SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ निष्काइया य सीसा गच्छो परिपालिओ महाभागा । अम्भुञ्जित्रो विहारो अहवा अन्भुजयं मरणं ॥१॥ इति दशावयःपरिणामे सति त्रस-स्थावरविरहिते स्थण्डिले पादपवद् निश्चेष्टस्य येन तेन संस्थानेन प्रशस्तध्यानव्यापृतान्तःकरणस्य प्राणोत्क्रान्ति यावदवस्थितिरिति । तदेतद् द्विविधमपि पादपोपगमनम् । इङ्गिनी श्रुतविहितः क्रियाविशेषस्तविशिष्टमनशनमिङ्गिनी । अस्य प्रतिपत्ता तेनैव क्रममायुपः परिहाणिमववुध्य तथाविध एव स्थण्डिले एकाकी कृतचतुर्विधाहारप्रत्याख्यान छायात उष्णमुष्णाच्छायां संक्रामन् सचेष्टः सम्यग्ध्यानपरायणः प्राणान् जहाति । इत्येतदिङ्गिनीरूपमनशनम् । यस्तु गच्छमध्यवर्ती समाश्रितमृदुसंस्तारकः समुत्सृष्टशरीरोपकरणममत्वविविधं चतुर्विधं वाऽऽहारं प्रत्याख्याय स्वयमेवोद्वाहितनमस्कारः समीपवर्तिसाधुदत्तनमस्कारो | बोद्वर्त्तन-परिवर्तनादि कुर्वागः समाधिना कालं करोति, तस्य भक्तप्रत्याख्यानमनशनम् । ___अथौनोदर्यम् -ऊनमवममुदरं यस्य स ऊनोदरस्तस्य भाव औनोदर्यम् । तच्च चतुर्धा-अल्पाहारौनोदर्यम् , उपाधानोदर्यम् , अानोदर्य्यम् , प्रमाणप्राप्तात् किश्चिदूनौनोदयं च । तत्राहारः पुंसो द्वात्रिंशत्कवलप्रमाणः । कवलश्चोत्कृष्टापकृष्टौ वर्जयित्वा मध्यम इह गृह्यते । स चाविकृतस्वमुखविवरप्रमाणः । तत्र कवलाष्टकाभ्यवहारोऽT ल्पाहारौनोदर्यम् । अर्धस्य समीपमुपाध द्वादश कवलाः, यतः कवल चतुष्टयप्रक्षेपात् सम्पूर्णमधं भवति, ततो द्वादश कवला उपाधौनोदर्यम् । पोडश कवला अधौनोदर्य्यम् । प्रमाणप्राप्त आहारो द्वात्रिंशत् कवलाः, स चैकादिकवलैरूनश्चतुर्विशतिकवलान् यावत् प्रमाणप्राप्तात् किश्चिनौनोदर्यम् । चतुर्विधेऽप्यस्मिन्नेकैककवलहानेन (१) निप्पादिताश्च शिप्या गच्छः परिपालितो महाभागः । अभ्युद्यतो विहारोऽथवाऽभ्युद्यतं मरणम् ॥ १॥ an Education intematon For Personal Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy