SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ रावणः । तल्लक्ष्मणोरस्यपतच्चपेटावन्न धारया ॥ ७५॥ तदेवादाय सौमित्री रावणस्याच्छिदच्छिरः । निजाश्वैर-| प्यवस्कन्दः पतेत् स्वस्य कदापि हि ॥ ७६ ॥ सीता स्वर्णशलाकेव निर्मला शीलशालिनी। रामेण जगृहे लङ्काराज्ये न्यस्तो विभीषणः ॥ ७७॥ शत्रु निहत्य ससहोदरदारमित्रो, रामो ययावथ निजां नगरीमयोध्याम् । उत्पन्नया परकलत्ररिरंसयापि, कृत्वा कुलक्षयमगानरकं दशास्यः ॥ २७८ ॥ ॥ इति सीतारावणकथानकम् ॥ ६ ॥ तस्मात् । लावण्यपुण्यावयवां पदं सौन्दर्यसम्पदः । कलाकलापकुशलामपि जह्यात्परस्त्रियम् ॥१०॥ दुस्त्यजामपि परस्त्रियं जह्यात्परिहरेत् । दुस्त्यजत्वे हेतूनाह-लावण्यपुण्यावयवां लावण्यं स्पृहणीयतारूपादिभ्योऽतिरिक्तं तेन पुण्याः पवित्रा अवयवा यस्यास्ता, पदं स्थानं सौन्दर्यसंपदो रूपसम्पदः, कला द्वासप्ततिलेखाद्याः स्त्रीजनोचिताः तासां कलापः समृहस्तत्र कुशला प्रवीणाम् । लावण्यं, रूपं, वैदग्ध्यं च परदाराणां दुस्त्यजत्वे A हेतुः । अपिशब्दस्त्रिष्वपि हेतुषु सम्बन्धनीयः॥१०॥ परस्त्रीगमने दोषानभिधाय परस्त्रीविरतान् प्रशंसतिअकलङ्कमनोवृत्तेः परस्त्रीसन्निधावपि । सुदर्शनस्य किं ब्रूमः सुदर्शनसमुन्नतेः ? ॥ १०१ ॥ परस्त्रीसन्निधानेऽपि निष्कलङ्कचेतोवृत्तेः सुदर्शनाभिधानस्य महाश्रावकस्य किं ब्रूमः का स्तुतिं कुर्महे ? । Jain Education internal For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy