SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥१३४॥ द्वितीयः प्रकाशः। वचनगोचरातीता स्तुतिरित्यर्थः । सुदर्शनस्य विशेषणं सुदर्शनसमुन्नतेः शोभना दर्शनसमुन्नतिर्यस्मात्तस्य, सुदर्शनप्रभावकस्येत्यर्थः।। सुदर्शनश्च संप्रदायगम्यः । स चायम् अस्त्यङ्गदेशेऽत्यलकापुरी चम्पेति तत्र च। दधिवाहन इत्यासीद्राजाप्रतिनरवाहनः ॥१॥ अभूत्तस्याभया नाम कलाकौशलशालिनी । महादेवी स्वलावण्यावज्ञातत्रिदशाङ्गना ॥२॥ इतो नगर्या तस्यां च समग्रवणिगग्रणीः। श्रेष्ठी वृषभदासोऽभूदासीनः श्रेष्ठकर्मणि ॥३॥ यथार्थनामिका जैनधर्मोपासनकर्मणा। अर्हद्दासीति तस्यासीद् वल्लभा शीलशालिनी ॥ ४ ॥ श्रेष्ठिनस्तस्य महिषीरक्षोऽभूत्सुभगाभिधः । अनैषीन्महिषीनित्यं स तु चारयितुं वने ॥ ५॥ वनानिवृत्तः सोऽन्येार्माघमासे दिनात्यये । अपश्यदप्रावरणं कायोत्सर्गस्थितं मुनिम् ॥६॥ अस्यां हिमनिशि स्थाणुरिव यः स्थास्यति स्थिरम् । असौ धन्यो महात्मेति चिन्तयन् स गृहं ययौ ॥७॥ महामुनिमवज्ञातहिमानीपातवेदनम् । तमेव चिन्तयनामना रात्रिं निनाय सः ॥८॥ अविभातविभावगृहीत्वा महिषीस्ततः । स ययौ तत्र यत्रासीत् स मुनिः प्रतिमास्थितः ॥ ६॥ कल्याणीभक्तिरानम्योपासाञ्चके सतं तदा । अहो नैसर्गिकः कोऽपि विवेकस्तादृशामपि ॥१०॥ अत्रान्तरे चण्डरोचिरारोहदुदयाचलम् । श्रद्धया तमिव द्रष्टुं कायोत्सर्गस्थितं मुनिम् ॥११॥ स नमो अरिहन्ताणमिति वाचमुदीरयन् । द्वितीय इव चण्डांशुरुत्पपात नभस्तले ॥ १२ ।। आकाशगामिनी नूनमियं विद्येति बुद्धितः । नमस्कारपदं तं तु सुभगो निदधे हृदि ॥१३॥ जाग्रत्स्वपनटस्तिष्ठन्दिवा निशि गृहे बहिः। तदपाठीत स उच्छिष्टोऽप्येकग्राहा हि तादृशाः ॥१४॥ ॥१३॥ in Education inte For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy