SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ योग शाखम् २६ ॥ राजा यम इवोद्दण्डः सकुटुम्ब न हन्ति माम् । यावत् तावन्ममैकस्य चयाद् रक्ष कुटुम्बकम् ॥ ५६ ।। मुखे विषं तृतीयः | तालपुटं न्यस्य नस्यामि भूपतिम् । शिरः परासो, छिन्द्याः पितृहत्या न ते ततः ॥ ६० ॥ पित्रैवं बोधितस्तत् | प्रकाशः। स प्रतिपदे चकार च । शुभोदाय धीमन्तः कुर्वन्त्यापातदारुणम् ॥६१॥ भवता किमिदं वत्स ? विदधे कर्म दुष्करम् । ससंभ्रममिति प्रोक्तो नृपेण श्रीयकोऽवदत् ॥ ६२ ॥ यदैव स्वामिना ज्ञातो द्रोह्ययं निहतस्तदा ।। भर्तृचित्तानुसारेण भृत्यानां हि प्रवर्तनम् ॥ ६३ ॥ भृत्यानां युज्यते दोषे स्वयं ज्ञाते विचारणा । स्वामिज्ञाते है प्रतीकारो युज्यते न विचारणा ॥ ६४ ॥ कृतौ देहिकं नन्दस्ततः श्रीयकमब्रवीत । सर्वव्यापारसहिता मुद्रेयं गृह्यतामिति ॥ ६५ ॥ अथ विज्ञपयामास प्रणम्य श्रीयको नृपम् । स्थूलभद्राभिधानोऽस्ति पिततुल्यो ममाग्रजः ॥ ६६ ।। पितृप्रसादाद् निबांध कोशायास्तु निकेतने। भोगानुपभुञ्जानस्य तस्याब्दा द्वादशागमन् ॥ ६७ ।। आहूयाथ स्थूलभद्रस्तमथे भूभुजोदितः । पर्यालोच्यामुमादेशं करिष्यामीत्यभाषत ।। ६८ ॥ अद्यैवालोचयेत्युक्तः स्थूलभद्रो महीभुजा । अशोकवनिकां गत्वा विममर्शेति चेतसा ॥६६॥ शयनं भोजनं स्नानं यच्चान्यत सुखसाधनम् । कालेऽपि नानुभूयन्ते रोरिव नियोगिभिः ॥७०॥ नियोगिनां स्वान्यराष्ट्रचिन्ताव्यग्रे च चेतसि । प्रेयसीनां नावकाशः पूर्णकुम्भेऽम्भसामिव ॥७१।। त्यक्त्वा सर्वमपि स्वार्थ राज्ञोऽर्थ कुर्वतामपि । उपद्रवन्ति पिशुना उद्घद्धानामिव द्विकाः ।।७२॥ यथा स्वदेहद्रविणव्ययेनापि प्रयत्यते । राजार्थे तद्वदात्मार्थे यत्यते किं न धीमता? ।। ७३ ॥ विमृश्यैवं व्यधात् केशोत्साटनं पञ्चमुष्टि सः । रत्नकम्बलदशाभी रजोहरणमप्यथ ।। ७४ ।। ततश्च स महासत्त्वो गत्वा सदसि पार्थिवम् । आलोचितमिदं २६०॥ in Education inte har For Personal & Private Use Only alwww.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy