SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ ततः पप्रच्छ तं श्रेष्ठी विश्वोत्कृष्टप्रभावभृत् । प्राप्तं पञ्चपरमेष्ठिनमस्कारपदं कुतः ।। ५ ।। अशेष महिषीपालः कथयामास तत्ततः। साधु भोः साधु भद्रेति शंसन श्रेष्ठी जगाद तम् ।।१६।। अाकाशगमने हेतुरसी विद्या न केवलम् । किन्तु हेतुरसावेव गतौ स्वर्गापवर्गयोः ।। १७ ।। यत्किश्चित्सुन्दरं वस्तु दुष्प्रापं भुवनत्रये । लीलया प्राप्यते सर्व तदमुष्य प्रभावतः ॥ १८ ॥ अस्य पञ्चपरमेष्ठिनमस्कारस्य वैभवम् । परिमातुं न शक्तोऽस्मि वारि वारिनिधेरिख ॥ १६ ॥ साधु प्राप्तमिदं भद्र तत्त्वया पुण्ययोगतः । किन्तूच्छिष्टैग्रहीतव्यं गुरुनाम न जातुचित् ॥ २० ॥ व्यसनी व्यसनमिव न त्यक्तुं क्षणमप्यदः । अलमस्मीति तेनोक्तः श्रेष्ठी हृष्टोऽब्रवीदिदम् ।। २९॥ तदधीष्वाखिला पञ्चपरमेष्ठिनमस्क्रियाम् । कन्याणानि यथा ते स्युः परलोकेहलोकयोः ॥ २२ ॥ ततोऽशेषनमस्कारं लब्धार्थमिव तद्धनः । परावयताजस्रं सुभगः सुभगाशयः ।। २३:: महिपीपालास्यास्य हुत्तृष्णावेदनाहरः । परमेष्ठिनमस्कारः प्रकामं समजायत ॥२४॥ एवं तस्य नमस्कारपाठव्यसननिनः सतः । कियत्यपि गते काले वर्षाकालः समाययो ॥ २५ ॥ धारानाराचधोरण्या प्रसर्पिण्या निरन्तरम् । अकीलयदिव द्यावापृथिव्यौ नव्यवारिदः ॥२६।गृहाद्गहीत्वा महिषीः सुभगोऽपि बहिर्गतः। विनिवृत्तोऽन्तराऽपश्यद्घोरपूरां महानदीम् ।।२७।। तां दृष्ट्वा स मनाम् भीतस्तस्थौ किश्चिद्विचिन्तयन् । नदी तीवा परक्षेत्रे महिष्यः प्राविशंस्ततः ॥ २८ ॥ नमस्कारं पठन् व्योमवानविद्याधिया ततः । उत्पपात कृतोत्फालो मध्येनदि पपात च ।।२०।। तत्रान्तःकर्दमं मग्नः खरः खदिरकीलकः । कृतान्तदन्तसोदर्यो हृद्यस्य प्रविशेश च ॥ ३० ॥ तथैवावर्तयन् पञ्चपरमेष्ठिनमस्क्रियाम् । तदा मर्माविधा तेन कालधर्ममियाय सः ॥३१॥ श्रेष्ठिपत्न्यास्ततः सोर्हद्दास्याः कुक्षाववातरत् । नमस्काररतानां हि सद्गतिर्न विसंवदेत् ।।३२॥ तस्मिन् For Personal Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy