SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ननचतुस्त्रिंशदतिशयादियोगिनं भगवन्तं श्रीमहावीरमनुध्यातवान् । तदनुभावाच्च तद्वर्णप्रमाणसंस्थानसंहननातिशययुक्तः पद्मनाभस्तीर्थकरो भविष्यति । यदाचमाहि तह तम्मएण मणसा वीरजियो झाइको तए पुव्विं । जह वारिसो चिय तुम अहेसि ही जोगमाहप्पं ॥१॥ भागमश्चजस्सीलसमायारो अरिहा तित्थंकरो महावीरो। तस्सीलसमायारो होहि हु परिहा महापउमो ॥२॥ उपास्यः सेवाञ्जलिसंबन्धादिना अयमेव देवः दृष्कृतगर्दासकृतानुमोदनापूर्वकमयमेव देवो भवभयातिभेदी * शरणमिष्यताम् । अस्यैवोक्तलक्षणस्य देवस्य शासनमाज्ञा प्रतिपत्तव्यं खीकरणीयम् । शासनान्तराणि हि निरतिशयपुरुषप्रणेतृकाणि न प्रतिपत्तियोग्यानि । चेतनास्ति चेदित्यधिषेपः चेतनावत एव प्रत्युपदेशस्य सफलत्वात् । अचेतनं तु प्रति विफलं उपदेशप्रयासः । यदाह अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं, श्वपुच्छमवनामितं बधिरकर्णजापः कृतः। स्थले कमलरोपणं सुचिरमपरे वर्षणं, तदन्धमुखमण्डनं यदबुधे जने भाषितम् ॥ १॥५॥ अदेवलक्षणमाह(१) तथा तन्मयेन मनसा वीरजिनो ध्यातस्त्वया पूर्वम् । यथा तादृश एव त्वमासीः ही योगमाहात्म्यम् ॥ (२) यच्छीलसमाचारो अईन तीर्थकरो महावीरः। तच्छीलसमाचारो भविष्यति खलु अर्हन महापद्मः॥ in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy