________________ ॥अथ हादश: प्रकाशः // ॐ अहं // शास्त्रारम्भे यदुक्तं " स्वसंवेदनतश्चापि " इति तत्प्रपञ्चयितुं प्रस्तावनामाह श्रुतसिन्धोर्गुरुमुखतो यदधिगतं तदिह दर्शितं सम्यक् / अनुभवसिद्धमिदानी प्रकाश्यते तत्त्वमिदममलम् // 1 // ___ अत्र पूर्वार्धेन वृत्तकीर्तनं उत्तरार्धेन तु वर्तिष्यमाणतत्त्वप्रकाशनम् // 1 // अथोत्तमपदवीमारोढुं चित्तस्य चातुर्विध्यमाह इह विक्षिप्तं यातायातं श्लिष्टं तथा सुलीनं च / चेतश्चतुःप्रकारं तज्ज्ञचमत्कारकारि भवेत् // 2 // इह योगाभ्यासप्रक्रमे चत्वारि चित्तानि भवन्ति, तद्यथा-विक्षिप्त, यातायात, श्लिष्ट, सुलीनं चेति // 2 // क्रमेण व्याचष्टे विक्षिप्त चलमिष्टं यातायातं च किमपि सानन्दम् / प्रथमाभ्यासे द्वयमपि विकल्पविषय ग्रहं तत्स्यात् // 3 // in Educationem For Personal & Private Use Only Clwwjainelibrary.org