SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern +40OK+UK+XK श्रोतव्यम्, तद्कुर्वत श्राशातना । २० । गुरुणा आहूतस्य शिष्यस्य किमिति वचनम्, भि वन्दे इति । २१ । गुरुं प्रति शिष्यस्य त्वंकारः । २२ । गुरुणा ग्लानादिवैयावृत्यादिहेतोः 'इदं कुरु' इत्यादिष्टः ' स्वमेव किं न कुरुषे ' इति ' त्वमलसः' इत्युक्ते ' त्वमप्यलसः' इति च शिष्यस्य तञ्जातवचनम् । २३ । गुरोः पुरतो बहोः कर्कशस्योच्चैःस्वरस्य च शिष्येण वदनम् । २४ । गुरौ कथां कथयति ' एवमेतत्' इत्यन्तराले शिष्यस्य वचनम् । २५ । गुरौ धर्मकथां कथयति न स्मरसि त्वमेतमर्थम्, नायमर्थः संभवति' इति शिष्यस्य वचनम् | २६ | गुरौ धर्मं कथयति सौमनस्यरहितस्य गुरूक्तमननुमोदमानस्य ' साधूक्तं भवद्भिः' इत्यप्रशंसतः शिष्यस्योपहृतमनस्त्वम् । २७ । गुरौ धर्म कथयति ' इयं भिक्षावेला, सूत्रपौरुषीवेला, भोजनवेला ' इत्यादिना शिष्येण पर्षद्भेदनम् | २८ । गुरौ धर्मकथां कथयति ' अहं कथयिष्यामि ' इति शिष्येण कथाच्छेदनम् | २६ | तथा आचार्येण धर्मकथायां कृतायामनुत्थितायामेव पर्षदि स्वस्य पाटवादिज्ञापनाय शिष्येण सविशेषं धर्मकथनम् । ३० । गुरोः पुरत उच्चासने समासने वा शिष्यस्योपवेशनम् । ३१ । गुरोः शय्यासंस्तारकादिकस्य पादेन घट्टनम्, अननुज्ञाप्य हस्तेन वा स्पर्शनम्, घट्टयित्वा स्पृष्ट्वा वाऽक्षामणम् ; यदाह संघट्टहत्ता कायेण तहा उवहिणामवि । खमेह अवराहं मे वहज न पुणति ॥ १ ॥ ३२ ॥ गुरोः शय्यासंस्तारकादौ स्थानं निषीदनं शयनं चेति । ३३ । एतदर्थसंवादिन्यो गाथा (१) संघट्टय कायेन तथोपधीनामपि । क्षमस्वापराधं मे वदेद्र न पुनरिति च ॥ १ ॥ For Personal & Private Use Only K+K+++ -0-00-0 www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy