SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ निंदामि गरिहामि अप्पाणं वोसिरामि । . ___व्याख्या-अत्र हि शिष्यो गुरुवन्दनेन वन्दितुकामः पूर्व लघुवन्दनपुरःसरं संदंशको प्रमृज्योपविष्ट एव मुखवत्रिका पञ्चविंशतिकृत्वः प्रत्युपेक्षते, तया च शरीरं पञ्चविंशतिकृत्व एव प्रमृज्य परेण विनयेन मनोवाक्कायसंशुद्धो गुरोः सकाशादात्मप्रमाणात क्षेत्राद् बहिःस्थितोऽधिज्यचापवदवनतकायः करद्वयगृहीतरजोहरणादि वन्दनायोद्यत एवमाह-इच्छामि अभिलषामि, अनेन बलाभियोगः परिहृतः, क्षमाश्रमण ! 'समृषि सहने' * इत्यस्य पित्त्वादङि क्षमा सहनमित्यर्थः, श्राम्यति संसारविषये खिन्नो भवति तपस्यतीति वा, नन्द्यादित्वात कर्तरि अने श्रमणः, क्षमाप्रधानः श्रमणः क्षमाश्रमणः तस्य सम्बोधने प्राकृते खमासमणो ! “डो दीर्घो वा" (सिद्धहेम०८।३।३८)॥ इति आमन्त्र्ये से?कारः, क्षमाग्रहणेन मार्दवार्जवादयो गुणाः सूचिताः । ततश्च क्षमादिगुणोपलक्षितयतिप्रधान ! अनेन वन्दनार्हत्वं तस्यैव सूचितम् , किं कर्तुं वन्दितुं नमस्कतु भवन्तमिति अगम्यते, कया ? यापनीयया नैषेधिक्या, अत्र नैषधिक्येति विशेष्यं, यापनीययेति विशेषणम्, 'विध गत्याम्' इत्यस्य निपूर्वस्य पनि निषेधःप्राणातिपातादिनिवृत्तिः स प्रयोजनमस्या नैषेधिकी तनुः तया। कीदृश्या? यापनीयया · यांक प्रापणे' अस्य णिगन्तस्य प्वागमे यापयतीति यापनीया प्रवचनीयादित्वात् कर्तर्यनीयः तया, शक्तिसमन्वितया इत्यर्थः । अयं समुदायार्थः हे श्रमणगुणयुक्त ? अहं शक्तिसमन्वितशरीरः प्रतिषिद्धपापक्रियश्च | त्वां वन्दितुमिच्छामि । अत्र विश्रामः । अत्र चान्तरे गुरुयदि व्याक्षेपबाधायुक्तस्तदा भणति प्रतीक्षखेति । तच्च बाधादिकारणं यदि कथनयोग्यं भवति तदा कथयति अन्यथा तु नेति चूर्णिकारमतम् , वृत्तिकारस्य तु मतं A For Personal & Private Use Only w Jain Education Intemat alnelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy