 42 // स्पष्टा // 42 // तथा समदैरिन्द्रियभुजगै रहित विमनस्कनवसुधाकुण्डे / मग्नोऽनुभवति योगी परामृतास्वादमसमानम् // 43 / / स्पष्टा // 43 // तथा रेचकपूरककुम्भककरणाभ्यासक्रमं विनाऽपि खलु / स्वयमेव नश्यति मरुद्विमनस्के सत्ययत्नेन // 44 // स्पष्टा // 44 // तथा 363 // Jain Education inte For Personal & Private Use Only
Page #805
--------------------------------------------------------------------------
________________ चिरमाहितप्रयत्नैरपि धर्तुं यो हि शक्यते नैव।सत्यमनस्के तिष्ठति स समीरस्तत्क्षणादेव // 45 // स्पष्टा // 45 // तथा जातेऽभ्यासे स्थिरतामुदयति विमले च निष्कले तत्त्वे / मुक्त इव भाति योगी समूलमुन्मूलितश्वासः // 46 // स्पष्टा // 46 // तथा यो जाग्रदवस्थायां स्वस्थः सुप्त इव तिष्ठति लयस्थः। श्वासोच्छ्वासविहीनः स हीयते न खलु मुक्तिजुषः // 47 // स्पष्टा // 47 // तथा जागरणस्वप्नजुषो जगतीतलवर्तिनः सदा लोकाः / तत्त्वविदो लयमग्ना नो जाग्रति शेरते नापि // 48 // स्पष्टा // 48 // तथा भवति खलु शून्यभावः स्वप्ने विषयग्रहश्च जागरणे / एतद्वितयमतीत्यानन्दमयमवस्थितं तत्त्वम् // 49 // Jan Education For Personel Private Use Only
Page #806
--------------------------------------------------------------------------
________________ योग- स्पष्टा // 46 // सोपालम्भमुपदेशसर्वस्वमाहशास्त्रम् - कर्माण्यपि दुःखकृते निष्कर्मत्वं सुखाय विदितंतु।न ततःप्रयतेतकथं निष्कर्मत्वे सुलभमोक्षे॥५०॥ प्रकाशः / / / 334 // स्पष्टा // 50 // यदिवा मोक्षोऽस्तु मास्तु यदिवा परमानन्दस्तु वेद्यते स खलु। यस्मिन्निखिलसुखानि प्रतिभासन्ते न किञ्चिदिव // 51 // स्पष्टा // 51 // तथाहीत्यादिना एतदेव प्रपञ्चयतिमधु न मधुरं नैताः शीतास्त्विषस्तुहिनद्युतेरमृतममृतं नामैवास्याः फले तु मुधा सुधा। तदलममुना संरम्भेण प्रसीद सखे मनः, फलमविकलं त्वय्येवैतत्प्रसादमुपेयुषि // 52 // ___ स्पष्टः // 52 // स्वसंविदितामनस्कोपदेशदायिनो गुरून् व्यतिरेकभङ्गया स्तौतिसत्येतस्मिन्नरतिरतिदं गृह्यते वस्तु दूरा-दप्यासन्नेऽप्यसति तु मनस्याप्यते नैव किञ्चित् / पुंसामित्यप्यवगतवतामुन्मनीभावहेता-विच्छा बाढं न भवति कथं सद्गुरूपासनायाम् // 53 // एतस्मिन्मनसि सति दूरादपि अरतिरतिकारणं वस्तु गृह्यते, अरतिकारणं व्याघ्रादि रतिकारणं वनितादि / आसन्नदेशवयंप्यसति तु मनसि न अरतिरतिदं वस्तु गृह्यते / सुखदुःखे मनःसंबन्धनिबन्धने, न तु विषयसंपर्क- // 364 // Iain Education inte For Personal & Private Use Only
Page #807
--------------------------------------------------------------------------
________________ जनिते इत्यर्थः / इत्यप्यवगतवतां पुंसां सद्रूपासनायां कथमिच्छा न भवति ? / किविशिष्टायां? उन्मनीभावहेतौ उन्मनस्त्वकारणभूतायाम् // 53 // इदानीममनस्कतोपायभूतामात्मप्रसादनां वृत्तेनाह तांस्तानापरमेश्वरादपि परान् भावैः प्रसादं नयन्, तैस्तैस्तत्तदुपायमूढ भगवन्नात्मन् किमायस्यसि / हंतात्मानमपि प्रसादय मनाग् येनासतां संपदः, साम्राज्यं परमेऽपि तेजसि तव प्राज्यं समुज्जृम्भते // 54 // तान् तान् उच्चनीचभेदेन बहुप्रकारान् परान् आत्मव्यतिरिक्तान् , किमपरं? परमेश्वरं परमात्मानमप्यभिव्याप्य प्रसादं नयन अनुग्रहपरान् कुर्वन् , कैः ? तैस्तै वैरभिप्रायैर्धनयशोविद्याराज्यस्वर्गाद्यर्थप्रार्थनारूपै रोगदारिद्यक्षुद्रोपद्रवायनर्थपरिहारेच्छारूपैश्च हेतुभूतैः, किं कुतो हेतोः ? हे