SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥ २३८ ॥ Jain Education Internat ***←→**O*-**O***O***O*-*OK त्रिविधेनेति भणति मनसा वचसा कायेन प्रतिषिद्धोऽसीत्यर्थः । ततः शिष्यः संक्षेपवन्दनं करोति । व्याक्षेपादिरहित गुरुः तदा वन्दनमनुज्ञातुकामः छन्देनेति वदति छन्देनाभिप्रायेण ममाऽपि एतदभिप्रेतमित्यर्थः । ततो विनेयोऽवग्रहाद् बहिःस्थित एवैवमाह अनुजानीत अनुमन्यध्वं मे इति आत्मनिर्देशे, किं ? मितश्चासाववग्रहश्च मितावग्रहः इहाचार्यस्य चतसृषु दिक्षु आत्मप्रमाणं क्षेत्र मवग्रहः, तस्मिन्नाचार्य्याऽनुज्ञां विना प्रवेष्टुं न कल्पते, यदाहश्रयमाणमेत्तो चउद्दिसं होइ अवग्गहो गुरुणो । अणणुलायस्स सया न कप्पए तत्थ पविसेउं ॥ १ ॥ ततो गुरुर्भणति – अनुजानामि । ततः शिष्यो भुवं प्रमृज्य नैषेधिकीं कुर्वन् गुर्ववग्रहे प्रविशति । निसीहीति निषिद्धर्वाशुभव्यापारः सन् प्रविशाम्यहमित्यर्थः । ततः संदंशप्रमार्जनपूर्वकमुपविशति । गुरुपादान्तिके च भूमौ निधाय रजोहरणं तन्मध्ये च गुरुचरणयुगलं संस्थाप्य मुखवखिकया वामकर्णादारभ्य वामहस्तेन दक्षिणक यावल्ललाटमविच्छिन्नं च वामं जानु त्रिः प्रमृज्य मुखवत्रिकां वामजानूपरि स्थापयति । ततोऽकारोच्चारणसमकालं रजोहरणं कराभ्यां संस्पृश्य होकारोच्चारणसमकालं ललाटं स्पृशति । ततः काकरोच्चारणसमकालं रजोहरणं स्पृष्ट्वा कारोच्चारण समकालं ललाटं स्पृशति । पुनश्च काकारोच्चारणसमकालं रजोहरणं स्पृष्ट्वा यकारोच्चारणसमकालं ललाटं स्पृशति । ततः संफासमिति वदन् शिरसा पाणिभ्यां च रजोहरणं स्पृशति । ततः शिरसि बद्धाञ्जलिः ' खमणिजो मे किलामो ' इत्यारस्य ' दिवसो वइकंतो ' यावद् गुरुमुखे निविष्टदृष्टिः पठति । श्रधस्तात् ( १ ) आत्मप्रमाणमात्रश्चतुर्दिशं भवत्यवग्रहो गुरोः । अननुज्ञातस्य सदा न कल्पते तत्र प्रवेष्टुम् ॥ १ ॥ ( २ ) त्रिः प्रदक्षिणीकृत्य प्रमृज्य इति प्रत्यन्तरम् । For Personal & Private Use Only ********* तृतीयः प्रकाशः ॥ ॥ २३८ ॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy