SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ याग शास्त्रम् १६०॥ +*+*•**@******→ Jain Education International अनुमन्ता अनुमोदकः, विशमिता हतस्याङ्गविभागकरः, निहल्ला व्यापादकः क्रयविक्रयी क्रयविक्रयों विद्यते यस्य स तथा क्रेता विक्रेता चेत्यर्थः संस्कर्त्ता मांगपाचकः, उपहर्त्ता परिवेष्टा, खादको भक्षकः, एते सर्वे घातकाः ॥ २१ ॥ द्वितीयमपि मानवं श्लोकमाह-नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् । न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्जयेत् ||२२|| यावत्प्राणिनो न हतास्तावन्मांसं नोत्पद्यते, हिंसा चातिशयेन दुःखावहा, तस्मान्मां विवर्जयेत् उत्पद्यत इति मांसस्य हिंसानिमित्तत्वात् कर्तृव्यपदेश इति समानकर्तृकत्वमविरुद्धम् । न च स्वर्ग्य इति न वर्गानुत्पत्तिमात्रमभिप्रेतमपि तु नरकादिदुःखहेतुता ।। २२ ।। इदानीमन्यपरिहारेण भचकस्यैव वधकत्वमाह - ये भक्षयन्त्यन्यपलं स्वकीयपलपुष्टये । त एव घातका यन्न वधको भक्षकं विना ॥ २३ ॥ अन्य पलमन्यमांसं स्वमांसपुष्टये ये भक्षयन्ति त एव परमार्थतो घातका न तु हन्तृविक्रेतुप्रभृतयः । अत्र युक्तिमाह – यद्यस्मान्न भक्षकं विना वधको भवति, ततो हन्तुप्रभृतिभ्यो भक्षकः पापीयान् स्वकीयपलपुष्टय इति हिंसाभिप्रायं स्वपलपोषणमात्रप्रयोजनः कतिपयदिनजीवितः परजीवितप्रहाणं कुर्यात् । यदाह हंतुणं परपाणे अप्पाणं जे कुणंति सप्पाणं । अप्पा दिवसाणं करण नार्सेति अप्पाणं ॥ १॥ तथा( १ ) हत्वा परप्राणान् आत्मानं ये कुर्वन्ति सप्राणम् । अल्पानां दिवसानां कृतेन नाशयन्ति आत्मानम् ॥ For Personal & Private Use Only 401.0 तृतीयः प्रकाशः ॥ ॥ १६०॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy