SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ हात कोदण्डादिधरत्वासिया । हिंसकत्वे विशे तुमयुक्तत्वात् । कोदण्ड योग । कोदण्डदण्डचक्रासिशूलशक्तिधराः सुराः। हिंसका अपि हा कष्टं पूज्यन्ते देवताधिया ॥ ४६॥ द्वितीय ___ हा कष्टमित्यतिशयनिर्वेदे हिंसका अपि रुद्रप्रभृतयः सुराः प्राकृतैर्जनैः पूज्यन्ते विविधपुष्पोपहारादिभिर प्रकाशः। शास्त्रम् य॑न्ते । ते च यथाकथञ्चिदभ्यर्च्यतां नाम केवलं देवताबुद्धिस्तत्र विरुद्धा इत्याह-देवताधिया । हिंसकत्वे विशे॥880 पणद्वारेण हेतुमाह-कोदण्डदण्डचक्रासिशूलशक्तिधरा इति कोदण्डादिधरत्वाद्धिंसकाः, हिंसकत्वमन्तरेण कोदण्डादीनां धारयितुमयुक्तत्वात् । कोदण्डधरः शङ्करः, दण्डधरो यमः, चक्रासिधरो विष्णुः, शलधरौ शिवी, शक्तिधरः कुमारः, उपलक्षणमन्येषां शस्त्राणां शस्त्रधराणां च ॥ ४६॥ एवं प्रपश्चतो हिंसां प्रतिषिध्य तद्विपक्षभूतमीहंसावतं श्लोकद्वयेन स्तौति| मातेव सर्वभूतानामहिंसा हितकारिणी । अहिंसैव हि संसारमरावमृतसारणिः ॥ ५० ॥ अहिंसा दुःखदावाग्निप्रावृषेण्यघनावली। भवभ्रमिरुगा नामहिंसा परमौषधी ॥५१॥ ___ स्पष्टम् ॥ ५० ॥५१॥ अहिंसाव्रतस्य फलमाह- . दीर्घमायुः परं रूपमारोग्यं श्लाघनीयता। अहिंसायाः फलं सर्व किमन्यत्कामदैव सा ॥ ५२ ॥ ____ अहिंसापरो हि परेषामायुर्वर्द्धयन्ननुरूपमेव जन्मान्तरे दीर्घायुष्वं लभते । तथैव पररूपमविनाशयन् प्रकृष्टं रूपमामोति । तथैव चास्वास्थ्यहेतुं हिंसां परिहरन् परमस्वास्थ्यरूपमारोग्यं लभते सर्वभूताभयप्रदश्च तेभ्य आत्मनः श्लाघनीयतामश्नुते । एतत्सर्वमहिंसायाः फलं, कियद्वा शृङ्गग्राहिकया वक्तुं शक्यते इत्याह-किमन्यत्कामदैव सा ॥8 ॥ in Education Interna l For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy