SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् एकादशः प्रकाश // 38 // सादिकमनन्तमनुपममव्याबाधं स्वभावजं सौख्यम् / प्राप्तः सकेवलज्ञानदर्शनो मोदते मुक्तः // 61 // सहादिना वर्तत इति सादिकं, संसारे कदाचिदप्यभावात् / नास्यान्तोऽस्तीत्यनन्तं, क्षयाभावात् / सादेः कथमनन्तत्वमिति चेत् घटादिप्रधंसे तथा दर्शनात् , घटादिप्रध्वंसो हि सादिः, मुद्रादिव्यापारजन्यत्वात् , अनन्तश्च, क्षयाभावात् , तत्क्षये हि घटस्य पुनरुन्मजनप्रसङ्गः / अनुपममुपमानस्य कस्यचिदभावात् सांसारिकसुखानां सर्वजीववर्तिनामतीतानामनागतानां वर्तमानानांच सिद्धसुखापेक्षयाऽनन्तभागत्वात् / नास्य व्याबाधाऽस्तीत्यव्याबाधं, शरीरमनसोराबाधाहेत्वोरभावात् / स्वभावजं स्वभावादात्मस्वरूपमात्राजायते, न पुनः कुतश्चित्कारणान्तरात् , एवंविधं सुखं प्राप्तः, केवलज्ञानदर्शनाभ्यां युक्तो मुक्तः सन् मोदते परमानन्दवान् भवति / अनेन सुखादिगुणविकलो ज्ञानदर्शनरहितश्च मुक्त इति मतमपास्तं, यदाहुबैशेषिका:-“बुध्ध्यादीनां नवानामात्मविशेषगुणानामत्यन्तोच्छेदो मोक्ष" इति, ये वा प्रदीपनिर्वाणकल्पमभावैकरूपं मोक्षमाहुस्तेऽपि निरस्ताः, बुध्ध्यादि गुणोच्छेदरूपस्यात्मोच्छेदरूपस्य वा मोक्षस्यास्पृहणीयत्वात् , को हि सचेतनः स्वगुणोच्छेदमात्मोच्छेदं चार्थ* येत् ? तस्मादनन्तज्ञानदर्शनसुखवीर्यमयस्वरूपो मोक्षः सर्वप्रमाणसिद्धो युक्तः // 61 // इति परमाईतश्रीकुमारपालभूपालशुश्रुपिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषन्नाम्नि संजातपट्टबन्धे * श्रीयोगशास्त्रे स्वोपझं एकादशप्रकाशविवरणम् // 11 // // 3 // in Education Inter For Personal & Private Use Only Sel www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy