________________
योग
तृतीयः
प्रकाशः।
२३२॥
अणेगसिद्धा १५ । तत्र तीर्थे चतुर्विधश्रमणसङ्के उत्पने सति ये सिडाः ते तीर्थसिद्धाः। १। प्रतीर्थे जिनान्तरे साधुव्यवच्छेदे सति जातिस्मरणादिनाऽवाप्तापवर्गमार्गाः सिद्धाः अतीर्थसिद्धाः, मरुदेवीप्रभृतयो वा, तदा तीर्थस्याऽनुत्पन्नत्वात् । २ । तीर्थकरसिद्धाः तीर्थकरत्वमनुभूय सिद्धाः।३। अतीर्थकरसिद्धाः सामान्यकेवलित्वे सति सिद्धाः । ४ । स्वयं बुद्धाः सन्तो ये सिद्धाः ते स्वयंबुद्धसिद्धाः। ५। प्रत्येकबुद्धाः सन्तो ये सिद्धाः तं प्रत्येकबुद्धसिद्धाः । ६ । स्वयम्बुद्धप्रत्येकबुद्धयोश्च बोध्युपधिश्रुतलिङ्गकृतो विशेषः-स्वयंबुद्धा हि बाह्यप्रत्ययमन्तरेण बुध्यन्ते, प्रत्येकबुद्धास्तु बाह्यप्रत्ययेन वृषभादिना करकण्ड्वादिवत्, उपधिस्तु स्वयंबुद्धानां पात्रादिर्कीदशधा, प्रत्येकबुद्धानां प्रावरणवों नवविधः; स्वयंबुद्धानां पूर्वाधीतश्रुतेऽनियमः, प्रत्येकबुद्धानां तु नियमतो भवत्येव लिङ्गप्रतिपत्तिस्तु स्वयंबुद्धानां गुरुसन्निधावपि भवति, प्रत्येकबुद्धानां तु देवता लिङ्गं प्रयच्छति: बुद्धा आचार्या अवगततत्त्वाः तैर्बोधिताः सन्तो ये सिद्धाः ते बुद्धबोधितसिद्धाः। ७। एते च सर्वेऽपि केचित् स्त्रीलिङ्गसिद्धाः, केचित् पुंलिङ्गसिद्धाः, केचित् नपुंसकलिङ्गसिद्धाः । ननु तीर्थकरा अपि किं स्त्रीलिङ्गसिद्धा भवन्ति ?, उच्यते, भवन्त्येव यदुक्तं सिद्धप्राभृते-सव्वत्थोवा तित्थयरिसिद्धा, तित्थयरतित्थे नोतित्थयरसिद्धा असंखेजगुणा, तित्थयरितित्थे नोतित्थयरिसिद्धाओ असंखिजगुणाओ, तित्थयरितित्थे नोतित्थयरसिद्धा असंखेजगुणा इति । नपुंसकलिङ्गसिद्धास्तु तीर्थकरसिद्धा न भवन्त्येव, प्रत्येकबुद्धसिद्धास्तु पुंलिङ्गसिद्धा एव । ८18 | १० । स्वलि
(१) सर्वस्तोकास्तीर्थकरीसिद्धास्तीर्थकरतीर्थे नोतीर्थकरसिद्धा असंख्येयगुणाः, तीर्थकरीतीर्थे नोतीर्थकरीसिद्धा असंख्येयगुणाः, तीर्थकरीतीर्थे नोतीर्थकरसिद्धा असंख्येयगुणाः ।।
॥२३॥
e Education inte!
!
For Personal & Private Use Only
warw.jainelibrary.org