________________
तद्भक्षयन् स्तोकपश्वादिजन्तुनिहन्तृभ्यः शौनिकभ्यः खट्टिकेभ्योऽतिरिच्यते अधिकीभवति; भक्षकोऽपि घातक इत्युक्तप्रायम् ॥ ३७॥
लौकिकानामप्युच्छिष्टभोजनत्याजिनामुच्छिष्टत्वान्मधु परिहर्त्तव्य मेवेत्याहएकैककुसुमक्रोडाद्रसमापीय मक्षिकाः। यद्वमन्ति मधूच्छिष्टं तदनन्ति न धार्मिकाः ॥३८॥
एकैकस्य कुसुमस्य यः क्रोड उत्सङ्गस्तस्माद्रमं मकरन्दमापीय पीत्वा, मक्षिकाः यदमन्ति उद्गिरन्ति, तच्छिष्ट मधुः धर्म चरन्ति धार्मिकास्ते नाश्नन्ति । अनुच्छिष्टभोजनं हि धर्मो लौकिकानाम् ॥ ३८॥
ननु त्रिदोषशमनं मधु' नातःपरमौषधमस्तीति रोगोपशान्तये मधुभक्षणे को दोष इत्याहअप्योषधकृते जग्धं मधु श्वभ्रनिबन्धनम्। भचितःप्राणनाशाय कालकूटकणोऽपि हि ॥३९॥
आस्तां रसास्वादलाम्पट्येन यावदोषधकृतेऽपि औषधनिमित्तमपि मधु जग्धं यद्यपि रोगापहारकं, तथापि श्वभ्रस्य नरकस्य निबन्धनम् ; हि यस्मात् प्रमादाजीवितार्थितया वा कालकूटस्य विषस्य कणोऽपि लवोऽपि भी क्षितः सन् प्राणनाशाय भवति ॥ ३९ ॥ ___ननु खर्जुरद्राक्षादिरसवन्मधु मधुरमिति सर्वेन्द्रियाप्यायकत्वात् कथं परिहार्य स्यादित्याहमधुनोऽपि हि माधुर्यमबोधैरहहोच्यते । प्रासाद्यन्ते यदास्वादाच्चिरं नरकवेदनाः ॥ ४० ॥
सत्यमस्ति मधुनो माधुर्य व्यवहारतः, परमार्थतस्तु नरकवेदनाहेतुत्वादत्यन्तकटुकत्वमेव । अबोधैरिति पर
Sain Education international
For Personal & Private Use Only
www.jainelibrary.org