________________ योगशास्त्रम् द्वादशः प्रकाशः // 386 // विचितं चलमितस्ततो भ्राम्यदिति यावत् / यातं च बहिः आयातं चान्तरिति यातायातं, तत् किमपि सान स्वात्मन्यभिनिवेशात् / तच्च चेतोद्वयमपि विचितं यातायातं च प्रथमाभ्यासवर्तिनां भवति / विकल्पेन च Ho बाद्यार्थग्रह उभयस्मिन् // 3 // तथाश्लिष्टं स्थिरसानन्दं सुलीनमतिनिश्चलं परानन्दम् / __ तन्मात्रकविषयग्रहमुभयमपि बुधैस्तदाम्नातम् // 4 // स्थिरत्वात् सानन्दं स्थिरसानन्दं श्लिष्टमुच्यत इति / निश्चलं परमानन्दयुक्तं च सुलीनं / एतच्च द्वयमपि तन्मात्रकमेव चित्तमात्रकमेव विषयं गृहाति, न तु बाह्यम् // 4 // ततश्च एवं क्रमशोऽभ्यासावेशाध्यानं भजेन्निरालम्बम् / समरसभावं यातः परमानन्दं ततोऽनुभवेत् // 5 // क्रमशोऽभ्यासावेशादिति विक्षिप्ताच्चेतसः स्वाभाविकाद्यातायातं चित्तमभ्यस्येत् , ततोऽपि विश्लिष्टं, ततोऽपि च मुलीनं, एवं पुन:पुनरभ्यासाभिरालम्बं ध्यानं भवेत् / ततः समरसभावप्राप्तेः परमानन्दमनुभवति // 5 // समरसभावप्राप्तिर्यथा भवति तथाऽऽह // 386 Lain Education inter For Personal & Private Use Only www.jainelibrary.org