आत्मन् आयस्यसि आयासमनुभवसि ? तत्तदुपायमूढेत्यात्मनो विशेषणं, ते च ते उपायनसेवादानपूजादय उपायास्तेषु मूढ केनोपायेनायमयं च परः प्रसादनीय इत्यत्र भ्रान्तः (न्त ) भगवन्निति भाविप्रसादयुक्ततया आत्मनः पूज्यत्वमाह / हंतेति प्रत्यक्षीकृतस्यात्मनः संबोधनं / आत्मानमपि स्वमपि प्रसादय रजस्तमोमलापनयनेन प्रसादवन्तं कुरु / मनागिति क्षणमात्रं, आस्तां चिरकालं / येनात्मप्रसादनेन, आसतामन्याः संपदः अर्थप्राप्त्यत्यनर्थपरिहाररूपा यावत् परमेऽपि तेजसि परम Jan Education intel For Personal Private Use Only
Page #808
--------------------------------------------------------------------------
________________ योगशास्त्रम् द्वादशः प्रकाशः। // 365 // ज्योतीरूपेऽपि प्रकाशे साम्राज्यं परमाधिपत्यं प्राज्यं प्रचुरं तव समुज्जृम्भते आविर्भवति / अयमर्थः-निखिलजगत्प्रसादनप्रयासमन्तरेणापि प्रात्मप्रसादमात्रेण ईपत्करा परमैश्वर्यसंपदिति वृथाऽन्यः सकलः प्रयासः। तस्यां च साम्राज्यसंपदि सुलभ उन्मनीभाव इति // 54 / / इदानीं श्रुताम्भोधेरधिगमादिति यन्मुखे प्रतिज्ञातं तन्निर्वहणेऽनूद्योपसंहरति या शास्त्रात्सुगुरोर्मुखादनुभवाच्चाज्ञायि किञ्चित् क्वचित् , योगस्योपनिषद्विवेकिपरिषच्चेतश्चमत्कारिणी। श्रीचौलुक्यकुमारपालनृपतेरत्यर्थमभ्यर्थना दाचार्येण निवेशिता पथि गिरां श्रीहेमचन्द्रेण सा // 55 // ___ या योगस्योपनिषद्रहस्यमज्ञायि ज्ञाता। कुतः ? शास्त्रात् द्वादशाङ्गादागमात् , सुगुरोः सदागमव्याख्यातु: मुखात् साक्षादुपदेशात् , अनुभवाच स्वसंवेदनरूपात् / किश्चिदिति स्वप्रज्ञानुसारेण / क्वचिदिति एकत्र सर्वस्य ज्ञातुमशक्यत्वात् प्रदेशभेदे क्वचन / उपनिषदमेव विशिनष्टि-विवेकिनां योगरुचीनां या परिषत् सभा, तस्या यच्चेतः, तच्चमत्करोतीत्येवंशीला। सा योगस्योपनिषत् , श्रीचौलुक्यो यः कुमारपालनृपतिः तस्यात्यर्थमभ्यर्थनया, स हि योगोपासनप्रियो दृष्टयोगशास्त्रान्तरश्च इति स पूर्वेभ्यो योगशास्त्रेभ्यो विलक्षणं योगशास्त्रं // 35 // JainEducation inbi For Personal & Private Use Only
Page #809
--------------------------------------------------------------------------
________________ शुश्रूषमाणोऽत्यर्थमभ्यर्थितवान् , ततस्तदभ्यर्थनतो वचनस्यागोचरामपि उपनिषदं गिरां पथि निवेशितवान् आचार्यश्रीहेमचन्द्रः / इति शुभम् / / श्री चौलुक्यक्षितिपतिकृतप्रार्थनाप्रेरितोऽहं, तत्त्वज्ञानामृतजलनिधेर्योगशास्त्रस्य वृत्तिम् / स्वोपज्ञस्य व्यरचयमिमां तावदेषा च नन्या-द्यावजैनप्रवचनवती भूर्भुवःस्वस्त्रयीयम् // 1 // संप्रापि योगशास्त्रात्तद्विवृतेश्चापि यन्मया सुकृतम् / तेन जिनबोधिलाभप्रणयी भव्यो जनो भवतात् // 2 // इति श्रीपरमार्हतश्रीकुमारपालभूपालशुश्रषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषनाम्नि संजातपट्टबन्धे श्रीयोगशास्त्रे स्वोपज्ञं द्वादशप्रकाशविवरणम् // 12 // / इति योगशास्त्रे द्वितीयो विभागः / / इति संपूर्ण योगशास्त्रं सविवरणम् / - -- -- - in Education International For Personal & Private Use Only ITT
Page #810
--------------------------------------------------------------------------
________________ LAHNA TREGIMEINGTODAGOODOGDADDOGJAGDOGANDGIG ANANAM AARI RAMMARY पति संपूर्ण योगशास्त्र सविवस्याम् // MANISmannaCHERAMMALARIAGRAaara SeTRAIPS AMDESHEGDESHDOveqeIHEREPEAREERREAPERIESNEL in Education Inter For Personal & Private Use Only Ri