SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ योगशास्रम् ॥ २५६ ॥ Jain Education Inter क्रमम् ॥ २४ ॥ राज्ञः समीपं सचिवो द्वितीयेऽह्नि निनाय ताः । तिरस्करिण्यन्तरिताः समुपावेशयच्च सः ॥ २५ ॥ अष्टोत्तरशतं श्लोकान् स्वयं निर्माय नैत्यिकान् । ऊचे वररुचिस्ता अप्यनुज्येष्ठमनूचिरे ॥ २६ ॥ ततो वररुचे रुष्ट राजा दानं न्यवारयत् । उपायाः सचिवानां हि निग्रहानुग्रहक्षमाः ॥ २७ ॥ *******@*******OK For Personal & Private Use Only तृतीयः प्रकाशः । ततो वररुचिर्गत्वा यन्त्रं गङ्गाजले न्यधात् । तन्मध्ये वस्त्रबद्धं च दीनारशतमष्टयुक् ॥ २८ ॥ प्रातर्गङ्गामसौ स्तुत्वा यन्त्रमाक्रमदंह्रिणा । दीनारास्ते च तत्पाणावुत्पत्य न्यपतंस्ततः ॥ २६ ॥ स एवं विदधे नित्यं जनस्तेन विसिष्मिये । तच्च श्रुत्वा जनश्रुत्या राजाऽशंसञ्च मन्त्रिणे ।। ३० ।। इदं यद्यस्ति सत्यं तत् प्रातर्वीक्षामहे स्वयम् । इत्युक्तो मन्त्रिणा राजा तत्तथा प्रत्यपद्यत ॥ ३१ ॥ दवा शिक्षां चरः सायं प्रेषितस्तत्र मन्त्रिणा । शरस्तम्बनिलीनोऽस्थात् पक्षीवानुपलक्षितः || ३२ || तदा वररुचिर्गत्वा छन्नं मन्दाकिनीजले । दीनाराष्टोत्तरशतग्रन्थिं न्यस्य गृहे || ३३ || जीवितमिवादाय दीनारग्रन्थिमेष तु । चरः समर्पयामास प्रच्छन्नं वरमन्त्रिणे ॥ ३४ ॥ थ गुप्ता दीनारग्रन्थिर्मन्त्री निशात्यये । ययौ राज्ञा समं गङ्गामागाद् वररुचिस्तदा ॥ ३५ ॥ द्रष्टुकामं नृपं दृष्ट्वोत्कृष्टमानी सविस्तरम् | स्तोतुं प्रववृते गङ्गां मूढो वररुचिस्ततः ॥ ३६ ॥ स्तुत्यन्तेऽचालयद् यन्त्रं यदा वररुचिः पदा । दीनारग्रन्थिरुत्पत्य नापतत् पाणि कोटरे || ३७ || द्रव्यं सोऽन्वेषयामास पाणिना तञ्जले ततः । तस्थावपश्यंस्तूष्णीको धूर्तो घृष्टो हि मौनभाक् ॥ ३८ ॥ इत्यूचे च महामात्यः किं ते दत्ते न जाह्नवी । न्यासीकृतमपि द्रव्यमन्वेषयसि यद् मुहुः ? ॥ ३६ ॥ उपलक्ष्य गृहाणेदं निजद्रव्यमिति ब्रुवन् । सोऽर्पयामास दीनारग्रन्थि वररुचेः करे || ४० ॥ दीनारग्रन्थिना तेनोत्सर्पिन्थिनेव सः । दशामासादयामास मरणादपि दुस्सहाम् ॥ ४१ ॥ ॥ २५६ ॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy