SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ योजनसहस्रं विस्तृतः, त्रिकाण्डः, त्रिलोकप्रविभक्तमंतिः, चतुर्विनैर्भद्रशालनन्दनसौमनसपाण्डकैः परिवृतः । तत्र शुद्धपृथिव्युपलवज्रशर्कराबहुलं योजनसहस्रमेकं प्रथमं काण्डं, द्वितीयं त्रिषष्टिर्योजनसहस्राणि रजतजातरूपाङ्कस्फटिकबहुलं, तृतीयं षट्त्रिंशद्योजनसहस्राणि जाम्बूनदबहुलं. वैडूर्यबहुलाऽस्य चूलिका चत्वारिंशद्योजनानि उच्छायेण, मुले द्वादश विष्कम्भेण, मध्येऽष्टौ, उपरि चत्वारीति । मेरोर्मूलभूमौ वलयाकृति भद्रशालवनं । भद्रशालवनात पश्चभ्यो योजनशतेभ्य ऊर्ध्व पञ्चयोजनशतविस्तारं मेखलायां वलयाकृति नन्दनवनं, ततः सार्धद्विषष्ठियोजनसहस्रेभ्य ऊर्ध्व द्वितीयमेखलायां पञ्चयोजनशतविस्तारं वलयाकृति सौमनसं वनं. ततोऽपि षटत्रिंशद्योजनसहस्रेभ्य ऊर्ध्वं तृतीयमेखलायां चतुर्नवत्यधिकचतुर्योजनशतविस्तारं वलयाकृति मेरोः शिरसि पाण्डकवनम् ॥ तत्र जम्बूद्वीपे सप्त वर्षाणि । तत्र दक्षिणतो भरतक्षेत्रं, तदुत्तरतो हैमवतं, ततोऽपि हरिवर्ष, ततोऽपि विदेहाः, ततोऽपि रम्यकक्षेत्रं, ततोऽपि हैरण्यवतं. ततोऽप्यैरावतमिति । क्षेत्रविभागकारिणस्तु हिमवन्महाहिमवभिषधनीलरुक्मिशिखरिणो वर्षधरपर्वताः, ते च यथाक्रमं हेमार्जुनतपन यवैडूर्यरजततपनीयमया मणि विचित्रपार्था मृलोपरि तुन्यविस्ताराः । तत्र पञ्चविंशतियोजनान्यवगाढो योजनशतोच्छायो हिमवान् , तद्विगुणो महाहिमवान्, तद्विगुणो निषधः, तत्समो नीलः, महाहिमवत्समो रुक्मी, हिमवत्समः शिखरी । तदुपरि पद्ममहापद्मतिगिच्छिकेशरिमहापुण्डरीकपुण्डरीका इदाः । योजनसहस्रायामस्तदर्धेविस्तीर्णः प्रथमः, तद्विगुणद्विगुणायामविस्तारौ परौ, उत्तरे पुण्डरीकादयो दक्षिणतुन्याः । सर्वेष्वपि च पद्मानि दशयोजनावगाहानि । तनिवासिन्यः क्रमेण श्रीहीधृतिकी-| (१) अधोलोके १०० | तिर्यग्लोके १८००। ऊर्ध्वलोके ९८१००॥ in Education Inter For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy