SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ I! क्तत्वात्, एवंविधं वेश्यानां वदनं कथुम्बेन्न कश्चिचेतनशुम्बेदित्यर्थः । उच्छिष्टमिव भोजनमित्युपमानमनेकवि टचुम्बितवेश्यावदनस्योपमेयस्य । अथवा मांसमिश्रत्वं सुरामिश्रत्वं चोच्छिष्टभोजनेऽपि योज्यम् ॥ ८६ ॥ तथाअपि प्रदत्तसर्वस्वात् कामुकात् क्षीणसम्पदः। वासोऽप्याच्छेत्तुमिच्छन्ति गच्छतः पण्ययोषितः। प्रदत्तसर्वस्वादपि महाधनावस्थायां, पुण्यचयात्वीणसम्पदः कामुकात्तत एव गच्छतः स्वगृहं प्रति, वासोऽपि परिधानवस्त्रमपि, आच्छेत्तुं बलाद् ग्रहीतुमिच्छन्ति, पण्यं मन्यं तत्प्रधाना योषितो वेश्या, अनेन कृतनत्वं तासामाह । यदाह___उपचरिताऽप्यतिमात्रं प्रकटवधूः चीणसम्पदः पुंसः। पातयति दृशं व्रजतः स्पृहया परिधानमात्रेऽपि॥१॥६०॥ || तथान देवान्न गुरून्नापि सुहृदो न च वान्धवान् । असत्सङ्गरतिनित्यं वेश्यावश्यो हि मन्यते॥१॥ वेश्यावश्यः पुमान देवादीन्मन्यते, कृतः असत्सङ्गरतिनित्यं असद्भिविटादिभिः सङ्गो असत्सङ्गस्तत्र रतिर्यस्य । | वेश्यावश्यस्य हि मुलमा एवासत्सङ्गाः ॥ ६१ ॥ तथाकुष्ठिनोऽपि स्मरसमान् पश्यन्ती धनकाङ्क्षया। तन्वन्तीं कृत्रिमस्नेहं निःस्नेहां गणिकां त्यजेत् ९२ | कुष्ठिनः कुष्ठिरोगिणोऽप्यत्यन्तमनुपादेयान्, सरसमान् कन्दर्पतुन्यान् , धनकासया हेतुभूतया पश्यन्ती, महत्या प्रतिपच्या प्रतिपादयन्ती, न च स्नेहमन्तरेण कुष्ठिनोऽपि सकाशाडनावाप्तिरिति । तन्वन्तीं विस्तारयन्ती, Jain Education Internatio For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy