SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ तृतीयः योगशास्त्रम् ॥२४४ इत्यर्थः, 'उम्मग्गो' मार्गःक्षायोपशमिको भावस्तमतिक्रान्त उन्मार्गः चायोपशमिकभावत्यागेनौदयिकभावसंक्रमः कृत इत्यर्थः, 'अकप्पो' कन्पो न्यायो विधिराचारश्चरणकरणम्यापार इति यावत् , न कन्पोऽकल्पोऽतद्रूप इत्यर्थः, करणीयः सामान्येन कर्तव्यः, न करणीयोऽकरणीयः हेतुहेतुमद्भावश्चात्र यत एवोत्सूत्रोऽत एवोन्मार्ग इत्यादि. उक्तस्तावत् कायिको वाचिकश्च । अधुना मानसिकमाह-'दुज्झाओ' दुष्टो ध्यातो दुर्ध्यात एकाग्रचित्ततयाऽऽतरौद्रलक्षणः, 'दुन्विचिंतिओ' दुष्टो विचिन्तितो दुर्विचिन्तितः, अशुभ एव चलचित्ततया 'जं थिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं' इति वचनात् , यत एवेत्थंभूतस्तत एव 'अणायारो' आचरणीयः | श्रावकाणामाचारः, न आचारोऽनाचारः, यत एवानाचरणीयोऽत एव 'अणिच्छियन्वो' अनेष्टव्यः मनागपि मनसापि न एष्टव्य आस्तां तावत् कर्तव्यः, यत एवेत्थंभूतोऽत एव 'असावगपाउग्गो' अश्रावकप्रायोग्यः-- अभ्युपेतसम्यक्त्वः प्रतिपन्नाणुव्रतश्च प्रतिदिवसं यतिभ्यः सकाशात् साधूनामगारिणां च सामाचारी शृणोतीति श्रावकस्तस्य प्रायोग्य उचितः श्रावकप्रायोग्यः, न तथा, श्रावकानुचित इत्यर्थः । अयं चातिचारः क विषये भवतीत्याह-'णाणे दंसणे चरित्ताचरित्ते' इति, ज्ञानविषये, दर्शनविषये, स्थूलसावद्ययोगनिवृत्तिभावाचारित्रं च सूक्ष्मसावद्ययोगनिवृत्त्यभावादचारित्रं च चारित्राचारित्रं तसिन् देशविरतिविषये इत्यर्थः । अधुना भेदेन म्याचष्टे-'सुए' श्रुतविषये, भुतग्रहणं मत्यादिज्ञानोपलक्षणम्, तत्र विपरीतप्ररूपणा, अकालस्वाध्यायश्चाति इति, ज्ञान सिन् तिप्ररूपण (१) यत् स्थिरमध्यवसायं तद् ध्यानं यच्चलं तच्चित्तम् । ॥२४४॥ Lain Education internate For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy