SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ रौद्रध्यानमन्तरेणाप्यविवेकालोमाद्वा या शान्तिनिमित्वं कुलक्रमाद्वा हिंसा न केवलं पापहेतु प्रत्यत विघ्नशान्तिनिमित्तं क्रियमाणा समरादित्यकथोक्तस्य यशोधरजीवस्य सुरेन्द्रदत्तस्येव पिष्टमयकुक्कटवधरूपा विघ्नाय जायेत कल्पेत अस्मत्कुलाचारोऽयमिति बुद्ध्यापि कृता हिंसा कुलमेव विनाशयति ॥ २६ ॥ इदानी कुलक्रमायातामपि हिंसां परिहरन् पुमान् प्रशस्य एवेत्याह । अपि वंशक्रमायातां यस्तु हिंसां परित्यजेत् । सश्रेष्ठः सुलस इव कालसौकरिकात्मजः ॥३०॥ ___वंशः कुलं कुलक्रमायातामपि हिंसा यः परिहरेत् सः श्रेष्ठः प्रशस्यतमः सुलस इव, तस्य विशेषणं कालसौकरिकात्मजः कालसौकरिको नाम सौनिकस्तस्यात्मजः पुत्रः। यदाहभवि इच्छन्ति य मरणं न य परपीडं कुणन्ति मणसा वि । जे सुविइअसुगइपहा सोयरिअसुमो जहा सुलसो ॥ सुलसकथानकं सम्प्रदायगम्यम् । स चायं महर्डि मगधेष्वस्ति पुरं राजगृहाभिधम् । तत्र श्रीवीरपादाब्जभृङ्गोऽभूच्छेणिको नृपः॥१॥ तस्य प्रियतमे नन्दाचिल्लणे शीलभूषणे । अभूतां देवकीरोहिण्याविवानकदुन्दुमेः ॥२॥ नन्दायां नन्दनो विश्वकुमुदानन्दचन्द्रमाः । नाम्नाऽभयकुमारोऽभूदुभयान्वयभूषणः ॥३॥ राजा तस्य परिज्ञाय प्रकृष्टं बुद्धिकौशलम् । ददौ (१) अपि इच्छन्ति च मरणं न च परपीडां कुर्वन्ति मनसापि। ये मुविदितसुगतिपथाः सौकरिकसुतो यथा मुलसः॥१॥ (२) वसुदेवस्य कृष्णपितुः । in Education internation For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy