SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ |दिषु देवपूजाच्छद्मना ये जन्तुघातं कुर्वन्ति ये च यज्ञव्याजेन गतघृणा निर्दयास्ते घोरां रौद्रां दुर्गतिं नरकादि लक्षणां यान्ति, अत्र देवोपहारव्याजेनेति विशेषाभिधानं यज्ञव्याजेनेत्युपसंहारः, अपि च निराबाधे धर्मसाधने स्वाधीने साबाधपराधीनधर्मसाधनपरिग्रहो न श्रेयान् । यदाहुः-अर्के चेन्मधु विन्देत किमर्थ पर्वतं बजेदिति ॥ ३६॥ एतदेवाहशमशीलदयामूलं हित्वा धर्म जगद्धितम्। अहो हिंसाऽपि धर्माय जगदे मन्दबुद्धिभिः॥४०॥ ___ शमः कषायेन्द्रियजयः, शीलं सुस्वभावता, दया भूतानुकम्पा, एतानि मूलं कारणं यस्य स तथा धर्मोऽभ्यु| दयनिःश्रेयसकारणं तं । किं विशिष्टं ? जगद्धितं, हित्वा उपेक्ष्य शेमशीलादीमि धर्मसाधनान्युपेक्ष्येत्यर्थः, अहो इति विस्मये हिंसापि धर्मसाधनबहिता धर्मसाधनत्वेन मन्दबुद्धिभिरुक्ता सर्वजनप्रसिद्धानि शमशीलादीनि | धर्मसाधनान्युपेक्ष्य अधर्मसाधनमपि हिंसां धर्मसाधनत्वेन प्रतिपादयतां परेषां व्यक्तैव मन्दबुद्धिता ॥ ४०॥ एवं तावल्लोभमूला शान्त्यर्था कुलक्रमायाता यज्ञनिमित्ता देवोपहारहेतुका च हिंसा प्रतिषिद्धा । पितृनिमित्ता | अवशिष्यते तां प्रतिनिषेधितुं परशास्त्रीयां षश्लोकीमनुवदतिहविर्यच्चिररात्राय यच्चानन्त्याय कल्पते । पितृभ्यो विधिवदत्तं तत्प्रवक्ष्याम्यशेषतः॥४१॥ चिररात्रशब्दो दीर्घकालवचनः, यच्चानन्त्याय केनचिद्धविषा दीर्घकालवृप्तिर्जायते केनचिदनन्तैव तदुभयं प्रवक्ष्यामि ॥४१॥ in Education interna For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy