SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् चतुर्थः प्रकाशः। ॥३२३॥ जम्बूद्वीपे द्वौ चन्द्रौ द्वौ सूर्यो । लवणसमुद्रे चत्वारश्चन्द्राः सूर्याश्च । धातकीखण्डे द्वादश चन्द्राः सूर्याश्च । कालोदे द्विचत्वारिंशचन्द्रा सूर्याश्च । पुष्करवरार्धे द्वासप्ततिश्चन्द्राः सूर्याश्च । इत्येवं मनुष्यलोके द्वात्रिंशं चन्द्रशतं सूर्यशतं च भवति । अष्टाशीतिग्रहाः, अष्टाविंशतिर्नचत्राणि, षदषष्टिः सहस्राणि नव शताति पञ्चसप्तत्यधिकानि तारकाकोटिकोटीनामेकैकस्य चन्द्रमसः परिग्रहः । तत्र एकषष्टिभागीकृतस्य योजनस्य षट्पश्चाशद्भागा आयामविष्कम्भाभ्यां चन्द्रविमानं, अष्टचत्वारिंशत् ( भागाः) सूर्यविमान. ग्रहाणामधयोजन, नक्षत्राणां गव्यूतं, आयुषा सर्वोत्कृटायास्ताराया अर्धक्रोशः, सर्वजघन्यायाः पञ्च धनुःशतानि, बाहल्यं तु सर्वेषामायामार्थेन । एते च पञ्चचत्वारिंशवक्षयोजनप्रमिते मनुष्यक्षेत्रे भवन्ति । चन्द्रादिविमानवाहनानि च पुरतः सिंहाः, दक्षिणतो गजाः, अपरतो वृषभाः, उत्तरतोऽश्वाः । ते चाभियोगिका देवाश्चन्द्रसूर्ययोः षोडश सहस्राणि, ग्रहाणामष्टी, नक्षत्राणां चत्वारि, तारकाणां द्वे, खरसप्रवृत्तगतीनामपि चन्द्रादीनामाभियोग्यकर्मवशात्तत्रोपतिष्ठन्ति । मानुषोत्तरात् परतः पञ्चाशता योजनसहौः परस्परमन्तरिताः सूर्यान्तरिताश्चन्द्राः चन्द्रान्तरिताः सूर्याः मनुष्यक्षेत्रीयचन्द्रसूर्यप्रमाणादर्धप्रमाणा | यथोत्तरं क्षेत्रपरिधिवृध्ध्या संख्यया वर्धमानाः शुभलेश्या ग्रहनक्षत्रतारापरिवारा घण्टाकारा असंख्येया श्रा स्वयंभूरमणालक्षयोजनान्तरिताभिः पङ्क्तिभिस्तिष्ठन्ति । मध्यलोके तु जम्बूद्वीपलवणादयः शुभनामानो द्वीपसमुद्रा असख्याता द्विगुणद्विगुणविस्ताराः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः। अन्त्यः स्वयंभूरमणः समुद्रः॥ जम्बूद्वीपमध्ये मेरुः काञ्चनस्थालमिव वृत्तो योजनसहस्रमधो धरणितलमवगाढो, नवनवतियोजनसहस्रोच्छितो, दश योजनसहस्राणि सातिरेकनवत्यधिकानि कन्दे विस्तृतो, धरणितले दश योजनसहस्राणि विस्तृतः, उपरि For Personal & Private Use Only तः, उपरि ॥३२३॥ Jain Educationa l www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy