SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ श्रीयकस्त्वङ्गरचोऽभूद् भूरिविश्रम्भभाजनम् । द्वितीयमिव हृदयं नन्दस्य पृथिवीपतेः ॥८॥ तत्र चासीद् वररुचिर्नाम द्विजवराग्रणीः । कवीनां वादिनां वैयाकरणानां शिरोमणिः ॥ ६ ॥ स्वयंकृतैर्नवनवैरष्टोत्तरशतेन सः । वृत्तः प्रवृत्तोऽनुदिनं नृपावलगने सुधीः ॥ १०॥ मिथ्यादृगिति तं मन्त्री प्रशशंस न जातुचित् । तुष्टोऽप्यसै तुष्टिदानं न ददौ नृपतिस्ततः ॥ ११ ॥ ज्ञात्वा वररुचिस्तत्र दानाप्रापणकारणम् । आराधयितुमारेभे गृहिणीं तस्य मन्त्रिणः ॥ १२ ॥ संतुष्टया तयाऽन्येद्युः कार्य पृष्टोऽब्रवीदिदम् । राज्ञः पुरस्ताद् मत्काव्यं तव भर्ता प्रशंसतु ॥ १३ ॥ तया तदुपरोधेन तद्विज्ञप्तोऽवदत् पतिः । मिथ्यादृष्टेरमुष्याई प्रशंसामि कथं वचः ? ॥१४॥ तयोक्तः साग्रहं मन्त्री तत् तथा प्रत्यपद्यत । अन्धस्त्रीबालमृर्खाणामाग्रहो बलवान् र खलु ॥ १५ ॥ राज्ञः पुरस्तात् पठतः काव्यं वररुचेस्ततः । अहो ! सुभाषितमिति वर्णयामास मन्त्रिराट् ॥१६॥ दीनारशतमष्टाग्रं ततोऽस्मै नृपतिर्ददौ । राजमान्यस्य वाचापि जीव्यते ह्यनुकूलया ॥ १७॥ दीनाराष्टोत्तरशते दीयमाने दिने दिने । किमेतद् दीयत इति भूपं मन्त्री व्यजिज्ञपत् ॥ १८ ॥ अथोचे नृपतिर्मन्त्रिन् दद्योऽस्मै त्वत्प्रशंसया । वयं यदि स्वयं दद्यो दद्मः किं न पुरा ततः ? ॥ १६ ॥ मन्त्र्यप्यूचे मया देव ! प्रशंसा नास्य निर्ममे । काव्यानि परकीयानि प्रशशंस तदा त्वहम् ॥ २० ॥ पुरो नः परकाव्यानि स्वकीकृत्य पठत्ययम् । किमेतत् सत्यभावेनेत्यभाषत नृपस्ततः ॥ २१ ॥ एतत्पठितकाव्यानि पठन्ति बालिका अपि । दर्शयिष्यामि वः प्रातरित्यूचे सचिवोऽपि च ॥ २२ ॥ यक्षा यक्षदत्ता भूता भूतदत्ता तथैणिका । वेणा रेणेति सप्तासन् प्राज्ञाः पुत्र्योऽस्य मन्त्रिणः ॥ २३ ॥ जग्राह ज्यायसी तासां सकृदुक्तं तथेतराः । द्विव्यादिवारक्रमतो गृहन्ति स्म यथा For Personal & Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy