SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ योग- शास्त्रम् तृतीय: प्रकाशः ॥२६१॥ श्रीयकोsपि तत । मेने च पितृवरस्य विहितं प्रतियातनम् ॥४२॥ शकटालमहामात्यात्ययात् प्रभृति सोऽप्यभूत । भट्टो वररुचिर्भूपसेवावसरतत्परः॥१३॥ स प्रत्यहं राजकुले सेवाकाले समापतन्। राज्ञा च राजलोकेश्च सगौरवमदृश्यत ६४ अन्यदा नन्दराड् मन्त्रिगुणस्मरणविह्वलः । सदसि श्रीयकामात्यं जगादैवं सगद्गदम् ॥१५॥ भक्तिमान शक्तिमान नित्यं शकटालो महामतिः। अभवद् मे महामात्यः शक्रस्येव बृहस्पतिः ॥९६।। एवमेव विपन्नोऽसौ दैवादद्य करोमि किम ? । मन्ये शून्यमिवास्थानमहं तेन विनात्मनः ॥ १७ ॥ उवाच श्रीयकोऽप्येवं किं देवेह विदध्महे । इदं वररुचिः सर्व पापं व्यधित मद्यपः॥१८॥ सत्यमेष सुरां भट्टः पिवतीति नृपोदिते । श्वोऽम दर्शयितास्मीति श्रीयकः प्रत्यवोचत ।। 88 ॥ श्रीयकस्तु द्वितीयेदि सर्वेषामीयुषां सदः । वपुंसा शिक्षितेनाय्यं पद्ममेकैकमार्पयत् ॥ १०० ॥ तत्कालं मदनफलरसभावनयाऽश्चितम् । दुरात्मनो वररुचेरर्पयामास पङ्कजम् ॥ १॥ कुतस्त्यमद्धतामोदमिदमित्यभिवर्णिनः । घातुं राजादयो निन्युनर्नासाग्रे स्वं स्वमम्बुजम् ॥ २॥ सोऽपि भट्टोऽनयद् घातं घ्राणाग्रे पङ्कजं निजम् । चन्द्रहाससुरां सद्यो रात्रिपीतां ततोऽवमत् ॥ ३॥ धिगमुं सीधुपं ब्रह्मबन्धुं बन्धवधोचितम् । सर्वैरित्याक्रुश्यमानो निर्ययौ सदसोऽथ सः । ४ ॥ ब्राह्मणा याचितास्तेन प्रायश्चित्तमचीकथन् । तापितत्रपुणः पानं सुरापाणाघघातकम् ॥५।। मृषया तापितमथ पपौ वररुचिस्त्रपु । प्राणैश्च मुमचे सद्यस्तत्प्रदाहभयादिव॥६॥ ___ स्थलभद्रोऽपि संभूतविजयाचार्यसभिधौ । प्रव्रज्यां पालयामास पारदृश्वा श्रुताम्बुधेः ॥ ७ ॥ वर्षाकालेऽन्य ऽऽयाते संभृतविजयं गुरुम् । प्रणम्य मृद्ध मुनय इत्यगृहनभिग्रहान् ॥ ८॥ अहं सिंहगुहाद्वारे कृतोत्सर्ग उपोपितः । अवस्थास्ये चतुर्मासीमेकः प्रत्यशृणोदिदम् ॥६॥ दृग्विषाहिबिलद्वारे चतुर्मासीमुपोषितः । स्थास्या २६ in Education inte For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy