SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ योग प्रथमः शास्त्रम् प्रकाशः। ॥३६॥ स्युर्जन्मादिक्लेशवार्जिताः। अनन्तदर्शनज्ञानवीर्यानन्दमयाश्च ते ॥३॥ संसारिणो द्विधा जीवाः स्थावरत्रसभेदतः। द्वितयेऽपि द्विधा पर्याप्तापर्याप्तविशेषतः ॥४॥ पर्याप्तयस्तु षडिमाः पर्याप्तत्वनिबन्धनम् । आहारो वपुरक्षाणि प्राणा भाषा मनोपि च ॥५॥ स्युरेकाक्षविकलाक्षपञ्चाक्षाणां शरीरिणाम् । चतस्रः पञ्च पवापि पर्याप्तयो यथाक्रमम् ॥६॥ एकाक्षाः स्थावरा भूम्यप्तेजोवायुमहीरुहः । तेषां तु पूर्वे चत्वारः स्युः सूक्ष्मा बादरा अपि ॥ ७॥ प्रत्येकाः साधारणाश्च द्विप्रकारा महीरुहः । तत्र पूर्वे बादराः स्युरुत्तरे सूक्ष्मवादराः॥८॥सा द्वित्रिचतुष्पश्चेन्द्रियत्वेन चतुर्विधाः। तत्र पञ्चेन्द्रिया द्वेधा संज्ञिनोऽसंज्ञिनोऽपि च ॥६॥ शिक्षोपदेशालापान्ये जानते तेऽत्र संझिनः । संप्रवृत्तमनःप्राणास्तेभ्योऽन्ये स्युरसंज्ञिनः॥१०॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रमितीन्द्रियम्। । तस्य स्पर्शो रसो गन्धो रूपं शब्दश्च गोचरः ॥ ११॥ द्वीन्द्रियाः कृमयः शङ्खा गण्डूपदजलौकसः। कपर्दा: शुक्तिकाद्याश्च विविधाकृतयो मताः॥ १२ ॥ यकामत्कुणमत्कोटलिक्षाद्यास्त्रीन्द्रिया मताः। पतङ्गमक्षिकाभन्दशाद्याश्चतुरिन्द्रियाः ॥ १३॥ तिर्यग्योनिभवाः शेषा जलस्थलखचारिणः । नारका मानवा देवाः सर्वे पवेन्द्रिया मताः ॥ १४ ॥ मनोभाषाकायबलत्रयमिन्द्रियपञ्चकम् । आयुरुच्छ्वासनिःश्वासमिति प्राणा दश स्मृताः॥१५॥ सर्वजीवेषु देहायुरुच्छासा इन्द्रियाणि च । विकलासंज्ञिनां भाषा पूर्णानां संज्ञिनां मनः॥ १६॥ उपपादभवा देवा नारका गर्भजाः पुनः । जरायुपोताण्डभवाः शेषाः सम्मूर्छनोद्भवाः ॥ १७॥ सम्मृच्छिनो नारकाच जीवाः पापा नपुंसकाः । देवास्तु स्त्रीवेदाः स्युर्वेदत्रयजुषः परे ॥ १८॥ सर्वे जीवा व्यवहार्यव्यवहारितया द्विधा । (१) मनुजाः । (२) देवनारकाः। (३) देवाः स्त्रीपुंसवेदाः। ॥३६॥ Latin Education inter For Personal & Private Use Only ___www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy