SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ||२३०॥ Jain Education In K++ 08-11-201 स्तम्भाकर्षकवत् । योग औषधिसंयोगः, तत्र सिद्धो योगसिद्धः श्रर्यसमितवत् आगमो द्वादशाङ्गं प्रवचनं तत्रासाधारणार्थावगमात्सिद्धः आगमसिद्धो गौतमवत्, अर्थो धनम् स इतरासाधारणो यस्य सोऽर्थसिद्धो मम्मणवणिग्वत् । जले स्थले वा यस्याविना यात्रा स मात्रासिद्धस्तुण्डिकवत् । यमर्थमभिप्रैति तमर्थं तथैव यः साधयति सोऽभिप्रायसिद्धोऽभयकुमारवत् । यस्य सर्वोत्कृष्टं तपः स तपः सिद्धो दृढप्रहारिवत् । यः कर्मक्षयेण ज्ञानावरणीयाद्यष्टकर्मनिर्मूलनेन सिद्धः स कर्मचयसिद्धो मरुदेवीवत् । अतः कर्मादिसिद्धव्यपोहेन कर्मक्षयसिद्धपरिग्रहार्थमाह – बुद्धेभ्यः अज्ञाननिद्राप्रसुप्ते जगति अपरोपदेशेन जीवादिरूपं तत्त्वं बुद्धवन्तो बुद्धाः, बुद्धत्वानन्तरं कर्मक्षयं कृत्वा सिद्धा इत्यर्थः तेभ्यः । एते च संसारनिर्वाणोभयपरित्यागस्थितिमन्तः कैश्विदिष्यन्ते न संसारे न निर्वाणे स्थितो भुवनभूतये । अचिन्त्यः सर्वलोकानां चिन्तारत्नाधिको महान् ॥ १ ॥ इति वचनात् । एतन्निरासार्थमाह - पारगतेभ्यः पारं पर्यन्तं संसारस्य प्रयोजनवातस्य वा, गताः पारगताः तेभ्यः; एते च यदृच्छावादिभिः कैश्चिदरिद्रराज्याप्तिवदक्रमसिद्धत्वेनाभिधीयन्ते तद्व्युदासार्थमाह – परम्पर गयाणं - परम्परया चतुर्दशगुणस्थानक्रमाराहरूपया, अथवा कथञ्चित् कर्मक्षयोपशमादिसामग्र्या सम्यग्दर्शनं तस्मात् सम्यग्ज्ञानं तस्मात् सम्यक् चारित्रमित्येवम्भूतया गता मुक्तिस्थानं प्राप्ताः परम्परागताः तेभ्यः । एते च कैश्चिदनियतदेशा अभ्युपगम्यन्ते, यत्र क्लेशचयस्तत्र विज्ञानमवतिष्ठते । बाधा च सर्वथाऽस्येह तदभावान जातुचित् ॥ १ ॥ इति वचनात्, एतन्निरासायाह - लोकाग्रमुपगतेभ्यः लोकाग्रमीषत्प्राग्भाराख्यायाः पृथिव्या उपरिक्षेत्रं तदुप For Personal & Private Use Only 6-3-1-04-190KMR08 तृतीयः प्रकाशः । ॥२३०॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy