________________
परस्परमगम्याः षोडश विजयाः, एवमपरविदेहेष्वपि ।
भरतक्षेत्रमध्ये च पूर्वापरायत उभयतः समुद्रमवगाढो दक्षिणोत्तरार्धविभागकारी तमिस्राखण्डप्रपातागुहाद्वयोपशोभितः षड् योजनानि सक्रोशानि धरणितलमवगाढः पञ्चाशद्योजनविस्तृतः पञ्चविंशतियोजनोच्छ्रितो वैताढ्यपर्वतः । अत्र च दक्षिणोत्तरपार्थास्यां भूमितो दशयोजनेभ्य ऊर्ध्व दशयोजनविस्तृते विद्याधरश्रेण्यौ । तत्र दक्षिणस्यां सजनपदानि पञ्चाशनगराणि, उत्तरस्यां तु षष्टिः । विद्याधरश्रेणिभ्यामूर्धमुभयतो दशयोजनान्ते व्यन्तरश्रेण्यौ, तयोर्व्यन्तरावासाः । व्यन्तरश्रेण्योरुपरि पञ्चसु योजनेषु नव कूटानि । वैताट्यवक्तव्यता ऐरावतक्षेत्रेऽपि समाना वक्तव्या ॥ ___जम्बूद्वीपस्य च प्राकारभूता वज्रमयी अष्टयोजनोच्छ्राया जगती, द्वादश योजनान्यस्या मृले विष्कम्भः, मध्येऽष्टौ योजनानि, उपरि चत्वारि योजनानि, तदुपरि द्विगव्यूत्युच्छ्रायो जालकटको विद्याधरक्रीडास्थानम् । तस्याप्युपरि पावरवेदिका देवभोगभूमिः । अस्याश्च जगत्याः पूर्वादिषु दिक्षु विजयवैजयन्तजयन्तापराजिताख्यानि चत्वारि द्वाराणि, हिमवन्महाहिमवतारन्तरे शब्दापाती नाम वृत्तवैताढ्यपर्वतः । रुक्मिशिखरिणोर्मध्ये विकटापाती । महाहिमवनिषधयोरन्तरे गन्धापाती । नीलरुक्मिणोरन्तरे माल्यवान् । सर्वेऽपि योजनसहस्रोच्छायाः पन्याकृतयः॥
तथा जम्बूद्वीपपरिक्षेपी तद्विगुणविस्तारो (मध्ये दशयोजनसहरी) योजनसहस्रावगाढो मात्रया पश्चनवति१ तिर्यग्ज़ुभकानां.
in Education Interna
For Personal & Private Use Only
www.jainelibrary.org