SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ झेन रजोहरणादिना द्रव्यलिङ्गन सिद्धाः स्वलिङ्गसिद्धाः। ११ । अन्येषां परिव्राजकादीनां लिङ्गन सिद्धा अन्यलिङ्गसिद्धाः । १२ । गृहिलिङ्गसिद्धा मरुदेव्यादयः ।१३। एकैकस्मिन् समये एकाकिनः सिद्धाः एकसिद्धाः ।१४। एकस्मिन् समये अष्टोत्तरं शतं यावत् सिद्धा अनेकसिद्धाः। १५ । यत उक्तम् बत्तीसा अडयाला सही बाहत्तरीय बोद्धव्वा । चुलसीई छाउई दुरहिअमट्ठोत्तरसयं च ॥१॥ नन्वेते सिद्धभेदा आद्ययोस्तीर्थसिद्धाऽतीर्थसिद्धयोरेवाऽन्तर्भवन्ति, तीर्थकरसिद्धादयो हि तीर्थसिद्धा वा स्युरतीर्थसिद्धा वेति । सत्यम् , सत्यप्यन्तर्भावे पूर्वभेदद्यादेवोत्तरभेदाप्रतिपत्तेरज्ञातज्ञापनार्थ भेदाभिधानमदृष्टमिति । इत्थं सामान्येन सर्वसिद्धनमस्कारं कृत्वा आसनोपकारित्वाद्वर्तमानतीर्थाधिपतेः श्रीमन्महावीरवर्धमानस्वामिनः स्तुतिं करोति जो देवाण वि देवो जं देवा पंजली नमसंति । तं देवदेवमहिनं सिरसा वन्दे महावीरं ॥ २॥ यो भगवान महावीरो देवानामपि भवनवास्यादीनां पूज्यत्याद् देवः, अत एवाह—यं देवाः प्राञ्जलयो विनयरचितकरसम्पुटाः सन्तो नमस्यन्ति प्रणमन्ति, तं भगवन्तं देवदेवैः शक्रादिभिर्महितं पूजितम् , वन्दे शिरसा उत्तमाङ्गेन आदरप्रदर्शनार्थ चैतत् । तं कं? महावीरम् , विशेषेण ईरयति कर्म गमयति याति वा शिवमिति वीरः, महांश्चासौ वीरश्च महावीरस्तम् । इत्थं स्तुतिं कृत्वा पुनः परोपकाराय आत्मभाववृद्धये च फलप्रदर्शनपरमिदं पठति (१) द्वात्रिंशदष्टचत्वारिंशत् षष्टि-सप्ततिश्च बोद्धव्याः । चतुरशीतिः षण्णवतियधिकमष्टोत्तरशतं च ॥ १॥ lain Education intero For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy