SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥७२॥ तम्। प्रहरणैः कुन्ततोमरादिभिर्मार्यमाणो विनाश्यमानः स वराको देही कथं भवेत् ? परमदुःखित एव भवेदित्यर्थः। द्वितीयः मरणवचनेनाऽपि द्यमानस्य निशितैः शर्मारणमिति मृतमारणं तत्कथं सकर्णः कुर्यादिति निन्दा ॥२६॥ प्रकाशः। | हिंसाफलं दृष्टान्तद्वारेणाह श्रूयते प्राणिघातेन रौद्रध्यानपरायणौ । सुभूमो ब्रह्मदत्तश्च सप्तमं नरकं गतौ ॥ २७ ॥ ____ श्रूयते आकर्ण्यते एतदागमे । यदुत प्राणिपातेन हेतुना सुभूमब्रह्मदत्तौ चक्रवर्तिनौ सप्तमं नरकं गतौ । हिंसाया नरकगमनहेतुत्वं न रौद्रध्यानमन्तरेण भवति । अन्यथा सिंहवधकतपस्विनोऽपि नरकः स्यादित्युक्तं रौद्रध्यानपरायणौ हिंसानुबन्धिध्यानयुक्तावित्यर्थः। यथा तौ नरकं गतौ तथा कथानकद्वारेण दर्श्यते । तथाहि वसन्तपुरनामायां पुर्यामुच्छन्नवंशकः। आसीच्च्युत इवाकाशादग्निको नाम दारकः॥१॥ सोऽन्यदा | चलितस्तस्मात् स्थानाद्देशान्तरं प्रति । सार्थाद्धीनः परिभ्राम्यनगमत्तापसाश्रमम् ॥२॥ तमग्नि तनयत्वेनाग्रही कुलपतिज॑मः । जमदग्निरिति ख्यातिं स लोकेषु ततोऽगमत ॥३॥ तप्यमानस्तपस्तीक्ष्णं प्रत्यक्ष इव पावकः। तेजसा दुःसहेनासौ पप्रथे पृथिवीतले ॥४।। अत्रान्तरे महाश्राद्धो नाम्ना वैश्वानरः सुरः। धन्वन्तरिश्च तापसभक्तो व्यवदतामिति ॥५॥ एक आहाहतां धर्मः प्रमाणमितरः पुनः । तापसानां विवादेऽस्मिन् व्यधातामिति निर्णयम् ॥ ६॥ आईतेषु जघन्यो यः प्रकृष्टस्तापसेषु यः । परीक्षणीयावावाभ्यां को गुणैरतिरिच्यते ॥७॥ HI तदानीं मिथिलापुर्या नवधर्मपरिष्कृतः । श्रीमान् पद्मरथो नाम प्रस्थितः पृथिवीपतिः ॥८॥ दीक्षां श्रीवासु- 1 ITI॥७२॥ Jan Education Intema For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy