SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Jain Education International मांस चिखादिपनपि प्राणियां करिष्यतीत्याह अशनीयन् सदा मांसं दयां यो हि चिकीर्षति । ज्वलति ज्वलने वल्लीं स रोपयितुमिच्छति ॥ १९ ॥ सदा सर्वदा, मांसमशनीयन् मांसमशनमिवाचरन् पुत्रीयति च्छात्रमितिवत् " आधाराच्चोपमानादाचारे ।। ३ ।। ४ ।। २४ ।। इति क्यनि रूपम्, दयां कृपां यः कश्चित् हि स्फुटं चिकीर्षति कर्तुमिच्छति । ज्वलतीत्यादिना निदर्शनम्. यथा ज्वलत्यग्नौ वल्लीरोपणमशक्यम्, तथा मांसमशनीयता दयाऽपि कर्तुमशक्येत्यर्थः ॥१६॥ नन्वन्यः प्राणिनां घातकोऽन्यश्च मांसभक्षक इति कथं मांसभक्षकस्य प्राणिप्राणापहरणमिति ? उच्यतेभक्षकोsपि घातक एवेत्याह हन्ता पलस्य विक्रेता संस्कर्त्ता भचकस्तथा । क्रेताऽनुमन्ता दाता च घातका एव यन्मनुः ॥२०॥ हन्ता शस्त्रादिना प्राणिनां प्राणापहारकः, पलस्य विक्रेता यो मांसं विक्रीणीते । पलस्येत्युत्तरेष्वपि पदेषु सम्बन्धनीयम् । संस्कर्त्ता यो मांसं संस्करोति, भक्षकः खादकः क्रेता यो मांसं क्रीणाति, अनुमन्ता यः प्राणिहिंसया मांसमुत्पाद्यमानमनुमोदते, दाता यो मांसमतिथ्यादिभ्यो ददाति एते साक्षात्पारम्पर्येण वा घातका एवं प्राणिप्राणापहारका एव, यन्मनुरिति संवादार्थम् ॥ २० ॥ मानवमेवोक्तं दर्शयति अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । संस्कर्त्ता चोपहर्त्ता च खादकश्चेति घातकाः ||२१|| For Personal & Private Use Only **-**01*+-- ****-1*--*-*-* www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy