SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ निष्काइया य सीसा गच्छो परिपालिओ महाभागा । अम्भुञ्जित्रो विहारो अहवा अन्भुजयं मरणं ॥१॥ इति दशावयःपरिणामे सति त्रस-स्थावरविरहिते स्थण्डिले पादपवद् निश्चेष्टस्य येन तेन संस्थानेन प्रशस्तध्यानव्यापृतान्तःकरणस्य प्राणोत्क्रान्ति यावदवस्थितिरिति । तदेतद् द्विविधमपि पादपोपगमनम् । इङ्गिनी श्रुतविहितः क्रियाविशेषस्तविशिष्टमनशनमिङ्गिनी । अस्य प्रतिपत्ता तेनैव क्रममायुपः परिहाणिमववुध्य तथाविध एव स्थण्डिले एकाकी कृतचतुर्विधाहारप्रत्याख्यान छायात उष्णमुष्णाच्छायां संक्रामन् सचेष्टः सम्यग्ध्यानपरायणः प्राणान् जहाति । इत्येतदिङ्गिनीरूपमनशनम् । यस्तु गच्छमध्यवर्ती समाश्रितमृदुसंस्तारकः समुत्सृष्टशरीरोपकरणममत्वविविधं चतुर्विधं वाऽऽहारं प्रत्याख्याय स्वयमेवोद्वाहितनमस्कारः समीपवर्तिसाधुदत्तनमस्कारो | बोद्वर्त्तन-परिवर्तनादि कुर्वागः समाधिना कालं करोति, तस्य भक्तप्रत्याख्यानमनशनम् । ___अथौनोदर्यम् -ऊनमवममुदरं यस्य स ऊनोदरस्तस्य भाव औनोदर्यम् । तच्च चतुर्धा-अल्पाहारौनोदर्यम् , उपाधानोदर्यम् , अानोदर्य्यम् , प्रमाणप्राप्तात् किश्चिदूनौनोदयं च । तत्राहारः पुंसो द्वात्रिंशत्कवलप्रमाणः । कवलश्चोत्कृष्टापकृष्टौ वर्जयित्वा मध्यम इह गृह्यते । स चाविकृतस्वमुखविवरप्रमाणः । तत्र कवलाष्टकाभ्यवहारोऽT ल्पाहारौनोदर्यम् । अर्धस्य समीपमुपाध द्वादश कवलाः, यतः कवल चतुष्टयप्रक्षेपात् सम्पूर्णमधं भवति, ततो द्वादश कवला उपाधौनोदर्यम् । पोडश कवला अधौनोदर्य्यम् । प्रमाणप्राप्त आहारो द्वात्रिंशत् कवलाः, स चैकादिकवलैरूनश्चतुर्विशतिकवलान् यावत् प्रमाणप्राप्तात् किश्चिनौनोदर्यम् । चतुर्विधेऽप्यस्मिन्नेकैककवलहानेन (१) निप्पादिताश्च शिप्या गच्छः परिपालितो महाभागः । अभ्युद्यतो विहारोऽथवाऽभ्युद्यतं मरणम् ॥ १॥ an Education intematon For Personal Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy