SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ चतुर्वर्गोऽर्थकामधर्ममोचलक्षणः तस्मिन्नग्रणीः प्रधानं मोक्षः । अर्थो हि अर्जनरक्षणनाशव्ययहेतुकदुःखानुषङ्गदक्षितत्वान चतुर्वर्गेऽग्रणीभवति । कामस्तु सुखानुषङ्गलेशाद्यद्यप्योंदुत्कृष्यते तथापि विरसावसानत्वात दर्गतिसाधनत्वाच नाग्रणी । धर्मस्तु ऐहिकामुष्मिकसुखसाधनत्वेन अर्थकामाभ्यां यद्यप्युत्कृष्यते तथापि कनकनिगडरूपपुण्यकर्मबन्धननिबन्धनत्वाद्भवभ्रमणहेतुरिति नाग्रणीः। मोक्षस्तु पुण्यपापक्षयलक्षणो न क्लेशबहुलो न वा विषसम्पृक्तानवदापातरमणीयः परिणामदुःखदायी न वा ऐहिकामुष्मिकफलाशंसादोपदूषित इति भवति परमानन्दमयश्चतुर्वर्गेणीः यः। तस्य च कारणं साधकतमं करणं योगः। तस्य किं रूपमित्याह । रत्नत्रयं मरकतादिव्यवच्छेदेनाह । ज्ञानश्रद्धानचारित्ररूपमिति ॥ १५ ॥ · रत्नत्रये प्रथमं ज्ञानस्वरूपमाहयथावस्थिततत्त्वानां संक्षेपाद्विस्तरेण वा। योऽवबोधस्तमत्राहुः सम्यग्ज्ञानं मनीषिणः ॥१६॥ यथावस्थितानि नयप्रमाणप्रतिषितस्वरूपाणि यानि तत्वानि जीवाजीवाश्रवसंवरनिर्जराबन्धमोक्षलक्षणानि । तेषां योऽवबोधस्तत्सम्यगजानं, स चावबोधः चयोपशमविशेषात्कस्यचित्संक्षेपेण कर्मक्षयात कस्यचिद्विस्तरेण । तथाहि जीवाजीवावाश्रवश्व संवरो निर्जरा तथा । बन्धो मोश्चेति सप्त तत्वान्याहुर्मनीषिणः ॥ १॥ तत्र जीवा द्विधा ज्ञेया मुक्तसंसारिभेदतः। अनादिनिधनाः सर्वे ज्ञानदर्शनलक्षणाः।। २ ॥ मुक्ता एकस्वभावाः तष Latin Education interna For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy