SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ सामीप्येन तदपराभिमदेशतया निःशेषकर्मचयपूर्वकं गताः प्राप्ताः । उक्तं च जत्थ य एगो सिद्धो तत्थ य अणंता भवक्खयविमुक्का । अमोलमणाबाहं चिटुंति सुही सुहं पत्ता ॥१॥ तेभ्यः । ननु क्षीणकर्मणो जीवस्य कथं लोकाग्रं यावद्गतिः ? उच्यते-पूर्वप्रयोगादियोगात् । यदाहपूर्वप्रयोगसिद्धेर्बन्धच्छेदादसङ्गभावाच्च । गतिपरिणामाच्च तथा सिद्धस्योर्ध्व गतिः सिद्धा ॥१॥ ननु सिद्धिक्षेत्रात्परतोऽधस्तिर्यग्वा कमान्न गच्छन्ति !, अत्राऽप्युक्तम्नाऽधो गौरव विगमादसङ्गभावाच्च गच्छति विमुक्तः । लोकान्तादपि न परं प्लवक इवोपग्रहाभावात् ॥१॥ योगप्रयोगयोश्चाभावात्तिर्यग् न तस्य गतिरस्ति । तस्मात्सिद्धस्योर्ध्व ह्यालोकान्ताद्गतिर्भवति ॥२॥ इति ॥ नमः सदा सर्वसिद्धेभ्यः-नमो नमोऽस्तु, सदा सर्वकालं, सर्वसिद्धेभ्यः-सर्व साध्यं सिद्धं येषां ते सर्वसिद्धाः तेभ्यः, अथवा सर्वसिद्धेभ्यः तीर्थसिद्धादिभेदेभ्यः, यथोक्तम्-'तित्थसिद्धा १ अतित्थसिद्धा २ तित्थयरसिद्धा ३ अतित्थयरसिद्धा ४ सयंबुद्धसिद्धा५ पत्तेयबुद्धसिद्धा ६ बुद्धबोहिअसिद्धा ७ थीलिङ्गसिद्धा - पुरिसलिङ्गसिद्धा ६ नपुंसकलिङ्गसिद्धा १० सलिङ्गसिद्धा ११ अनलिङ्गसिद्धा १२ गिहिलिङ्गसिद्धा १३ एगसिद्धा १४ १ यत्र चैकः सिद्धस्तत्र चानन्ता भवक्षयविमुक्ताः । अन्योन्यमनाबाधं तिष्ठन्ति सुखिनः सुखं प्राप्ताः॥ १॥ २ तीर्थसिद्धाः, अतीर्थसिद्धाः, तीर्थकरसिद्धाः, अतीर्थकरसिद्धाः, स्वयंबुद्धसिद्धाः, प्रत्येकबुद्धसिद्धाः, बुद्धबोधितसिद्धाः, स्त्रीलिङ्गसिद्धाः, पुरुषलिङ्गसिद्धाः, नपुंसकलिङ्गसिद्धाः, स्वलिङ्गसिद्धाः, अन्यलिङ्गसिद्धाः, गृहिलिङ्गसिद्धाः, एकसिद्धाः, अनेकसिद्धाः, Jain Education intem For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy