SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ *: *- धर्मलाभः स्तादित्यवोचत ।। ७५ ॥ ततः स राजसदनाद् गुहाया इव केसरी । निःससार महासारः संसारकरिरो| षणः ।। ७६ ।। किमेष कपटं कृत्वा यायाद् वेश्यागृहं पुनः । इत्यप्रत्ययतः क्षमापो गवाक्षेण निरक्षत ॥ ७७ ।। प्रदेशे शबदुर्गन्धेऽप्यविकूणितनासिकम् । यान्तं दृष्ट्वा स्थूलभद्रं नरेन्द्रोऽधूनयच्छिरः ॥ ७८ ।। भगवान् वीतरा- गोऽसावस्मिन् धिग् मे कुचिन्तितम् । इत्यात्मानं निनिन्दोच्चैनन्दस्तमभिनन्दयन् ।। ७६ ॥ स्थूलभद्रोऽपि गत्वा श्रीसंभूतिविजयान्तिके । दीक्षां सामायिकोच्चारपूर्विका प्रत्यपद्यत ॥ ८॥ गृहीत्वा श्रीयकं दोष्णि ततो नन्दः सगौरवम् । मुद्राधिकारे निःशेषव्यापारसहिते न्यधात् ॥ ८१ ।। चकार श्रीयको राज्यचिन्तामवहितः सदा । साक्षादिव शकटालः प्रकृष्टनयपाटवात् ॥८२ ॥ स नित्यमपि कोशाया विनीतः सदने ययौ । स्नेहाद् भ्रातस्तत्प्रियापि कुलीनैहु मन्यते ॥८३ ।। स्थूलभद्रवियोगार्ता श्रीयकं प्रेक्ष्य साऽरुदत् । इष्टे दृष्टे हि दुःखार्ता न दःखं धर्तमीशते || ८४॥ ततस्तां श्रीयकोऽवोचदार्ये! कि कुमहे वयम् । असो वररुचिः पापोऽघातयजनकं हि नः ॥ ८५ ॥ अकाण्डोत्थितवज्राग्निप्रदीपनसहोदरम् । स्थूलभद्रवियोगं च भवत्या अकरोदयम् । ८६॥ त्वजाम्यामुपकोशायां यावद् रक्तोऽस्त्यसौ खलः । तावत् प्रतिक्रियां काश्चिद् विचिन्तय मनस्विनि ! ।८७॥ तदादिशोपकोशां यत् प्रतार्य कथमप्यसौ । विधीयतां वररुचिर्मद्यपानरुचिस्त्वया ॥ ८८ ।। प्रेयोवियोजनाद् वैराद् दाक्षिण्याद् देवरस्य च । तत् प्रतिज्ञाय सा सद्योऽप्युपकोशां समादिशत् ।।८।। कोशायाश्च निदेशेनोपकोशा तं तथा व्यधात । यथा पपौ सुरामेष खीवशैः क्रियते न किम् ? ।।६० ॥ सुरापानं वररुचिः स्वैरं भट्टोऽद्य कारितः। उपकोशेति कोशायै शशंसाथ निशात्यये ।।६१॥ अथ कोशामुखात् सर्वे शुश्राव Jain Education.inta For Personal & Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy