SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ योग- है। बहूनि स्थानानि जायन्ते । सर्वाणि चामृन्यौनोदर्यविशेषाः । योषितस्तु अष्टाविंशतिकवलाहारप्रमाणम् , यदाह;- || चतुर्थः बत्तीसं खलु कवला आहारो कुच्छिपूरो भणियो । परिसस्स महिलिआए अट्ठावीसं भवे कवला ॥१॥ शास्त्रम् प्रकाशः। तस्याः पुरुषानुसारेण न्यूनाहारादिकं भावनीयम् । ॥३११॥ तथा वर्ततेऽनयेति वृत्तिर्भेक्ष्यम् , तस्याः संक्षेपणं हासः । तच्च दत्तिपरिमाणरूपम् । एकद्विव्याद्यगारनियमो रथ्याग्रामार्धग्रामनियमश्च । अत्रैव द्रव्य-क्षेत्र-काल-भावाभिग्रहा अन्तर्भूताः । तथा रसानां मतुलोपाद् विशिष्टरसवतां वृष्याणां विकारहेतूनाम् , अत एव विकृतिशब्दवाच्यानां मद्यमांस मधुनवनीतानां दुग्ध-दधि-घृत-तैल-गुडावग्राह्यादीनां च त्यागो वर्जनं रसत्यागः । तथा तनुः कायस्तस्याः क्लेशः शास्त्राविरोधेन बाधनं तनुक्नेशः । ननु तनोरचेतनत्वात् कथं क्लेशसम्भवः ? उच्यते-शरीर-शरीरिणाः क्षीरनीरन्यायेनाभेदादात्मक्लेशे तनुक्लेशस्यापि सम्भवात् तनुक्लेश इत्युक्तम् । स च विशिष्टासनकरणे नाप्रतिकर्मशरीरत्वकेशोन्लुचनादिना चावसेयः । ननु परीषहेभ्यः कोऽस्य विशेषः ? उच्यतेस्वकृत क्लेशानुभवरूपस्तनुक्लेशः, परीषहास्तु स्वपरकृतक्लेशरूपा इति विशेषः । तथा लीनता विविक्तशय्यासनता । सा चैकान्तेनाबाधेऽसंसक्ते स्त्रीपशुपण्डकविवर्जिते शून्यागारदेवकुलसभापर्वतगुहादीनामन्यतमस्मिन् स्थानेऽवस्थानं, मनोवाक्कायकषायेन्द्रियसंवृतता च । इति पदप्रकारं बहिस्तपो बाह्यं तपः। बाह्यत्वं च बाह्यद्रव्यापेक्षत्वात् , परप्रत्यक्षत्वात् , कुतीर्थिकैर्गृहस्थैश्च कार्यत्वाच । अस्मात् षड्विधादपि (१) द्वात्रिंशत् खलु कवला आहारः कुक्षिपूरको भणितः । पुरुषस्य महिलाया अष्टाविंशतिर्भवेयुः कवलाः ॥ १ ॥ in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy