SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ विप्रतारयितुं लोकं सायमत्र क्षिपत्यसौ । द्रव्यं प्रातः पुनर्गृहातीत्यूचे सचिवो नृपम् ॥ ४२ ॥ साधु ज्ञातमिदं छ त्यालपन् मन्त्रिपुङ्गवम् । विस्मयस्मेरनयनः खवेश्मागाद् महीपतिः ।। ४३ ।। ___अमर्पणो वररुचिः प्रतिकारं विचिन्तयन् । गृहस्वरूपं सचिवस्यापृच्छच्चेटिकादिकम् ॥ ४४॥ तस्याथ कथयामास काचित् सचिवचेव्यदः । भृपतिः श्रीयकोद्वाहे भोक्ष्यते मन्त्रिवेश्मनि ॥ ४५ ॥ सज्यते चात्र शस्त्रादि दातुं नन्दाय मन्त्रिणा । शस्त्रप्रियाणां राज्ञां हि शस्त्रमाद्यमुपायनम् ॥ ४६ ॥ समासाद्य च्छलज्ञस्तच्छलं वररुचिस्ततः । चणकादि प्रदायेति डिम्भरूपाण्यपाठयत् ॥ ४७ ॥ न वेत्ति राजा यदसौ शकटालः करिष्यति । व्यापाद्य नन्दं तद्राज्ये श्रीयकं स्थापयिष्यति ।। ४८ ॥ स्थाने स्थाने च पठतो डिम्भानेवं दिने दिने । जनश्रुत्या तदोषीदिति चाचिन्तयद् नृपः॥४६॥ बालका यच्च भाषन्ते भाषन्ते यच्च योषितः। औत्पातिकी च या भाषा सा भवत्यन्यथा न हि ॥५०॥ तत्प्रत्ययार्थ राज्ञाथ प्रेषितो मन्त्रिवेश्मनि । पुरुषः सर्वमागत्य यथादृष्टं व्यजिज्ञपत्॥५१॥ ततश्च सेवावसरे मन्त्रिणः समुपेयुषः। प्रणामं कुर्वतो राजा कोपात् तस्थौ पराङ्मुखः ॥५२ ।। तद्भावज्ञोऽथ वेश्मैत्यामात्यः श्रीयकमब्रवीत् । राज्ञोऽस्मि ज्ञापितः केनाप्यभक्तो विद्विषन्निव ॥ ५३॥ असावकस्मादस्माकं कुलक्षय उपस्थितः । रक्ष्यते वत्स ! कुरुषे यद्यादेशमिमं मम ॥५४॥ नमयामि यदा राज्ञे शिरश्छिन्द्यास्तदासिना। अभक्तः स्वामिनो वध्यः पितापीति वदेस्ततः ॥५५॥ जरसापि यियासौ मय्येवं याते परासुताम् । त्वं मत्कुलगृहस्तम्भो नन्दिष्यसि चिरं ततः ॥५६॥ श्रीयकोऽपि रुदन्नेवमवदद् गद्गदखरम् । तात! घोरमिदं कर्म श्वपचोऽपि करोति किम् ? ॥५७॥अमात्योऽप्यब्रवीदेवमेवं कुर्वन् विचारणाम् । मनोरथान् पूरयसे वैरिणामेव केवलम् ॥५॥ in Education in IN For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy