________________
S
द्वितीयः प्रकाशः।
शास्त्रम्
॥९
॥
यथाऽऽसीद्ब्रह्मदत्तस्य ततस्थालस्पर्शने रतिः।। ५००॥ न कदाचन स स्थालमपासारयदग्रतः। दुर्मदी मदिरापात्र- मिव दुर्गतिकारणम् ॥ १॥ विप्रनेत्रधियाऽमृद्नात् श्लेष्मातकफलानि सः। फलाभिमुखपापद्रोः सन्जयन्निव दोहदम् ॥ २॥ तस्यानिवर्तको रौद्राध्यवसायोऽत्यवर्द्धत । अशुभं वा शुभं वापि सर्व हि महतां महत ।। ३ ॥ तस्यैवं वसुधेशस्य रौद्रध्यानानुबन्धिनः। पापपङ्कवराहस्य ययुर्वर्षाणि षोडश ।।४॥ यातेषु षोडशयुतेषु समाशतेषु, सप्तस्वसौक्षितिपतिः परिपूरितायुः। हिंसाऽनुवन्धिपरिणामफलानुरूपांता सप्तमी नरकलोकभुवं जगाम ॥५॥२७॥
॥ इति ब्रह्मदत्तचक्रवर्तिकथानकम् ॥
पुनरपि हिंसकानिन्दति । कुणिर्वरं वरं पङ्गुरशरीरी वरं पुमान् । अपि सम्पूर्णसर्वाङ्गो न तु हिंसापरायणः ॥२८॥
कुणिर्विकलपाणिः वरमिति मनागिष्टे मन्तमव्ययं, पङ्गुः पादविकलः, कुत्सितं शरीरमशरीरं नजः कुत्सार्थत्वात् तद्विद्यते यस्य सोऽशरीरी कुष्ठी विकलाङ्गः, कुणिपङ्गुकुष्ठिनस्ते हि विकलाङ्गत्वादेक हिंसामकुर्वन्तो मनाक् श्रेष्ठाः, सम्पूर्णसर्वाङ्गोऽपि कृतपरिकरबन्धं हिंसापरायणः पुमान तु श्रेष्ठः ॥ २८॥
ननु रौद्रध्यानपरायणस्य या तु शान्तिकनिमित्तं प्रायश्चित्तभूता हिंसा या वा कुलक्रमायाता मत्स्यबन्धानामिव A सा रौद्रध्यानरहितत्वान्न दोषायेत्याहहिंसा विघ्नाय जायेत विघ्नशान्त्यै कृताऽपि हि । कुलाचारधियाऽप्येषा कृता कुलविनाशनी॥२६॥
in Education
For Personal & Private Use Only
www.jainelibrary.org