SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् कृत्रिममपचरितं स्नेहं प्रेम, परमार्थतस्तु निःस्नेहां गणिका वेश्या, त्यजेत् । एवं तावत्स्वदारसन्तुष्टस्य पण्याङ्ग- द्वितीया नागमने दोषाः प्रतिपादिताः॥२॥ प्रकाशा इदानीं परदारगमनदोषानाह-. नासक्त्या सेवनीया हि स्वदारा अप्युपासकैः। श्राकरः सर्वपापानां किं पुनः परयोषितः॥३॥ ___ सर्वविरतिलालसः खलु देशविरतिपरिणाम इति गार्हस्थ्येऽपि वैराग्यातिशयादुपासकैरमतिषिद्धाः स्वदारा । a अप्यासक्त्या गर्द्धन न सेवनीयाः, किं पुनः परयोषितः १ ता अत्यन्तमसेवनीया इत्यर्थः, यत आकरः खानिः सर्वपापानां मायामृषावादादीनाम् , हिशब्दो यस्मादर्थे, यसात् स्वदारानपि नासक्त्या सेवन्ते उपासकाः, ततः कथं परदारेषु प्रसजेयुरित्यर्थः ॥ १३॥ ___ परस्त्रीणां पापकारित्वमेव दर्शयतिस्वपति या परित्यज्य निस्त्रपोपपतिं भजेत्। तस्यां क्षणिकचित्तायां विश्रम्भः कोऽन्ययोषिति ।९४ तस्यां चणिकचित्तायां चलितचित्तायामन्ययोषिति, को विश्रम्भः को विश्वासः ! न कश्चिदित्यर्थः । विश्र*म्भाधीनं च सुखं तदपि नास्तीत्यर्थः । या किं, या स्वपतिं देवतारूपं ' भर्तृदेवता हि स्त्रियः' इति श्रुतेः, परित्यज्य पाणिगृहीत्यपि त्यक्त्वा, निस्त्रपा लज्जारहिता, त्रपा हि भूषणं स्त्रीणाम् : उपपति पत्यन्तरं, भजेत् ॥९४॥ ITI इदानीं परस्त्रीप्रसक्तोऽनुशिष्यते ॥१२४॥ Jain Education intemandal For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy