SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रकाशा योग- भर्तिबुद्धिलक्ष्म्यः पन्योपमस्थितयः सामानिकपारिषद्यात्मरक्षानीकपरिवृताः। शास्त्रम् तत्र भरते गङ्गासिन्धु महानद्यौ, हैमवते रोहितांशारोहिते, हरिवर्षे हरिकान्ताहरिते, महाविदेहे शीताशीतोदे, रम्यके नारीनरकान्ते, हैरण्यवते सुवर्णकूलारूप्यकुले, ऐरवते रकारक्तोदे । प्रथमाः पूर्वगाः, द्वितीयाः पश्चिमगाः । ॥३२४॥ तत्र चतुदर्शनदीमहस्रपरिवृते प्रत्येकं गङ्गासिन्धू । यथोत्तरं द्विगुणनदीपरिवृते द्वे द्वे नद्यौ शीताशीतोदाभ्यामर्वाक् ते तु प्रत्येक द्वात्रिंशत्सहस्राधिकपश्चलक्षनदीपरिवृते । उत्तरास्तु दक्षिणाभिस्तुल्याः। तत्र भरतक्षेत्रं विष्कम्भतः पञ्चयोजनशतानि षड्विंशानि एकोनविंशतिभागीकृतस्य योजनस्य षड् भागाः, तद्विगुणविष्कम्भा यथोत्तरं वर्षधरवर्षा विदेहान्ताः । उत्तरा दक्षिणतुल्याः। | विदेहेषु निषधस्योत्तरतो मेरोदक्षिणतो विद्युत्प्रभसौमनसाभ्यां पश्चिमपूर्वाभ्यां निषधमेवान्तर्वर्तिभ्यां गजदन्ताकृतिभ्यां पर्वताभ्यामावृताः शीतोदानदीभिन्नदपञ्चकोभयपार्श्वव्यवस्थितैर्दशभिर्दशभिः काञ्चनपर्वतैर्विराजिताः शीतोदानदीपूर्वापरकूलस्थिताभ्यां योजनसहस्रोच्चाभ्यां तावदधोविस्तृताभ्यां तदोपरिविस्तृताभ्यां च विचित्रकूटचित्रकूटाभ्यां शोभिताश्च देवकुरवः विष्कम्भेणकादशयोजनसहस्राणि अष्टौ शतानि द्विचत्वारिंशदधिकानि । मेरोरुत्तरतो नीलाद्दचिणतो गन्धमादनमान्यवत्पर्वताभ्यां गजदन्ताकृतिभ्यां मेरुनीलान्तरस्थाभ्यामावृताः शीतानदी. विभिन्नहदपञ्चकोभयपार्थस्थितकाञ्चनपर्वतशतेन शीतानद्युभयकूलस्थाभ्यां काञ्चनाभ्यां यमकपर्वताभ्यां विचित्रकूटचित्रकूटमानाभ्यां च विराजिता उत्तराः कुरवः । देवकुरूत्तरकुरुभ्यः पूर्वतः पूर्वविदेहाः, पश्चिमतोऽपरविदेहाः। पूर्वविदेहेषु चक्रवर्तिविजेतव्या नदीपर्वतविभक्ताः ॥३२४॥ Lain Education inte For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy