SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ दीर्यमाणो विदार्यमाणः कुशेन दर्मेण अपिशब्दादास्तां शस्त्रेण यः स्वाङ्गे शरीरे हन्तेति प्रतिबोध्यामत्रणे यते उपतप्यते । निर्मान्तूनिरपराधान् जन्तून् स कथं अन्तयेदन्तं प्रापयेत् निशितायुधैः कुन्तादिभिः ? पात्मानुसारेणापि परपीडामजाननेवं निन्द्यते । तथा च मृगयाव्यापृतान् क्षत्रियान् प्रति केनचिदुक्तम् रसातलं यातु यदत्र पौरुषं, के नीतिरेषाऽशरणो ह्यदोषवान् । निहन्यते यदलिनातिदुबेलो, हहा महाकष्टमराजकं जगत ॥१॥२४॥ A निर्मातुंक्रूरकर्माणःक्षणिकामात्मनो धृतिम्।समापयन्ति सकलं जन्मान्यस्य शरीरिणः॥२५॥ ___ क्रूरं रौद्रं कर्म हिंसादि येषां ते क्रूरकर्माणो लुब्धकादयः । आत्मनः स्वस्य धृति स्वास्थ्यलक्षणां निर्मातु-1 मिति सम्बन्धः। धृतेर्विशेषणं क्षणिकामिति आजन्मशाश्वतिकधृतिनिमित्तं कदाचित्किश्चिद्विरुद्धमपि क्रियते । क्षणिकधृतिनिर्माणार्थे तु समापयन्ति समाप्तिं नयन्ति जन्म अन्यस्य वध्यस्य शरीरिणः। अयमर्थ:-परप्राणिमांसजन्यचणिकतृप्तिहेतोराकालिकं परस्यायुः समाप्यत इति महदिदं वैशसम् । यदाह- योऽश्नाति यस्य तन्मांसमुभयोः पश्यतान्तरम् । एकस्य क्षणिका तृप्तिः प्राणैरन्यो वियुज्यते ॥ १॥२५॥ | म्रियस्वेत्युच्यमानोऽपि देही भवति दुखितः। मार्यमाणःप्रहरणैर्दारुणैः स कथं भवतः ॥ __ म्रियख त्वमित्युच्यमानोऽपि न तु मार्यमाणो देही जन्तुर्जायमानमृत्युरिव दुःखितो भवतीति सर्वप्राणिप्रती (१) कुनीति । in Education intet For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy