________________
योग
शास्त्रम्
॥ २५८ ॥
Jain Education Int
8-19 k
वीयरायाणं सव्वपूणं तिलोकपूइश्राणं जहट्टिश्रवत्थुवाईणं" इत्यादि । गुरुस्मृतिश्च - " धन्यास्ते ग्राम-नगर- जनपदादो येषु मदीया धर्माचार्या विहरन्ति " । निद्रामल्पामिति । निद्रामितिविशेष्यम्, अल्पामिति विशेषणम् । विशेषणस्य चात्र विधिः, “ सविशेषणे हि विधि - निषेधौ विशेषणमुपसंक्रामतः " इति न्यायात् । निद्रामिति च विशेष्यमिति न तत्र विधिः, दर्शनावरणीयकर्मोदयेन निद्रायाः स्वतः सिद्धत्वात्, 'अप्राप्ते हि शास्त्रमर्थवत्' इत्युक्तप्रायम् । अब्रह्म मैथुनं तद् वर्जयति अब्रह्मवर्जकः, प्रायेणेति बाहुल्येन, गृहस्थत्वादस्य ॥ १३१ ॥ पुन -- निद्राच्छेदे योषिदङ्गतत्त्वं परिचिन्तयेत् । स्थूलभद्रादिसाधूनां तन्निवृत्तिं परामृशन् ॥१३२॥ परिणतायां रात्रौ निद्राया छेदे सति योषिदङ्गानां स्त्रीशरीराणां सतत्त्वं स्वरूपं परितश्चिन्तयेत् । किं कुर्वन् ? स्थूलभद्रादीनां साधूनां तन्निवृत्तिं योषिदङ्गनिवृत्तिं परामृशन् अनुस्मरन् । स्थूलभद्रचरितं संप्रादाय गम्यम् । स चायम् ;
अस्ति सौधप्रभाजालधूपधूमैर्निरन्तरैः । जितगङ्गार्कजासङ्गं पाटलीपुत्रपत्तनम् ॥ १ ॥ तत्र त्रिखण्ड पृथिवीपतिः पतिरिव श्रियः । समुत्खातद्विषत्कन्दो नन्दो नामाभवद् नृपः ॥ २ ॥ विसंकटः श्रियां वासोऽसंकटः शकटो धियाम् । शकटाल इति तस्य बभूवामात्यपुङ्गवः | ३ || तस्याभूज्ज्येष्ठतनयो विनयादिगुणास्पदम् । अस्थूलधीः स्थूलभद्रो भद्राकारनिशाकरः || ४ || भक्तिनिष्ठः कनिष्ठोऽस्य श्रीयकोऽजनि नन्दनः । नन्दराहृदयामन्दानन्दगोशीर्षचन्दनः || ५ || बभूव तत्र कोशेति वेश्या रूपश्रियोर्वशी । वशीकृतजगच्चे ताचेतोभूजीवनौषधिः ॥ ६॥ भुञ्जानो विविधान् भोगान् स्थूलभद्रो दिवानिशम् । उवासावसथे तस्या द्वादशाब्दानि तन्मनाः ॥ ७ ॥
For Personal & Private Use Only
* *---*+*00.0
90-60 k
तृतीयः
प्रकाशः ।
।।। २५८ ।।
www.jainelibrary.org