________________ नोर्ध्वमुपग्रहविरहादधोऽपि वा नैव गौरवाभावात् / योगप्रयोगविगमात् न तिर्यगपि तस्य गतिरस्ति // 59 // उपग्रहो गत्युपष्टम्भकारी धर्मास्तिकायलक्षणो मत्स्यानामिव जलं, लोकान्तात् परतस्तस्याभावानोवं याति / गौरवमधोगमनहेतुस्तस्याभावानाधो याति / योगः काययोगादिः प्रयोगः परप्रेरणं तयोगिमादभावान तिर्यग् यातीति // 56 // इह च कर्ममुक्तस्योर्ध्वदेशनियमेन गतिर्नोपपद्यत इतिवादिनं प्रत्याह लाघवयोगाध्धूमवदलाबुफलवच्च सङ्गविरहेण / बन्धनविरहादेरण्डवच्च सिद्धस्य गतिरूद्धम् // 60 // ___ लाघवं गौरवप्रतिपक्षभूतः परिणामस्तद्योगात् धूमस्यैव सिद्धस्योर्ध्व गतिर्भवति / तथा सङ्गविरहेण तथाविधपरिणामत्वादष्टमृत्तिकालेपविलिप्तजलाधोनिमग्नक्रमापनीतमृत्तिकालेपजलतलमर्यादोर्ध्वगामितथाविधालाबुफलस्येव सिद्धस्योर्ध्व गतिः, तथा बन्धनस्य कर्मलक्षणस्य विरहादभावात्तथाविधपरिणतेः कोशबन्धनविमुक्तैरण्डफलवत सिद्धस्योर्ध्व गतिः॥ 60 // ततश्च JainEducation inted For Personal & Private Use Only