SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ योगशास्रम् ॥ ६७ ॥ *03180008-08-1 Jain Education Internation प्राप्तिः श्रद्दधानभाषितं अकृतसुकृतानां यज्ञवधमात्रेणोच्छ्रितगतिप्राप्त्ययोगात् । अपि च यज्ञहननमात्रेण यदि उच्छ्रितगतिप्राप्तिस्तर्हि मातापित्रादीनामपि यज्ञे वधः किं न क्रियते । यदाहुः - नाहं स्वर्गफलोपभोगतृषितो नाभ्यर्थितस्त्वं मया, सन्तुष्टस्तृणभक्षणेन सततं साधो न युक्तं तव । स्वर्गे यान्ति यदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनो, यज्ञं किं न करोषि मातृपितृभिः पुत्रैस्तथा बान्धवैः ॥ १ ॥ मधुपर्कादिषु च हिंसा श्रेयसे नान्यत्रेति स्वच्छन्दभाषितं, को हि विशेषो हिंसाया येनैका श्रेयस्करी नान्येति । पुण्यात्मानस्तु सर्वाऽपि हिंसा न कर्त्तव्येत्याहुः । यथा सव्वे जीवा वि इच्छंति जीविउ न मरजिउं । तम्हा पाणिवहं घोरं निग्गंथा वज्जयंति णम् ॥ १ ॥ यत्क्तं " आत्मानं च पशूंश्चैव गमयत्युत्तमां गतिमिति " तदविमहासाहसिकादन्य: को वक्तुमर्हति । अपि नाम पशोरहिंस्रस्य कामनिर्जरयोत्तमगतिलाभः संभवेत्, द्विजस्य तु निशांतकृपाणि काप्रहारपूर्व सौनिकस्येव निर्दयस्य हिंसतः कथमुत्तमगतिसंभावनाऽपि स्यात् १ ॥ ३८ ॥ एतदेव विशेषाभिधानपूर्वकमुपसंहरन्नाह - देवोपहारव्याजेन यज्ञव्याजेन येऽथवा । घ्नन्ति जन्तून् गतघृणा घोरां ते यान्ति दुर्गतिम् ॥३९॥ देवा भैरव चण्डिकादयस्तेभ्यः उपहारो बलिः स एव व्याजं छद्म तेन महानवमीमाघाष्टमी चैत्राष्टमीनमसितका( १ ) सर्वे जीवा अपि इच्छन्ति जीवितुं न मर्तुम् । तस्मात् प्राणिवधं घोरं निर्ग्रन्था वर्जयन्ति ॥ १ ॥ For Personal & Private Use Only -*-*- -*KXUK++ द्वितीय प्रकाशः । ॥ ६७॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy