SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ योग- ये स्त्रीशस्त्राक्षसूत्रादिरागाद्यङ्ककलङ्किताः । निग्रहानुग्रहपरास्ते देवाः स्युन मुक्तये ॥ ६॥ द्वितीय शास्त्रम् । स्त्री कामिनी, शस्त्रं शूलादि, अक्षसूत्रं जपमाला, तान्यादौ येषां नाट्याट्टहासादीनां ते स्त्रीशस्वाक्षसूत्रादयः, प्रकाशः। राग आदिर्येषां ते रागादयः आदिशब्दाद्देषमोहपरिग्रहः, रागादीनामङ्काश्चिह्नानि, स्त्रीशस्त्राक्षसूत्रादयश्च ते रागाद्यवाश्च तैः कलङ्किता क्षितास्तत्र स्त्री रागचिहं शस्त्र द्वेषचिह्नं अक्षसूत्रं मोहचिह्नम् । वीतरागो हि नाङ्गनासङ्गभाग्भवति । वीतद्वेषो वा कथं शस्त्रं विभृयात् । गतमोहो वा कथं विस्मृतिचिह्नं जपमालां परिगृहीयात् । रागद्वेषमोहैः सर्वदोषाः संगृहीतास्तन्मूलत्वात्सर्वदोषाणाम् । निग्रहो वधवन्धादिः, अनुग्रहो वरप्रदानादिः, तौ परौ प्रकृष्टौ येषां ते तथा। निग्रहानुग्रहावपि रागद्वेषयोश्चिहे। ये एवंविधास्ते देवा न भवन्ति मुक्तये इति मुक्तिनिमित्तम् । देवत्वमात्रं तु क्रीडनादिकारिणां प्रेतपिशाचादीनामिव न वार्यते ॥६॥ मुक्तिनिमित्तत्वाभावमेव व्यनक्तिनाट्याट्टहाससङ्गीताद्युपप्लवविसंस्थुलाः। लम्भयेयुः पदं शान्तं प्रपन्नान् प्राणिनः कथम् ?॥७॥ इह सकलसांसारिकोपप्लवरहितं शान्तं पदं मुक्तिकैवल्यादिशब्दाभिधेयमस्तीत्यत्र नास्ति विप्रतिपत्तिः । तत्तादृशं शान्तं पदं नाट्याट्टहाससङ्गीतादिविसंस्थुलाः स्वयमुपहतवृत्तयः कथमाश्रितजनान् प्रापयेयुः । न घेरण्डतरुः कल्पतरुलीलामुद्वहति । ततश्च रागद्वेषमोहदोषविवर्जितो जिन एको देवो मुक्तये नेतरे दोषदक्षिताः । अत्रान्तरश्लोकाः ॥६० Lain Education inter For Personal Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy