________________
| मि कायोत्सर्गेण द्वितीयोऽभ्यग्रहीदिति ॥ १० ॥ उत्सर्गी कृपमण्डूकासने मासचतुष्टयम् । स्थास्याम्युपोषित इति | तृतीयः प्रत्यपद्यत ॥ ११ ॥ योग्यान् मत्वा गुरुः साधून यावत् तानन्वमन्यत । स्थूलभद्रः पुरोभूय नत्वैवं
ताबदब्रवीत् ॥ १२ ॥ कोशाभिधाया वेश्याया गृहे या चित्रशालिका । विचित्रकामशास्त्रोक्तकरणालेख्यशालिनी ॥१३॥ तत्राकृततपःकर्मविशेषः परसाशनः । स्थास्यामि चतुरो मासानिति मेऽभिग्रहः प्रभो ! ॥ १४ ॥ ज्ञात्वोपयोगाद् योग्यं तं गुरुस्तत्रान्वमन्यत । साधवश्च ययुः सर्वे खं स्वं स्थानं प्रतिश्रुतम् ॥ १५॥ स्थूलभद्रोऽपि संप्राप कोशावेश्यानिकेतनम् । अभ्युत्तस्थौ ततः कोशाऽप्याहिताञ्जलिरग्रतः ॥ १६ ॥ सुकुमारः प्रकृत्यासौ रम्भास्तम्भ इवोरुणा । व्रतभारेण विधुरोऽत्रागादिति विचिन्त्य सा ॥ १७ ।। उवाच स्वागतं स्वामिन ! समादिश करोमि किम् । वपर्धनं परिजनः सर्वमेतत् तवैव हि ॥ १८ ॥ युग्मम् ॥ चतुर्मासी वसत्यै मे चित्रशालेयमर्प्यताम् । इत्युचे स्थूलभद्रोऽपि सा तूचे गृह्यतामिति ॥ १६ ॥ तया च तस्यां प्रगुणीकृतायां भगवानपि । कामस्थानेऽविशद् धर्म इव स्वबलवत्तया ॥ २० ॥ अथ सा पसाहारभोजनानन्तरं मुनेः। विशेषकृतशृङ्गारा क्षोभाय समुपाययौ ॥ २१ ॥ सोपविष्टा पुरस्तस्योत्कृष्टा काचिदिवाप्सराः । चतुरं रचयामास हावभावादिकं मुहुः ॥ २२ ॥ करणानुभवक्रीडोद्दामानि सुरतानि च । तानि तानि प्राक्तनानि सारयामास | साऽसकृत् ॥ २३ ॥ यद् यत् क्षोभाय विदधे तया तत्र महामुनौ । तत् तद् मुधाऽभवद् यद् वजे नखविलेखनम् ॥२४॥ प्रतिवासरमप्येवं तत्क्षोभाय चकार सा । जगाम स तु न क्षोभं मनागपि महामनाः ॥ २५ ॥ तयोपसर्गकारिण्या प्रत्युतास्य महामुनेः । आदीप्यत ध्यानवह्निर्मेघवह्विरिवाम्भसा ॥ २६ ॥ त्वयि पूर्वमिवाज्ञानाद्
JanEducation in lal
Fer Personal & Private Use Only